ब्रह्मपदशक्तिवादः

॥ श्रीमते रामानुजाय नमः ॥

॥ श्रीमते रम्यजामातृमुनये नमः ॥

॥ श्रीमद्वेङकटलक्ष्मणार्यसम्यमिने नमः ॥

श्रीशैललक्ष्मणयतीन्द्रैः विरचितः

ब्रह्मपदशक्तिवादः

अखिलभुवनबन्धोन्मोचने बद्धदीक्षः

प्रकृतिमनपहाय स्वेच्छयेहावतीर्णम्‌।

वृषगिरिशिखरस्थैस्सर्वधा भुज्यमानम्‌

कमपि पुरुषमीडे कान्तया नित्यजुष्टम्‌॥

नत्व च यतिवरचरणौ स्मृत्वाऽनन्तार्यपादकाधूलीः।

ब्रह्मपदशक्तिवादम्‌ तनुते श्रीशैलयोगिराजसुधीः॥

श्रुतिस्मृतिपुराणज्ञास्सम्प्रदाये सुशिक्षिताः।

श्रीशादनन्यागम्‌ प्राहुः ब्रह्मशब्दम्‌ निमित्ततः॥

तदेतदपरिज्ञाय शब्दजालम्‌ प्रयुञ्जताम्‌।

मौनमुद्राविधानेन जयत्वेषा कृतिर्मम॥

ब्रह्मशब्दो हि बृहबृहि वृद्धाविति धातोरौणादिककर्त्रर्थकमनिन्प्र-त्ययान्तः। तत्र घातूक्ता वृद्धिर्नाम सूक्ष्मावस्थाप्रहाण-पूर्वकस्थूलावस्थायोग एव । चन्द्रकला वर्धत इत्यादौ तत्रैव प्रयोगात्‌। तत्र सूक्ष्मावस्थाप्रहाणस्य भावान्तरमभाव इति न्यायेन स्थूलावस्था-रूपत्वात्‌ स्थूलावस्थायोग एव धात्वर्थ इत्युक्तम्‌ भवति । मही बृहती, महीधरो बृहन्निति स्थूलपरिमाणमात्र एव हि बृहिधातोः प्रयोगो दृश्यते । इदञ्च स्थौल्यमत्र निरतिशयदशाविशिष्टम्‌ बोध्यते, धातुशक्तेः सङ्कोचा भावात्‌। स्वतस्सिद्धम्‌ हि निरुपपदानाम्‌ शब्दानामसङ्कुचितार्थप्रतिपादकत्वम्‌, यथा ईश्वरशब्दस्य सर्वेश्वरप्रतिपादकत्वम्‌। मिथिलेश्वरः, कोसलेश्वर इत्यादौ मिधथिलाद्युप-पदरूपसङ्कोचबलात्‌ ईश्वरशब्दलक्षणासमाश्रयणम्‌। तदुक्त म्‌ स्कान्दे, मुख्यस्य निर्विशेषेण शब्दोन्येषाम्‌ विशेषतः। इति वेदविदः प्राहुः शब्द॒तत्त्वार्थवेदिनः इति। तथा चात्र निरुपपदस्य बृहिधातोः स्वतो निरतिशयस्थौल्ये रुढत्वान्निरतिशयबृहत्त्वम्‌ धात्वर्थः।

सर्वप्रकारकर्तृत्वम्‌ च प्रत्ययार्थः, तस्यापि सङ्कोचकाभावात्‌। कर्तृत्वम्‌ हि धात्वर्थाश्रयत्वम्‌, धात्वर्थानुकूलकृत्याश्रयत्वम्‌ चेति द्विविधम्‌। तत्र प्रथममपि साक्षात्परम्परया चेति द्विविधम्‌, द्वितीयमपि साक्षात्प्रयोजकतया चेति द्विविघम्‌। तथा चैतत्सर्वविधमपि कर्तृत्वम्‌ – सङ्कोचात्‌ कर्तृर्थक-मनिन्प्रत्ययेन बोध्यते । ऋतम्‌ पिमबन्तावित्यत्र द्विविधकर्तृत्व-स्याप्येकेन प्रत्ययेनाभिधानस्य भाषितत्वात्‌।

तथा च साक्षान्निरिरतिशयबृहत्त्वरूपधात्वर्थाश्रयत्वं, परम्परया तादृशधात्वर्थाश्रयत्वम्‌, अन्यनिष्ठतादृशधात्वर्थप्रयोजकव्यापाराश्रयत्वम्‌ च ब्रह्मणि ब्रह्मशब्दशब्देनावयवशक्त्या बोध्यत इति तदेव तस्य योगनिमित्तम्‌ वक्तव्यम्‌।

निरुक्तम्‌ च श्रुतिस्मृतिभिः, बृहति बृम्हयति तस्मादुच्यते परम् ब्रह्येत्यथर्वशिरोवाक्येन, बृहिधात्वर्थनिरूपितसाक्षात्कर्तृत्वम् प्रयोजककर्तृत्वमेतदुभयमपि ब्रह्मशब्दान्तर्गतमनिन्प्रत्ययार्थ इति व्याख्यातम्‌।

बृहत्त्वाद्बृम्हणत्वाच्च तद्ब्रह्मेत्यभिधीयते।

इति श्रीविष्णुपुराणवचनेन तदेवोपबृम्हितम्‌॥

बृहन्तो ह्यस्मिन्‌ गुणा इति श्रुत्या धात्वर्थनिरूपित-साक्षात्कर्तृत्वलक्षणमाश्रयत्वम्‌ गुणघटितपरम्परासम्बन्धेनापि विवक्षित-मिति व्याख्यातम्‌।

तथा चैवम्‌ ब्रह्मशब्दस्यावयवव्युत्पत्तिबलात्‌ तन्निर्वचनबलाच्च निरतिशयवबृहृत्त्व निरतिशयबृहद्गुणत्वनिरतिशयबृहृत्त्वप्रयोजकत्वैत- त्रितयविशिष्टत्वस्यैव योगनिमित्तत्वसिद्धे स्तादृशयोगनिमित्तवानेवास्य मुख्योऽर्थः। अन्यत्र तद्योगनिमित्तान्तर्गतबृहत्त्वबृम्हणत्वादि गुणलेशयोगादयमौपचारिकः। यथा सर्वेश्वरस्य स्वतो विभुत्वेन साक्षान्निरतिशयबृहत्त्वाश्रयत्वात्‌, विभुभूतज्ञानान्नदादिसकलकल्याण-गुणाश्रयत्वेन निरतिशयबृहद्गुणकत्वात्‌, मुक्तानाम्‌ ज्ञानानन्दादि-विभुत्वापादकत्वेन निरतिशयबृहत्त्वप्रयोजकत्वाच्च ब्रह्मशब्द॒-निमित्तभूताकारत्रयविशिष्टत्वात्स एवास्य मुख्यार्थः ॥ वेदादयस्तु ज्ञान- वर्धकत्वलक्षणबृम्हणत्वादिगुणलेशमात्रयोगादौपचारिकप्रयोगविषया एव ।

तथा चोक्तम्‌ गारुडे –

वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि।

तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ॥

इत्यारभ्य –

यस्मिन्प्रयुज्यमाने तु गुणयोगः सुपुष्कलः।

तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ॥ इति।

तदेतत्सर्वमभिसन्धायानुगृहीतम्‌ जन्माद्यधिकरणभाष्ये, उपलक्ष्यम्‌ ह्यनवधिकातिशयबृहद्बृम्हणत्वञ्च बृहतेर्धातोस्तदर्थत्वात्‌ इति। अत्र हि प्रत्ययस्य धातूत्थिताकाङ्क्षापूरकत्वेन धातुशेषतया तदर्थस्यापि धात्वन्तर्भावविवक्षणेन निरतिशयबृहद्बृम्हणयोरुभयोरपि ब्रह्मशब्दा-वयवार्थत्वाभिधानात्‌ तयोर्योगनिमित्तत्वमेवेति दर्शितम्‌॥

अत्र श्रुतप्रकाशिकायाम्‌ व्यवहितान्वयाध्याहारादिदोषराहित्येनाभ्यर्हि-

तायाम्‌ प्रथमयोजनायाम्‌, कथम्‌ निरतिशयबृहत्त्वबृम्हणत्व-प्रतिपत्तिरित्यत्राह बृहतेरिति। मनिन्‌ प्रत्ययान्तस्य रूढिसहकृतस्य बृहतिधातोस्तदर्थत्वादित्यर्थ इति व्याख्यातम्‌ ॥ अत्रापि निरतिशय -बृहत्त्वबृम्हणत्वयोः ब्रह्मशब्दावयवार्थान्तर्गतत्वम्‌ स्पष्टम्‌। नो चेत्‌ धातोस्तदर्थत्वादित्युक्तिः कथमिवोपपद्येत। समुदायशक्तिर्हि न धातु-प्रत्ययादिविभागमपेक्षते। पुनः कथ म्‌ रूढिसहकृस्येत्युक्तिरिति चेत्‌ श्रूयतामवधानेनानिरतिशयबृहत्वे हि धातोः स्वाभाविकीरूढिवृत्तिः, तस्याश्च

सर्वेश्वरव्यतिरिक्तविषयब्रह्मशब्देनानुन्वयानुपपत्त्या त्यागो लक्षणासमा-श्रयणञ्च क्रियते सर्वेश्वरविषयब्रह्मशब्दे तु बाधाभावात्‌ रूढिर्न त्याज्येति रूढिसहकृतस्य धातोरित्युक्तम्‌। नैतावता ब्रह्मशब्दस्य समुदायशक्तिरुच्यत इति भ्रमितव्यम्‌ । बृहतेर्धातोस्तदर्थत्वादिति भाष्यस्वारस्य विरोधात्‌, बृहति धातोस्तदर्थत्वादिति स्ववाक्यविरोधाञ्च

एतेन ब्रह्मशब्दरूढिर्न त्याज्येति साक्षादप्यविरोधम्‌ जैमिनिरतिसूत्र-भाष्यश्रुतप्रकाशिकावचनमपि व्याख्यातम्‌ । निरतिशयबृहत्त्वविषयक-ब्रह्मशब्दावायवधातुरूढेरेव तत्रापि विवक्षितत्वात्‌ । तस्मात्‌ साक्षात्पर-म्परया चानवधिकातिशयबृहत्त्वस्य बृम्हणत्वस्य च ब्रह्मशब्दयोग-निमित्तत्वमेवेति सिद्धम्‌ ॥

तदेतदनभिज्ञाय केचिद्वदन्ति *ब्रह्मशब्दो योगवृत्त्या बृहत्त्वसामान्याश्र-

शयमाहे*ति। तत्तुच्छम्‌। तस्मादन्यत्र तद्गुणलेशयोगादौपचारिक इति योगनिमित्तलेशयोगाद्भाक्त इति हि तदर्थः । न च ब्रह्मशब्दस्य भगवति रूढिवृत्तेरप्यभ्युपगमात्‌ तदन्यत्र तदभावादौपचारिकत्वमिति वाच्यम्‌। तथा सति देवतान्तरेषु योगरूढानामग्न्यादिशब्दानाम्‌ साक्षादप्यविरोधम्‌ जैमिनिरिति सूत्रशिक्षिताया भगवद्विषयप्रवृत्तेरौपचारिकत्वप्रसङ्गात्‌। न चेष्टापत्तिः, मुख्यत्वे सम्भवत्यौपचारिकत्वायोगेनाग्न्यादिशब्दघटित- वाक्यानाम्‌ देवतान्तरविषयत्वस्यैव समर्थितत्वापाताक्यत्‌॥

अथ यच्चोक्तम्‌, घटो ब्रह्मेत्यादिप्रयोगवारणाय ब्रह्मशब्दरूढिरावश्यकीति, तदपि मन्दम्‌। निरतिशयबृहत्त्वादिलक्षण-योगनिमित्तस्य घटादिष्वभावादेव तद्वारणात्‌। एतेन घटो न ब्रह्मे-त्यादिप्रयोगानुपपत्तिप्रसञ्जनमपि प्रत्युक्तम्‌ ॥

अथ यदपि, ब्रह्मशब्दस्य उद्भिच्छब्दसादृश्यमुद्भाव्य तस्यापि रूढिकल्पनेन तत्खवण्डनम्‌, तदप्यतिहेयम्‌। उद्भिच्छब्दस्येव ब्रह्मशब्दस्य योगनिमित्तातिप्रसक्तेरभावात्‌। कल्प्यरूढ्यपेक्षया क्लृप्तयोगप्राबल्यस्य प्रोक्षण्यधिकरणसिद्धत्वेन उद्भिच्छब्दस्य क्लृप्तयोगेनैवोपपत्त्याऽतिरिक्त-रूढिकल्पनायोगात्‌। न च प्रयोगातिप्रसक्तिवारणार्थम्‌ तत्र कल्पनम्‌, प्रकृष्टोक्षणसाधनतावति तैलादौ प्रोक्षणशब्दप्रयोगस्य प्रयोज्यतया निर्मथनार्हे पाकादौ जन्यतया निर्मथनार्हे नवनीतादौ च निर्मथ्यशब्दप्रयोगस्य सम्स्कारहीनेषु शास्त्रस्थानाम्‌ बर्हि- राज्यपुरोडाशादिशब्दप्रद्योगादेश्च वारणाय तत्र तत्र शक्यन्तरकल्पना-पातात्‌।

नापि ज्योतिष्टोमादिकर्तर्ययमुद्भिद्यागम्‌ न करोतीति व्यवहारानुसारात्तत्कल्पनम्‌, उद्धित्पदस्य यौगिकत्वेऽपि सन्ञात्वादेव कर्मभेदकतया ज्योतिष्टोमादीनामुद्भितसञ्ज्ञात्वाभावेन तद्व्यवहारा-नुपपत्त्यभावात्‌, उद्भित्सञ्ज्ञयागस्यैव तत्रोद्भिद्यागपदेन विवक्षितत्वात्‌। न च रुढिरहितस्य सञ्ज्ञात्वानुपपत्तिः, चैत्रामैत्रादिनाम्नाम्‌ सञ्ज्ञात्वा- भावप्रसङ्गात्‌। रूढिर्नामानादिशब्दशक्तिविशेषः। स च व्यक्तिविशेषा-धुनिकसङ्केतितशब्देषु नास्त्येव । सञ्ज्ञात्वञ्च तत्रापि सम्प्रतिपन्नम्‌ । तस्मात्‌ सञ्ज्ञात्वन्नाम सङ्केतशब्दत्वमेव । तच्च वैदिकशब्देषु अनादीश्चरतात्पर्यरूपम्‌, लौकिकेषु तत्तत्पुरुषतात्पर्यरूपमिति कैवलयौगिकस्याप्युद्भिच्छब्दस्य ज्योतिष्टोमादौ प्रवृत्तिनिमित्तातिप्रसङ्गेऽपि सञ्ज्ञित्वस्यानतिप्रसङ्गात्‌ नानुपपत्तिः |

किञ्चोद्भिच्छब्दस्य रुढिकल्पनम्‌ तदधिकरणसिद्धान्तविपरीतम्‌। अतिरिक्तरूढिकल्पनापेक्षया मत्वर्थलक्षणाया एव ज्यायस्त्वेन उद्भिच्छब्दस्य गुणपरत्वापातात्‌। यदि मुख्यविधित्वलाभाद्रूढि-कल्पनमर्थवदित्युच्येत, तर्हि सोमेन यजेत, दध्ना जुहोति, दध्नेद्रिय-कामस्य जुहूयादित्यादावपि रूढिकल्पनेन सोमादिपदानाम्‌ यागनामत्वप्रसङ्गो दुर्वारः । तत्र यागनामत्वमक्लृप्तमिति चेदत्रापि रूढिकल्पनामन्तरा यागनामत्वमप्यक्लृप्तमेवेति त्वयैवोक्तम्‌।

न च सोमादिपदानाम्‌ द्रव्यविशेषेषु प्रसिद्धतया तदर्थपरतयैव यथा-कथञ्चिदुपपत्तौ सम्भवत्याम्‌ तत्परित्यागेन यागे वृत्त्यन्तरकल्पनाया अनुचितत्वेन युक्तम्‌ तत्र तेषाम्‌ गुणपरत्वेमेवेति वाच्यम्‌। तथासति उद्भिच्छब्दस्यापि भिदिर्विदारण इति श्रुतेः, उद्भिदेव वलम्‌ व्यध्या- वयदित्यार्थवादिकान्वाख्यानाच्च ऊर्ध्वविदारणसमर्थखनित्रादावेव खरसतो वर्तमानत्वेन तत्परत्वमपहाय फलोद्भेदनकारित्वरूपनिमित्तान्त-राश्रयणस्य रूढ्यन्तरकल्पनस्य चात्यन्तमनुपपन्नतया गुणपरत्वस्यै- वाश्रयणीयत्वापातात्‌। तस्मादुद्भित्पदरूढिकल्पनस्योद्भिदधिकरणसिद्धान्त-

विरुद्धत्वादुद्भिच्छब्दो यौगिक एवेति ब्रह्मशब्दस्य तत्साम्यात्‌ भावनादिकम्‌ विफलमेव।

यच्चोक्तम्‌, प्रयोगातिप्रसङ्गवारणस्यान्यतः सिद्धौ योगरूढिमात्रविलय-प्रसङ्ग इति, तदप्यनुपपन्नम्‌। अतिप्रसङ्गवारणार्थमेव वृत्त्युपगमनियमे योगरूढशब्दानाम्‌ योगवृत्तिसामान्यविलयप्रसङ्गात्‌, रूढ्यैवातिप्रसङ्ग-वारणात्‌। अनुभवबलात्‌ तत्र तदङ्गीकार इति चेत्‌, पङ्कजादिपदैः पद्मत्वाद्यवच्छिन्नबोधादेव रूढिरभ्युपगमनीयेति पश्यतु भवान्‌॥

अथ यच्च योगरूढिमात्रविलयाभ्युपगमे रथकाराधिकरणविरोध-प्रसञ्जनम्‌, तदप्यविचारितरमणीयम्‌। तदधिकरणे रथकारशब्दस्य त्रैवर्गिकविषये केवलक योगमात्रावलम्बनेन पूर्वपक्षम्‌ कृत्वा जात्यन्तर-प्रसिद्ररूढिमात्रावलम्बनेनैव सिद्धान्तात्तस्य रथकारशब्दयोगरूढत्वोप-जीवकत्वाभावात्‌, यौगिकरूढितामात्रेणैव तदधिकरणपूर्वपक्षसिद्धान्तयोः सामञ्जस्यात्‌॥

अथ यच्चाप्युक्तम्‌ ब्रह्मशब्दस्यौणादिकप्रत्ययान्तत्वाद्रूढिरावश्यकीति,

तदप्यनुपपन्नम्‌ । तस्य बाहुलकत्वात्‌, सिद्वेऽपि सञ्ज्ञात्वे तस्य रूढत्वादतिरिक्ततायाः प्रागेवोक्तत्वेन रूढ्यसिद्वेश्च । अत एव हि शब्द-शास्त्रज्ञैः,

वेदस्तत्त्वम्‌ तपो ब्रह्य ब्रह्मा विप्रः प्रजापतिः।

इत्येतेषाम्‌ सर्वेषामपि सञ्ज्ञात्वेन त्वदभिमतशब्दार्थतयोदाहरणम्‌ युज्यते। न ह्येतेषु ब्रह्मशब्दस्य रुढिस्सिद्धान्तसम्मता। एतानायनेषु चोदनान्तरमित्याद्यधिक रणोदाहरणमपि प्रत्युक्तम्‌। तदधिकरणस्य सञ्ज्ञात्वरूढत्वयोरभेदपरत्वाभावाच्च॥

