शारीरकन्यायकलापसङ्ग्रहः

॥ श्रीः ॥
। श्रीमते रामानुजाय नमः ।
शारीरकन्यायकलापसङ्ग्रहः
[श्रीसेनेश्वरार्यैः विरचितः]

जगद्भार: सुविन्यस्त: सेनेशे यत्र विष्णुना ।
तस्यावतारमपरम् सेनानाथ गुरुम् भजे ॥

॥ प्रथमोऽध्यायः – प्रथमः पादः ॥
शास्त्रावतारः
[प्रतिज्ञा]

प्रणम्य रामानुजसम्यमीश्वरम् प्रबोधहेतुम् हृदयाम्बुजन्मनः ।
करोमि तद्दर्शनमार्गगोचरम् शारीरकन्यायकलापसङ्ग्रहम् ॥१॥

[अध्यायचतुष्टयार्थः]

प्रमाणता तत्प्रतियोगिभङ्गः सम्राधनम् तस्य फलोपभोगः ।
एतानि सम्यक् परिचिन्तितानि शास्त्रेत्विहाध्यायचतुष्टयेन ॥२॥

[प्रथमाध्यायीयपादचतुष्टयार्थाः]

अस्पष्टतरमस्पष्टम् स्पष्टम् छायानुसारि च ।
जीव-प्रधान्योरादौ बाक्यजातम् विचिन्तितम् ॥३॥

[द्वितीयाध्यायीयपादचतुष्टयार्थाः]

स्मृति-न्यायाविरोधश्च परपक्षपराहतिः |
कार्यता वियदादीनाम् अक्षादेश्च द्वितीयतः ॥४॥

[तृतीयाध्यायीयपादचतुष्टयार्थाः]

सदोषत्वम् अदोषत्वम् जीवस्य च परस्य च ।
तृतीयेन परोपास्तिः इतिकर्तव्यताऽपि च ॥५॥

[चतुर्थाध्यायीयपादचतुष्टयार्थाः]

उपास्त्यनुष्ठानविधा गत्युपक्रम एव च ।
गतिमार्गप्रकारश्च फलम् चाऽपि चतुर्थतः ॥६॥

जिज्ञासाधिकरणम् -१-१

कार्ये हि वृद्धव्यवहारसिद्धो व्युत्पत्तिभावो वचसाम् न सिद्धे ।

इत्येतदुत्सारितवान् प्रसिद्धेः सिद्धेऽपि बालप्रतिबोधनेषु ॥७॥

जन्माद्यधिकरणम् -१-२

भेदप्रसक्तेरनुभूत्यभावात् विशेषणम् वाऽप्युपलक्षणम् वा ।

जन्माद्यशक्यप्रतिपादनम् यत् स्यात्तन्निरासोऽप्युभयत्र शक्तेः ॥८॥

शास्त्रयोनित्वाधिकरणम् ॥-१-३

कार्यत्वतः सावयवत्त्वसिद्धात् कर्ता च सम्सिद्ध्यति कारणम् च ।

इत्येतदुत्सारितवान् प्रदूष्य शास्त्रैकगम्यत्वसमर्थनेन ॥९॥

समन्वयाधिकरणम् ॥-१-४

प्रयोजनम् ब्रह्मणि नैव लब्धम् सिद्धे प्रवृत्तिस्त्वथवा निवृत्तिः ।

इत्यप्रमात्वम् हि विशङ्क्य नुन्नम् स्वतः फलत्वेन परस्य पुम्सः ॥१०॥

व्युत्पत्त्यभावात् प्रतिपत्तिदौस्स्थ्यात् अन्येन सिद्धेरफलत्वतश्च ।

अमात्वमाशङ्क्य निराचकार न्यायैश्चतुर्भिः प्रतिपाद्य तत्तत् ॥११॥

ईक्षत्यधिकरणम् ॥-१-५

गौणी तु गौणेक्षणसाहचर्यादीक्षा यतस्तज्जगताम् निदानम् ।

प्रधानमित्येदपाचकार मुख्यम् यतो वीक्षणमात्मशब्दात् ॥१२॥

आनन्दमयाधिकरणम् ॥-१-६

विकारवाची मयडित्यमुष्मात् क्षेत्रज्ञमानन्दमयम् विशङ्क्य ।

असम्भवात्, प्राणमये च हानेः, प्राचुर्यवाचीति निराचकार ॥१३॥

अन्तरधिकरणम् ॥-१-७

देहित्वतश्चेतन एव कश्चित् पुण्योत्तरो मण्डलमध्यवर्ती ।

इत्येवमुत्सारयते स्म शङ्काम् लोकेशताद्यैः परमात्मधर्मैः ॥१४॥

आकाशाधिकरणम् ॥-१-८

आकाश इत्येव विशेषनाम्ना स व तु स्याज्जगताम् निदानम् ।

प्राणोऽथवेत्येतदपाचकार भूताभिसम्वेशमुखैश्च लिङ्गैः ॥१५॥

1-1-9 missing-१-९

ज्योतिरधिकरणम् ॥-१-१०

न हि स्ववाक्ये परलिङ्गधर्माः ज्योतिस्तु तद्भूततृतीयमेव ।

एतन्न शङ्क्यम् न हि तस्य पादो भूतानि किन्त्वस्य परस्य पुम्सः ॥१६॥

इन्द्रप्राणाधिकरणम् ॥-१-११

इन्द्रे तु निर्धारितजीवभावे स्वोपास्तिशब्दात् स हि कारणम् स्यात् ।

एतन्न सत् तस्य हि शास्त्रदृष्ट्या तथोपदेशोऽमृतता च धर्मः ॥१७॥

सर्वज्ञमानन्दमयम् सरूपम् तेजस्विनम् प्राणनकारणम् च ।
सुस्थानमात्मानमुदाजहार पादेन पूर्वेण जगन्निदानम् ॥१८॥

॥ प्रथमोऽध्याये प्रथमः पादः समाप्तः

प्रथमाऽध्यायस्य द्वितीयः पादः

शास्त्रे त्वमुष्मिन् जगताम् निदानम् ब्रह्मैव साक्षाच्चिदचिच्छरीरम् ।
इत्येवमर्थ विशदीकरिष्यन् पादानथ त्रीन् प्रचकार शेषान् ॥१९॥

तत्र द्वितीयेन शरीरमासीत् तत्प्रत्यशेषः चिदचित्प्रपञ्चः ।
तृतीयतस्तस्य तदात्मभावः चतुर्थतस्तद्विपरीतभङ्गः ॥२०॥

