कठोपनिषत् – तृतीया वल्ली
कठोपनिषत् तृतीया वल्ली ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धये । छायातपौ ब्रह्मविदो वदन्ति पंचाग्नयो ये च त्रिणाचिकेताः ।। १ ।। तृतीयावल्लीप्रकाशिका ‘क इत्था वेद यत्र सः’ इति अस्य दुर्ज्ञानत्वे, अत्र इत्थमास्ते’ इति अस्य अर्थस्य दुर्बोधत्वेन; न वयं तदुपासने शक्ताः? इति मन्यमानं प्रति उपास्योपासकयोः एकगुहानुप्रवेशेन परमात्मन: ‘सूपास्यत्वात् वयमपि उपासितुं शक्ता: द्वाभ्यां मन्त्राभ्यां दर्शयति – […]
कठोपनिषत् -द्वितीया वल्ली
कठोपनिषत् द्वितीया वल्ली अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषँ सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थात् य उ प्रेयो वृणीते ।।१।। द्वितीयावल्ली प्रकाशिका एवं शिष्यं परीक्ष्य, तस्य मुमुक्षा स्थैर्यं निश्चित्य, तस्य उपदेशयोग्यतां मन्वानः मुमुक्षां स्तौति – अन्यच्छ्रेयः इति । अतिप्रशस्तं मोक्षवर्त्माऽपि अन्यत्; प्रियत्वास्पदं भोगवर्त्मापि अन्यत् । ते – श्रेय:प्रेयसी, परस्परविलक्षणप्रयोजने सती, पुरुषं सिनीतः – बध्नीतः […]
कठोपनिषत् – प्रथमा वल्ली
श्रीः श्रीमते रामानुजाय नमः कठोपनिषत् शान्तिमन्त्रः ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।। । ओं शान्तिः शान्तिः शान्तिः ।। प्रथमा वल्ली उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ।। १ ।। | प्रकाशिका | (श्रीरङ्गरामानुजमुनिविरचिता) अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम […]
Thirukurundandakam
Thirunedundandakam Part III
Thirunedundandakam Part II
Thirunedundandakam Part I
77 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तसप्ततितमः सर्गः गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः । वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ।। 1.77.1 ।। अथ स्वपुरं प्राप्य सीतया रामः सुखमुवासेत्याह सप्तसप्ततितमे–गत इत्यादि । रामे परशुरामे । वरुणाय न्यासत्वेनेति शेषः । अप्रमेयाय अदृश्यायेत्यर्थः ।। 1.77.1 ।। अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् । पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ।। 1.77.2 ।। विह्वलं परवशम् । अनेन परशुरामेण […]
76 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षट्सप्ततितमः सर्गः श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा । गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ।। 1.76.1 ।। अथ जामदग्न्यगर्वनिर्वापणं षट्सप्ततितमे–श्रुत्वेत्यादि । पितुर्गौरवादिति पितुः सन्निधिगौरवादित्यर्थः । यन्त्रिता नियमिता कथा उच्चैः कथनं येन स तथा ।। 1.76.1 ।। श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव । अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ।। 1.76.2 ।। श्रुतवानिति । पितुरानृण्यं पितृघातिक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन् यत्कर्म त्रिःसप्तकृत्वः क्षत्रवधरूपं कृतवानसि तच्छ्रुतवानस्मि […]
75 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चसप्ततितमः सर्गः राम दाशरथे राम वीर्यं ते श्रूयते ऽद्भुतम् । धनुषो भेदनं चैव निखिलेन मया श्रुतम् ।। 1.75.1 ।। पूर्वमवतारप्रस्तावे जगत्पतित्वेन विष्णोः परत्वमुक्तम् । ‘अहं वेद्मि महात्मानम्’ इति विश्वामित्रवचनेन पुरुषसूक्तं तत्र मानत्वेन सूचितम् । काश्यपस्तुतौ च ‘शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो । त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ।।’ इति सर्वजगत्कारणत्वादिकमुक्तम्। रुद्रस्य च गङ्गाधारणधातुमोक्षणादिवृत्तान्तेन कर्मवश्यत्वेन प्राकृतशरीरवर्तित्वेनाचापरत्वं सूचितम्। […]