अथ यच्चोक्तम्‌, ब्रह्म परिवृढम्‌ सर्वत इति यास्कवचनबलात्‌ ब्रह्मशब्दस्य

सर्वोत्कृष्टत्वावच्छिन्ने रुढिसिद्विरिति, तदप्यतिमन्दम्‌। कालेयवामदेव्यादिशब्दनिष्पादकस्य कलेर्ढक्, वामदेवाङ्ङ्यङ्यावित्यादि- व्याकरणस्येव यास्कवचनस्यापि बृहति बृम्हयतीत्यादिश्रुतिविरोधेना-प्रामाण्यप्रसङ्गात्‌। वेदस्वारस्यानुगुण्येनैवोन्येषाम्‌ नेयतया यास्कवचनगतपरिवृढशब्दस्यापि बृहति बृम्हयतीत्यादिश्रुत्यनुसारेण परिबृहदर्थकत्वाश्रयणेनावयवार्थ-निर्वचनपरत्वे सम्भवति, तदपहाय काश- कुशावलम्बनेन तस्य वचनस्य रूढिनिमित्तग्राहकत्वमाश्रित्य वेदविरोधन-

सम्पादनस्यातिहेयत्वाच्च। किञ्च ब्रह्म परिवृढम्‌ सर्वत इत्यस्य ब्रह्मशब्दश्रुत्या, ब्रह्मपरिवृढम्‌ सर्वत इति वाक्याच्च ब्रह्म-स्वरूपप्रतिपादनपरत्वेऽवगते सति, तदपेक्षया दुर्बलेन प्रकरणादिना तस्य शब्दविशेषनिर्वचनपरत्वसाधनस्यानुपपन्नतया यास्कवचनस्य निर्वचना-त्मकत्वासिद्धेश्च॥

अथ यदपि, बृहिधात्वर्थानवधिकत्वस्यार्थापत्त्येकलभ्यत्वोत्प्रेक्षणम्‌, तदपि मुख्यस्य निर्विशेषणेत्यादिना तस्य शाब्दतायाः पूर्वमेव प्रतिपादितत्वादयुक्तम्‌ ॥

अथ यदप्युक्तम्‌, यास्कवचनानुरोधेन बृहतिबृम्हयतीत्याद्युक्तबृहत्व-

बृम्हणत्वादीनामुत्कर्षत्वरूपैकधर्मपुरस्कारेणैव ब्रह्मशब्दप्रवृत्तिनिमित्तत्व-मिति, तदप्यत्यन्तमसङ्गतम्‌। विकल्पासहत्वात्‌। किन्तेषाम्‌ तेन रूपेण रूढिनिमित्तत्वम्‌ विवक्षितम्‌, योगनिमित्तत्वम्‌ वा। नाद्यः बृहति बृम्हयतीत्यादिश्रुतेर्योगार्थनिर्वचनपरत्वेन तदयोगात्‌, रूढिग्राहक-प्रमाणान्तराभावाच्च । नापि द्वितीयः, बृहिधातुना कस्यचिदुत्कर्षत्वेनान- भिधानात्‌। न हि बृहद्धटमानयेत्युक्ते रत्नघट आनीयते । अस्मिन्वने बृहन्तम्‌ वृक्षम्‌ ब्रूहि इत्युक्ते न हि चन्दनवृक्षम्‌ ब्रूते। न ह्यणुषु बृहन्तम्‌

वदेत्युक्ते, परमाणु वदति। तस्मात्‌ बृहत्त्वेन महत्परिमाणमेव बृहिधातुनोच्यत इति बृहृत्त्वेन परिमाणविशेष एव ब्रह्मशब्दयोगनिमित्तम्‌ वक्तव्यम्‌ नान्यरूपेणेति बृहत्त्वादीनामुत्कर्षत्वेन ब्रह्मशब्दप्रवृत्तिनिमित्त- तोक्तिरत्यन्तमसङ्गतैव ॥

किञ्च यथाश्रुत्यवगमस्यैवादृष्टविशेषाधायकत्वेन बृहत्त्वबृम्हणत्व-दीनाम्‌ तत्तद्रूपेणैव ब्रह्मशब्दबोध्यतायाः श्रुतिस्मृतिबलात्‌ सिद्धौ, तदतिक्रमेण स्वयुक्त्यैव ब्रह्मशब्दार्थनिर्णये तस्य फलपर्यवसानायोगाच्च, न बृम्हणत्वादीनामेकरूपेणैव निमित्तत्वसिद्धिः ॥

अथ यदपि, यत्त्वित्यादिना साम्प्रदायिकग्रन्थमुपादाय तत्खण्डनम्‌, तदप्यत्यन्तहेयम्‌। तस्य ग्रन्थस्य बृहत्त्वम्‌ च स्वरूपेण गुणैश्च यत्रानवधिकातिशयम्‌ सोऽस्य मुख्यार्थ इति भाष्यादिमूलकत्वात्‌। तत्र भाष्ये हि परममहत्परिमाणरूपानवधिकातिशयबृहत्त्वस्य स्वरूपेणे-त्याश्रयतासम्बन्धेन, गुणैरिति गुणघटितस्वाश्रयाश्रयत्व-रूपपरम्परासम्बन्धेन, गुणैश्चेति चकारात्‌ स्वजनकसङकल्पवत्तारूपकार्य-

घटितपरम्परासम्बन्धेन च ब्रह्मशब्दनिमित्तताया उक्तत्वात्‌। न चैवम्‌ भाष्यवाक्यात्‌ स्वाश्रयत्वस्वाश्रयाश्रयत्वस्वजनकसङ्कल्पवत्त्वैतत्त्रि- तयसम्बन्धेन परममहत्परिमाणस्य निमित्तत्वलाभेऽपि, स्वावच्छिन्ना-श्रयत्वादिसम्बन्धेन परममहत्परिमाणत्ववत्त्वस्य प्रवृत्तिनिमित्तत्वालाभात्‌ तदप्रामाणिकमिति वाच्यम्‌। व्यक्तिभेदेन परिमाणभेदादनन्त-परिमाणव्यक्तीनाम्‌ प्रवृत्तिनिमित्तत्वे गौरवात्‌, सर्वत्र बृहिधातुना बृहत्त्वरूपैकधर्मावच्छिन्नस्यैव बोधाच्च स्वावच्छिन्नाश्रयत्वादि-सम्बन्धत्रयेण निरतिशयबृहत्त्वस्यैव ब्रह्मशब्दप्रवृ्तिनिमित्ततया भाष्य- विवक्षितत्वे लाघवमिति तत्सहकृताद्भाष्यवाक्यादेव तस्सिद्धेः। अनुगृहीतम्‌ चेदमपि तद्ग्रन्थ एव – यद्यप्युदाहृतभाष्यात्‌ स्वाश्रयत्वस्वाश्रया-श्रयत्वादिसम्बन्धत्रयेण परममहत्परिमाणवत्त्वमेव प्रवृत्तिनिमित्तम्‌ प्रतीयते, न तूक्तसम्बन्धत्रयेण परममहत्परिमाणवत्त्वम्‌। तथापि स्वाश्रयाश्रयत्वादिसम्बन्धत्रयेण कस्यापि परिमाणस्य ब्रह्मण्यभावेन यथाश्रुतार्थे बाधात्‌, उक्तसम्बन्धत्रयेण परम महत्परिमाणत्वरूपपरिमाण-त्वव्याप्यधर्मवत्त्वरूपपूर्वोक्तार्थ एव तात्पर्यमवसीयत इति न दोष इति । तस्मात्‌ स्वावच्छिन्नाश्रयत्वस्वावच्छिन्नाश्रयाश्रयत्वस्वावच्छिन्नजनक- सङ्कल्पवत्त्वेतत्त्रितयसम्बन्धेन परममहत्परिमाणत्ववत्त्वरूपम्‌ बृहत्वमेव ब्रह्मशब्दप्रवृत्तिनिमित्तमिति साम्प्रदायिकग्रन्थोक्तिः प्रामाणिकैवेति तदप्रामाणिकत्वोक्तिरत्यन्तहेयैव |

अथ यच्चोक्तमत्र यास्कवचनविरोध इति, तदप्यतिमन्दम्‌। न हि यास्कवचने ब्रह्मशब्दस्य वा, तच्छक्तिविरोषस्य वा, तच्छक्तिसामान्यस्य वा, शक्यतावच्छेदकताया वा वाचकम्‌ शब्दशकलमुपलम्भते येन तद्विरोधम्‌ मनुषे । यदि ब्रह्म परिवृढमित्येतावन्मात्रेण परिवृढत्वस्य शक्यतावच्छेदकत्वसिद्धिः स्यात्‌, तर्हि सत्यम्‌ ज्ञानमनन्तम्‌ ब्रह्म, तद्विजिज्ञासस्व सर्व खल्विदम्‌ ब्रह्येत्यादिभिस्सर्वेषाम्‌ ब्रह्मशब्द-शक्यतावच्छेदकत्वसिद्धिः स्यात्‌॥

किञ्च बृहति बृम्हयति तस्मादुच्यते परम्‌ ब्रह्म, बृहन्तो ह्यस्मिन्‌ गुणा इति श्रुत्यैव परममहत्परिमाणस्य साक्षात्परम्परया च प्रवृत्तिनिमित्तताया उक्ततया तद्विरोधेनोत्कर्षस्य निमित्तताग्राहकयास्कवचनस्यैव त्याज्य-त्वाच्च ॥

अथ यच्च, परममहत्परिमाणस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वे प्रमाणानुप-

लम्भवचनम्‌, तत्सर्वात्मनान्धस्यैव युक्तम्‌। न हि पाचकशब्दस्य पचनक्रियानिमित्तकत्वे प्रमाणम्‌ वक्तव्यम्‌। धातोरेव प्रमाणत्वात्‌ निरुपपदो बृहिधातुरसङ्कुचितपरिमाणे वर्तते इति हि पूर्वमेवोक्तम्‌। ब्रह्मशब्दार्थश्रुतप्रकाशिकायाम्‌  स्वरूपतो बृहत्त्वस्य विभुत्वरूपतायास्तेनाणु-स्वरूपभूतनित्यसिद्धव्यावृत्तेश्चानुगृहीतत्वात्‌, बृम्हणत्वान्तर्गतबृहत्त्वस्य स चानन्त्याय कल्पत इत्युक्तधर्मभूतज्ञानविभुत्वरूपताया अनुगृहीतत्वाच्च, बृहिधात्वर्थस्य परममहत्परिमाणात्मकत्वसिद्धेश्च | बृहिधातोरुत्कर्षवृत्तित्वञ्च लोष्टापेक्षया काष्ठम्‌ बृहदित्यनुत्कृष्टेष्वपि बृहच्छब्दप्रयोगात्‌, अणुषु परमाणुर्न द्व्यणुकादबृहन्नित्युत्कृष्टेऽपि बृहद्भेदव्यवहाराच्चासमञ्जसम्‌। अयम्‌ बृहन्नित्युक्तेऽपि, तदनन्तर-मुत्कृष्टजातीयो न वेति सन्देहोदयाच्च न हि धातोरुत्कर्षवाचिता ॥

अथ यच्चोक्तम्‌, परिमाणस्य बृहिधात्वर्थत्वे तस्य ब्रह्मशब्दप्रयोगविष-

येष्वद्रव्येष्वसम्भवात्‌ भाष्यविरोध इति, तदप्यनुपपन्नम्‌। न हि भाष्ये, सर्वत्रसाक्षात्‌ बृहत्त्वगुणयोगेन हि ब्रह्मशब्द इत्युक्तम्‌, किन्तु बृहत्त्वगुणयोगेनेति । एतत्साक्षात्परम्परासाधारणम्‌। तथा चानुपूर्वी-नित्यतामादाय वेदानाम्‌ परम्परासम्बन्धेन नित्यत्वोपपादनवत्‌, अभिमानिगतद्रव्यत्वमादाय, यस्य वेदाश्शरीरमिति उक्तशरीरत्वोपपाद- नवच्च प्रतिपाद्यभूतभगवद्गतमहत्त्वादिकमादाय परम्परया बृहत्त्वयोग- स्यापि प्रतिपादयितुम्‌ शक्यत्वात्‌ चेतनज्ञानवर्धकत्वलक्षण-बृम्हणत्वलेशयोगमादाय तदुपपादनसम्भवाच्च ॥

अथ यदपि, यत्तु बृहत्त्वगुणयोगेनेत्यस्य बृहत्वसमानाधिकरणगुण-

जातीयपुरुषार्थप्रयोजकत्वादिरूपेण योगेनेत्यर्थकरणमिति साम्प्रदात्य-

यिकग्रन्थमुपादाय तद्दूषणम्‌, तदपि तदर्थाज्ञाननिबन्धनम्‌। तत्र हि गुणशब्दो योगनिमित्तान्तर्गतधर्मपरः। तथा च बृहत्त्वसमानाधिकरणा ये गुणा बृम्हणत्वबृहद्गुणकत्वादयः, तत्सजातीयपुरुषार्थप्रयोजकत्वादि-लक्षणबृम्हणहत्वादिरूपनिमित्तान्तर्गतधर्मलेशयोगेनेति हि तदर्थः। न च यथाश्रुते बाधकविरहादेतादृशार्थकरणमयुक्तमिति वाच्यम्‌ । ब्रह्मशब्द-योगनिमित्तस्य परमपुरुषमात्रनिष्ठत्वेन परमपुरषनिष्ठगुणलेशयोग-स्यान्यत्रासम्भवात्‌, अन्यनिष्ठगुणलेशानाम्‌ ब्रह्मरब्दनिमित्तान्तर्भावा- सम्भवाच्च, सर्वत्र ब्रह्मरब्दनिमित्तलेशयोगस्यासम्भवात्‌ तन्निमित्त-लेशसजातीयगुणलेशयोगस्यैव तदर्थत्वेनावश्यमाश्रयणीयत्वत्वात्‌। तर्हि ब्रह्मत्वसजातीय गुणयोगेनेत्येवार्थो वर्ण्यताम्‌। किमर्थम्‌ समानाधिकरण-गुणग्रहणमिति चेत्‌, बृम्हणत्वादि सजातीयपुरुषार्थप्रयोजकत्वादियोगेन लाक्षणिकप्रयोगानाम्‌ सङ्ग्रहार्थम्‌ समानाधिकरण गुणजातीयेत्यवश्यम्‌ वक्तव्यत्वात्‌। तथोक्तौ हि बृहत्वसमानाधिकरणा ये गुणा योग-निमित्तान्तर्गतधर्माबृहत्त्वबृम्हणत्वबृहद्गुणकत्वरूपास्तत्सजातीयबृहत्त्व-बृम्हणत्वबृहद्गुणकत्वरूपतत्तत्सम्भावितगुणयोगेनेति भाष्यार्थलाभात्‌ सर्वलाक्षणिकप्रयोगोपपादनम्‌ सङ्गृहीतम्‌ स्यात्‌। तस्मात्‌ बृहत्त्व-गुणयोगेत्यस्य बृहृत्त्वसमानाधिकरणगुणजातीयपुरुषार्थप्रयोजकत्वादि- रूपगुणयोगेनेत्यर्थकरणस्यात्यन्तोपपन्नत्वेन तद्दूषणम्‌ तदर्थार्ज्ञान-निबन्धनमेव ॥

अथ यच्च, बृहत्त्वगुणयोगेन, बृहत्त्वम्‌ च स्वरूपेण गुणैश्च इत्यादिभाष्ये

बृहत्त्व शब्दस्योत्कर्षैकपरत्वनिर्वहणम्‌, तदपि बृहिधातोरुत्कर्षार्थ-कत्वासम्भवादेव परास्तम्‌ । स्वेच्छयैव स्वारसिकार्थत्यागायोगात्‌, स्वरूपबृहत्त्वस्य विभुत्वपरतायास्तेनाणुस्वरूप नित्यसिद्धव्यावृत्तेश्च श्रुतप्रकाशिकायामनुगृहीतत्वेन तद्विरोधातच्च ॥

अथ यच्च, बृहत्त्वस्य परिमाणत्वरूपपक्षे जगज्जन्ममात्रकारणस्य

निरतिशयबृहत्त्वा सम्भवोपपादकजन्माद्यधिकरणश्रुतप्रकाशिकासूक्तिविरो-धोद्भावनम्‌, तदप्यसङ्गतम्‌। परम महत्परिमाणस्य स्वाश्रयत्वादिसम्बन्धत्रयेणैव निमित्तत्वेन तस्यात्यन्तिकलयपर्यन्त सम्हारकर्तृत्वासङ्कुचितभगवदनुप्राय पणपर्यन्तरक्षाकर्तृत्वयोरभावे त्रितयसम्बन्धेन परम महत्परिमाणाश्रयत्वस्यैव दुर्लभतया स्थितिसम्हारकर्तृत्वाभाववस्वाश्रयत्वादिसम्बन्धत्रयेण परममहत्परिमाण-वैशिष्ट्यलक्षणनिरतिशयबृहत्त्वासम्भवशङ्काया उपपन्नत्वेन विरोधा-भावात्‌। न हि साक्षादाश्रयत्वमात्रेण परममहत्परिमाणवत्त्वमेव निरतिशयबृहत्त्वम्‌ निमित्तमिति वदामः, येन स्थित्यादिकारणत्वाभावेऽपि निरतिशयबृहत्त्वस्यानुपपत्तिविरहम्‌ ब्रूषे। प्रत्युत सर्वोत्कृष्टत्वस्य ब्रह्मशब्दप्रवृत्तिनिमित्तनिरतिशयबृहत्त्वरूपतापक्ष एव स्थित्यादिकारणत्वा-भाववतो निरतिशयबृहत्त्वानुपपनत्तिप्रतिपादनम्‌ दुश्शकम्‌॥ पराधिकरण पुर्वपक्षन्यायेन स्थित्यादिकारणत्वाभाववतोऽपि परमप्राप्यतया सर्वोत्कृ-ष्टत्वसम्भवेन तदनुपपत्त्यभावात्‌। दृश्यते हि लोके समस्त-राज्यव्यापारधूर्वहेष्वमात्यादिषु बहुषु सत्सु निर्व्यापारस्यैव सार्वभौमस्य सर्वोत्कृष्टत्वम्‌। अतः परिमाणरूपमेव बृहत्त्वम्‌ ब्रह्मशब्द प्रवृत्तिनिमित्तम्‌॥

अथ यच्च, ब्रह्मशब्दयोगनिमित्ततावच्छेदकपूर्वोक्तसम्बन्धत्रये, चरमे सङ्कल्पनिवेशे ब्रह्मशब्दार्थस्याचिज्जातीयत्वशङ्कार्हताज्ञापक-जन्माद्यधिकरणश्रुतप्रकाशिकाविरोधोद्भावनम्‌, तदप्यनुपपन्नम्‌। ईक्षत्यधिकरणपूर्वपक्षन्यायेन तच्छङ्कासम्भवात्‌। तत्र हि तदैक्षते- तीक्षणश्रवणेऽपि तत्प्रकरणस्याचेतनपरत्वम्‌ हि शङ्कितम्‌। युक्तम्‌ तत्र गौणेक्षणवत्त्व सम्भावनया पूर्वपक्षोत्थानमिति चेत्‌, अत्रापि गौणसङ्कल्पवत्त्वसम्भावनयैव तत्सम्भवात्‌ । किञ्चात्र सङ्कल्पस्य सम्बन्धविधयैव निविष्टत्वेन तस्य तत्राचिच्छङ्काविरोधित्वाभावाच्च। न हि सम्योगेन किञ्चिद्विशिष्टो घट इति ज्ञानम्‌, घटो न द्रव्यमिति ज्ञानम्‌ प्रतिबध्नाति। तद्वदेवात्रापि सम्योगस्य द्रव्यधर्मत्ववत्सङ्कल्पस्य चेतनधर्मत्वेऽपि तस्य सम्सर्गविधयैव ब्रह्मशव्दार्थबोधे भानात्‌, चेतनत्वेनाभानाच्च न तथाविधतद्विषयताशालिब्रह्मशब्दार्थनिर्णय-