सर्वत्रप्रसिद्ध्यधिकरणम् ॥-२-१

स्वकर्मतः कारणताऽभियोगात् अल्पत्वतोऽल्पायतनत्वतश्च ।

सर्वम् समाशङ्क्य निरास जीवम् प्रसिद्धितस्तद्गुणतस्स्मृतेश्च ॥२१॥

अत्त्रधिकरणम् ॥-२-२

अत्ता तु जीवो न परः स्वतन्त्रः स एव यत्कर्मफलोपभोगी ।

इत्यप्यसत् तद्धि चराचरस्य मृत्यूपसेकाददनम् त्वपीतिः ॥२२॥

अन्तराधिकरणम् ॥-२-३

अक्ष्यन्तरस्त्वेष इति प्रसिद्ध्या जीवोऽथवा बिम्बमथाऽपि दैवम् ।

इत्यप्यसत् स्यादमृतत्वशब्दात् सुखश्रुतेश्चाप्यनवस्थितेश्च ॥२३॥

अन्तर्याम्यधिकरणम् ॥-२-४

द्रष्टेति शब्दादिह वाक्यशेषे द्रष्ट्रन्तरस्य प्रतिषेधतश्च ।

क्षेत्रज्ञमन्तर्यमयन्तमाहेत्येतन्न जागर्त्यमृतत्वशब्दात् ॥२४॥

अदृश्यत्वादिगुणकाधिकरणम् ॥-२-५

स्थूलत्वदृश्यत्वनिषेधनेन सूक्ष्मम् त्वदृश्यत्वगुणम् प्रधानम् ।

क्षेत्रज्ञ एवाक्षरमित्यसत् स्यात् प्रतिज्ञया तत्परतः परत्वात् ॥२५॥

वैश्वानराधिकरणम् ॥-२-६

कौक्षेयवह्निस्त्वथ देवता वा भूतम् तृतीयम् त्वथवाऽग्निशब्दात् ।

वैश्वानरः स्यादिति नैव यस्मात् त्रैलोक्यदेहः पुरुषाभिधा च ॥२६॥

स्थूलस्य सूक्ष्मस्य तथेन्द्रियाणामेकैकशश्चावयवत्वतश्च ।

तद्देहताम् सम्प्रतिपाद्य पश्चात् तदन्यदेहत्वमपाचकार ॥२७॥

पादेनेत्थमनेनाऽर्थाज्जगतस्तच्छरीरता ।
सामानाधिकरण्येन तदन्येन च साधिता ॥२८॥

 ॥ इति प्रथमेऽध्याये द्वितीयः पादः ॥

॥ प्रथमाध्यायस्य तृतीयः पादः ॥

द्युभ्वाद्यधिकरणम् ॥-३-१

मनः प्रभृत्यक्षसमाश्रयत्वात् द्युभ्वाश्रयश्चेतन एव नाऽन्यः ।

एवम् न शङ्क्यम् स्फुटमात्मशब्दात् मुक्तोपसृप्यव्यपदेशतश्च ॥२९॥

भूमाधिकरणम् ॥-३-२

नामाद्युपक्रम्य कृतोपदेशः समापितः प्राणननाम्नि जीवे ।

ततः स भूमेति न शङ्कनीयम् सत्योपदेशादधिकम् त्वमुष्मात् ॥३०॥

अक्षराधिकरणम् ॥-३-३

अव्याकृतम् चेतन एव वाऽपि स्यादक्षरम् चाऽऽस्पदमम्बरस्य ।

कार्यास्पदत्वादचिदाश्रयत्वादित्यप्यसत् तस्य धृतेः प्रशास्तेः ॥३१॥

ईक्षतिकर्माधिकरणम् ॥-३-४

भुवोऽन्तरिक्षादधिकोपदिष्टो यो ब्रह्मलोकः स विधातृलोकः ।

तत्र त्रिमात्रप्रणवानुचिन्त्यो धातेत्यसत् स्यादमृताभिधाद्यैः ॥३२॥

दहराधिकरणम् ॥-३-५

दह्रस्तु खम् स्यादथ चेतनो वा प्रसिद्धियोगाद्गुणयोगतश्च ।

न साध्विदम् खे नहि सत्यभावः कामाश्च जीवे न निसर्गसिद्धाः ॥३३॥

प्रमिताधिकरणम् ॥-३-६

प्राणाधिपः सञ्चरतीति वाक्ये प्रसिद्धितोऽङ्गुष्ठमितो हि जीवः ।

इत्यप्यसाध्वेव भवेदमुष्मिन्नीशानशब्दश्रवणाद्धि वाक्ये ॥३४॥

देवताधिकरणम् ॥-३-७

अविग्रहा विग्रहवत्प्रसाध्ये सम्राधने नाऽधिकृतास्तु देवाः ।

इत्यप्यसत् कल्पितनामरूपाः तस्मान्मनुष्या इव तेऽपि शक्ताः ॥३५॥

मध्वधिकरणम् ॥-३-८

मध्वादिविद्यास्वधिकारभाजः वस्वादयो नैव वसुत्वयोगात् ।

उपास्यभावादिति नैव यस्माद् भूयोऽपि वाऽञ्छास्ति परो ह्युपास्यः ॥३६॥

अपशूद्राधिकरणम् ॥-३-९

स्वाध्यायहीना अपि भारतादीन् श्रुत्वाऽथ विज्ञाय परम् पुमाम्सम् ।

उपासताम् शूद्रगणा इतीदम् न सत्; निषेधात् श्रवणादिकस्य ॥३७॥

अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥-३-१०

धूत्वेति वाक्ये प्रकृतस्तु पूर्वमाकाशतामृच्छतु मुक्त एव ।

एतन्नाहि प्राणिति नामरूप निर्वाहकौ नैव हि बद्ध मुक्तौ ॥३८॥

अक्लिष्टभावः सुखरूपता च प्रशासितृत्वम् श्रवणीयता च ।
गुणोत्तरत्वम् त्वजुगुप्सता च निर्वोढृता च प्रतिपादिताऽस्मिन् ॥३९॥

प्रधानजीवयोर्व्यष्ट्योः समष्ट्योश्चात्मता क्रमात् ।
उक्ता तृतीये तु पुनस्तस्याः शासनताऽपि च ॥४०॥

चतुर्थपञ्चमाभ्याम् तु स्वरूपेण गुणैरपि ।
उपास्यतार्थमात्मत्वमित्यात्मत्वप्रयोजनम् ॥४१॥

हेयेऽपि तत्तत्सम्बन्धे नैवेशत्वाज्जुगुप्सते ।
इति न्यायेन षष्ठेन प्रोक्तमात्मत्वसिद्धये ॥४२॥

मध्ये प्रसङ्गात् षष्ठस्य देव-देवविशेषयोः ।
विद्याधिकारः शूद्राणाम् तदभावश्च साधितः ।
सप्तमादीशितृत्वम् तु निर्वोढृत्वात् स्थिरीकृतम् ॥४३॥

एवमेतैः त्रिभिः पादैः कारणम् ब्रह्म साधितम् ।
चतुर्थात् तच्च हेतुत्वम् तस्यैवेति प्रसाध्यते ॥४४॥

