तत्त्वदीपः-नारायणपदार्थविचार:
श्रीवादिकेसरिसुन्दरजामातृमुनिविरचितः तत्त्वदीपःप्रथमप्रकरणम् ॥अथ नारायणपदार्थो निरूप्यते ॥ अनन्तरं नारायणपदम् – आत्मन उक्तमत्यन्तपारतन्त्र्ययुक्तं भगवदेकशेषत्वं तच्छरीरत्वव्यतिरेकेणानुपपन्नमिति तदुपपादनाय जीवपरयोश्शरीरात्मभावसम्बन्धप्रकाशनेन भोक्तृत्वमपीश्वरायत्तमिति प्रदर्शयति । यथा शरीरशरीरिणोः शरीरिण एव भोक्तृत्वं, न शरीरस्य, तद्वत् सर्व शरीरिणः सर्वेश्वरस्यैव साक्षाद्भोक्तृत्वं, न शरीरभूतचिदचित्प्रपञ्चस्य । तत्र चिद्रूपस्य शरीरस्य तु ज्ञातृत्वस्वभावात् भोक्तृत्वमस्त्येव, तच्च कर्तृत्ववत् परमात्मायत्तम्;अचिच्छरीरस्य चैतन्यविरहात् भोक्तृत्वं न विद्यत इति विशेषः । तस्मात् आत्मनः स्वार्थभोक्तृत्वाहङ्कारभोगविषयममत्वनिवृत्तिः पूर्वपदे काकाक्षिन्यायेन सूचिता […]