स्याचिज्जातीयत्व शङ्काप्रतीकत्वसम्भव इति नानुपपत्तिः ।

एतेन सद्ब्रह्मशब्दयोरीक्षणान्वयलिङ्गात्‌ अचिद्व्यावृत्तवस्तुपरत्वेऽपि, तयोः शब्दयोः साधारणतया शब्दसामर्थ्यादचिद्व्यावृत्तिनिश्चयस्तत्र नास्तीति शब्दशक्त्यैव विशेषज्ञापनार्थमात्मा वा इति वाक्योपादानमिति समन्वयाधिकरणश्रुतप्रकाशिकासूक्तिविरोधशङ्कापि निरस्ता। अचेतनस्य सद्ब्रह्मशब्द-वाच्यकारणत्वशङ्कायाम्‌ कारणवाक्येषु श्रूयमाणसङ्कल्पस्य गौणत्वेनैव नेयतया, तस्य ब्रह्मशब्दार्थान्तरभावेऽपि तत्राचेतनत्वशङ्कोपमर्दकत्वा- योगात्‌। न ह्यचेतनत्वाभावरूप-चेतनत्वावच्छिन्नरूढेनात्मशब्देनात्मत्वमिव ब्रह्मशब्देनाचेतन-व्यावृत्तित्वाकारेण सङ्कल्पो बोध्यते। येनात्मशब्दस्येव ब्रह्मशब्दस्यापि अचेतनव्यतिरेकाम्शे श्रुतित्वम्‌ शङ्क्येतापि।

प्रत्युत ब्रह्मशब्दस्य सर्वोत्कर्षावच्छिन्नरूढत्वपक्ष एव तदर्थत्वेन

निर्णीतस्या चित्त्वशङ्कासम्भवज्ञापकश्रुतिप्रकाशादिविरोधो दुरुद्धरः।

अचेतनस्य समस्तहेयाकारत्वेन प्रत्यक्षविषयतया अचेतनम्‌ न सर्वो-त्कृष्टमिति प्रबलप्रमाणाधीननिश्चयसत्त्वेन, ब्रह्मशब्दात्‌ सर्वात्कृष्टत्वेन निश्चितस्य तदर्थस्य, सर्वापकृष्टत्वेन निर्णीताचेतनाभेदशङ्काया-स्तिमिरे तेजस्त्वशङ्काया इवानुपपन्नत्वात्‌।

किञ्च॒ परमतस्सेतून्मान इत्यधिकरणे परब्रह्मशब्दमुख्यार्थत्वेन

निर्णीतार्थपेक्षया प्राप्यत्वेनोत्कृष्टम्‌ किञ्चिदस्तीति पूर्वपक्षम्‌ कृत्वा तन्निरासात्‌ तदधिकरणमपि विरुद्धमापद्येत। ब्रह्मशब्दस्य सर्वोत्कर्ष-त्वावच्छिन्नरूढत्वे तस्य निस्समाभ्यधिकशब्दपर्यायत्वेन निस्समा-भ्यधिकात्परमपि तत्त्वमस्तीति पूर्वपक्षस्य बाधितत्वात्‌। न च पूर्वपक्षिणो व्योमातीतस्यैव ब्रह्मशब्दार्थत्वम्‌ विवक्षितमिति वाच्यम्‌। तदधिकरण-पूर्वपक्षे पुरुषतत्त्वस्य परमकारणत्व परब्रह्मशब्दवाच्यत्वयोः सिद्धवत्कारेणामृतस्यैष सेतुरिति परब्रह्मणोऽसाधारणश्शब्द॒ इति भाष्यकारानुगृहीतरीत्या ब्रह्मशब्दार्थासाधारणतया श्रुतैर्मोक्षकारणत्व सेतुत्वादितहेतुभिः पुरुषतत्त्वस्यावरत्वसाधनानुपपत्तेः। न हि पुरुषतत्त्वस्य ब्रह्मशब्द वाच्यत्वसिद्धिमन्तरा सर्वलोकासङ्करकरत्वमोक्षकारणत्वादि-लक्षणसेतुत्वादिकम्‌ सिद्ध्येत्‌। तत्सर्वम्‌ तत्रासिद्धमेवेति चेत्‌ पूर्वपक्षे तेषाम्‌ हेतुतयोपादानमसमञ्जसम्‌।

अपि च अपराधिकरणस्य प्रथमाध्याय एव सङ्गतिस्स्यात्‌। पुरुष- तत्त्वस्य ब्रह्मशब्द मुख्यार्थतास्थापनमन्तरेण ब्रह्मलक्षणभूतकारणत्वस्य

पुरुषसूक्तादिप्रतिपाद्ये भगवति समन्वयासम्भवात्‌। न च वक्ष्यमाण-प्रतिसन्धानेन तत्र तत्समन्वयः। अवश्यवक्तव्यार्थस्यान्यत्राभिधाना-योगात्‌। अपि च यदि व्योमातीतस्यैव ब्रह्मशब्द मुख्यार्थत्वं पराधिकरण पूर्वपक्षिणोभिमतमित्युच्येत, तर्हि तत्र श्रुतहानाश्रुतकल्पने प्रसज्येयाताम्‌। न हि ततो यदुत्तरमित्यत्र वान्यत्र वा ब्रह्मशब्दः श्रूयते, किन्तु नारायणानुवाकनिर्धारितपुरुषोत्तमविषयककारण वाक्येष्वेव ब्रह्मशब्दः श्रुतः। तस्मात्‌ पुरुषसूक्ताद्येकार्थकारण वाक्येष्वेव श्रुतानाम्‌ ब्रह्मशब्दानाम्‌ पुरुषपरत्वमेवेति पूर्वपक्षिणोऽप्यभिमतमिति वक्तव्यम्‌। नो चेत्‌ कथम्‌ सम्बन्धव्यपदेशादिति पुरुषतत्त्वस्य मोक्षकारणतामभ्युपगम्य हेतुतया व्यपदिशेत्‌। तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्य इति ब्रह्मशब्द-मुख्यार्थभूतस्यैव हि मोक्षकारणत्वमनुगृहीतम्‌॥

ननु निरतिशयबृहत्त्वरूपपरिमाणविशेषस्य ब्रह्मपदप्रवृत्तिनिमित्तताम्‌

वदताम्‌ भवताम्‌ मतेऽपि, पराधिकरणपूर्वपक्षे ब्रह्मपदमुख्यार्थतया निर्णीतस्य उन्मानव्यपदेशोक्तिर्विरुध्यत इति चेत्‌, भ्रान्तोऽसि। न हि तत्र देशपरिच्छेदलक्षणमुन्मानम्‌ व्यपदिश्यते। किन्तु दशवर्णस्वर्णा-दष्टवर्णस्यैव वस्तुपरिच्छेदलक्षणमेव । अतो नानुपपत्तिः ॥

किञ्च भवतामप्ययं दोषस्समानः। सर्वोत्कृष्टस्य उन्मानायोगात्‌। अप-

कर्षविशेष एव हि परिच्छेदो नाम । किन्त्वयमेव विशेषः, परिमाणविशेषस्य ब्रह्मशब्दनिमित्ततामङ्गीकुर्वताम्‌ सिद्धान्ते तस्योन्मानस्य वस्तुपरिच्छेदात्मकत्वम्‌ वक्तुम्‌ शक्यम्‌, वस्त्वपरि-च्छेदस्य ब्रह्मशब्द निमित्तान्तर्भावविरहात्‌। सर्वोत्कृष्टत्वस्य निमित्तत्वम्‌ वदताम्‌ मते तु वस्त्वपरिच्छेद लक्षणसर्वोत्कर्षस्यापि ब्रह्मशब्दार्थान्तप-

र्भावात्‌ उन्मानव्यपदेशस्यागतिकत्वमेवेति ॥

अथ यच्चोक्तम्‌, पूर्वोक्तत्रितयसम्बन्धेन परिमाणविशेषस्य प्रवृत्तिनिमि- त्तत्वे लक्ष्यामतिप्रसिक्तिरिति, तदपि मन्दम्‌। तस्याः स्वरूपबृहत्त्वबृम्हण-

त्वयोरभावात्‌। श्रुतप्रकाशिकायाम्‌ भगवतो विभुत्वलक्षण-स्वरूपबृहत्त्वेनैव समस्तनित्यसिद्धव्यावृत्तेरनुगृहीततया, तदन्तर्गतायाः श्रियोऽप्यणुत्व-रूपत्वस्यैवाचार्यसम्मतत्वसिद्धेः। श्रीविष्णुतत्त्वे –

तत्कृतायास्तु मायायास्तत्प्रसादम्‌ विना क्वचित्‌।

नास्ति निर्णेजने हेतुस्सङ्क्षिप्यैतत्प्रभाषितम्‌,

इति वचनात्‌,

देवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेताम्‌ तरन्ति ते॥

इति गीतावचनात्‌, पराभिध्यानात्तु तिरोहितम्‌ ततो ह्यस्य बन्ध-विपर्ययाविति सूत्राच्च भगवत्सङ्कल्पप्रयक्तस्य प्रकृतिबन्धस्य तत्सङ्कल्पेन विना दुर्मोचतायाः प्रदर्शितत्वात्‌, निरङ्कुश-स्वतन्त्रभगवत्कर्तृकनिग्रहरूपाणाम्‌ पापानाम्‌ भगवत्प्रसादेन विना श्रीसङ्कल्पमात्राभिवृत्त्यनुपपत्तेः। यमेवैष वृणुते तेन लभ्यः, तमेव

विदित्वातिमृत्युमेति नान्यः पन्था अयनाय विद्यते,

सम्सारार्णवमग्न्नानाम्‌ विषयाक्रान्तचेतसाम्‌।

विष्णुपोतम्‌ विना नान्यत्किञ्चिदस्ति परायणम्‌ ॥

इत्यादिना भगवद्व्यतिरिक्तमोक्षोपायनिषेधात्‌। श्रियम्‌ प्रपन्नैर्भाष्यकारैरपि तत्फलतया भगवच्चरणारविन्दशरणागतेरेव प्रार्थितत्वात्‌। मोक्षार्थम्‌ लक्ष्मीमात्रसमाश्रयणस्य पूर्वाचार्येषु कैश्चिदप्यनाचरितत्वात्‌, भवेयम्‌ शरणम्‌ हि व इति कृतसङ्कल्पया सीतयापि, पापानाम्‌ वा शुभानाम्‌ वेत्याद्युपदेशतः पुरुषकारमुखेनैव राक्षसी- रक्षणश्रवणात्‌। परमम्‌ पदम्‌ वा कस्यैचिदञ्जलिभरम्‌ वहते वितीर्येत्यादेः प्रधानफलेनाङ्गोपचारन्यायेन पुरुषकारभूतलक्ष्मीघटनीयसिद्धोपाय-फलमादायैष वोपपत्तेश्च, श्रियो बृम्हणत्वस्य दुर्लभत्वाच्च । व्यक्तम्‌ चेदम्‌ तत्त्वदीपतात्पर्यदीपिकाश्रीतत्त्वसुधान्यायमन्दिरादिप्रबन्धेषु ।

तस्मान्न परिमाणविशेषस्य उक्तरीत्या ब्रह्मशब्दप्रवृत्तिनिमित्तत्वे लक्ष्म्या- मति प्रसक्तिः । प्रत्युत सर्वोत्कृष्टत्वस्य प्रवृत्तिनिमित्तत्व एव आचार्यादिह देवताम्‌ समधिकामन्यान्नमन्यामह इति श्रीवेदान्ताचार्यानुगृहीतरीत्या लक्ष्मीविष्वक्सेनादि सर्वपूर्वाचार्येष्वतिप्रसक्तिर्दुर्वारा ॥

अथ यदपि, ब्रह्मशब्दप्रवृत्तिनिमित्तस्य निरतिशयबृहत्त्वस्य सर्वात्कृष्ट-त्वरूपत्वे श्रीमद्भावप्रकाशिकादिग्रन्थसम्वादप्रदर्शनम्‌, तदपि श्रुतप्रकाशिकाविरोधादेवोपेक्षणीयम्‌। तथा च ब्रह्मशब्दार्थभाष्य-व्याख्यानावसरे ननु स्वरूपतो बृहत्त्वमेव निमित्तमस्तु किम्‌ गौरवेणेति चेन्न । ब्रह्मगुणादेरपि स्वरूपेण बृहत्त्वात्‌, ब्रह्मशब्दवाच्यत्वप्रसङ्गात्‌। तर्हि गुणतो बृहत्त्वमेवास्तु निमित्तमिति चेन्न, शब्दशक्तेरसङ्कोचस्य स्वतः प्राप्तत्वादित्यन्वगृह्णन्‌ । अत्र यदि बृहत्त्वम्‌ सर्वोत्कर्षरूपमेवेति विवक्षितम्‌ स्यात्तर्हि स्वरूपतो बृहत्त्वस्य स्वरूपतस्सर्वोत्कृष्टत्वरूपत्वेन तस्य ब्रह्मस्वरूपव्यतिरिक्ते कुत्राप्यसम्भवात्‌ ब्रह्मगुणादावति प्रसक्तोक्तिर्न घटते। गुणास्सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूतम्‌ याता इति कल्याणगुणानामपि स्वरूपसम्बन्धाधीनमाङ्गल्यकत्वोक्तेः।

यदि च गुणादीनामपि भगवदनुभाव्यत्वाकारेण भगवत्स्वरूपा- पेक्षयोत्कर्षोऽस्तीत्युच्येत, तर्हि गुणतो बृहत्त्वनिवेशेऽपि लक्ष्मीप्रभृतिष्वतिव्याप्तिर्दुर्वारा। यदि च सर्वावधिकत्वाविशेषित-मुत्कर्षमात्रमत्र बृहत्त्वशब्दार्थ इत्युच्येत तर्हि स्वरूपतो बृहत्त्वस्य उत्कर्षस्वरूपतारूपस्य घटपटादिषु सर्वत्र सत्त्वेन ब्रह्मगुणमात्रेऽतिप्रसङ्गोक्तिर्न घटते। तादृशगुणतो बृहत्त्वनिवेशेऽपि घटादिष्वतिप्रसङ्गतादवस्थ्यादसामञ्जस्यम्‌। बृहत्त्वम्‌ च स्वरूपेण गुणैश्चेति सद्वारकतया चैकजातीयबृहत्त्वस्यैव निमित्ततया उच्यमानत्वेन गुणतो बृहत्त्वमात्रम्‌ सर्वावधिकत्वविशेषितम्‌, स्वरूपतो बृहत्त्वमपि न तथेत्यपि न युज्यते वक्तुम्‌। तस्मात्‌ ब्रह्मशब्दप्रवृत्तिनिमित्तभूतस्य बृहत्त्वस्य परममहत्परिमाणात्मकत्वम्‌ यावता नाभ्युपगम्यते न तावत्पर्यन्तमेतच्छ्रुतप्रकाशिकावचनसामञ्जस्यम्‌ स्यादिति तस्यो-त्कर्षात्मकत्ववचनमुपेक्षणीयमेव॥

ननु बृहत्त्वस्य परिमाणात्मकत्वपक्षेऽपीयम्‌ श्रुतप्रकाशिकासूक्तिर्न युज्यते। गुणतो बृहत्त्वमात्रस्य निमित्तत्वे नित्यमुक्तेष्वपि प्रसक्तेर्जागरूकत्वेन तद्वारकतया स्वरूपतो बृहत्त्वस्य सार्थक्ये सम्भवति, केवलशब्दशक्त्यसङ्कोचमात्रेण तस्य निमित्तान्तर्भावोक्तेरयोगादिति चेन्न।

यच्च किञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वम्‌ व्याप्यनारायणस्स्थितः इति भगवतः सर्वपदार्थकर्मक-बहिर्व्याप्तिग्राहकप्रमाणबलात्‌ तद्व्याप्यनित्यमुक्तादिधर्मभूतज्ञानानाम्‌ भगवत्स्वरूपापेक्षया परिच्छिन्नत्वस्य सिद्धतया विरोधाभावात्‌। न चैवम्‌ भगवद्गुणानामपि परिच्छिन्नत्वम्‌, भगवद्गुणानाम्‌ तद्व्याप्यतायाः सिद्धान्ते अनङ्गीकारात्‌॥

अथ यच्च, ब्रह्मशब्दस्य विष्णुत्वम्‌ प्रवृत्तिनिमित्तमिति वदताम्‌, श्रियःपतित्वम्‌ तत्प्रवृत्तिनिमित्तमिति वदताम्‌ च निराकरणम्‌, तदपि श्रीसहस्रनामविस्मरणनिबन्धनम्‌ । तथा हि भगवच्छब्दस्य योग-निमित्तातिप्रसङ्गाभावेऽपि केवलशास्त्रबलात्‌ रुढ्युपगमवत्‌ यानि नामानि गौणानि विख्यातानीति वचनबलात्‌ सहस्रनामाध्यायपठितानाम्‌ सर्वेषाम्‌ दिव्यनाम्नाम् रूढिवृत्तावङ्गीकरणीयायाम्, लाघवादेकस्मिन्‌ शक्यतावच्छेदके कल्पनीये, विष्णोर्नाम्नाम् सहस्रस्येति वचनबलात्‌ विष्णुत्वस्य वा, अहन्तया विनाहम् हि निरुपाख्यो न सिध्यतीति लक्ष्म्या भगवत्स्वरूपनिरूपकताग्राहुकवचनबलात्‌ श्रियःपतित्वस्यैव वा तथात्वसिद्धेः, सहस्रनामान्तर्गतस्य ब्रह्मशब्दस्यापि तद्रूढिनिमित्तकतया दुरपह्नवत्वात्‌।

न चैवम् ब्रह्मणि श्रीनिवास इत्यत्र ब्रह्मशब्दश्रीनिवासशब्दयोः छागपशुन्यायविषयताग्राहकश्रुतप्रकाशिकाविरोधः। ब्रह्मशब्दस्य योग-रूढिभ्याम् सर्वभगवदवतार साधारणत्वात्‌, श्रीनिवासशब्दस्य रूढ्या श्रीवेङ्कटेशमात्रविषयत्वाच्च तदुपपत्तेः । प्रत्युत ब्रह्मशब्दस्य सर्वोत्कृष्टत्ववाचित्व एव ब्रह्मणि श्रीनिवास इत्यत्र परस्मिन्नित्यनेन पौनरुक्त्यम्‌ दुर्वारम्‌।

न चैवम्‌ ब्रह्मशब्दस्य भगवत्येव रूढिवृत्तेरप्यङ्गीकारे तस्य चेतनाचेतनसाधारण्यग्राहकश्रुतप्रकाशिकादिविरोधो दुरुद्धर इति वाच्यम्‌। समन्वयाधिकरणश्रुतप्रकाशिकायामेव तत्साधारण्यप्रकारस्यापि विशेषित-त्वात्‌। तदियम्‌ तत्सूक्तिः – ब्रह्मशब्दस्य साधारणत्वन्नाम बहुष्वर्थेषु प्रयुज्यमानत्वम्‌, न तु प्रवृत्तिनिमित्तसाधारण्यम्‌। प्रवृत्तिनिमित्तभूतस्य निरतिशयबृहत्त्वस्य भगवद्व्यतिरिक्तगामित्वसन्देहसहत्वम्‌ वेति। तथा च ब्रह्मशब्दस्य भगवति रूढ्युपगमेऽपि योगनिमित्तभूतस्य निरतिशयबृहत्त्वस्यान्यगामित्वसन्देहविरोधाभावात्‌, लक्षणया बह्वर्थ-विषयप्रयोगप्राचुर्यज्ञाननिबन्धनलाक्षणिकत्वसन्देहोत्थानाच्च तावन्मात्रेण तस्य चेतनाचेतनसाधारण्योक्तिरुपपन्नैव । सर्वोत्कृष्ट-त्वनिमित्तकत्वपक्षेऽपि गत्यन्तराभावादेवमेव तत्साघारण्यमुपपादनीयम्‌ ॥

अयमेव विशेषः – यदचेतनविषये सर्वधाऽनिष्टत्वविषयकप्रत्यक्षेण बाधात्‌ तत्र ब्रह्मशब्दयोगनिमित्तसम्भवशङ्का नोदेतुमलमिति। अत-स्सिद्धम्‌ ब्रह्मशब्दःपरिमाणरूपनिरतिशयबृहत्त्वयोगनिमित्तकः, श्रियः-पतित्वादिरूढिनिमित्तको भगवदसाधारण एवेति ॥