॥ इति प्रथमेऽध्याये तृतीयः पादः
॥ प्रथमाध्यायस्य चतुर्थः पादः ॥

आनुमानिकाधिकरणम् ॥-४-१

अव्यक्तम् महतः परम् तु पुरुषस्तस्मात्परस्तत्परम्

नैवास्तीति कुतन्त्रसिद्ध गणना तत्प्रक्रियानुस्मृतेः।

एतन्नैव यथार्थमत्र रथताद्युक्तेषु वागादिके-

ष्वव्यक्तम् तु शरीरमेव पुरुषः सोऽयम् परः पूरुषः ॥४५॥

चमसाधिकरणम् ॥-२

अजामित्येतस्मिन् वचसि गदितम् तन्त्रगदितम्

प्रधानम् स्वातन्त्र्यात् सकलजगतीसर्गकरणात् ।

इदम् नैवैतस्मिन् खलु सृजतिमात्रम् त्वभिहितम्

विशेषस्याभावाद् वदति च विशेषम् श्रुतिरतः ॥४६॥

     ङ्ख्योपसङ्ग्रहाधिकरणम् ॥-४-३

यस्मिन् पञ्चजनाश्च पञ्च गगनम् चाऽपीति वाक्ये स्फुटम्

सङ्ख्यासङ्ग्रहणात्तु तन्त्रगणनेत्येतन्न हि प्राणिति  ।

ब्रह्माधारतया स्थितेरतिशयस्फूर्तेश्च सञ्ज्ञात्वतः

प्राणादीन्द्रियपञ्चकस्य च यथा सप्तेति सप्तर्षयः ॥४७॥

कारणत्वाधिकरणम् ॥-४-४

क्वचित् सत् क्वाप्यात्मा क्वचिदसदपि क्वापि पुरुषः

क्वचिद्ब्रह्मेत्येवम् विविधवचनाद्धेतुवचसाम् ।

न निर्णीतिः क्वापि त्विति न खलु सर्वत्र हि परः

समाकृष्टो लिङ्गप्रकरणगुणाध्यैरिति यतः ॥४८॥

     जगद्वाचित्वाधिकरणम् ॥-४-५

यः कर्ता यस्य कर्मेत्यभिहितपुरुषो जीव एवात्र वृत्तः

कर्तृत्वात् कर्मवत्वात् सहजनिजगुणैर्भोक्तृभावप्रतीतेः ।

इत्येवम् नैव शङ्क्यम् जगदिह वचने कर्मशब्दाभिधेयम्

दृष्ट्यर्थम् प्राण जीव ग्रहणमिह सुषुप्त्याश्रयो ब्रह्म यस्मात् ॥४९॥

वाक्यान्वयाधिकरणम् ॥-४-६

पत्यादीनाम् प्रियत्वम् स्वकृतमिति वचस्यत्र जीवोऽभिधेयो

द्रष्टव्यत्वेन यस्माच्छ्रुतमिह पतिपत्न्यादिसम्बन्धभाक्त्वम् ।

नैवाऽन्यस्मिन् हि वाक्यान्वयनममृतताहेतुभावस्तथोक्तो

वाक्यान्ते जीवलिङ्गश्रवणमिदमवस्थानतोऽन्तः परस्य ॥५०॥

प्रकृत्यधिकरणम् ॥-४-७

उपादानादन्यत्त्वितरदिति नैकत्रघटना

विकारित्वाभावश्रवणमपि जागर्ति भुवने ।

अतो नोपादानम् पर इति न शक्यम् कथयितुम्

प्रतिज्ञानात् साक्षादुभयकथनात् किम् स्विदिति च ॥५१॥

प्रक्रियाप्रत्यभिज्ञानात् स्वभावकथनात् तथा ।

सङ्ख्योपसङ्ग्रहाच्चाऽपि व्याकुलत्वात् परस्परम् ॥५२॥

कर्मसम्बन्धकथनात् पत्यादिश्रवणात्तथा ।

लोके च भेदसन्दृष्टेः उपादान-निमित्तयोः ॥५३॥

ब्रह्मैव कारणम् नान्यदित्येषा नैव निश्चितिः ।

इति यत् तान्त्रिकेषूक्तम् तदनेन निराकृतम् ॥५४॥

त्रिभिः प्रधानस्य निराकृतिः स्यात् चतुर्थतोऽन्योन्यविरोधभङ्गः ।

मुक्तिम् गतो बन्धगतश्च जीवो व्यावर्तितः पञ्चमषष्ठकाभ्याम् ॥५५॥

एतावता सूत्रकलापकेन निरीश्वरम् साङ्ख्यमपाचकार ।

शेषाद्धुनोति स्म च सेश्वरम् तदैक्यम् निमित्तेश्वरयोः समिच्छन् ॥५६॥

एवम् जगत्कारणवादिवाक्यैरुक्तम् समस्तैरपि चैककण्ठैः ।

ब्रह्मैव सर्वज्ञमनन्तशक्ति निदानमेषाम् जगतामितीदम् ॥५७॥

सूक्ष्मचिदचिच्छरीरम् कारणताम् याति तत् परम् ब्रह्म ।

स्थूलचिदचिच्छरीरम् पुनश्च तत् कार्यताम् याति ॥५८॥

इति चतुर्थः पादः ।

प्रथमोऽध्यायः समाप्तः ।

द्वितीयाऽध्याये प्रथमः पादः

स्मृत्यधिकरणम्-१-१

स्मृतेर्विरोधादुपबृम्हणस्य न ब्रह्महेतुर्जगतामितीदम् ।

असारमन्यस्मृतिभिर्विरोधात् तेषां त्वनाप्तिश्च न शक्यशङ्का ॥५९॥

योगप्रत्युक्त्यधिकरणम्-१-२

ब्रह्मेति वेदान्तसमर्थितोऽर्थः तत् सेश्वरस्मृत्यनुसारहानेः ।

असाध्वितीदम् न परैर्विरोधात् जीवत्वतो विभ्रमसम्भवाच्च ॥६०॥

विलक्षणत्वाधिकरणम्-१-३

यद्यत्कार्यम् न तत्तत्प्रतिभटगुणकम् ब्रह्म चेदम् च विश्वम् ।

ज्ञत्वाज्ञत्वादिधर्मैः प्रतिभटमथ चेदीक्षणाच्चेतनत्वम् ।

तत्तासाम् देवतानामिति तु न चतुरम् दृश्यते माक्षिकादेः ।

कृम्यादिद्रव्यभेदो यदि न भवति तत्कार्यहेत्वोरलम् स्यात् ॥६१॥

शिष्टापरिग्रहाधिकरणम्-१-४

परस्परव्याहतियुक्तरूपाः शिष्टाःकणादादिमताश्च सर्वे ।

अण्वादिवादाः श्रुतिदूरभूताः निरासमाप्ताः कपिलोक्तिनीत्या ॥६२॥

भोक्त्रापत्त्यधिकरणम्-१-५

भोक्तृत्वम् स्याज्जीववद् देहवत्वादित्येतस्मान्नाधिकम् ब्रह्म सिद्ध्येत् ।

नैतच्छङ्क्यम् मुक्तवत् कर्महानेः युज्येतैतत् राजवच्चापि लोके ॥६३॥

आरम्भणाधिकरणम्-१-६

बुद्ध्याकाराभिधानव्यवहृतिगणनैर्भेदकैः कार्यहेत्वो-

रेकत्वम् नैव सिद्ध्येदिति तु न चतुरम् कारकानर्थता च ।

सद्ब्रह्मादि शब्दैरभिहितमपृथग्येन शब्दादिभेदो

द्रव्यावस्थावलम्बी तत इह न भवेत् कारकानर्थता च ॥६४॥

इतरव्यपदेशाधिकरणम्-१-७

जीवस्य ब्रह्मभावम् व्यपदिशति यतस्तत्वमस्यादिवाक्यम्

तस्मात् दुःखैककन्दम् न हि सृजति जगत् कः स्वदुःखाभिलाषी ।

नैवेतद् येन भेदम् प्रकटयति तयोरन्य इत्यादिवाक्यम्

देहात्मत्वादिभेदश्रवणमपि यथा चेतनैक्योपदेशः ॥६५॥

उपसम्हारदर्शनाधिकरणम्-१-८

यत् कारणम् कारकसव्यपक्षम् तत् स्यात् परम् ब्रह्म न तद्व्यपेक्षम् ।

अतो न हेतुस्त्विति नैव यस्मात् क्षीरम् तु नैवेच्छति तद्दधित्वे ॥६६॥

कृत्स्नप्रसक्त्यधिकरणम्-१-९

ब्रह्म स्यात् कार्यशेषम् निखिलमवयवाभावतः साम्शता चेद्

व्याकोपः स्यादिदानीमवयवविरहश्राविणीनाम् श्रुतीनाम् ।

हेतुत्वम् तस्य तस्माद् विहतमुभयथेत्येतदप्यात्तसारम्

वैलक्षण्यात्प्रकाराच्छ्रुतिभिरपि तथा ज्ञापनाच्छक्तिमत्वात् ॥६७॥

प्रयोजनवत्त्वाधिकरणम्-१-१०

कामानाम् समवाप्तितो न हि फलम् किञ्चित् समालोक्यते

सृष्टेरस्य परस्य नाऽपि दयया दुःखैकहेतुत्वतः ।

नैवैतत् स हि लीलयैव तनुते पुण्याद्यपेक्षावशात्

वैषम्यादि च नास्ति कर्मवशतासिद्धेरनादित्वतः ॥६८॥

कपिलस्मृतेर्विरोधात् हिरण्यगर्भस्मृतेर्विरोधाच्च ।

न्यायविरोधात् भोगप्रसङ्गतः कार्यहेतुभेदाच्च ॥६९॥

जीवब्रह्मैकत्वात् कारकसङ्ग्रहणहानितश्चापि ।

कार्यैकशेषभावात् फलहानेश्चोत्थितम् पर्यहरत् ॥७०॥

द्वाभ्याम् स्मृत्यविरोधः स्याच्छेषैर्न्यायाविरोधिता ।

चतुर्थपञ्चमौ तत्र तृतीयोक्तौ प्रसङ्गतः ॥७१॥

तस्मात् षष्ठम् तृतीयम् च पादेऽस्मिन् सङ्गते मते ।

षष्ठादयस्तु चत्वारः सङ्गच्छन्ते यथाक्रमम् ॥७२॥

तच्छायवाक्यैरुत्थानम् तथान्यायेन चोद्भवः ।

इति पूर्वेण पादेन सङ्गतिः स्यात् सुशोभना ॥७३॥

॥ द्वितीयाऽध्याये प्रथमः पादः ॥

॥ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥

रचनानुपपत्त्यधिकरणम्-२-१

वेदाहृता यद्यपि तत्त्वसङ्ख्या

जीवान् बहूनिच्छति चापि तन्त्रम् ।

यत्कारणम् तत् खलु कर्त्रपेक्षम्

नैतत्तथा तान्त्रिकमित्यसाधु ॥७४॥

महद्दीर्घाधिकरणम्-२-२

ईशश्च कर्ता बहवश्च जीवास्तथापि न न्यायगतिः समर्था ।

कार्यानुपायादणुभिर्निरम्शैः कार्यत्वतोऽरूपतया च तेषाम् ॥७५॥

समुदायाधिकरणम्-२-३

सङ्घैरणूनाम् हि धरादयः स्युः

धरादिभूतैः करणादयश्च ।

इत्यप्यसारम् क्षणिकाः पदार्थाः

क्व सम्हताः स्युः क्व च कार्यसिद्धिः ॥७६॥

उपलब्ध्यधिकरणम्-२-४

आकार एकस्तु विवादहानेः

ज्ञानस्य नार्थस्य ततः स नास्ति ।

इत्यप्यसत् स्यात् त्रितयावभासाद्

विज्ञानवज्ज्ञेयतदाश्रयौ च ॥७७॥

सर्वथानुपपत्त्यधिकरणम्-२-५

नित्योत्पत्तिप्रसङ्गादविकृतभवनम् नाम नैवोपपन्नम्

नैवावस्थानहानेर्विकृतभवनमप्यश्नुते युक्तिमत्ताम् ।

तस्मात्तुच्छात् प्रभूतम् भुवनमिति न सद् वस्तुनः कस्यचित्स्यात् भावाभावव्यवस्थाम् तदितरविषये तेन तुच्छत्वहानिः ॥७८॥