ननु शास्त्रबलात्‌ ब्रह्मशब्दस्य श्रियःपतित्वादिनिमित्तकत्वाङ्गीकारे तेनैवातिप्रसङ्गवारणात्‌ स्वाश्रयत्वादिसम्बन्धत्रयेण परमत्वविशेषित-महत्परिषमाणस्य गुरुभूतस्य योगनिमित्तत्वाङ्गीकरणमन्याय्यम्‌, प्रयोजनाभावादिति चेन्न | अवयवशक्त्यसङ्कोचलब्धस्य योगनिमित्तस्य स्वेच्छया त्यागायोगात्‌। न ह्यस्मदीयलाघवज्ञानात्‌ स्वतस्सिद्धा शब्दशक्तिः सङ्कुचिता स्यात्‌। तथा सति लाघवात्सर्वेषाम्‌ तत्त्वानामेकत्वापत्तेः।`

दर्शितो हि योगवृत्त्यसङ्कोचो भाष्यकारैरेव, बृहत्त्वम्‌ च स्वरूपेण गुणैश्च यत्रानवधिकातिशयम्‌ सोऽस्य मुख्यार्थ इति। अनवधिकातिशयम्‌ बृहत्त्वम्‌ स्वरूपेण गुणैश्च यत्र सोऽस्य मुख्यार्थ इत्यन्वयः। अत्रानवधिकातिशयशब्दो बहूव्रीहिणानवधिकातिशयवत्परो बृहत्त्व विशेषयति। अवधिशब्दः समाभ्यधिकवत्तालक्षणपरिच्छेदपरः । अनवधिकशब्दस्तद्रहिताभ्यधाय्यतिशयम्‌ विशेषयति। अतिशयशब्दश्च महत्परिमाणलक्षण उत्कृष्टधर्मपरः। बृहत्त्वशब्दश्च महत्परिमाणवाची । तथा च निस्समाभ्यधिकमहत्परिमाणत्वलक्षणातिशयवत्‌ यन्महत्परि-माणलक्षणम्‌ बृहत्त्वम्‌, तत्स्वरूपेण गुणैश्च यत्रास्ति, सोऽस्य मुख्यार्थ- श्शब्दार्थ इत्यर्थः। अत्र स्वरूपेणेत्यनेन स्वाश्रयत्वसम्बन्धोऽभिहितः।

गुणैश्चेत्यत्र गुणैरित्यनेन स्वाश्रयाश्रयत्वसम्बन्धो विवक्षितः। चकारात्‌

कार्यघटितपरम्परासम्बन्धस्स्वजनकसङ्कल्पवत्तालक्षणोऽभिप्रेतः। तथा च परममहत्परिमाणवन्महत्त्वम्‌ स्वाश्रयत्वस्वाश्रयाश्रयत्वस्वजनक-सङ्कल्पवत्चैत्त्वैतत्त्रितयसम्बन्धेन यत्रास्ति, स एव ब्रह्मशब्दा-सङ्कुचितयोगवृत्तिप्रतिपाद्य इति भाष्यनिर्गलितोऽर्थः। `

अत्र व्यासार्याः – ननु स्वरूपतो बृहत्त्वमेव निमित्तमस्तु किम्‌ गौरवेणेति चेन्न । ब्रह्मगुणादेरपि स्वरूपेण बृहत्त्वात्‌ ब्रह्मशब्दवाच्यत्वप्रसङ्गात्‌। तर्हि गुणतो बृहत्त्वमेवास्तु निमित्तमिति चेन्न, शब्दशक्तेरसङ्कोचस्य स्वतःप्राप्तत्वादित्यन्वगृह्णन्‌। एतेन ब्रह्मशब्द योगार्थभूतबृहत्त्वासङ्कोचो न शब्दशक्तिलभ्यः, किन्तु केवलार्थपत्तिलभ्य इति वदन्तः परास्ताः । व्यासार्यैस्तस्य शब्दशक्त्येकलभ्यतायाः कण्ठोक्तत्वात्‌। शब्दशक्तयो हि नास्मदीयलाघवतर्कानुयायिन्यः, किन्तु स्वतस्सिद्धा निरङ्कुशा एव । ततश्च ब्रह्मशब्दस्यापि निरुक्तासङ्कुचितार्थ योगवुत्तेर्बृहति बृम्हयति तस्मादुच्यते परम्ब्रह्म, बृहन्तो ह्यस्मिन्‌ गुणाः , बृहत्त्वात्‌ बृम्हण- त्वाच्च, यस्मिन्प्रयुज्यमाने तु गुणयोगस्सुपुष्कलः इत्यादिश्रुत्यादि-सिद्धतया सर्वतोऽपि बृहत्त्वमेव निमित्तमास्थेयमिति हि तद्वाक्यतात्पर्यम्‌॥

यत्त्वत्र स्वाश्रयत्वस्वाश्रयाश्रयत्वोभयघटितसामानाधिकरण्यसम्बन्धेन निरवधिकोत्कर्षविशिष्टस्तादृशोत्कर्ष एवाश्रयतासम्बन्धेन ब्रह्मशब्दप्रवृत्ति- निमित्तमित्यस्मिन्नर्थे श्रुतप्रकाशिकादितात्पर्यवर्णनम्‌, तदयुक्तम्‌। भगवद्दिव्यमहिषीवर्गस्यापि वात्सल्यादिना निरवधिकोत्कृष्टत्वात्‌, स्वरूपतो भगवतोऽपि सदानुभाव्यतया सर्वोत्कृष्टत्वाच्च तत्रातिप्रसक्तेर्दुर्वारत्वात्‌। एवम्‌ कौस्तुभादिदिव्यभूषणादिषु निरतिशयसुखस्पर्शादिमत्त्वात्‌, भगवतोप्यलङ्कारावहत्वेन स्वतस्सर्वो-त्कृष्टत्वाच्चातिप्रसक्तिर्द्रष्टव्या ।

न चैतेषाम्‌ भगवच्छेषत्वेन भगवदपेक्षयापकृष्टत्वान्न दोष इति वाच्यम्‌ । तथासति भगवद्गुणानामपि भगवत्स्वरूपशेषत्वेनासम्भवो दुष्परिहरः । किञ्च भाष्यश्रुतप्रकाशिकागतबृहत्त्वशब्दानामुत्कर्षपरत्वे, उत्कर्षे उत्कर्षान्तरयोगात्‌ अनवधिकातिशयशब्देन बृहत्त्व विशेषणम्‌ विरुध्येत। अनवधिकः निरतिशयः उत्कर्षः, यस्य उत्कर्ष- रूपबृहत्त्वस्य स इति निरतिशयोत्कर्षवदुत्कर्षो ह्यनवधिकातिशय- बृहत्त्वशब्देन प्रतिपाद्यत इति वक्तव्यम्‌। तच्च विरुद्धम्‌। अतिशयलक्षणोत्कर्षस्य अतिशयान्तरायोगात्‌। धातूक्ता वृद्धिरतिशायनमिति हि भवताम्‌ मतम्‌।

यदपि स्वरूपतो बृहत्त्वमेवास्तु निमित्तम्‌ किम्‌ गौरवेणेति शङ्काग्रन्थे

एवकारव्यवच्छेद्यन्तु सर्वावधिकत्वविशेषितम्‌ बृहत्त्वम्‌। न चैवम्‌ सति घटादेरपि किम्‌ तदपेक्षयोत्कर्षसम्भवात्‌ तत्रैवातिप्रसङ्गसम्भवात्‌ ब्रह्मगणादेर्विशिष्याभिधा नमनुचितमिति वाच्यम्‌। घटादावतिप्रसङ्गस्य उत्कर्षे जीवावधिकत्वरूपलघुविशेषणनिवेशमात्रेण वारणसम्भवात्‌, सर्वावधिकत्वरूपगुरुभूतविशेषणनि वेशस्य प्रयोजनसम्पादनाय ब्रह्मगुण-पर्यन्तानुधावनात्‌ इति श्रुतप्रकाशिकाया अपार्थवर्णनम्‌, तदप्यन्तमप-हास्यम्‌। ब्रह्मगुणावधिकत्वरूपलघुविशेषणदानेनैव ब्रह्मगुणादावतिप्रसङ्ग- वारणात्‌, सर्वावधिकत्वरूपगुरुविशेषणदानस्य वैयर्थ्यतादवस्थ्येन तत्तद्ग्रन्थस्य तदभिप्रायकत्वायोगात्‌। तर्हि गुणतो बृहत्त्वमेवास्तु निमित्तमित्युत्तरग्रन्थासङ्गत्यापत्तेश्च |

न ह्युत्कृष्टगुणकत्वलक्षणम्‌ गुणतो बृहत्त्वम्‌ घटादेर्दुर्लभम्‌, येन

तन्निवेशादतिप्रसक्ति परिहारेणोत्तरग्रन्थसाङ्गत्यम्‌ सम्भाव्येत। न च गुणे गुणानङ्गीकारात्‌ ब्रह्मगुणेष्वतिव्याप्तिवारणादुत्तरग्रन्थसङ्गतिः । ज्ञानादिगुणानाम्‌ द्रव्यत्वेन भगवज्ज्ञानादिषु सर्ववस्तुधारण-नियमानादिसामर्थ्यानामत्यन्तोत्कृष्टानाम्‌ गुणानाम्‌ सत्त्वेन, उत्कृष्टगुणकत्वलक्षणगुणतो बृहत्त्वस्य भगवद्गुणेष्वपि सत्त्वात्‌। ज्ञान-गतानाम्‌ शक्तीनाम्‌ कथम्‌ बृहत्त्वमुच्यत इति चेत्‌, भ्रान्तोऽसि। न हि त्वन्मते बृहत्त्वमत्र परिमाणरूपमित्यङ्गीक्रियते, येनैवम्‌ ब्रूषे। किन्तूत्कर्षरूपमेव तत्‌, तच्चाद्रव्यणामप्यस्त्वेव |

तथा च स्वरूपतो बृहत्त्वगुणतो बृहत्त्वयोरुभयोरपि ब्रह्मशब्दनिमित्तत्वा-

ङ्गीकारेऽपि त्वन्मते ब्रह्मज्ञानादावतिप्रसक्तिरनिवार्यैव। अतो गुणतो

बृहत्त्वनिवेशमात्रेणाति प्रसक्तिवारणात्‌, स्वरूपतोबृहत्त्वम्‌ शब्दशक्त्य-सङ्कोचादेव निमित्ततयाङ्गीकरणीयमिति श्रुतप्रकाशिकायामनुगृहीततया तदपि बृहत्त्वस्य परिमाणरूपतामेव साधयति। तथासति हि स्वाश्रयाश्रयत्वसम्बन्धेन परममहत्परिमाणस्य ब्रह्मगुणादिषु असम्भवात्‌ गुणतो बृहत्त्वमात्रेणातिप्रसक्तिपरिहारः सिध्येत्‌। न च जीवधर्मभूतज्ञानस्यापि विभुत्वाज्जीवेऽतिव्याप्तिः । अन्तर्बहिश्च तत्सर्वमिति श्रुतिबलात्‌ जीवज्ञानानामपि भगवत्स्वरूपापेक्षया परिच्छिन्नत्वात्‌  यावत्स्वरूपभगवद्गुणान्वयाच्च भगवत्स्वरूपतद्गुण- व्यतिरिक्तस्य परममहत्परिमाणायोगात्‌।

अथ सर्वाधिकोत्कर्ष एव ब्रह्मशब्दप्रवृत्तिनिमित्तम्‌ निष्कृष्टमित्यभि- मन्यमानैर्यदपि सर्वावधिकत्वस्यानुगमोपपादनम्‌ – स्वेतरसर्वावधिक-त्वञ्चस्वनिरूपितैकमात्रवृत्तिधर्मावच्छिन्नप्रतियोगिताश्रयवृत्तित्वस्व-निष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन भेदविशिष्टत्वम्‌। स्वनिष्ठावच्छेदकता च  स्वसमानाधिकरणभेद-प्रतियोगितावच्छेदकत्व सम्बन्धावच्छिन्ना, स्वाधिकरणत्वमाश्रयतासम्बन्धेन, भेदप्रतियोगि-तावच्छेदकता स्वनिरूपितावधितासम्बन्धावच्छिन्नेत्यादिना, तदप्य-नुपपन्नम्‌।

भेदुशब्देन भगवन्निष्ठतद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदोपादाने, तस्य आश्रयता- सम्बन्धेन सर्वोत्कर्षे वर्तमानतया तत्र स्वनिरूपिता-वधितासम्बन्धेनोत्कर्षस्याभावात्‌ भगवद्व्यतिरिक्तनिष्ठतद्व्यक्ति-त्वावच्छिन्नप्रतियोगिताकभेदोपादाने आश्रयतासम्बन्धेन तद्वति भगवति स्वनिरूपितावधितासम्बन्धेनोत्कर्षाभावाच्चा सम्भवात्‌। तद्वारणाय भेदीयाधिकरणतायाम्‌ स्वाश्रयत्वनिरूपितैकमात्रवृत्तिधर्मावच्छिन्नप्रति-योगिताश्रयवृत्त्युत्कर्षभिन्नत्वो भयसम्बन्धावच्छिन्नत्वविवक्षणे सर्वेषाम्‌ पदार्थानाम्‌ भगवद्विशेषणया भगवदुत्कर्षरूपत्वेनासम्भवोदुरुद्धरः । हेयगुणानाम्‌ भगवदुत्कर्षरूपत्वाभावेऽपि तेषाम्‌ भगवन्निष्ठो-त्कर्षावधित्वायोगात्‌। न हि भगवान्‌ हेयगुणेभ्य उत्कृष्ट इति प्रामाणिकानाम्‌ प्रतीतिव्यवहारौ स्तः।

किञ्च भेदनिरूपितप्रतियोगितावच्छेदकैकमात्रवृत्तिधर्मे भगवन्निष्ठ-तद्व्यक्तित्वादौ निरुक्तसम्बन्धेन भेदसत्त्वात्‌ तत्र स्वनिरूपितावधिता सम्बन्धेनोत्कर्षाभावाच्चासम्भवो द्रष्टव्यः ॥

अथ यच्च भेदविशिष्टैकमात्रवृत्तिधर्मविशिष्टत्वमेव स्वेतरसर्वोत्कृष्टत्वम्‌। वैशिष्ट्यम्‌ स्वप्रतियोगितावच्छेदकत्वस्वनिष्ठावच्छेदकताकप्रतियोगि-ताकभेदवत्त्वोभयसम्बन्धेन। स्वनिष्ठावच्छेदकता स्वसमानाधिकरण

भेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्ना स्वाधिकरणत्वमाश्रयतया।

भेदप्रतियोगितावच्छेदकत्वम्‌ स्वाश्रयवृत्त्युत्कर्षावधित्वसम्बन्धावच्छि-न्नम्‌। तेन ब्रह्मनिष्ठाया एकस्या उत्कर्षव्यक्तेस्सर्वावधिकत्वानुपगमेऽपि न क्षतिरिति सर्वोत्कृष्टत्वस्यानुगमप्रदर्शनम्‌ तदप्यनुपपन्नम्‌ प्रागुक्त-दोषानतिलिङ्घनात्‌ दिव्यमहिषीवर्गगततत्तद्व्यक्तित्वाद्यवच्छिन्न-भेदमादाय दिव्यमहिषीष्वतिप्रसङ्गाच्च। न च तदुत्कर्षव्यक्तेः कस्याश्चिदपि भगवदधिकत्वाभावः शङ्क्यः। महिषीवर्गस्य दयावात्सल्यादिना भगवदपेक्षयाप्युत्कर्षस्य सम्प्रतिपन्नत्वात्‌॥

अथ यच्च, यद्वा एकमात्रवृत्तिधर्मवत्त्वमेव स्वेतरसर्वोत्कृष्टत्वम्‌ वैशिष्ट्यञ्च स्वसमानाधिकरणभेदप्रतियोगितावच्छेदक-सम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वाश्रयत्वोभय- सम्बन्धेन। स्वाधिकरणत्वमाश्रयतासम्बन्धावच्छिन्नस्वनिष्ठावच्छेदक-ताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता स्ववृत्त्यु-त्कर्षावधित्वसम्बन्धावच्छिन्ना। तेन सिद्धात्त्यन्ते भावान्तरस्यैवाभावतया एकस्याभेदव्यक्तेर्ब्रह्मेतरसकलनिष्ठत्वाभावेऽपि न क्षतिरिति, निष्कृष्ट-कल्पानुगमः, सोऽप्यनुपपन्न एव । पूर्वोक्तसर्वदोषानतिलङ्घनात्‌। सिद्धान्ते सर्वेषाम्‌ पदार्थानाम्‌ भगवत्पर्यन्ततयैव वस्तुत्वात्‌। एकत्वे सति नानात्वम्‌ नानात्वे सति चैकतेत्युक्तरीत्या भगवतस्तत्तद्वस्तुस्वरूपेण प्रतिव्यक्तिपरिसमाप्तत्वात्‌। प्रतिव्यक्तिपरिसमाप्तस्य च परिपूर्णत्वात्‌, घटपरिसमासप्तघटावच्छिन्नस्वरूपापेक्षया पटपरिसमाप्तपटावच्छिन्न-स्वरूपस्य भिन्नत्वाच्च, सर्वेषाम्‌ भगवत्स्वरूपगतधर्माणाम्‌ स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टतया तदन्यत्वरूपैकमात्रवृत्तिधर्मत्वायोगेनासम्भवाच्च ।

एतदुक्तम्‌ भवति – य आत्मनि तिष्ठन्नात्मनोन्तरः, अणोरणीयान्महतो महीयान्‌, अणीयाम्‌ समणीयासमित्यादिश्रुतिस्मृतिबलात्‌ भगवत्स्वरूप-स्याणुरूपचेतनस्वरूपाद्यन्तरत्वे प्रतिपादिते सति, श्रुतेस्तु शब्दमूलत्वादिति न्यायेन शास्त्रैकसमधिगम्यस्य भगवत्स्वरूपस्य केवलयुक्ति-गोचरत्वायोगात्‌, भेदाभेदश्रुत्योरिवाणुत्वविभुत्वादिश्रुतेर्घटकश्रुत्यदर्शनात्‌, महतो महीयस्त्वस्येवाणीयसामणीयस्त्वस्याप्यवच्छेदकोपाध्यसम्भव-तौल्यात्‌, तत्सृष्ट्वा तदेवानुप्राविशत्‌, तदनुप्रविश्येत्यत्र श्रीरङ्ग-रामानुजभाष्ये गोगर्भे वत्सस्येव भगवतः प्रतिव्यक्तिसमाप्तेरङ्गीकाराच्च, भगवतस्सर्वशक्त्या निमित्तत्वोपादानत्वयोरिवाणुत्व-विभुत्वयोरप्यङ्गीकारावश्यकत्वात्‌। तथा प्रतिव्यक्तिपरिसमाप्तस्यापि तस्य, नानाव्यक्तिषु परिसमाप्ताया घटत्वादिजातेर्नैयायिकमत इव सिद्धान्तेऽप्यङ्गीकारात्‌, तत्तद्व्यक्तिषु परिसमाप्त्या तत्तद्व्यक्त्यात्मना भिन्नस्यापि भगवतः स्वरूपभेदाभावस्यैकत्वे सति नानात्वम्‌ नानात्वे सति चैकतेति प्रमाणसिद्धत्वाच्च, भगवत्स्वरूपनिष्ठतत्तद्व्यक्तित्वादे-स्सर्वस्यापि घटावच्छिन्नपरिसमाप्तस्वरूपे पटावच्छिन्नपरिसमाप्तस्वरूपे च वर्तमानत्वात्‌, घटावच्छिन्नस्वरूपपटावच्छिरन्नस्वरूपयोः परस्पर-भेदस्यापि सत्त्वाच्च, भगवत्स्वरूपतत्तद्व्यक्तित्वादीनाम्‌ स्वप्रतियोगि-वृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भगवदात्मकघटादिभेदविशिष्ट-त्वेन एकमात्रवृत्तिधर्मशब्देन तेषामुपादानायोगात्‌ असम्भव इति।

यदि भगवतः प्रतिव्यक्तिपरिसमाप्त्यनङ्गीकर्तृमताभिप्रायेणैवेदमुक्तमिति न दोष इत्युच्येत तदापि कार्यकारणयोर्भेदाभेदयोस्सर्वैरङ्गीकृततया तद्भेदमादायासम्भवो दुर्वार एव । कार्यकारणयोर्भेदो हि कार्य-कारणभावोपपादनायावश्यकः। अभेदोऽपि तदनन्यत्वमारम्भणशब्दादिभ्य इत्यादिन्यायेनाङ्गीकार्यः | तथा च कारणभूतसूक्ष्मचिदचिद्विशिष्टब्रह्मणि सत्त्वात्‌ ब्रह्मस्वरूपतद्व्यक्तित्वसत्यत्वज्ञानादीनाम्‌ कार्यकारणोभय-साधारण्याच्च, ब्रह्मस्वरूपतद्व्यक्तित्वादीनाम्‌ स्वप्रतियोगि- वृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन सूक्ष्मचिदचिद्विशिष्टब्रह्मभेद-विशिष्टत्वेनासम्भवो दुर्वार एव । यदि च स्थूल-चिदद्विशिष्टे सूक्ष्मचिदचिद्विशिष्टभेदो नाङ्गीक्रियेत, तर्ह्युभयोः कार्यकारणभावः कथमुपपाद्येत। यदि च विशेषणभेदमात्रात्‌ कार्यकारणभाव उपपाद्येत, तर्हि विशोषणयोरेव कार्यत्वम्‌ कारणत्वम्‌ च स्यात्‌ न विशेष्यस्य ब्रह्मणः । एकस्यैव मृद्द्रव्यस्य पिण्डत्वघटत्वा-द्यवस्थाभेदमात्रेण घटो न मृत्पिण्डः, पिण्डो न घट इति व्यवहारदर्शनेन विशेषणभेदाद्विशिष्टप्रतियोगिकभेदस्यावश्यमङ्गीकरणीयत्वाच्च ।

तर्ह्यसत्कार्यवादात्‌ सिद्धान्तस्य को विशेष इति चेत्‌, मृत्पिण्डादिषु मृत्तिकेत्येव सत्यमित्युक्तकारणभूतमृद्द्रव्याभेदाङ्गीकार एव । न हि पिण्डो न मृदित्यादिप्रयोगः प्रामाणिकानाम्‌ दृश्यते। असत्कार्यवादिनो हि मृदपेक्षया भिन्नमेव पिण्डादिकार्यमिच्छन्ति। तस्मात्‌ सिद्धान्ते कार्यकारणयोरवस्थाद्वयानुयायाकारविशिष्टवेषेणाभेदः, तत्तदवस्थामात्रकाली-नावस्थाविशिष्टवेषेण भेदश्चाभ्युपगलतः। यथा पिण्डत्वकपालत्व-घटत्वाद्यवस्थासाधारणेन पृथिवीत्वमृत्त्वाद्यकारेण पिण्डकपालघटादी- नामभेदः, पिण्डत्वघटत्वादितत्तत्कालमात्रभाव्यवस्थाविशिष्टवेषेण तेषाम्‌ भेद एवेति। तथा च सूक्ष्मचिदचिद्विशिष्टब्रह्मप्रतियोगिकभेदस्य स्थूल- चिदचिद्विशिषटे ब्रह्मणि सत्त्वात्‌ पूर्वोक्तरीत्या असम्भवो दुर्वार एवेति।

किञ्च बृहति बृम्हयति, बृहत्त्वाद्बृम्हणत्वाच्चेति श्रुतिस्मृतिसिद्धम्‌ ब्रह्मपदप्रवृत्तिनिमित्तम्‌ बृम्हणत्वादिकमपहाय कुयुक्तिकल्पितनिरुक्तैक-मात्रवृत्तिधर्मवत्त्वादेस्तत्प्रवृत्तिनिमित्ततास्वीकारे, अथातो ब्रह्मजिज्ञासेत्यत्र कर्मणि षष्ठीग्रहणमपि व्यर्थमेवापद्येत । प्रधानभूतशास्त्रार्थकर्मतायाः आभिधानिकत्वार्थम्‌ हि तत्र तद्ग्रहणम्‌। यदि च प्रकृत्या बृम्हणत्वरूपम्‌ मोक्षसाधनत्वम्‌ नाभिधीयेत, तर्हि ब्रह्मणः शास्त्रप्रघानार्थत्वस्यैवासिध्या तत्कर्मताया आभिधानिकत्वसम्पादनश्रमो व्यर्थ एव । न हि सर्वोत्कृष्टम्‌ शास्त्रप्रधानार्थः, शास्त्रस्य हितपरत्वात्‌। सकलजगद्धितानु-शासनप्रवृत्तिश्रुतिनिकरशिरसि समधिगतोऽयमर्थ इति हि भगवद्भाष्यकारवचनम्‌। तस्मात्‌ ब्रह्मशब्देन शास्त्रप्रधानप्रतिपाद्यताव-च्छेदकहिततमत्वरूपबृम्हणत्वानभिधाने, अथातो ब्रह्मजिज्ञासेत्यत्र प्रघानार्थस्यैवार्थिकत्वापत्त्या सर्वोत्कृष्टत्वमात्रस्य ब्रह्मशब्द-प्रवृत्तिनिमित्तत्वकल्पनमत्यन्तहेयमेव ।

नन्वनन्तस्थिरफलभूतस्य ब्रह्मण एव प्रधानार्थत्वात्‌ तस्य च सर्वोत्कृष्टतारूपत्वान्नानुपपत्तिरिति चेन्न । उत्कृष्टत्वसिद्धिमात्रेण तस्य फलत्वासिद्धेः। न हि महामेरोरुत्कृष्टताश्रवणमात्रेण तस्मात्प्रतिफलत्वमनुभूयते। किन्तूत्कृष्टस्यैसता स्वानुभवयोग्यता ज्ञाने सति तस्य स्वफलत्वम्‌ निश्चीयते। तत्र स्वानुभवयोग्यत्वन्नाम स्वज्ञानगतानुकूल्यावस्थापादकत्वम्‌, स्रक्चन्दनादीनाम्‌ तदनुभवितृज्ञान-

गतानुकूल्यावस्थापादकत्वमेव हि भोग्यता नाम। तथा चानुभाव्यतया

भोगवर्धकत्वलक्षणब्रह्मस्वरूपगतफलत्वस्यापि बृम्हणत्वान्तर्गतत्वेन, ब्रह्मपदेन तदनभिधाने फलत्वमपि नाभिधानलभ्यमिति प्रघानार्थस्यार्थिकत्वमेव स्यात्‌।

तथा च प्रमाणसिद्धप्रवृत्तिनिमित्तानङ्गीकारेण सर्वोत्कृष्टतामात्रस्य निमित्तत्वकल्पने सिद्धोपाय उपेयम्‌ च ब्रह्मेत्युक्तशास्त्रप्रधानार्थस्य अथातो ब्रह्मजिज्ञासेत्यत्राभिधानिकत्वासिद्विप्रसङ्गात्‌, न सर्वोत्कृष्टत्वमात्रस्य प्रवृत्तिनिमित्तत्वमात्रमुपपद्यत इति स्वाश्रयत्वादिसम्बन्धत्रयेण निरतिशयबृहत्त्वमेव यथाप्रमाणम्‌ प्रवृत्तिनिमित्तमास्थेयम्‌। तथासति हि स्वजनकसङ्कल्पवत्तासम्बन्धेन निरतिशयबृहत्त्ववत्ताया मोक्षकारणत्व-रूपत्वात्‌, अपरिच्छिन्नभोगापादकत्वलक्षणोपेयत्वरूपत्वाच्च, द्वयोरपि शास्त्रप्रधानप्रतिपाद्याकारयोराभिधानिकत्वसिद्धेः |

अथातो धर्मजिज्ञासेत्यत्र धर्मपदस्य अलौकिकश्रेयस्साधनत्वा-वच्छिन्नवबोधकतया मीमाम्सकैश्शास्त्रस्य सप्रयोजनकसिद्धि-प्रतिपादनवदथातो ब्रह्मजिज्ञासेत्यत्रापि ब्रह्मशब्देन बृम्हणत्वाभिधाने तस्य मोक्षसाधनरूपत्वेन शारीरकशास्त्रस्यापि प्रयोजनत्वसिद्धेः, सृष्टिदशायामसङ्कुचितलीलाविभूतिविस्तारापादकत्वस्य मोक्ष- दशायामसङ्कुचितचेतनस्वरूपाविर्भावापादकत्वस्य च बृम्हणत्वा-न्तर्गततया तन्निमित्तकतब्रह्मपदेनैव लीलाविभूतिकार्यताया स्वस्वरूपाविर्भावलक्षणमोक्षस्यान्यस्य चैवविधस्याथातो ब्रह्मजिज्ञासेत्यत्रैव प्रतिज्ञातत्वसिद्ध्या तद्विचाराणामाभिधानिकप्रतिज्ञालाभसम्भवाच्च नितरामानुकूल्यम्‌ भवति ॥

अत्र॒ यदुक्तम्‌ केनचित्‌, प्रमाणमन्तरास्मदभिमतसिध्यनुरोधेन कस्य- चिद्धर्मस्य प्रवृत्तिनिमित्तत्वाङ्गीकारायोगादिति, तत्स्वपक्षस्यैव दूषणम्‌। सर्वोत्कृष्टत्वस्य ब्रह्मशब्दप्रवृत्तिनिमित्ततायामेव प्रमाणलेशदौर्लभ्यात्‌। बृम्हणत्वादीनाम्‌ प्रवृत्तिनिमित्तता तु श्रुतिस्मृतिसिद्धेत्यसकृत्प्रतिपादितम्‌। शास्त्रप्रयोजनसिध्यादि- कथनन्न प्रामाणिकपदव्यनुसारे सिध्यतामानुषङ्किकानामानुकूल्यानाम्‌ परिगणनामात्रम्‌ न हि तत्सिध्यर्थमेवास्माभिनिमित्तान्‌ तरम्‌ कल्प्यते, येनोक्तदोषस्स्यात्‌।

यदुक्तमथात इत्यतश्शब्देनैव शास्त्रस्य सप्रयोजनकत्वसिद्धिरिति, तदप्यनुपपन्नम्‌। तथासति पूर्वमीमाम्सायामपि तेनैव तत्सिद्ध्या धर्मशब्देन तत्सिद्धिरिति प्रतिपादनम्‌ मीमाम्सकानामयुक्तम्‌ स्यात्‌। यदि चातश्शब्दस्य आपातप्रतीतिमात्रोपस्थापकतया तस्यास्सन्देहगर्भत्वेन तत्र॒ तदसिद्धिरिति मन्येत, तदात्रापि तथैव तदसिद्धिरिति पश्यतु भवान्‌ ॥

अथ यदप्यत्र तदुक्तम्‌, पाराशर्यविजये अत्र ब्रह्मजिज्ञासेति ब्रह्मणो विचार- विषयत्वावगमात्‌ विचारस्य निर्णयफलकत्वात्‌ अतश्शब्देन वेदान्तेष्व-नन्तस्थिरफलापातप्रतीत्युपस्थापनाच्च, शास्त्रस्य निर्णयद्वारानन्त-स्थिरफलप्रयोजनकत्वम्‌ सिध्यतीति पूर्वाचार्यसूक्त्युदाहरणम्‌, तदपि विपरीतज्ञानकृतम्‌। ब्रह्मजिज्ञासापदसमभि-व्याहारमन्तरा केवलमत इत्यस्यानन्तस्थिरफलापातप्रतीत्युपस्थापक- त्वायोगेन, तद्बलेनैव ब्रह्मपदस्यानन्तस्थिरफलकारणतायास्तद-भिप्रेतत्वसिद्धेः। यदि च जिज्ञासेत्यस्यानन्तस्थिरफलकारण-जिज्ञासेत्यर्थो न स्यात्‌, तर्हि कथम्‌ तत्समभिव्याहृतात-श्शब्दाथशब्दयोरर्थविशेषोपस्थापकत्वम्‌ स्यात्‌। प्रकरणानुगुण्येन हि तयोरर्थाभिधानम्‌ दृष्टम्‌ ॥

अथ यच्चापि, प्रधानस्य ब्रह्मण अप्रधानानामन्येषाञ्च कर्मत्वस्याक्षेप- सिद्धत्वादपि प्रधानकर्मत्वस्याभिधानिकत्वमितरेषाम्‌ प्रधानसम्बन्धा-दाकाङ्क्षावशाच्च कर्मत्वस्यार्थसामर्थ्यसिद्धत्वञ्च स्वीकर्तुम्‌ युक्तमिति जिज्ञासाधिकरणश्रुतप्रकाशिकोदाहरणम्‌, तदपि विकल्पासहम्‌। किमियम्‌ सूक्तिर्ब्रह्मेतरविचाराणाम्‌ सर्वेषामार्थिकत्वनियमपरा, उतासम्भावित- शाब्दप्रतिज्ञाकानाम्‌ तेषाम्‌ तथात्वज्ञापिका वेति। न तावदाद्यः, कल्याणगुणपादीयभगवदुत्कर्षविचाराणामार्थप्रतिज्ञत्वविरोधात्‌। सर्वोत्कृष्टत्वस्यापि ब्रह्मशब्देनाभिधानप्रसङ्गात्‌, सर्वोत्कृष्टत्वस्यापि ब्रह्मव्यतिरिक्तत्वाविशेषात्‌। नापि द्वितीयः, जीवकर्तृत्वेन्द्रियसङ्ख्यादिविचाराणामार्थप्रतिज्ञत्वप्रदर्शनपरतयै-वास्माभिर्नेतुम्‌ शक्यत्वेनास्यास्सूक्तेरस्मद्विपरीतसाधकत्वाभावात्‌। प्रत्युत तवैवेयम्‌ सूक्तिः प्रतिकूला, प्रधानार्थविचारप्रतिज्ञायाश्शाब्दत्वावश्यकतया अभिधानात्‌। न हि केवलब्रह्मस्वरूपमात्रस्य शास्त्रप्रधानार्थत्वम्‌, किन्तूपायोपेयाकारविशिष्टब्रह्मस्वरूपस्यैव। यदि ब्रह्मशब्दप्रकृत्या बृम्हणत्वम्‌ नोच्येत तर्हि ब्रह्मशब्दार्थस्य प्रधानार्थत्वस्येवालाभात्‌

प्रधानार्थस्य विचार्यत्वमाभिधानिकम्‌ न स्यादिति भाष्यश्रुतप्रकाशिकादिकम्‌ त्वत्पक्ष एव प्रकुप्येत्‌।

नन्वाक्षेपतः प्राप्तादाभिधानिकत्व……..भाष्यानुगृहीतमाभिधानिकत्वं

न शब्दशक्तिलभ्यत्वरूपम्‌, किन्तु शक्तिलक्षणान्यतरलभ्यत्वरूपमेव। ब्रह्म- जिज्ञासेत्यत्र तत्पुरुषे पूर्वपदस्य विभक्त्यन्तार्थलाक्षणिकत्वेन ब्रह्मशब्दस्य ब्रह्मनिष्ठकर्मतालाक्षणिकतया ब्रह्मणो विचारकर्मताया अपि लक्षणैकलभ्यत्वात्‌। तथाचलाक्षणिकार्थबोधार्थापत्तिलब्यार्थबोधयोः कालविलम्बादिसाम्यात्‌ ब्रह्मणो मोक्षकारणत्वादिबोधस्यार्थिकत्वाश्रयणम्‌ न दुष्यतीति चेन्न । लुप्तविभक्तिकशब्देन विभक्त्यन्तार्थवबोधस्य शब्दशक्तिलभ्यतायाः सिद्धान्तसिद्धत्वेन ब्रह्मणो विचारकर्मतायाः शब्दशक्तिलक्षणाभिधानिकत्वानपायात्‌। तदिदमनुगृहीतम्‌ श्रुतप्रकाशिका- यामेव – लुप्तविभक्तिकशब्देन विभक्त्यर्थबोधनम्‌ मुख्यम्‌ स्यात्‌। सम्बन्धिनो हि लक्षणा दृष्टा न सम्बन्धमात्रस्येत्यारभ्य, एवम्‌ लक्षणानुपपत्त्या प्रयोगस्यानन्यथासिद्धत्वात्‌ समस्तशब्देन विभक्त्यर्थ-बोधनम्‌ मुख्यमेवेत्यन्तेन | कथम्‌ तर्हि कर्मणि षष्ठी गृह्यत इति भाष्ये षष्ठीग्रहणमुपपद्यत इति चेत्‌, भ्रान्तोऽसि । धातुलीनमुपसर्ग इहार्थमित्युक्तरीत्या, धातुभिः स्वशक्यार्थविशेषबोधे जननीये, तत्तदुपसर्गविशेषश्रवणस्य सहकारितावत्समस्तपदैः स्वशक्त्यैव विभक्त्य- न्तार्थबोधे जननीये, लुप्तविभक्तिविशेषस्मरणस्य सहकारितायाः क्लृप्तत्वेन तादृशस्मृतिविषयलुप्तषष्ठीग्रहणस्योपपन्नतरत्वात्‌। न च भाष्ये षष्ठी- ग्रहणतद्व्याख्यानमात्रेण कर्मत्वम्‌ षष्ठ्यर्थ एव न प्रकृत्यर्थ इति वक्तुम्‌ शक्यम्‌ । तथासति तत्र तत्रोपसर्गव्याख्यानमात्रेण धातोस्तत्तदर्थशक्तत्वाभावप्रसङ्गात्‌। तस्मात्‌ सहकारितया स्मर्यमाणषष्ठीव्याख्यानमेव भाष्ये कृतमिति नानुपपत्तिः ॥

किञ्च समस्तपदस्य विभक्त्यन्तार्थलक्षणापक्षेप्यर्थापत्त्यपेक्षयाऽस्य

शीघ्रधीहेतुत्वात्‌ नितराम्‌ वैषम्यमपि श्रुतप्रकाशिकायामेवानुगृहीतम्‌।

प्रातिपदिकेन विभक्त्यर्थलक्षणायान्त्वेतद्विभक्त्यर्थो लक्ष्यः, न विभक्त्यन्तरार्थ इति हि नियमो भवति। स च नियमः शब्दानुशासनाधीन इति प्रातिपादिकेन विभक्त्यर्थलक्षणायाः शब्दानुशासनसिद्धत्वेन शक्तितुल्यताया दर्शितत्वात्‌। उत्तरत्र कर्मणि द्वितीयेतिवत्‌, कर्तृकर्मणोः कृतीति सप्तम्यन्तनिर्दिष्टयोः कर्तृकर्मणोरभिधेयत्वमनुशासन-स्वारस्यानुगुणमिति भाष्यकाराभिमतः परिहार इति, कर्मणि षष्ठ्याः कारकविभक्तितुल्यत्वस्थापनाच्च ॥

यत्त्वतोक्तलक्षणापक्षे ब्रह्मशब्दस्य ब्रह्मनिष्ठकर्मत्व एव लक्षणा न तद्विशिष्ट इति, तच्छ्रुतप्रकाशिकाविरुद्धम्‌। सम्बन्धमात्रलक्षणायास्तत्र प्रतिषिद्धत्वात्‌। नामार्थयोरभेदेनान्वय इत नियमविरोधाच्च । कर्मत्वलक्षणायाम्‌ हि निरूपकतासम्बन्धेन तस्य जिज्ञासापदार्थविचारे अन्वयो वाच्यः। तच्चानुपपन्नम्‌। तथा हि, राजपुरुष इत्यत्रापि राजशब्दार्थस्य पुरुषशब्दार्थ स्वत्वसम्बन्धेनान्वयापत्त्या तत्रापि लक्षणाभावप्रसङ्गात्‌। यदि च राजपुरुषशब्दश्रवणसमनन्तरम्‌ पुरुषो राज्ञो न वेति राजस्वत्वतदभावकोटिकसम्शयानुदयात्‌ विग्रहसमास-योरैकार्थ्यस्यानुभाविकत्वनिर्वाहाय तत्र विभक्त्यन्तार्थलक्षणैवावश्य- कीत्युच्येत, तर्हि राजपुरुषशब्दश्रवणसमनन्तरम्‌ पुरुषो राजस्व न वा, राजस्वत्वनिरूपको न वा इत्यादिसम्शयानामप्यनुदयेन राजशब्दस्य राजस्वत्वविरिष्टे राजस्वत्वनिरूपकताविशिष्ठे च लक्षणापत्तेः |