एकस्मिन्नसम्भवाधिकरणम्-२-६

सर्वम् च सत्त्वादि पटादि भावै

भिन्नम् त्वभिन्नम् स्थिरमस्थिरम् च ।

इत्यप्यसद् येन विरुद्धधर्मौ

नैकाश्रयावन्यकृता प्रतीतिः ॥७९॥

पशुपत्यधिकरणम्-२-७

पत्युः पशूनाम् मतमादरार्हम्

सर्वज्ञभावाच्च परिग्रहाच्च ।

इत्यप्यसद् वेदविरुद्धधर्म-

परावरादिप्रतिपादनेन ॥८०॥

उत्पत्त्यसम्भवाधिकरणम्-२-८

जीवः परस्मात्तु मनस्तु जीवा-

दित्यादिभिर्वेदविरोधदृष्टेः ।

स्यात् पञ्चरात्रम् न सदित्यसारम्

व्यूहाभिधानात् प्रतिबोधतश्च ॥८१॥

कपिलकणभुग् बुद्धार्हन्तो हताः सह शम्भुना ।

अपि च भगवद्दृष्टा श्रीपाञ्चरात्रगतिस्त्वियम्

न खलु सदृशी बाह्यैरन्यैरिति प्रतिसाधितम् ॥८२॥

स्मृतिन्यायाविरोधम् च परपक्षपराहतिम् |

विधाय परतो द्वाभ्याम् कार्यभावो विचिन्त्यते ॥८३॥

॥ द्वितीयाऽध्याये द्वितीयः पादः ॥

॥ द्वितीयाऽध्यायस्य तृतीयः पादः ॥

वियदधिकरणम्-३-१

उत्पत्तिमन्तो न यथैव जीवाः

नभश्च नोत्पत्तिमदम्शहानेः ।

इति त्वसारम् वदति श्रुतिश्चेत्

तथैव तत् स्यान्न तु तर्कभङ्गात् ॥८४॥

तेजोधिकरणम्-३-२

कार्याणि सर्वाणि तथा श्रुतत्वात्

स्थानान्तरात् कारणतो भवन्ति ।

नैवम् श्रुतेरव्यवधानदृष्ट्या

तत्तच्छरीरात् परतो भवन्ति ॥८५॥

आत्माधिकरणम्-३-३

This sloka is missing in the book check it elsewhere

तोयेन जीवान् इति वाक्यभावात् प्रतिज्ञया जायत एव जीवः ।

इदम् त्वसारम् कृतविप्रणाशप्रसङ्गतो नित्य इति श्रुतेश्च ॥८६॥

ज्ञाधिकरणम्-३-४

विज्ञानशब्दात् स्वपनेष्वदृष्टेः

सञ्ज्ञानमागन्तुकचेतनो वा ।

नैवम् श्रुतेः सङ्कुचितम् सुषुप्तौ

ज्ञानाभिधा तद्गुणसारतः स्यात् ॥८७॥

कर्त्रधिकरणम्-३-५

नान्यम् गुणेत्यादिषु कर्तृतास्य

निषिध्यते येन ततो न कर्ता ।

इत्येतदेवम् न विशङ्कनीयम्

शास्त्रार्थवत्त्वादुपपत्तितश्च ॥८८॥

परायत्ताधिकरणम्-३-६

कर्तृत्वमेतस्य परानपेक्षम्

शास्त्रार्थवत्त्वाय स हि स्वतन्त्रः ।

नैतच्छ्रुतिभ्यो न च शास्त्रकोपः

प्रयत्नसापेक्षतया परस्य ॥८९॥

अम्शाधिकरणम्-३-७

भेदान्न जीवोंऽश इति श्रुतीनाम्

दृष्टे विरोधस्त्वितरेतरेण ।

अम्शस्मृतेः पादतयोपदेशात्

स्यादम्श एवास्य परस्य जीवः ॥९०॥

कार्यता वियदादीनाम् तस्याश्चाऽव्यवधानता ।

उत्पत्यभावो जीवस्य ज्ञातृता कर्तृताऽपि च ॥९१॥

कर्तृतायाः परापेक्षा परम् प्रत्यम्शताऽपि च ।

इत्थमर्थास्त्वमी सर्वे पादेनाऽनेन चिन्तिताः ॥९२॥

प्रथमश्च द्वितीयश्च तृतीयाश्चाऽत्र सङ्गताः ।

तृतीयशेषाश्चत्वारः प्रसङ्गात्त्विह चिन्तिताः ॥९३॥

॥ द्वितीयाऽध्याये तृतीयः पादः ॥

॥ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥

प्राणोत्पत्त्यधिकरणम्-४-१

न हि जननमिन्द्रियाणाम् प्राणा अग्रेऽभवन्निति श्रुत्या ।

नैवम् प्राणस्तु परः प्रतिज्ञया गौणमेव बहुवचनम् ॥९४॥

सप्तगत्यधिकरणम्-४-२

सप्त तु यदेति वाक्यात् सप्त प्राणा इति श्रुतेश्चापि ।

नैवम् प्रधानभावाद् दशेम इति वाक्यतः स्मरणात् ॥९५॥

प्राणाणुत्वाधिकरणम्-४-३

तानि तु विभूनि युक्तम् सर्वेऽनन्ताः समा इति श्रवणात् ।

नैवमुपास्त्यर्थत्वादुत्क्रमणश्रुतित एव चोत्क्रमणे ॥९६॥

वायुक्रियाधिकरणम्-४-४

वाक्यात् प्रसिद्धेश्च विशङ्क्यतेऽयम्

न वायुमात्रम् न च तत्क्रिया वा ।

प्राणस्तु देहादिभृदेव वायुः

प्राणस्य वायोश्च पृथक्त्वशब्दात् ॥९७॥

श्रेष्ठाणुत्वाधिकरणम्-४-५

लोकैस्त्रिभिः साम्यगिरा विभुः स्यात्

प्राणस्त्वितीदम् न विशङ्कनीयम् ।

उत्क्रान्तिशब्दादिभिरस्य लोकैः

साम्यश्रुतिर्याऽत्र तथाऽर्थवादः ॥९८॥

ज्योतिराद्यधिष्ठानाधिकरणम्-४-६

वागाद्यधिष्ठानमिह स्वतः स्यात्

जीवेन सार्धम् ज्वलनादिकानाम् ।

नैवम् परात्मामननादमीषा-

मेतत्तु योऽग्नाविति च श्रुतत्वात् ॥९९॥

इन्द्रियाधिकरणम्-४-७

प्राणाभिधानादुपकारसाम्यातज् –

ज्येष्ठोऽपि चायम् स्फुटमिन्द्रियम् स्यात् ।

नैततद् दशेति व्यपदेशभावात्

प्राणो मनश्चेन्द्रियमित्यतश्च ॥१००॥

सञ्ज्ञामूर्तिक्लृप्त्यधिकरणम्-४-८

नामादिसृष्टिस्तु हिरण्यगर्भाद्

भवेदनेनेति तु वाक्यभावात् ।

नैवम् परादेव तु तच्छरीरात्

सेऽयम् त्रिवृत्कारसमानकर्तुः ॥१०१॥

उत्पस्या सङ्ख्यानम् परिमाणम् चैव कारणानाम् ।

प्राणस्य च स्वरूपम् परिमाण (मधिष्ठितिर्निघ्ना?) मनिन्द्रियत्वम् च ॥१०२॥

(एतस्यानिन्द्रियता) एतेषाम् सर्वेषाम् सर्गकरो व्यष्टि (सृज्यनामादेः) भूतानाम् ।

इत्येतदखिलममुना पादेन विचिन्तितम् सम्यक् ॥१०३॥

प्रथमे प्रसक्तरूपाः पञ्चाऽपि विचिन्तिता द्वितीयाद्याः ।

तस्मात् सङ्गतमस्मिन् पादे प्रथमम् च चरमम् च ॥१०४॥ प्राणस्वरूपचिन्ता प्राणतया शब्दनेन करणानाम् ।

प्रासङ्गिकप्रसिद्धा प्रसङ्गतस्तद्विशेषचिन्ता च ॥१०५॥

अण्डबहिर्भूतानाम् पूर्वेण विचिन्तिता सृष्टिः ।

सृष्टिस्तु चिन्तिता स्यादण्डान्तर्वर्तिनामनेनाऽपि ॥१०६॥

॥ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥

द्वितीयाऽध्यायः समाप्तः ।

तृतीयाऽध्यायस्य प्रथमः पादः ॥

तदन्तरप्रतिपत्त्यधिकरणम् – १- १

न भूतसूक्ष्मैः सह याति देही तवैव तेषाम् सुलभत्वहेतोः ।

नैवैवमापः पुरुषा भवन्तीत्येवम् श्रुतत्वात् सह तैः प्रयाति ॥१०७॥

कृतात्ययाधिकरणम्– १– २

प्राप्यान्तमित्यादिभिरेव वाक्यैरायातु जीवो न तु कर्मशेषी ।

नैतत् फलम् कर्मनिबन्धनम् तु कपूयचारा इति च श्रुतत्वात् ॥१०८॥

अनिष्टादिकार्यधिकरणम्– १- ३

ये वै च केऽपीत्यविशेषशब्दात् धूमादिकम् केवलपापिनाम् च ।

इति त्वसत् स्यादथ येति वाक्यात् पुण्यावलम्बी तु विशेषशब्दः ॥१०९॥

तत्स्वाभाव्यापत्त्यधिकरणम्– १- ४

तद्देहता स्याद् वियदादिभावः सोमत्ववन्नाऽस्ति यतो विशेषः ।

नैवम् न भोगोऽस्ति यतोऽत्र तस्मात् सादृश्यमेवाऽत्र न तत्तनुत्वम् ॥११०॥

नातिचिराधिकरणम्– १- ५

आव्रीहिभावादचिरात् चिराद्वा सन्तिष्ठतेऽयम् नियतेरभावात् ।

नैवम् विशङ्क्यम् परतो विशेषादतो हि दुर्निष्पतमित्यमुष्मात् ॥१११॥

अन्याधिष्ठिताधिकरणम्– १- ६

जायन्त इत्येव विशेषशब्दाद् व्रीह्यादिदेहास्तु भवन्ति जीवाः ।

नैतत् तु गौणम् जननाभिधानम् तद्धेत्वभावात् परतस्तु भावात् ॥११२॥

भूतसूक्ष्मैः परिष्वङ्गः कर्मशेषसहायता ।

 

अपुण्यानामनारोहो वियदादिसहक्षता ॥११३॥

तत्राऽचिरादवस्थानम् व्रीह्यादे: श्लेषणम् तथा ।

इत्यर्थाः षडमी सम्यक् पादेनाऽनेन चिन्तिताः ॥११४॥

तृतीयाऽध्यायस्य प्रथमः पादः ॥

तृतीयाऽध्यायस्य द्वितीयः पादः ॥

सन्ध्याधिकरणम्– २- १

गमनागमन प्रकारचिन्ता विहितोपासिसिषा प्रसिद्धि हेतोः

न तु कश्चन दोषमात्मसम्स्थम् यदि नेक्षेत तदा परम् ह्युपास्ते ॥११५॥

गुणित्वतः सन्निधितश्च जीवः स्वाप्नार्थकर्तेति न शङ्क्यमेतत् ।

असम्भवत्वादहितक्रियायास्तिरोहितत्वेन गुणस्य चाऽस्य ॥११६॥

तदभावाधिकरणम्– २- २

श्रुतौ विशेषाग्रहणात् सुषुप्तेः नाड्यः पुरीतत् परमोऽथवा स्यात् ।

भूमिस्त्वितीदम् न विकल्पदोषात् प्रासादखट्वाशयनादिवत् स्यात् ॥११७॥

कर्मानुस्मृतिशब्दविध्यधिकरणम्– २- ३

प्राप्त्या परस्याखिलकर्मनाशादन्यः प्रबोद्धा न पुनः सुषुप्तः ।

नैवाऽर्थवत्त्वाद्विधिकर्मणो स्यादनुस्मृतेर्व्याघ्र इति श्रुतेश्च ॥११८॥

मुग्धाधिकरणम्– २- ४

प्राणस्य सर्वेन्द्रियसम्हृतेश्च व्यापारहानेर्मरणम् तु मूर्च्छा ।

मुग्धेऽर्धलाभो मरणस्य सा स्यादाकारवैषम्यसमुत्थितिभ्याम् ॥११९॥

उभयलिङ्गाधिकरणम्– २- ५

आत्मेच्छया वाऽप्यतिहेयभावात् पूयादिसङ्गः स परस्य दोषः ।

तत्स्थानसम्बन्धितयेति नैतत् सर्वत्र निर्दोषगुणित्वशब्दात् ॥१२०॥

अहिकुण्डलाधिकरणम्– २- ६

नानात्वैकत्व युक्तेः परिणमनमचित्त्वेन चेत् बाधितत्वम्

निर्दोषत्वश्रुतेः स्यादथ तदुभययोरेकसामान्ययोगः।

नैतत् स्यान्नैव लोके क्वचिदपि कथितः खण्डशब्देन मुण्डः तस्मादम्शत्वमम्शित्वमपि हि जगतो ब्रह्मणश्चाऽऽत्मवत् स्यात् ॥१२१॥

पराधिकरणम्– २- ७

सेतुत्वव्यपदेशतो मितधिया सम्शब्दनात् प्रापक-

श्रुत्या चाऽपि ततो यदुत्तरतरम् त्वित्येव भेदग्रहात् ।

प्राप्योऽन्यः परतोऽपि कश्चिदिति यन्नैतत्त्वसम्भेदनाद् ध्येयत्वादपवर्गसाधनतया हेतुत्व सम्शब्दनात् ॥१२२॥