न च राजस्वत्वाविशिष्टस्य राजस्वत्वनिरूपकत्वाविशिष्टस्य च

राजस्वत्वप्रतियोगिकनिरूपकतालक्षणसम्सर्गानुयोगित्वमनुपपन्नमित्य-र्थापत्त्या राजपुरुषशब्दजन्यशाब्दबोधे तयोरपि हानात्‌ तदुत्तरम्‌ तत्सम्शयानुदय इति न तयो राजशब्दलक्षणेत्युच्येत, तर्हि राजशब्दार्थस्य लक्षणामन्तरा स्वत्वसम्बन्धेन पुरुषशब्दार्थान्वयस्वीकारेऽपि राजस्वत्वा-भाववतः पुरुषस्य राजप्रतियोगिकस्वत्वानुयोगित्वमनुपपन्नमित्यर्था- पत्त्यैव राजस्वत्वस्यापि तद्बोधप्रकारतया भानादेव, पुरुषो राज्ञो न वेति सन्देहानुदयोपपत्त्या राजपदलक्षणा निर्मूलैव स्यात्‌। तस्मात्‌ तान्त्रिकैः राजपुरुषशब्दे राजपदलक्षणाश्रयणस्य नामार्थयोरभेदनैवान्वय इति नियमरक्षणैकप्रयोजनत्वात्‌, सम्बन्धमात्रलक्षणायाः श्रुतप्रकाशिकायाम्‌

प्रतिषिद्धत्वाच्च ब्रह्मपदलक्षणापक्षे ब्रह्मकर्मत्वविशिष्ट एव लक्षणा । तस्य चाभेदसम्बन्धेन जिज्ञासाशब्दार्थे विचारेऽन्वय इत्येवावश्यमाश्रयणीयमिति ब्रह्मशब्दस्य ब्रह्मनिष्ठकर्ममात्रे लक्षणाश्रयणमनुपपन्नमेव ।

तर्हि कथमप्रयुक्तविभक्त्यर्थस्य प्रातिपदिकेन लक्षणा हि समास इति श्रुतप्रकाशिकासूक्तिः उपपद्यत इति चेत्‌, सम्बन्धमात्रलक्षणाखण्डन

परतदुत्तरसूक्त्यनुसारेणाप्रयुक्तविभक्त्यर्थविशिष्टस्य प्रातिपदिकेन लक्षणा

समास इत्यर्थतात्पर्यकतायास्तत्सूक्तेराश्रयणीयत्वेनानुपपत्त्यभावात्‌। न

ह्यप्रयुक्तविभक्त्यर्थमात्र इति पूर्वमुक्तम्‌, येन तद्विरोधस्स्यात्‌। विभक्त्यर्थविशिष्टे विभक्त्यर्थस्याप्यनुप्रविष्टत्वेन विरोधाभावात्‌॥

अथ यदपि, लुप्तविभक्तिस्मरणाभ्युपगमेनाभिधानिकत्व स्थापनस्य खण्डनम्‌, तदपि साम्प्रदायिकसमासावादानभ्यासनिबन्धनमेव। तत्र हि, लुप्तविभक्तिस्मरणवादिनस्त्वित्यारभ्य तन्मतानुसारेण ब्रह्मजिज्ञासा- पदसमासविषयकभाष्यम्‌ सोपपत्तिकम्‌ व्याख्याय, स्वव्याख्यातार्थे श्रुत- प्रकाशिकासूक्तिसम्वादप्रदर्शनपूर्वकम्‌ तत्सूक्तिरपि व्याख्याता। तत्रेयम्‌

श्रुतप्रकाशिकासम्वादप्रदर्शनपरा सूक्तिः – अयमेव कल्पः श्रुतप्रकाशिकायाम्‌

यद्वेत्यादिना प्रतिपादितः। तत्रत्या पङ्क्तिरियम्‌ – यद्वा लुप्तविभक्तिशब्देन विभक्त्यर्थबोधनम्‌ मुख्यम्‌ स्यात्‌, सम्बन्धिनो लक्षणा दृष्टा न सम्बन्धमात्रस्य । विभक्त्यर्थश्च सम्बन्धरूपः। न च सम्बन्धस्य सम्बन्धान्तरानपेक्षत्वेन स्वस्मिन्‌ सम्बन्धकार्यकरत्वात्‌ लक्षणा सम्भवतीति वाच्यम्‌। सम्बन्धस्य स्वपरनिर्वाहकत्वानभिज्ञानामपि विभक्त्यर्थप्रतीतेः। न हि सम्बन्धस्सत्तया लक्षणाहेतुः, ज्ञायमानतयैव न चेदतिप्रसङ्गात्‌। एवम्‌ लक्षणानुपपत्या प्रयोगस्यानन्यथासिद्धत्वात्‌ समस्तशब्देन विभक्त्यर्थबोधनम्‌ मुख्यमितीति ॥

अथैतद्व्याख्यानञ्च – अयमर्थः – लुप्तविभक्तिकशब्देन लुप्तविभक्ति- विशिष्टब्रह्मपदेन ब्रह्मपदोत्तरलुप्तविभक्त्येति यावत्‌। विभक्त्यर्थबोधनम्‌ मुख्यम्‌ स्यात्‌ – विभक्तिशक्यकर्मत्वावच्छिन्नबोधः शक्तिप्रयोज्य इत्यर्थः। तथा च स्मृतलुप्तविभक्त्यैव तद्बोधोपपत्तेरलम्‌ तत्र पूर्वपदलक्षणयेति भावः। समस्तशब्देन – समासप्रयुक्तलोपप्रतियोगिविभक्तिघटितशब्देन लुप्त-विभक्त्येति यावदितीति ॥

तदेवम्‌ सम्प्रदायज्ञैः ब्रह्मकर्मताया लुप्तविभक्त्याभिधानिकत्वपक्षस्य

भाष्यश्रुतप्रकाशिकास्वारस्यानुगुण्येन समासवादे प्रतिष्ठापितत्वेन तद्दूषणम्‌ तदनभिज्ञाननिबन्धनमेव ॥

किञ्च ब्रह्मपदलक्षणापक्षे लुप्तविभक्तिकस्मरणाश्रयणमावश्यकम्‌, अन्यथा लक्षणाया एवासिद्विप्रसङ्गात्‌। प्रातिपदिकेन विभक्त्यर्थ-लक्षणायाम्‌ शब्दानुशासनसिद्धायाः स्मृतायाविभिक्तेरेव लक्ष्यार्थो-पलक्षकत्वात्‌। तदुक्तम्‌ श्रुतप्रकाशिकायाम्‌ – अत्र लक्ष्यार्थोपलक्षणतया विभक्तिरनुप्रविष्टेति। यदि च विभक्तिस्मरणमन्तरापि ब्रह्मपदात्‌ ब्रह्मकर्मताबोधस्सिद्ध्येत्‌ तर्हि भाष्ये षष्ठीव्याख्यानम्‌ कथमिवोपपद्येत। तस्मात्‌ लुप्तविभक्तिस्मरणेनैव, शक्त्या वा लक्षणया वा विवक्षार्थबोधः प्रामाणिकैरभ्युपेय इति तत्खण्डनमनुपपन्नमेव |

ननु कथम्‌ तर्हि, श्रुतप्रकाशिकायामेव अप्रयुक्तापि स्मृता विभिक्तिर्बोधि-

केति सा व्याख्येयेति चेदिति पूर्वपक्षम्‌ कृत्वा, न; तत्स्मरणेन विनाप्यर्थश्च

प्रतीतेरिति सिद्धान्तितमिति चेत्‌ भ्रान्तोऽसि। न ह्ययम्‌ सिद्धान्तः, किन्तु षष्ठीव्याख्यानासाङ्गत्यप्रतिपादकःपूर्वपक्षग्रन्थ एव । न हि व्यासार्या भाष्यदूषकाः, येन षष्ठीव्याख्यानासाङ्गत्यप्रतिपादकग्रन्थम्‌ तत्सिद्धान्तम्‌ मनुषे । तस्मात्‌ स्मृतलुप्तविभक्त्या वा लुप्तविभक्तिस्मरणसहकृतसमस्तब्रह्मपदशक्त्या वा जायमानस्य ब्रह्मनिष्ठ- विचारकर्मताबोधस्याभिधानिकत्वानपायात्‌ भाष्योक्ताभिधानिकत्वस्य लाक्षणिकसाधारण्यासिद्धेः, ब्रह्मणः शास्त्र प्रधानप्रतिपाद्योपायत्वो-पेयत्वाकारयोरार्थिकबोधस्य कर्मताबोधसाम्यासम्भवेन, ब्रह्मशब्देन ब्रह्मत्वानभिधाने भाष्यकाराभिमतः प्रधानार्थकर्मत्वाभिधानिकत्वलाभो दुर्लभ एवेति सिद्धम्‌ ब्रह्मशब्दस्य सर्वत्कृष्टत्वमात्रनिमित्तकत्वमयुक्तमेवेति॥

अत एवानुगृहीतम्‌ भाष्ये ब्रह्मशब्देन च स्वभावतो निरस्तनिखिल- दोषोऽनवधिकातिशयासङ्ख्येयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयत इति॥

अत्र च बृहत्त्वबृहद्गुणकत्वबृम्हणत्वानाम्‌ त्रयाणामेव ब्रह्मशब्द- प्रवृत्तिनिमित्तत्वम्‌ दर्शितम्‌। व्याख्यातम्‌ चेदम्‌ साम्प्रदायिकैः। अत्रेयत्ताया दोषत्वेन तदभावस्य निरतिशयबृहत्त्वपर्यवसानेन  प्रथमविशेषणेनाद्वारकबृहत्त्वस्य, द्वितीयविशेषणेन गुणद्वारकबृहत्त्वस्य पुरुषोत्तमपदेन बृम्हणत्वस्य च लाभः। यदि च हुदानाद्वै विष्णुः पुरुष उच्यत इति पाद्मवचनानुरोधेन मोक्षप्रदत्वपर्यवसित बहुप्रदत्वस्य पुरुषपदार्थत्वेन तद्घटितनिरुक्तबृम्हणत्वस्य पुरुषोत्तमपदार्थत्वम्‌ सम्भवेदिति । अत्र स्वभावतो निरस्तदोष इत्यस्य स्वरूपतो निरस्तनिखिलदोष इत्यर्थो विवक्षितः, भावशब्दस्य सत्ताभिधायित्वात्‌। तथा च निरस्तनिखिलदोष इत्यर्थलाभादद्वारकबृहत्त्वम्‌ लभ्यत इति भावः।

अत्र च ब्रह्मशब्दप्रवृत्तिनिमित्तदलत्रयलाभोक्तिः न साक्षादेव विवक्षीता। किन्तु यथासम्भवम्‌ साक्षाद्वा परम्परयार्थसामर्थ्याद्वा विवक्षितः । तेनेदञ्च विशेषणद्वयम्‌ शब्दशक्तेर्थसामर्थ्याच्च ब्रह्मशब्दस्य पुरुषोत्तमपरत्वप्रति- पादनोपयोगितयोक्तम्‌ न तु प्रवृत्तिनिमित्ततयेति श्रुतप्रकाशिकया साकम्‌ न विरोघः। स्वभावतो निरस्तनिखिलदोषोनवधिकातिशयासङ्ख्येयकल्याण- गुणगण इत्येतद्विशेषणद्वयम्‌ हि शब्दतोऽर्थतश्च परमपुरुषस्यैव ब्रह्मशब्द-प्रवृत्तिनिमित्तपौष्कल्यलक्षणम्‌ बद्धमुक्तावास्थचेतनवैलक्षयण्यम्‌ साधयति। तत्स्वरूपतो बृहत्त्वम्‌ गुणतो बृहत्त्वम्‌ च शब्दत एव साधयति, बृम्हणत्वम्‌ चार्थात्साधयति। अखिलहेयप्रत्यनीकत्वनिखिलकल्याण-गुणैकतानत्वरूपोभयलिङ्गविशिष्टस्यैव मुमुक्षून्‌ प्रति अशेषदोषनिवर्तक-त्वस्य निरतिशयानन्दप्रापकत्वस्य च सम्भवात्‌। तदेतदनुगृहीतम्‌ श्रुतप्रकाशिकायामेवगुणतो बृहत्त्वे सति शब्दशक्त्यसङ्कोचसिद्धेः मुमुक्षोरशेषदोषनिवृत्तिनिरतिशयानन्दप्राप्तिहेतुत्वाच्चेति। अयमर्थः – विशेषणद्वयेन गुणतः स्वरूपतश्च बृहत्त्वे प्रतिपादिते सति, ताभ्यामेव मुमुक्षुदोषनिवर्तकत्वविशिष्टनिरतिशयानन्दप्रापकत्वलक्षणबृम्हणत्व-स्याप्यर्थतः सिद्ध्या विशिष्ये पुरुषोत्तमे ब्रह्मशब्दप्रवृत्तिनिपौष्कल्यलाभेन, तत्र ब्रह्मशब्दस्य शक्त्यसङ्कोचसिद्धेरिति।

तदित्थम्‌ बृम्हणत्वस्यार्थाल्लाभस्य श्रुतप्रकाशिकायाम्‌ दर्शितत्वेऽपि तस्योपलक्षणमात्रत्वाभिप्रायेण साम्प्रदायिकैः पुरुषोत्तमशब्दे निर्वचनबलेनापि तल्लाभो दर्शित इति न विरोधः। तस्मात्‌ बृहत्त्वबृहृद्गुणकत्वबृम्हणत्वान्येव समुच्चित्य ब्रह्मशब्दप्रवृत्तिनिमित्तम्‌ न सर्वोत्कृष्टत्वमिति सिद्धम्‌॥

अत्र यदुक्तम्‌, पुरुषोत्तमोऽभिधीयत इति भाष्यम्‌ सर्वोत्कृष्टत्वस्य ब्रह्म-

शब्दप्रवृत्तिनिमित्तत्वम्‌ प्रतिपादयतीति, तदनुपपन्नम्‌ । श्रुतप्रकाशिका-विरोधात्‌। न हि श्रुतप्रकाशिकायामत्र शब्दतोऽर्थतो वा सर्वोत्कर्षसिद्विः प्रवृत्तिनिमित्ततया प्रतिपादिता। किन्तु गुणतोऽपि बृहत्त्वे सति शक्त्यसङ्कोचसिद्धेः मुमुक्षोरशेष-दोषनिवृत्तिनिरतिशयानन्दहेतुत्वा-च्चेति स्वरूपतो बृहत्त्वगुणतो बृहत्त्वबृम्हणत्वानामेव निमित्ततया सिद्धिः प्रतिपादिता। तस्मात्तस्य भाष्यस्यान्यार्थकत्ववर्णनमयुक्तमेव ॥

अथ यच्चाप्युक्तम्‌, स्वभावतो निरस्तनिखिलदोषत्वम्‌ सङ्कल्पाघीन-दोषसामान्याभाववत्त्वम्‌, सामानाधिकरण्यप्रयोज्यत्वोभयसम्बन्धेन सङ्कल्पविशिष्टदोषसामान्याभाववत्त्वपर्यवसितमिति, तदपि विपरीत-ज्ञानकार्यमेव | गुणास्सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयम्‌ याता इति स्वरूपनिरूपकगुणानामपि शोभनत्वस्य स्वरूपमात्रो-पाधिकतयाऽनुगृहीतत्वात्‌। अन्तरादित्याधिकरणे तत्पूर्व-स्वरूपो-पाधिकलोककामेशत्वम्‌ सत्यसङ्कल्पत्वादिकमिति सत्यसङ्कल्प त्वस्येवापहतपाप्मत्वस्यापि स्वरूपमात्रोपाधिकत्वस्यानुगृहीतत्वाच्च, तदनुसारेण स्वभावत इत्यस्य स्वसत्तात इति स्वारसिकार्थाश्रयणेन निरस्तनिखिलदोषताया स्वसत्ताप्रयोज्यत्वस्यैव भाष्याभिप्रेतत्वसिद्ध्या तद्विहाय भावशब्दस्य, भावो लीलाक्रियाचेष्टा भूत्यभिप्रायजन्तुषु, इति कोशान्वेषणेनाभिप्रायार्थकत्वम्‌ परिकल्प्य तस्य सङ्कल्परूपविशेषपरत्वमप्याश्रित्य भगवत्स्वरूपान्तर्गतहेयप्रत्यनीकता-

लक्षणनिरस्तनिखिलदोषताया निरूपितस्वरूपविशेषणगुणान्तर्गत-सङ्कल्पविशेषप्रयोज्यतोक्तेरत्यन्तहेयत्वात्‌। न हि भावशब्दस्य सङ्कल्पवाचित्वम्‌, अस्यायम्‌ भाव इत्यादौ सङ्कल्पानवगमात्‌। नापि स्वशब्दविशेषितस्य तस्य तथात्वम्‌, तस्यायम्‌ स्वभाव इत्युक्ते तस्यायम्‌ सङ्कल्प इत्यर्थानवगमात्‌।

किञ्च भगवत्स्वरूपनैर्मल्यस्येच्छाधीनत्वम्‌ वदन्‌ वादी पृष्टव्यः – किम्‌ तदिच्छाया नैर्मल्यमस्ति न वेति। अस्तीति चेत्‌ तत्प्रयोजकम्‌ वक्तव्यम्‌ । तदिच्छायाः स्वतस्सिद्धमिति चेत्‌ धिक्त्वामज्ञम्‌, येन गुणस्य स्वाधीनस्वरूपत्वम्‌, गुणिनो गुणाघीनस्वरूपत्वम्‌ च ब्रूषे । धर्म-सामान्यस्य धर्मिसत्ताप्रयोज्यत्वम्‌ हि प्रामाणिका मन्यन्ते । नन्विच्छात एव तव विश्वपदार्थसत्तेति प्रमाणात्‌ सर्वेषाम्‌ भगवदिच्छाप्रयोज्यत्वम्‌

सिद्धमिति चेत्‌ भ्रान्तोऽसि न। हि तत्र विश्वशब्दो युष्मच्छब्दार्थमपि गोचरयति । तथासति अन्तर्बहिश्च तत्सर्वम्‌ व्याप्य नारायणस्स्थित इति श्रुत्या भगवत्स्वरूपगुणानामपि व्याप्यत्वापत्तेः। किन्तु परमपुरुषभोगलीलोपकरणनित्यवस्तुमात्रपरम्‌। तथा च जगद्व्यापाराधिकरणभाष्ये एवमेव परमपुरुषभोगोपकरणस्य लीलोप- करणस्य च नित्यतया शास्त्रावगतस्य परमपुरुषस्य नित्येष्टत्वादेव तथा-

वस्थानमस्तीति शास्त्रादवगम्यत इति। तस्मात्‌ भगवत्स्वरूपान्त-र्गतस्याखिलहेयप्रत्यनीकतालक्षणनिरस्तनिखिलदोषत्वस्य सङ्कल्पा-धीनत्वोक्तिरनुपपन्नैव।

हेयप्रत्यनीकतायास्स्वरूपान्तर्भावश्च । हेयप्रत्यनीको ह्यानन्दादिः ब्रह्मणो

असाधारणरूपमिति अक्षराधिकरणसिद्धम्‌। पुराणप्रक्रियाश्रुतप्रकाशिकायाम्‌ च समस्तकल्याणगुणात्मकोऽसौ इत्यस्य श्रेष्टयोजनायाम्‌ कल्याण……- श्रित्य समस्तकल्याणत्वम्‌ गुणः स्वभावः यस्य समस्तकल्याणगुणः, समस्तकल्याणगुणः आत्माधर्मिस्वरूपम्‌ यस्य स समस्तकल्याण-गुणात्मकः, बहुव्रीहिरौपचारिकश्शिलापुत्रकस्य शरीरमितिवदिति सर्वप्रकारविलक्षणत्वस्य स्वरूपान्तर्गतत्वमनुगृहीतम्‌।