फलाधिकरणम्– २- ८

साक्षात् क्रमाद्वा फलदत्वदृष्टेरत्रापि कर्मैव फलम् ददातु ।

नैवेदमन्यार्थतया तु क्लृप्तेः श्रुतिस्मृतिभ्यश्च स एव दत्ते ॥१२३॥

स्वप्नः सुषुप्तिः प्रतिबोधनम् च मूर्च्छा च जीवस्य परस्य चाऽपि ।

निर्दोषभावो जगदम्शिभावः सर्वेश्वरत्वम् फलदातृता च ॥१२४॥

न्यायैश्चतुर्भिराद्यैर्विचिन्तितः पूर्व पादशेषस्तु ।

तस्मादत्र तु पादे सुसङ्गतम् पञ्चमात् प्रभृति ॥१२५॥

स्थानित्वादचिदैक्या दवरत्वादफलदत्वाच्च ।

अनुपास्यमिति तु शङ्काम् शकलयति स्मोत्तरैश्चतुर्भिरिह ॥१२६॥

तृतीयाऽध्यायस्य द्वितीयः पादः ॥

तृतीयाऽध्यायस्य तृतीयः पादः ॥

सर्ववेदान्तप्रत्ययाधिकरणम्– ३- १

अविशेषतः श्रुतत्वात् प्रकरणभेदाच्च भेदिनी विद्या ।

नैवम् प्रतिपत्तॄणाम् भिन्नत्वाच्चोदनाद्यभेदाच्च ॥१२७॥

अन्यथात्वाधिकरणम्– ३- २

उद्गीथैक्यम् चोदनादेरभेदाच्छन्दोगानाम् वाजिनाम् चेति नैतत् ।

उद्गीथाम्शोद्गीथयोः प्राणदृष्ट्या रूपानैक्यात् कर्मकर्त्रोस्तथा च ॥१२८॥

सर्वाभेदाधिकरणम्– ३- ३

प्राणस्य ज्यैष्ठ्यादौ सत्यपि न वसिष्ठतादयः कथिताः ।

भेदो रूपविभेदान्नैतत् स्युस्तेऽपि तदितराभेदात् ॥१२९॥

आनन्दाद्यधिकरणम्– ३- ४

अप्रकरणपठितत्वादानन्दाद्या गुणा न सङ्ग्राह्याः ।

सर्वास्विति तु न शङ्क्यम् तैस्तु विना तन्निरूपणाशक्तेः ॥१३०॥

कार्याख्यानाधिकरणम्– ३- ५

आचामेदिति विहितम् प्राणोपास्त्यङ्गमन्यदाचमनम् ।

नैतदनूद्य विधेयम् ह्यप्राप्तेः प्राणवासस्त्वम् ॥१३१॥

समानाधिकरणम्– ३- ६

सङ्कल्पसत्यवशिताद्यतिरेकाद् रूप विभेदतो ह्यस्याः ।

भेद इति नैव यस्माद्वशिता सङ्कल्पसत्यताविततिः ॥१३२॥

सम्बन्धाधिकरणम्– ३- ७

भास्वद्धृषीकासनयोरुपास्याभेदादभेदादुभयाह्वये द्वे ।

न रूपभेदात् स्थलजाद्विभिन्ने व्यवस्थितैकाह्वयने यथाक्रमम् ॥१३३॥

सम्भृत्यधिकरणम्– ३- ८

किञ्चिन्नारभ्योक्तेः द्युव्याप्तिः सम्भृतिश्च वीर्याणाम् ।

सर्वास्विति तु न यस्माद् द्युव्याप्तिर्नाऽल्पदेशसङ्ग्राह्या ॥१३४॥

पुरुषविद्याधिकरणम्– ३- ९

विद्याभेदः सत्यपि सञ्ज्ञैक्ये पुरुषविद्येति ।

सवनादियज्ञसम्परिकल्पनभेदकृतरूपभेदत्वात् ॥१३५॥

वेधाद्यधिकरणम्– ३- १०

शम् नो मित्रेत्याद्या मन्त्रा विद्याङ्गमन्तिकामननात् ।

नहि शुक्रादिकमन्त्रवदध्ययनाङ्गम् तथैव सामर्थ्यात् ॥१३६॥

हान्यधिकरणम्– ३- ११

पुण्यादिहान्युपायनयोरेकम् चिन्त्यम् समुच्चितम् नेह ।

पृथगाम्नानफलत्वान्नैतत् सापेक्षत्वात् परस्परतः ॥१३७॥

साम्परायाधिकरणम्– ३- १२

पुण्यादिहानिचिन्ता गत्युपपत्तेर्मृतौच मार्गे च ।

कार्येति नैव मरणे कर्तव्या तावदित्युक्तेः ॥१३८॥

अनियमाधिकरणम्– ३- १३

तद्विद्यानिष्ठानाम् तद्विद्योक्तार्चिरादिगतिचिन्ता स्यात् ।

प्रकरणभेदान्नैतत् तद्य इति तु समानतावचनात् ॥१३९॥

अक्षरध्यधिकरणम्– ३- १४

विद्याविशेषकथितास्त्वस्थूलाद्या भवन्ति तत्रैव ।

नाऽन्यत्र मानहानेर्नैवाऽऽनन्दादिवन्निरूपकतः ॥१४०॥

अन्तरत्वाधिकरणम्– ३- १५

प्रष्ट्रोर्भेदेऽपि तथा व्यतिहारः प्राणनाशनायाद्योः ।

वाक्यम् सद्विद्यावद् यत्साक्षादिति समानतः प्रश्ने ॥१४१॥

कामाद्यधिकरणम्– ३- १६

आकाशतच्छयानौ समुपास्यौ यदि न दहरविद्यैका ।

सामान्यात्तु गुणानाम् क्वचिदाकाशस्य हृदयवाचित्वात् ॥१४२॥

तन्निर्धारणानियमाधिकरणम्– ३- १७

उद्गीथस्योपास्तिर्नियता स्यादङ्गवत् तदाश्रयतः ।

अनियमनमर्थवत्त्वादनुपासितुरपि च कर्मिताहेतोः ॥१४३॥

प्रदानाधिकरणम्– ३- १८

साधारणत्वहेतोः गुणी तु गुणचिन्तनेषु नाऽवर्त्यः ।

नैवम् विशिष्टभेदात् प्रतिगुणमावर्तनीय एव गुणी ॥१४४॥

लिङ्गभूयस्त्वाधिकरणम्– ३- १९   

पूर्वानुवाकनीत्या दहरोपास्तिसमुपास्यनिर्णयनम् ।

प्रकृतत्वादिति नैवम् स्ववाक्यबलतः समस्तनिर्णयनम् ॥१४५॥

पूर्वविकल्पाधिकरणम्– ३-२०

अविधेयः स्वस्य विधौ च क्रियामयेष्टकचितादिवह्नीनाम् ।

वाक्यात् कल्प्यविधित्वात् विद्यामय्यो मनश्चिताद्याः स्युः ॥१४६॥

शरीरे भावाधिकरणम्– ३- २१

कर्तृत्वादिविशिष्टो जीवो ध्येयः शरीरिताहेतोः ।

नैवम् गुणाष्टकयुतः प्राप्यत्वात् स्याद् यथाक्रतुन्यायात् ॥१४७॥

अङ्गावबद्धाधिकरणम्– ३-२२

उद्गीथस्योपास्तिर्नियता स्वास्वेव नेतरास्वमितेः ।

नैवम् शङ्क्यमुपास्तेः केवलमुद्गीथमात्रविषयत्वात् ॥१४८॥

भूमज्यायस्त्वाधिकरणम्– ३- २३

उभयत्र फलसमुक्तेर्व्यस्तो व्यस्तसमस्तो वा ।

वैश्वानरो विचिन्त्यो नैव निषेधात् समस्त एव स्यात् ॥१४९॥

शब्दादिभेदाधिकरणम्– ३- २४

फलचोदनाद्यभेदादेकत्वम् स्यात् सदादिविद्यानाम् ।

नैवम् सञ्ज्ञारूपप्रभेदतो भिन्नतैव स्यात् ॥१५०॥

विकल्पाधिकरणम्– ३- २५

ब्रह्मानुभूत्यपेक्षाबाहुल्यात् स्यात् सदादिविद्यानाम् ।

एकत्रैव समुच्चितिरिति नैव फलस्य सर्वथैवैक्यात् ॥१५१॥

यथाश्रयभावाधिकरणम्– ३- २६

उद्गीथाद्यनुचिन्तननियमाभावस्तु नैव पूर्वोक्तः ।

अफलत्वतः स्ववाक्ये नैव तथाऽऽश्रयविधेः फलित्वाच्च ॥१५२॥

विद्यैक्यमुद्गीथभिदा प्राणोपास्त्येकता तथा ।

आनन्दादिसमाहारः प्राणवासस्त्वचोदनम् ॥१५३॥

शाण्डिल्यैक्यम् व्यवस्था च नाम्नोर्द्युव्यापनस्य च ।

विभेद: पुरुषोपास्तेर्वेधाद्यध्ययनाङ्गता ॥१५४॥

हानाद्यन्योन्यसम्बन्धः कालस्तच्चिन्तनाविधेः ।

साधारण्यम् सरण्याश्च तथाऽस्थूलादिसाम्यता ॥१५५॥

प्राणाशनायाद्यैकत्वम् ततश्च दहरैकता ।

उद्गीथोपास्त्यनियमो गुण्यावृत्त्यनुचिन्तनम् ॥१५६॥

सर्वोपास्यविनिर्णीतिविद्यात्वम् च मनश्चिताम् ।

जीवस्य गुणितो पास्तिः सर्वत्रोद्गीथचिन्तनम् ॥१५७॥

वैश्वानरस्य सामस्त्यम् सद्विद्यादेर्विभिन्नता ।

विद्यानामसमाहार उद्गीथा नियतिः पुनः ॥१५८॥

भेदाभेदौ च विद्यानाम् गुणानाम् च ग्रहाग्रहौ ।

इत्थमेतेन पादेन साधिष्ठम् परिचिन्तितम् ॥१५९॥

तृतीयाऽध्यायस्य तृतीयः पादः ॥

तृतीयाऽध्यायस्य चतुर्थः पादः ॥

पुरुषार्थाधिकरणम्– ४- १

कर्माङ्गत्वात् कर्तृनिर्णायिकाया विद्यायास्तत् कर्म दत्ते फलानि ।

नैतज्जीवाधीशनिर्णायकत्वाद् विद्या दत्ते कर्म चाङ्गम् त्वमुष्याः ॥१६०॥

स्तुतिमात्राधिकरणम्– ४- २

कर्माङ्गोद्गीथादिसम्बन्धमात्रम् दृष्टम् यस्मात् तत्स्तुतित्वम् रसादेः ।

नाऽसान्निध्यात् तद्विधेयप्रकर्षादप्राप्तत्वाच्चाऽत्र कल्प्यो विधिः स्यात् ॥१६१॥

पारिप्लवार्थाधिकरणम्– ४- ३

प्रतर्दनाद्यास्तु विशेषसञ्ज्ञाः पारिप्लवार्था विनियोगहेतोः ।

विद्याविधार्थास्तु तदैकवाक्यान्मन्वादिसञ्ज्ञा चरितार्थनाच्च ॥१६२॥

अग्नीन्धनाद्यधिकरणम्– ४- ४

विद्यास्तु यज्ञादितदङ्गहानेः प्रव्राजकानाम् न हि सम्भवन्ति ।

नैतद् यदिच्छन्त इति श्रुतत्वादग्न्याद्यपेक्षारहितैव साऽस्ति ॥१६३॥

सर्वापेक्षाधिकरणम्– ४- ५

साधारणत्वाद्गृहमेधिनाम् च प्रव्राजिवत् सा तु तदङ्गहीना ।

नैवम् तु यज्ञादिकवाक्यभावात् सर्वत्र च स्वाश्रमधर्मवत्त्वात् ॥१६४॥

शमदमाद्यधिकरणम्– ४- ६

व्यापारकर्माधिकृतत्वहेतोः तेषाम् तु विद्या न शमादियुक्ता ।

नैतच्छमादेस्तु तदङ्गभावाद्द्वयोस्तयोर्भिन्ननिबन्धनत्वात् ॥१६५॥

सर्वान्नानुमत्यधिकरणम्– ४- ७

सर्वान्नभुक्तिस्तु विशेषहानेः स्यात् सर्वदा प्राणविदामितीदम् ।

न शोभते शक्तिविशेषभाजः प्राणात्यये ब्रह्मविदोऽपि दृष्टेः ॥१६६॥

विहितत्वाधिकरणम्– ४- ८

विद्याविहीनाश्रमकर्मभूता यज्ञादयो नैव विरोधभावात् ।

नित्यम् तदन्यच्च फलम् कथम् स्यान्नैतत्प्रसङ्गो विनियोगभेदात् ॥१६७॥

विधुराधिकरणम्– ४- ९

यज्ञादिकर्माङ्गकलापहानेर्विद्याधिकारो न निराश्रमाणाम् ।

तन्नैव रैक्वादिषु लक्षितत्वाज्जपोपवासाद्युपकारतश्च ॥१६८॥

तद्भूताधिकरणम्– ४- १०

जपोपवासाद्यनुमोदभावाद्विद्याधिकारो विपरिच्युतानाम् ।

नैतत् स्मृतेस्तत्परिहारहानौ सन्दर्शनाच्छिष्टबहिष्कृतेश्च ॥१६९॥

स्वाम्यधिकरणम्– ४- ११

क्रत्वङ्गसम्बन्धमुपासनम् यत् तत्स्वामिनस्तत्फलभोक्तृभावात् ।

नैवर्त्विजाम् कर्म तदङ्गवत्स्यात् कर्माङ्गसम्बन्धत एव हेतोः ॥१७०॥

सहकार्यन्तराधिकरणम्– ४- १२

मन्तव्य इत्येव विधानहेतोरनूद्यते मौनमिति त्वसत् स्यात् ।

मौनम् प्रकृष्टे मनने हि लोके प्रसिद्ध्यते तेन विधेयमेतत् ॥१७१॥

अनाविष्काराधिकरणम्– ४- १३

विशेषधेयहानेर्विदुषस्तु बाल्यम् सर्वम् च कामाचरणादि नैतत् ।

विशेषतो नाऽविरतादिवाक्यै बाल्यम् त्वनाविष्करणम् कुलादेः ॥१७२॥

ऐहिकाधिकरणम्– ४- १४

यज्ञादिकम् त्वभ्युदयादिहेतुः सद्यः फलम् स्यादविलम्बहेतोः ।

न तद्बलिष्ठैः प्रतिबन्धहानौ तत् स्याद्यदेवेति तु चोदितत्वात् ॥१७३॥

मुक्तिफलाधिकरणम्– ४- १५

निःश्रेयसैकार्थमुपास्तिकर्म सद्यः फलम् स्यात् प्रबलत्वहेतोः ।

तच्चाऽपि न ब्रह्मविदग्रिमाणाम् निन्दादिकस्याऽतिबलोत्तरत्वात् ॥१७४॥

विद्याया: फलदातृत्वम् रसादेश्च विधेयता ।

विद्यङ्गता चाख्यानानाम् विद्या प्रव्राजिनाम् तथा ॥१७५॥

गृहस्थानाम् च विद्याया यज्ञादिप्रत्य(पे)वेक्षणम् ।

तेषाम् शमाद्यपेक्षत्वमाहारस्य व्यवस्थितिः ॥१७६॥

गाईस्थ्यस्याऽपि कर्मत्वम् यज्ञादेः कर्मणस्तथा ।

विधुराणामधिकृतिश्च्युतानाम् तद्विहीनता ॥१७७॥

कत्वङ्गोपासने ऋत्विक्कार्यता मौनिता विधिः ।

बाल्यम् त्वस्याऽप्रकाशत्वम् शक्ति विद्याभिजन्मनाम् ॥१७८॥

प्रतिबन्धे विलम्बित्वम् स्वर्ग मोक्षार्थकर्मणोः ।

इत्यनेनेतिकर्तव्यसम्हतिः परिचिन्तिता ॥१७९॥

तृतीयाऽध्यायस्य चतुर्थः पादः ॥

तृतीयः साधनाध्यायः समाप्तः ।

चतुर्थोऽध्यायस्य प्रथमः पादः ॥

आवृत्त्यधिकरणम्– १- १

ज्ञानस्योपायत्वात् तस्य च सकृदेव कर्तुमर्हत्वात् ।

सकृदेव वेदनम् स्यान्नैतदुपास्तित्वचोदनाज्ज्ञप्तेः ॥१८०॥

आत्मत्वोपासनाधिकरणम्– १-

स्वस्माद्विभेदेन परो ह्युपास्यो भेदस्य सर्वत्र समर्थितत्वात् ।

नैवाऽहमित्यात्मतया ह्युपास्यस्त्वम् वेति शब्दाच्च तदात्मतश्च ॥१८१॥

प्रतीकाधिकरणम्– १- ३

तथा प्रतीकेषु यथेतरेषु यस्मात् परोपासनताऽविशिष्टा ।

तन्नैव शङ्क्यम् परमात्मदृष्ट्या नामादिकानाम् समुपास्यभावात् ॥१८२॥

आदित्यादिमत्यधिकरणम्– १- ४

उद्गीथदृष्टिस्तपने तु नीचे श्रेष्ठम् हि कर्मैव फलप्रदत्वात् ।

तन्नैव तस्याऽपि फलप्रदत्वम् तत्पूजनत्वादिति नाऽन्यथा स्यात् ॥१८३॥

आसीनाधिकरणम्– १- ५

आसीन इत्येव विशेषहानेः सर्वप्रवृत्तिष्वपि सा विधेया ।

स्यान्नैवमैकाग्र्यविशेषभावाद् ध्यानश्रुतेश्चोपनिषेदुषः सा ॥१८४॥

आप्रयाणाधिकरणम्– १- ६

शास्त्रार्थनिर्वृत्तित एव हेतोः कर्तव्यमेकत्र तु वासरे तत् ।

एतन्न सम्सिद्ध्यति यावदायुरित्येव शब्दाद्विधितश्च तस्य ॥१८५॥

तदधिगमाधिकरणम्– १- ७

नाऽभुक्तमित्येव तु सम्स्मृतत्वादश्लेषनाशौ न हि पातकानाम् ।

तस्याः फलित्वैकसमर्थनत्वादेवम् विदीति श्रवणाच्च नैवम् ॥१८६॥

इतराधिकरणम्– १- ८

अश्लेषनाशौ हितकर्मणाम् तु नैव प्रसक्तौ सुखलाभहेतोः ।

तन्नैव मोक्षप्रतिबन्धकत्वसाम्यान्मुमुक्षोः स्फुटतः प्रसक्तौ ॥१८७॥

अनारब्धकार्याधिकरणम्– १- ९

सर्वस्य वैशेषिकशब्दहानेरश्लेषनाशौ भवतो हि तस्य ।

नाऽऽरब्धकार्यस्य हि नैव यस्माद् यावन्न मोक्ष्येति विशेषशब्दः ॥१८८॥

अग्निहोत्राद्यधिकरणम्– १- १०

अश्लेषनाशश्रवणात् कृतानामकार्यता स्वाश्रमकर्मणाम् च ।

नैतत्तु कार्यम् खलु यज्ञ शब्दाद्विद्यासमुत्पादनशक्तितश्च ॥१८९॥

इतरक्षपणाधिकरणम्– १- ११

यावन्न मोक्ष्येति विशेषशब्दादारभ्यमाणस्व फलम् च कर्म ।