स्वाभाविकी ज्ञानबलक्रिया चेत्यत्र श्रुत्युक्तस्वभावशब्दोऽपि स्वसत्तापर

एवेत्ययमर्थः, उभयलिङ्गाधिकरणे तदुपबृम्हणतया भाष्यकारोदाहृतात्‌, सर्वज्ञस्सर्वदृक्‌ सर्वशक्तिज्ञानबलर्द्धिमान्‌। अन्यूनश्चाप्यवद्धश्च स्वाधीनोऽनादिमान्वशी इति वचनात्‌ स्पष्टम्‌, सर्वज्ञत्वादीनाम्‌ स्वरूपाधीनत्वोक्तेः। अपि च स्वसामानाधिकरण्यस्वप्रयोज्यत्वो-भयसम्बन्धेन दोषसामान्याभाववत्त्वम्‌ नित्येष्वतिप्रसक्तिम्‌, नित्याना-मुभयेच्छाघटितशेषलक्षणलक्ष्यत्वेन भगवदतिशयार्थमहम्‌ निर्दोष-स्स्यामितीच्छायास्तेषामनादिसिद्धत्वावश्यकत्वात्‌, तेषामपि सत्य-सङ्कल्पत्वसत्त्वेन तदिच्छाया विषयप्रयोजकत्वावश्यकत्वाच्च, तदीयदोषसामान्याभावस्यापि प्रयोज्यत्वसामानाधिकरण्योभयसम्बन्धेन तदिच्छाविशिष्टत्वात्‌।

न च स्वप्रयोज्यप्रयोज्यत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रति-योगिताकभेदवत्त्वस्वप्रयोज्यत्वस्वसामानाधिकरण्यैतत्त्रितयसम्बन्धेन सङ्कल्पविशिष्टदोषसामान्याभाववत्त्वम्‌ स्वभावतो निरस्तनिखिल-दोषत्वमिति परिष्कारान्न दोषः। नित्यकर्तृकेच्छाया अपि भगवदिच्छाप्रयोज्यत्वेन तदीयदोषाभावस्य प्रयोज्यतासम्बन्धेन भगवदिच्छाविशिष्टतया तद्भेदासम्भवादिति वाच्यम्‌। तथापि भवता सर्वेषाम्‌ भगवदिच्छायत्तत्वस्वीकारेण दोषाभावप्रयोजकसङ्कल्पस्यापि सङ्कल्पान्तरप्रयोज्यत्वस्य स्वपरनिर्वाहकत्वाश्रयणेन तत्सङ्कल्प-प्रयोज्यत्वस्यैव वा अवश्यमङ्गीकरणीयत्वेनासम्भवात्‌, भगवदीयदोषाभावस्यापि स्वप्रयोज्यप्रयोज्यतासम्बन्धेन तत्सङ्कल्प-विशिष्टत्वात्‌।

न च स्वव्यधिकरणज्यप्रयोज्यत्वस्यैव प्रथमसम्बन्धे विवक्षणान्नानुपपत्तिरिति वाच्यम्‌। तथासति दोषाभावे स्वव्यधि-करणसङ्कल्पाप्रयोज्यत्वनिवेशनेनैवोपपत्तौ गुरुतरनिवेशस्य वैयर्थ्या-पातात्‌। न च भगवदीयदोषस्यापि देवीसङ्कल्पप्रयोज्यताया अस्माभिरभ्युपगमात्‌ स्वव्यधिकरणसङ्कल्पाप्रयोज्यत्वनिवेशे असम्भवा- पत्त्या तत्परिहारार्थमेवम्‌ निवेश आवश्यक इति वाच्यम्‌। एवमपि

भवद्भिर्देवीसङ्कल्पस्यापि भगवत्सङ्कल्पप्रयोज्यतायाश्च स्वीकारेण भगवद्गतदोषाभावस्य भगवत्सङ्कल्पव्यधिकरणभगवत्सङ्कल्प-प्रयोज्यदेवीसङ्कल्पप्रयोज्यतया स्वव्यधिकरणस्वप्रयोज्यप्रयोज्यत्व-सम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वरूपप्रथम- सम्बन्धदौर्लभ्येन असम्भवतादवस्थ्यात्‌, भक्षितेऽपि लशुन इति न्यायापातात्‌। भगवदीयदोषाभावस्य स्वरूपान्तर्गतत्वेन स्वतस्सिद्धतया भगवत्सङ्कल्पप्रयोज्यत्वमेव नास्तीति पूर्वमुक्तत्वेन तत्र देवीसङ्कल्प-प्रयोज्यत्वाभावस्य कैमुत्यन्यायसिद्धत्वाच्च ।

न च जीवानामपहतपाप्मत्वस्य स्वरूपान्तर्गतत्वेऽपि तदीयदोषाभावस्य भगवत्सङ्कल्पप्रयोज्यत्वाभ्युपगमवत्‌ भगवतोऽप्यपहतपाप्मत्वस्य स्वरूपान्तर्भावेऽपि तदीयदोषाभावस्य तत्सङ्कल्पप्रयोज्यत्वमावश्यकमिति वाच्यम्‌। भगवत्स्वरूपस्य भगवदिच्छाप्रयोज्यतायामन्योन्याश्रयात्‌, इच्छायास्स्वधर्मिस्वरूप-प्रयोज्यत्वात्‌।

न च अपहतपाप्मत्वाद्युपलक्षितवेषेण स्वरूपस्येच्छाप्रयोजकत्वम्‌, तद्विशिष्टवेषेण तस्येच्छाप्रयोज्यत्वमित्याकारभेदान्नानुपपत्तिरिति वाच्यम्‌ । स्वरूपनिरूपकधर्मस्य उपलक्षणत्वायोगात्‌, स्वरूपनिरूप-कोपलक्षितवेषस्य गगनकुसुमसोदरत्वेन दुर्निरूपत्वाच्च । न हि सत्यत्वाद्यविशेषिते स्वरूपे सङ्कल्पोऽन्वेति । यद्यन्वेति तर्हि तद्ग्राहकम्‌ प्रमाणम्‌ वक्तव्यम्‌, प्रमाणसामान्यस्य सविशेषविषयत्वम्‌ भाष्यकारैरेव समर्थितम्‌। अखिलहेयराहित्यस्य च स्वरूपनिरूप-कविशोषणमक्षराधिकरणसिद्धम्‌। तस्मात्‌ सर्वेषु प्रमाणेषु सत्यत्वादिविशिष्टभगवद्धर्मत्वेनैव सङ्कल्पप्रतिपादनात्‌, सङ्कल्पस्सत्य-त्वादिविशिष्टस्वरूपप्रयोज्य एवेति तादृशसत्यत्वादेः सङ्कल्पप्रयोज्यत्वाभ्युपगमे अन्योन्याश्रयो दुष्परिहर एव ।

जीवस्वरूपस्य भगवत्सङ्कल्पप्रयोज्यतायास्तु तादृशदोषाभावात्‌ इच्छात एव तव विश्वपदार्थसत्तेति प्रमाणम्‌ तद्विषये निरङ्कुशमेवेति भगवत्स्वरूपस्य जीवस्वरूपसाम्यसमाधिरनुपपन्नैव । तथा चानुगृहीतम्‌ जगद्व्यापारवर्जाधिकरणभाष्ये यद्यप्यपहतपाप्मत्वादिस्सत्यसङ्कल्प-त्वपर्यन्तो गुणगणः प्रत्यगात्मनः स्वाभाविक एवाविर्भूतः, तथापि तस्य तथाविधत्वमेव परमपुरुषायत्तम्‌, तस्य नित्यस्थितिश्च तदायत्ता। परमपुरुषस्येतन्नित्यताया नित्येष्टत्वात्‌ नित्यतया वर्तत इति न कश्चिद्विरोध इति।

तथा च नित्यसिद्धगतदोषाभावस्य तदपहतपाप्मत्वलक्षणस्वरूपप्रयुक्त-

त्वेऽपि तत्स्वरूपस्य भगवदिच्छाप्रयोज्यत्वेन नित्यसिद्धगतदोषाभावस्य भगवदिच्छाप्रयोज्यत्वम्‌ दुरपह्नवमेव । ब्रह्मस्वरूपान्तर्गतदोषाभावस्य तु स्वतस्सिद्धत्वेन सङ्कल्पाधीनत्वस्यैवाभावात्‌ न तत्र नित्यसिद्ध-गतदोषाभावन्यायावतार इति नतस्यान्याधीनत्वसाधनप्रत्याशायास्साव-काशत्वमिति भगवद्गतदोषाभावस्य देवीसङ्कल्पाधीनत्वोक्तिर्दुरुक्तिरेव ॥

अथ यदपि, केचित्तु स्वभावतो निरस्तनिखिलदोष इत्यस्य स्वव्य- धिकरणसङ्कल्पाप्रयोज्यदोषसामान्याभावनिरूपिताधिकरणतावानित्यर्थः। स्वपदमधिकरणतापरम्‌। मुक्तनित्यदिनिष्ठदोषाभावाधिकरणतायाः स्वव्य-धिकरणभगवत्सङ्कल्पप्रयोज्यत्वात्तद्व्यावृत्तिरित्याहुरिति साम्प्रदायिक- ग्रन्थमुपादाय, अत्र स्वभाव इत्यस्य यथाश्रुतार्थत्यागः। भगवद्गत-दोषाभावाधिकरणतायाम्‌ देवीसङ्कल्पस्यापि प्रयोजकत्वसत्त्वादसम्भव इति तत्र दोषद्वयोद्धाटनम्‌, तदप्यत्यन्तहेयम्‌।

स्वभावत इत्यस्य स्वसत्तात इत्यर्थस्यैव स्वारसिकतायाः पूर्वमेवोक्तत्वात्‌। धर्मस्वरूपस्य धर्मिस्वरूपप्रयोज्यतायाः स्वत-स्सिद्धत्वेऽपि पुनः स्वभावत इति तत्कथनस्य नियमार्थत्वे-नेतरव्यवच्छेदपरताया आवश्यकत्वेन, तेन स्वाधिकरण-सङ्कल्पाप्रयोज्यत्वस्य स्वरसतो लाभाच्चात्र यथाश्रुतार्थ-त्यागप्रसङ्गगन्धाभावात्‌, अन्तरादित्याधिकरणश्रुतप्रकाशिकायाम्‌ तत्र हेत्वकथनात्तिरोधानाविर्भावयोर्निष्प्रमाणकत्वाच्च । तस्य स्वाभाविकत्वम्‌ नित्याविर्भूतत्वम्‌ च सिद्धमित्युक्त्वा अथ ईदृशमपहतपाप्मत्वम्‌ च पूर्वोक्तन्यायान्निरुपाधिकम्‌  नित्याविर्भूतम्‌ चाभ्युपगन्तव्यमिति भगवद्गतदोषाभावस्य उपाधिसामान्यशून्यताया अनुगृहीततया तादृशस्य तस्य भगवदिच्छोपाधिकतायाः तदन्यदेवीच्छोपाधिकतायाश्च शङ्कितुमप्यशक्यत्वेन देवीच्छामादायासम्भवोपपादनस्य असम्भावित-त्वाच्च। प्रत्युत स्वभावत इत्यस्य स्वसङ्कल्पत इत्यर्थम्‌ वर्णयतस्तवैव पक्षे निरुक्तदोषद्वयम्‌ दुष्परिदरम्‌ पूर्वमेव दर्शितम्‌ ॥

अथ यदपि, केचित्त्वित्यादिना अपृथक्सिद्धिसम्बन्धावच्छिन्नदोष- त्वावच्छिन्नप्रतिबन्ध्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नप्रतिबन्धक-ताश्रय त्वम्‌ स्वभावतो निरस्तनिखिलदोषत्वमिति साम्प्रदा-यिककल्पान्तरमुपादाय, तस्य परिशुद्धात्मस्वरूपेऽतिप्रसक्तिकथनम्‌, तदप्यविवेकप्रयुक्तमेव । जीवापहतपाप्मत्वस्य तत्तिरोधानार्हत्वलक्षण-दोषावधित्वेन दोषत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताया जीवेष्वसिद्धेः। यदि च तिरोधानार्हत्वदोषोऽपि जीवस्वरूपेण प्रतिबध्येत, कथम्‌ तर्हि तेषाम्‌ बन्धस्स्यात्‌। नित्यसिद्धस्वरूपेण तस्यापि प्रतिबन्धो दृष्ट इति चेन्न, भगवद्द्वारपालयोर्हिरण्यरावणादिभावेन बन्धदर्शनात्‌। निरङ्कुशभगवदिच्छया तद्बन्ध उपपद्यत इति चेत्तर्हि गतम्‌ तत्स्वरूपस्य प्रतिबन्धकत्वेन ।

किञ्च यदि भगवत्तुल्यमपहतपाप्मत्वम्‌ नित्यादीनाम्‌ सम्भावितम्‌ स्यात्‌, तर्ह्यन्तरधिकरणे निरुपाधिकापहतपाप्मत्वहेतुना अन्तरादित्यविद्यावेद्यस्य जीवभेदसाचनम्‌ न घटते । न च स्वसमानाधिकरणसङ्कल्पप्रयोज्यत्वविशिष्टमपहतपाप्मत्वमेव तत्र  तत्साधकमिति वाच्यम्‌ । तत्र विषयवाक्ये तद्विशेषणाश्रवणात्‌। सर्वेभ्यः पाप्मभ्य उदित इत्येतावन्मात्रस्यैव श्रूयमाणत्वात्‌। तस्मात्‌ स्वतिरोधानार्हत्वपर्यन्तसर्वदोषप्रत्यनीकत्वलक्षणम्‌ जीवेष्वसम्भावितमेव । अपहतपाप्मत्वमन्तरादित्यविद्यायाम्‌ भगवति श्रुतमिति न तादृशमपहतपाप्मत्वम्‌ जीवानाम्‌ युक्तम्‌। अत एवानुगृहीतम्‌ श्रुतप्रकाशिकायामन्तरधिकरणे क्षेत्रज्ञेषु प्रत्यवायकरपापसजातीयानाम्‌ कर्मणाम्‌ स्वलीलाकृतानामपि फलजननशक्ति- प्रतिभटत्वम्‌ नाम कश्चिदयमीश्वरस्य स्वभावविशेषः। परिशुद्धात्मविषय- स्याप्यपहतपाप्मशब्दस्यायमेवार्थः। स तु तस्य तिरोधानार्हः प्रतिबन्ध- निवृत्तावाविर्भवति। ईश्वरस्य तु तिरोधानानर्हो नित्याविर्भूत इति विशेषः। अतोऽपहतपाप्मत्वविषयश्रुतीनाम्‌ यथोक्त एवार्थ इति तेन धर्मेणान्तरादित्येऽवस्थितस्य भगवतो जीववैलक्षण्यसिद्धिरिति।

अत्र च जीवापहतपाप्मत्वपरमपुरुषापहतपाप्मत्वयोस्तिरोधानार्हत्व तदनर्हत्वाभ्याम्‌ विशेषस्य कण्ठोक्तत्वात्‌, जीवानाम्‌ तादात्म्येन बन्धार्हत्वलक्षणदोषप्रतिबन्धकत्वायोगेन अपृथक्सिद्विसम्बन्धावच्छिन्न-दोषत्वावच्छिन्नप्रतिबध्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नप्रतिबन्ध-यकतारूपस्य स्वभावतो निरस्तनिखिलदोषत्वस्य जीवेष्वति-प्रसङ्गवचनमविवेकनिबन्धनमेव ॥

अथ, यदपि प्रसङ्गात्‌ कर्मणाम्‌ फलजननशक्तिप्रतिबन्धकशक्तिमत्त्व-

मपहतपाप्मत्वमिति जीवसाधारणमपहतपाप्मत्वमभिधाय तस्य बन्ध-दशायामनादिकर्मसम्बन्धस्योत्तेजकत्वमभ्युपगम्य तिरोधानाविर्भाव-शब्दयोरपि विषयविवेचनम्‌ तत्सर्वमत्यन्तपरिहास्यम्‌। कर्म-प्रतिबन्धकशक्तिम्‌ प्रति कर्मणामेवोत्तेजकत्वे, प्रतिबध्यतावच्छेदकोत्तेज-कतावच्छेदकयोरैक्यात्‌। अपहतपाप्मशब्दोऽसङ्कोचात्‌ स्वस्मिन्‌ परत्र च पाप्मनामपघातकत्वम्‌ स्वतस्सिद्धम्‌ वदतीति हेयप्रत्यनीकत्वसिद्धि- रित्यन्तरधिकरणश्रुतप्रकाशिकानुरोधेनापृथक्सिद्धिसम्बन्धावच्छिन्न- हेयत्वावच्छिन्नप्रतिबध्यतानिरूपिततादात्म्यस्वसमवेतप्रीतिविषय-

त्वान्यतरसम्बन्धावच्छिन्नप्रतिबन्धकताश्रयत्वमेवापहतपाप्मत्वमिति तल्लक्षणसिद्ध्या कर्मफलप्रतिबन्धकत्वमात्रम्‌ तदित्युक्तेरनुपपन्न-त्वाच्च।

अत एव हि नैनम्‌ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतम्‌ न दुष्कृतमिति सर्वेषाम्‌ हेयानाम्‌ भगवत्यप्राप्तिमुक्त्वा सर्वे पाप्मानोतो निवर्तन्ते इति भगवत एव हेतोरन्येषाम्‌ च सर्वपापनिवृत्तिरपहतपाप्मत्वनिर्वचनपरया श्रुत्या प्रतिपाद्यते। अत एव च पाप्मानः कालजरामृत्युशोकादयः सङ्ख्यातत्वादिति वाक्यकारवचनमप्यु- पपद्यते। यद्यपहतपाप्मशब्दघटकीभूतः पाप्मशब्दः, कर्मणाम्‌ फलजननशक्तिमात्रम्‌ ब्रूयात्‌, तर्हि वाक्यकारवचनमनुपपन्नमेव । न च सर्वेभ्यः पाप्मभ्य उदित इति श्रुतिघटकपाप्मशब्दनिर्वचनमिदम्‌ वाक्यमिति न दोष इति वाच्यम्‌। तस्याः श्रुतेरपि अपहत-पाप्मत्वविषयताया एव भाषितत्वात्‌॥

ननु तर्हि श्रुतप्रकाशिकायामेव क्षेत्रज्ञेषु प्रत्यवायकरपापसजातीयानाम्‌ कर्मणाम्‌ स्वलीलाकृतानामपि फलजननशक्ति-प्रतिभटत्वन्नाम कश्चिदयमीश्वरस्य स्वभावविशेष इत्युक्तिः कथमुपपद्यत इति चेदुपलक्षणमात्रत्वादुपपद्यत इति पश्यतु भवान्‌। अत एवा-पहतपाप्मत्वादिरूपा निरस्तनिखिलदोषतेत्यानन्दमयाधिकरणश्रुत- प्रकाशिकापि यथास्थितमेव सङ्गच्छते ॥

अथ यच्च, यदपीत्यादिना परिमाणविशिष्टसङ्कल्प एव ब्रह्मपदप्रवृत्ति- निमित्तम्‌। तथा हि बृहिधातोर्मनिन्प्रत्ययान्तत्वेन निष्पन्नो ब्रह्मशब्दः ब्रह्मणि यौगिकः, तत्र बृहति धातोर्महत्त्वरूपपरिमाणमर्थः। बृहबृहिवृद्धा- वित्यनुशासनात्‌। मनिन्प्रत्ययार्थस्तु सङ्कल्पाश्रयः। तदेकदेशसङ्कल्पे

अनन्तगुणसामानाधिकरण्यविशिष्टस्वसामानाधिकरण्यचेतनगतस्थूला- वस्थाजनकत्वविशिष्टमुक्तज्ञानगतस्वसजातीयपरिमाणजनकत्वोभय-सम्बन्धेनान्वयः| साजात्य च परममहत्त्वेन सामानाधिकरण्ये सामानाधिकरण्यवैशिष्ट्यम्‌, जनकत्वे जनकत्ववैशिष्ट्यञ्च सामानाधिकरण्यसम्बन्धेनेति सम्प्रदायिकब्रह्मशब्दनिमित्तकल्पान्तर- मुपादाय, तत्र यास्कवचनविरोधः, श्रुतप्रकाशिकावचनविरोधः, ब्रह्मशब्दस्य बृहच्छब्दतौल्यम्‌, पङ्कजादिपदेष्वपि ड प्रत्ययादेः पद्मत्वावच्छिननाद्यर्थकत्वापत्त्या योगरूढिमात्रविलयप्रसङ्गश्चेति दोषचतुष्टयोद्धाटनम्‌,