तद्देहपातावधिकम् न चैतत् तस्याः श्रुतेस्तत्फलगोचरत्वात् ॥१९०॥

असकृत् कार्यतोपास्तेरहमित्यप्युपास्यता ।

प्रतीकेष्वन्यथोपास्तिरङ्गेष्वर्कादिदृष्टयः ॥१९१॥

उपास्तेरासनाङ्गत्वम् प्रत्यहम् चाऽप्युपास्यता ।

अघस्याऽश्लेषनाशौ च पुण्यस्याऽपि तथा भवः ॥१९२॥

आरब्धस्य फलित्वम् च कार्यताऽऽश्रमकर्मणाम् ।

कर्मावधित्वम् बन्धस्य पादेनाऽनेन साधितम् ॥१९३॥

चतुर्थस्याऽध्यायस्य प्रथमः पादः ॥

चतुर्थर्थस्याऽध्यायस्य द्वितीयः पादः ॥

वागधिकरणम्– २- १

वाचो मनः कारणकत्वहानेर्वृत्तेर्लयश्चेतसि नैव वाचः ।

तन्नैव तस्याश्च समानभावाद् वाक्छब्दतः सङ्गतिमात्रतश्च ॥१९४॥

मनोऽधिकरणम् – २- २

प्राणोऽम्बु तेजः प्रकृतित्वयोगादापोमयः प्राण इति श्रुतेश्च ।

न स्यादहङ्कारकृतम् तु चित्तम् प्राणो नभः कार्यमतः स एव ॥१९५॥

अध्यक्षाधिकरणम्– २- ३

प्राणो भवेत् तेजसि योगभागी तथैव शब्दश्रवणादितीदम् ।

न स्यात्तु जीवोपगमादिशब्दात् प्राणस्य तेजः श्रवणम् तु पश्चात् ॥१९६॥

भूताधिकरणम्– २- ४

तेजस्तु तत्तेज इति श्रुतत्वात् तन्मात्रमेवाऽन्यवियुक्तरूपम् ।

न स्यात्तु भूतान्तरसम्प्रविष्टम् त्रिवृत्कृतत्वश्रवणादशक्तेः ॥१९७॥

आसृत्युपक्रमाधिकरणम्– २-

एषा त्वविद्यस्य गतिर्भवित्री विद्यावतोऽत्रैव पराप्तिशब्दात् ।

नैतद्द्वयम् स्यादुभयोः समाना गतिः शरीरादितरोऽर्थवादः ॥१९८॥

परसम्पत्त्यधिकरणम्– २-

भोगाद्यभावेन निरर्थकत्वाद्यथायथम् स्युर्न तु देवतायाम् ।

सम्यन्ति तानीति न शङ्क्यमेतत् तेजः परस्यामिति चोदितत्वात् ॥१९९॥

अविभागाधिकरणम्– २-

तेषाम् त्रयाणाम् तु परत्र पुम्सि स्वकारणत्वात् प्रलयस्तु भावी ।

तन्नैव पूर्वैः स्फुटमैकवाक्यात् सम्श्लेषमात्रम् तदबाधतश्च ॥२००॥

तदोकोऽधिकरणम्– २-

मूर्ध्नाऽन्यनाडीभिरिति व्यवस्था न सौक्ष्म्यतः सम्भवशम्सि वाक्यम् ।

तन्नैव विद्यामहिमातिरेकात् परप्रसत्तेश्च तथैव यानम् ॥२०१॥

रश्म्यनुसाराधिकरणम्– २-

निशामृतौ रश्म्यनुसारवारणे नैव व्यवस्था किरणानुसारे ।

न तद्व्यवस्थैव भवेन्निशीथेऽप्यौष्ण्योपलब्धेर्यदमी हि सन्ति ॥२०२॥

निशाधिकरणम्– २- १०

दिवा मृतस्यैव परोपसत्तिर्विगर्हितत्वान्मरणस्य रात्रौ ।

न स्यादिदम् बन्धककर्महानाद् विद्याबलात् ताम् वदति श्रुतिश्च ॥२०३॥

दक्षिणायनाधिकरणम्– २- ११

मृतस्य मुक्तिर्न हि दक्षिणायने शशाङ्कसायुज्यममुष्य हि श्रुतम् ।

न तत्तु विद्यामहिमातिरेकतः श्रुतिस्तु सा विश्रमभूमिगोचरा ॥२०४॥

वाक् तु चेतसि तत् प्राणे तत् पुनर्जीवतेजसोः ।

तेजसश्चेतरश्लेषस्तावन्मात्रस्य तुल्यता ॥२०५॥

तेषाम् परस्मिन् गमनम् तस्य च श्लेषमात्रता ।

मूर्धन्यनाडीनियमो रश्मिनेति व्यवस्थितिः ॥२०६॥

निशायाम् चाऽपि सन्मोक्षो मोक्षणम् दक्षिणायने ।

इत्येतत् सर्वमेतेन पादेनाऽत्र विचिन्तितम् ॥२०७॥

चतुर्थाऽध्यायस्य द्वितीयः पादः ॥

चतुर्थस्याऽध्यायस्य तृतीयः पादः ॥

अर्चिराद्यधिकरणम्

शाखासु बहुविधत्वाद्गतिश्रुतेरर्चिरादिनियमो न ।

तन्नैव नियमनम् स्यात् सर्वत्रार्कादिचिह्नसम्भवतः ॥२०८ ॥

वाय्वधिकरणम्

वायुश्च देवलोकः शब्दविभेदात् पृथग्भवतः ।

न स्यात् योऽयम् पवते स देवलोक इति तद्विशेषणतः ॥२०९॥

वरुणाधिकरणम्

श्रुतिभङ्गेऽप्यगतित्वात् पाठाद्वायोः परे तु वरुणाद्याः ।

तन्नाऽर्थवशाद्वरुणस्तटितः स्यादुपरि तदुपरीन्द्राद्याः ॥२१०॥

आतिवाहिकाधिकरणम्– ४

उपदेशस्य तथात्वाच्चिह्नानि त्वर्चिरादयः सरणेः ।

नैतद् गमयितृशब्दादुपरि परेऽप्यातिवाहिका हि स्युः ॥२११॥

कार्याधिकरणम्

चतुर्मुखमुपासितुर्गतिरियम् सहि प्राप्यते

परस्य परिपूर्णतः सततमेव सम्प्राप्तितः ।

न तत्परमुपासितुः श्रुतित एव तच्चाऽप्यसत्

परम् तदनुजीवमप्युभयतः श्रुतेर्दर्शनात् ॥२१२॥

अर्चिरादेस्तु नियमो वायोः स्वर्गस्य चैकता ।

तटितो वरुणप्राप्तिरातिवाहिकता ततः ॥२१३॥

फलम् जीव परोपास्त्योरर्चिरादिगतिस्त्वियम् ।

इति सर्वमनेनैव पादेन परिचिन्तितम् ॥२१४॥

चतुर्थेऽध्यायस्य तृतीयो गति पादः ॥

चतुर्थोऽध्यायस्य चतुर्थः फल पादः ॥

सम्पद्याविर्भावाधिकरणम्– ४-

नित्योपलब्धेरसुखत्वतश्च केनाऽपि रूपेण सुखैकभाजा ।

मुक्तस्य सम्बन्ध इति त्वसत् स्यात् स्वेनेति शब्दादतिरोहितत्वात् ॥२१५॥

अविभागेन दृष्टत्वाधिकरणम्– ४-

परानुभूतिस्तु विभेदतः स्यात् साधर्म्यशब्दादतिसाम्यशब्दात् ।

न स्यादिदम् नाम तदात्मकत्वात्साम्यश्रुतिस्तद्गुणसाम्यलब्धा ॥२१६॥

ब्राह्माधिकरणम्– ४-

मुक्तस्वरूपम् तु गुणाष्टकम् स्यात्तथा श्रुतत्वाद्द्युतिमात्रता वा ।

तथैव विज्ञानघनत्वशब्दात् तन्नोभयम् स्यादुभयाविरोधात् ॥२१७॥

सङ्कल्पाधिकरणम्– ४- ४

मुक्तस्य पित्रादि तु सप्रयत्नात् सङ्कल्पतो भावि तथैव दृष्टेः ।

ब्रह्मादिकेष्वित्यसदेतदेषाम् सङ्कल्पसत्यत्ववियोगतः स्यात् ॥२१८॥

अभावाधिकरणम्– ४-

मुक्तोऽशरीरस्त्वशरीरशब्दादिच्छाशरीरी बहुधेति शब्दात् ।

नैषा व्यवस्था बहुधा तु शब्दाद्बहुश्रुतेश्च त्वयमैच्छिकः स्यात् ॥२१९॥

जगद्व्यापारवर्जाधिकरणम्– ४-

मुक्तस्य भोगः खलु साम्यशब्दान्निर्वोढृता स्याद्भुवनस्य तद्वत् ।

नैतत् परस्यैव तथात्वशब्दाद्भोगोऽनुभूतिः सगुणस्य तस्य ॥२२०॥

(१)  आविर्भवत्स्वरूपत्वम्     (२) परानुभवरूपणम् ।

(३)  मुक्तस्वरूपनिष्कर्षः        (४) सत्यसङ्कल्पता तथा ॥२२१॥

(५) स्वेच्छया सर्वसम्भोगः    (६) मोक्षस्य च फलोदयः ।

इत्येवमर्थजातम् स्यात् पादेनानेन चिन्तितम् ॥२२२॥

 चतुर्थेऽध्यायस्य चतुर्थः पादः समाप्तः ॥

*****************

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.