तत्र प्रथमद्वितीयावलग्नकौ । ब्रह्मपरिबृढम्‌ सर्वत इति यास्कवचनस्य

ब्रह्मशब्दरूढिनिमित्तासाधकतायाः पूर्वमेवोक्तत्वात्‌ श्रुतप्रकाशिकाविरोध-स्यापि पूर्वमेव प्रतिक्षिप्तत्वाच्च | तृतीयोऽप्यनुपपन्नः, इष्टापत्तेः । न च घटो बृहन्नितिवत्‌ घटो ब्रहोति प्रयोगप्रसङ्गः, लाक्षणिकप्रयोगाणाम्‌ स्थितगतिचिन्तामात्रार्हत्वेन आपादनीयत्वायोगात्‌। न हि गङ्गायाम्‌ घोष इत्यत्र गङ्गाशब्दस्य लक्षणावृत्त्या तीरे प्रयोगाङ्गीकारमात्रेण गङ्गाशब्दपर्यायभागीरथीशब्दस्यापि लक्षणावृत्त्या भागीरथ्याम्‌ घोष इति प्रयोगापादनम्‌ प्रामाणिकास्सहन्ते । एकपदस्य लक्षणाभ्युपगमे तत्पर्याय- शब्दानाम्‌ सर्वेषाम्‌ लक्षणाऽभ्युपगन्तव्येति नियमाभावात्‌। निरुपपदबृहि-

धातोरसङ्कुचितबृहत्त्वे रूढेः मुख्यस्य निर्विशेषणेति स्कान्दवचनेन पूर्व- मेव व्यवस्थापिततया, घटो बृहन्नित्यादौ समभिव्याहृतघटशब्दार्थ-स्यासङ्कुचितबृहत्त्वान्वयबाधात्‌ धातोस्तत्र॒ सङ्कुचितबृहत्त्वे भाक्तत्वा- श्रयणम्‌ ह्यवर्जनीयम्‌ | इत्थञ्च घटो ` बृहन्नित्यादेरौपचारिकत्वेन स्थितगतिचिन्तामात्रविषयतया तस्य प्रयोगान्तरापादकत्वायोगात्‌ घटो ब्रह्मेति प्रयोगापादनमनुपपन्नमेव |

अथ यच्चतुर्थम्‌ दूषणम्‌, तदप्यनुपपन्नम्‌ । ब्रह्मशब्दावयवमनिन्प्रत्ययस्य कर्तृत्वार्थकतया, कर्तृत्वस्य च  ज्ञान-चिकीर्षाप्रयत्नाश्रयत्वरूपत्वेन तस्य भगवति सङ्कल्पमात्राश्रयत्वरूपतया, मनिन्प्रत्ययस्य सङ्कल्पाश्रयत्वार्थकत्ववत्‌ पङ्कजशब्दावयव ड प्रत्ययस्य पद्मत्वावच्छिन्नार्थकत्वस्य कथञ्चिदप्युपपादयितुमशक्यत्वात्‌। कर्तृत्वार्थको हि ड प्रत्ययः। न हि कर्तृत्वम्‌ जात्यवच्छिन्नत्वम्‌, किन्तु कृत्याश्रयत्वम्‌। ततश्च तदर्थकाः प्रत्ययाः सङ्कल्परूपकृत्याश्रयत्वम्‌ स्वशक्त्यैव प्रतिपादयितुम्‌ समर्थाः। जात्यवच्छिन्नत्वन्तु न शक्त्या प्रतिपादयितुम्‌ क्षमन्ते । लक्षणायान्तु स एव दोषः।

न च बृहिधातूत्तरमनिन्प्रत्ययस्याश्रयत्वमात्रार्थकत्वनियमात्तस्य

सङ्कल्पाश्रयत्वरूपकर्तृत्वार्थकत्वमनुपपन्नमिति वाच्यम्‌। तादृश- नियमस्य निर्मूलकत्वात्‌। अचेतनगतकर्तृत्वा-भिधायिकर्त्रर्थकप्रत्ययानाम्‌ हि मुख्यकर्तृत्वाभिधाने बाधादाश्रयत्वमात्रे लक्षणा कल्प्यते। न चैतावता अबाधितस्थलेऽपि लक्षणा युज्येत। तस्मात्‌ कर्त्रर्थकमनिन्प्रत्ययस्य सङ्कल्पाश्रयत्वलक्षणकर्तुत्व एव मुख्यत्वात्‌, तस्य तदर्थकत्वम्‌ युक्तमेव । पङ्कजादिपदावयवडप्रत्ययादेः मुख्यकर्तृत्वपरतायाम्‌ बाधात्‌, आश्रयत्वमात्रनपरत्वमेवाश्रयणीयम्‌ न जात्यवच्छिन्नपरत्वम्‌। तस्याननुशिष्टत्वात्‌।

न चैवम्‌ प्रत्ययार्थोपपत्तावपि प्रत्ययार्थैकदेशे सङ्कल्पे धात्वर्थस्य

अनन्तगुणसामानाधिकरण्यविशिष्टस्वसामानाधिकरण्याचेतनगतस्थूला-वस्थाजनकत्वविशिष्टमुक्तज्ञानगतस्वसजातीयपरिमाणजनकत्वैतदुभय-सम्बन्धेन अन्वयोपगमोऽनुपपन्न एवेति वाच्यम्‌। बृहति बृम्हयति, बृहन्तो ह्यस्मिन्‌ गुणा इत्यादिनिर्वचनबलात्‌ बृम्हणत्वमपि ब्रह्मशब्दार्थः। तच्च स्वसङ्कल्पेनाचेतनस्य स्थूलपरिणामहेतुत्वम्‌, चेतनानाम्‌ स चानन्त्याय कल्पत इत्युक्तज्ञानबृहत्त्वहेतुत्वम्‌ चेति जन्माद्यधिकरणश्रुतप्रका-शिकादिबलाच्च निरुक्तसम्बन्धद्वयेन अन्वयलाभेन तस्याप्युपपन्नत्वात्‌।

एतेन बृहिधात्वर्थस्य मनिन्प्रत्ययार्थे निरुक्तदिशान्वयस्वीकारे पङ्कजशब्दे ड प्रत्ययार्थैकदेश आश्रयत्वादौ प्रकृत्यर्थोत्पत्तेः पङ्कत्वावच्छिन्नत्वसहितनिरूपितत्वादिसम्बन्धेनान्वयाङ्गीकारापाद-नमपि प्रत्युक्तम्‌। ब्रह्मशब्दयोगार्थनिर्वचनश्रुतिस्मृत्यादिवत्‌ पङ्कजपदयोगार्थनिर्वचनस्य तादृशान्वयविशेषज्ञापकस्य कुत्राप्य- दर्शनात्‌। किञ्चैवमन्वयस्वीकारे पङ्कजादिपदानाम्‌ रूढिविलय- प्रसङ्गोऽप्यनुपपन्नः । इदम्‌ पङ्कजमिति शब्दश्रवणसमनन्तरम्‌ पद्मम्‌ न वेति सम्शयानुदयेनैव पङ्कजादिपदानाम्‌ पद्मत्वाद्यवच्छिन्नेऽपि शक्तिसिद्धेरनिवार्यत्वात्‌। न हि सम्बन्धविधया ज्ञायमानम्‌ पद्मत्ववैशिष्ट्यमिदम्‌ पद्मम्‌ न वेति सम्शयमुपरुन्ध्यात्‌।

अथ यच्च, स्वमते तस्मादन्यत्र तद्गुणलेशयोगादौपचारिक इति

भाष्यासाङ्गत्यपरिहरणम्‌, तदप्यनुपपन्नम्‌ । प्रकृत्यादिविषयकलाक्ष-णिकशब्दस्य लोकोत्तरबृहत्त्वपरत्वे, तस्मादन्यत्र तद्गुणाधिक्ययोगादित्येव वक्तव्यत्वेन तद्गुणलेशयोगादिति भाष्यासाङ्गत्यतादवस्थ्यात्‌। न हि लोकोत्तरम्‌ बृहत्त्वम्‌ बृहत्त्वगुणलेश इति युक्तम्‌। तर्हि तस्य लोकोत्तरत्वस्यैवासम्भवात्‌। किञ्च ब्रह्म तम्‌ परादादित्यादौ विप्रेऽपि लक्षणया ब्रह्मशब्दप्रयोगदर्शनात्‌, तत्र लोकोत्तरबृहत्त्वबोधाभावेन लोकोत्तरबृहत्त्वप्रकारेणैव ब्रह्मशब्दार्थबोध इति नियमाभावाच्च । अस्मन्मते तु विप्राणाम्‌ ज्ञानाधिक्यसत्त्वेन स्वाश्रयाश्रयत्वसम्बन्धेन बृहत्त्वगुण- लेशयोगसत्त्वान्नानुपपत्तिः। न चात्र बृहत्त्वशब्देन उत्कर्षस्यैव विवक्षि- तत्वात्‌ ब्राह्मणानाम्‌ सर्वलोकातीतोत्कर्षाबाघान्न दोष इति वाच्यम्‌। तथासति सर्वप्रकारनिकर्षाकारायाम्‌ प्रकृतौ सर्वलोकोत्तरोत्कर्षाभावेन

तत्राव्याप्तेः। न चात्रोच्यमानोत्कर्षस्य वैवक्षिकत्वात्‌ प्रकृत्यामपि मम

योनिर्महद्ब्रह्मेत्युक्तसर्वलोकयोनित्वलक्षणोत्कर्षसत्त्वान्नानुपपत्तिरिति वाच्यम्‌। तर्हि कालादृष्टादिष्वपि तादृशलोकोत्तरबृहत्त्वसत्त्वेन तत्र ब्रह्मप्रयोगाभावेन व्यभिचारात्‌, तस्य ब्रह्मशब्दस्य प्रकृत्यादिषु नियतप्रयोजकत्वोक्तेरसामञ्जस्यापातात्‌॥

अथ यदपि, वेदे भूरिप्रयोगाच्चेति गारुडपुराणवचनोक्तप्रयोगप्राचुर्यस्य ब्रह्मशब्दरूढिनियामकत्ववचनम्‌, तदप्यनुपपन्नम्‌। प्रोक्षणीनिर्मथ्यबर्हि-

राज्यपुरोडाशादिशब्देषु व्यभिचारात्‌। तत्र हि प्रोक्षणीशब्दस्सम्स्कृतजल

एव प्रसिद्धः, तैलादिसाधारणप्रकृष्टोक्षणसाधनत्वनिमित्तकः केवलयोगिकः।

निर्मन्थ्यशब्दोग्रावेव प्रसिद्धः इष्टकापाकनवनीतादिसाधारण-निर्मथनप्रयोज्यत्व मात्रनिमित्तको यौगिक एव । बर्हिराज्यपुरोडाशादि-शब्दाश्च सम्स्कृतमात्रप्रसिद्धाः सम्स्कृतासम्स्कृतसाधारणबर्हिष्ट्वादि- जातिनिमित्तकाः केवलरूढा एव । तथा च तत्र प्राचुर्यस्य शक्तिविशेष-नियतत्वाभावेन तस्य तन्नियामकत्वमनुपपन्नमेव । किञ्च –

वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि।

इति वचने देवताविशेषविषयकप्रचुरप्रयोगस्यैवोक्ततया, तस्य रूढि-

कल्पकत्वे देवताविशेषविषयकविष्णुत्वादिनिमित्तकरूढिरेव ततस्सिद्ध्येत्‌, न त्वदभिमतसर्वोत्कर्षावच्छिन्नरूढिः। सर्वोत्कृष्टे भूरिप्रयोगादिति तत्रानुक्तेः। अस्त्वेवमेवेति चेन्न, तस्य त्वया पूर्वमेव पराकृतत्वात्‌॥

अथ यच्च, *अथ ब्रह्मपरिबृढम्‌ सर्वत इत्यारभ्य योगरूढत्वाश्रयण-मिति चेदि*त्यन्तेन यास्कवचनस्य स्वाभिमतरूढ्यसाधकत्व-माशङ्क्यात्रोच्यत इत्यात्रदिना तत्समर्थनम्‌, तदपि विपरीतफलम्‌। समाधानदीर्लभ्येन पूर्वपक्षस्य तदवस्थत्वात्‌। तथा हि वेदे भूरिप्रयोगादि-प्रयोगप्राचुर्यात्‌ ब्रह्मशब्दस्य रूढिसिद्धिसिद्धवत्कारेण तदपेक्षित-शक्यतावच्छेदकपरतयैव यास्कवचनस्य रूढिसाधकत्वम्‌ समर्थितम्‌। तदेव न सम्भवति । पूर्वमेव प्राचुर्यस्य रूढ्यसाधकताया उक्तत्वात्‌। रूढिसिद्धौ वा शार्ङ्गिणीति तत्रैव देवताविशेषस्योक्ततया तेनैव शार्ङ्गिशब्दरूढिनिमित्तमेव ब्रह्मशब्दरूढिनिमित्तमिति लाभेन, तस्य निराकाङ्क्षत्वेन यास्कवचनस्य तदपेक्षितार्थसमर्पकत्वायोगाच्च। प्रत्युत यास्कवचनस्य रूढिनिमित्तपरत्व एव अपेक्षिताविधानमनपेक्षितविधानम्‌ च दुष्परिहरम्‌। तथा हि –

वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि।

तस्मिन्नेव ब्रह्मशब्दो मुख्यवत्तो महामुने ॥

इत्यादिवचनबलात्‌, सहस्रनामपाठबलात्‌ तस्मादुच्यते परम्‌ ब्रह्मे-त्यादिवचनबलाच्च ब्रह्मशब्दस्य परमपुरुषनामत्वे सिद्धे, तस्य वेदादिषु प्रयोगस्य अन्याय्यम्‌ चानेकार्थत्वमिति न्यायेन लाक्षणिकत्वावश्यभावे

सति, लक्ष्यतावच्छेदुकस्यैव वेदतपोविप्रप्रजापतिप्रकृतिचेतनादिसाघारण-

स्यापेक्षिततया, यास्कवचनस्य तादृशलक्ष्यतावच्छेदकपरत्वमेवाश्रयितुम्‌ युक्तम्‌ न शक्यतावच्छेदकपरत्वम्‌। अपेक्षितविधेरनपेक्षितविधानम्‌ दुर्बलमितिन्यायात्‌। किन्तल्लक्ष्यतावच्छेदकमितिचेत्‌, स्वेतर-स्वसजातीयसर्वोत्कृष्टत्वमेव । वेदो हि स्वेतरसर्वशब्दापेक्षयोत्कृष्टः, तपश्च दानादिधर्माद्यपेक्षयोत्कृष्टः, विप्रश्च सर्ववर्णापेक्षयोत्कृष्टः, प्रजापतिश्च सर्वसुरापेक्षयोत्कृष्टः, प्रकृतिश्च सर्वप्राकृताचेतनापेक्षया कारणत्वेनोत्कृष्टा, चेतनोऽपि सर्वशेषतत्त्वापेक्षयोत्कृष्ट इत्यादि तस्य लाक्षणिकब्रह्मशब्द-प्रयोगविषयसर्ववस्तुसाधारण्यात्‌।

न च सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्द इति भाष्यविरोधः, बृम्हयतीत्युक्तकार्यघटितपरम्परासम्बन्धेन बृहत्त्वयोगस्यैव तत्र विवक्षिताया पूर्वमेवोक्तत्वेन तस्य बृहत्त्वप्रयोजकशक्तिरूपतया तादृश- शक्तिविशेषाश्रयत्वस्योत्कर्षरूपत्वानपायेन विरोधाभावात्‌। तथा च चित्राज्याधिकरणे स्तोत्रविशेषनामत्वेन प्रसिद्धस्य पृष्ठशब्दस्य क्वचित्पृष्ठै-रुपतिष्ठत इत्यादौ बृहद्रथन्तरवैरूपवैराजशाक्वररैवतसामसु लक्षणया प्रयोग इति, तत्र लक्ष्यतावच्छेदकत्वतात्पर्यविषय- धर्माकाङ्क्षायाम्‌ तत्प्रदर्शनमात्रपरत्वेन आपो वा ऋत्वीमार्च्छन्नित्याद्यन्वाख्यानस्य पृष्ठशब्दनिर्वचनपरस्य उपक्षयवत्‌, ब्रह्मपरिवृढम्‌ सर्वत इत्यस्याप्यपेक्षितलक्ष्यतावच्छेदकप्रदर्शनोपक्षीणत्वमेव युक्तम्‌। तदुक्तम्‌ कौस्तुभे – एवम्‌ पृष्ठैस्तुवत इत्यत्रापि पृष्ठपदम्‌ रूढ्यैव स्तोत्रनामधेयम्‌, न हि तत्र स्तोत्रपृष्ठशब्दप्रवत्तिनिमित्तकथनाथौऽर्थवादोऽप्यस्ति । योऽपि च आपो वै ऋत्वीयमार्च्छस्तासाम्‌ वायुः पृष्ठे व्यावर्तत । ततो वामम्‌ वसु समभवत्‌। तन्मित्रावरुणौ पर्यपश्यतामित्यादिना पृष्ठशब्दान्वाख्या-नार्थोऽर्थवादः, सोऽप्यार्ताम्‌ युक्तानामपाम्‌ पृष्ठे वायोर्विवर्तनात्मक-मैथुनाभिधानपूर्वकम्‌ वामदेव्योत्पत्तिम्‌ तत्पदनिर्वचनम्‌ चोक्त्या तत्पृष्ठेषु न्यधुः इत्यनेन वामदेव्यस्य पृष्ठस्तोत्रेषु निवेशमभिधाय, एतस्या योनेः पृष्ठानि सृजै इत्यादीनाम्‌ षाडहिकपृष्ठस्तोत्रसाधनानाम्‌ रथन्तर्बृहद्वैरूपवैराजशाक्वररैवताख्या नाम्‌ षण्णाम्‌ साम्नामुत्पत्तिम्‌ वामदेव्यामुक्त्वापि तावैवामदेव्यम्‌ पुत्राः पृष्ठानीत्युपसम्हाराद्रथन्तरादिषु षट्सु पृष्ठशब्दान्वाख्यानार्थः न त स्तोत्रनामत्वान्वाख्यानार्थः। अन्वाख्याने च स्पृशेर्धातोरौणादिके थक्प्रत्यये कृते पृष्ठशब्दव्युत्पत्तेरब्वायुमैथुनाख्यस्पर्शोत्पन्नजडत्वम्‌ प्रवृत्तिनिमित्तम्‌। यद्यपि च पृष्ठशब्दस्यानेकार्थशक्ति कल्पनाभिधारथन्त- रादिष्वपि पृष्ठस्तोत्रसाधनत्वसम्बन्धेन लक्षणैव, तथापि अन्वाख्यान-वशादत्र निरूढलक्षणाङ्गीकरणान्न वैयर्थ्यमन्वाख्यानस्येत्यादिना ।

यद्यप्यत्र आपो वा ऋत्वीयमार्च्छन्नित्याद्यन्वाख्यानस्य वैयर्थ्यपरि- हारार्थमेव स्थितगतिचिन्तान्यायेन लक्ष्यतावच्छेदकविशेषग्राहकतया

सार्थक्यमुपपादितम्‌, नापेक्षितार्थसमर्पकतया। पृष्ठस्तोत्रसम्बन्धित्वस्य

लक्ष्यतावच्छेदकस्यान्वाख्यानेन विनैव लाभात्‌। तथापि पूर्वपक्षिणा

अपेक्षितार्थसमर्पकतया अभ्युपगतत्वेन तुष्यतु दुर्जन इति न्यायेनैवा-स्माभिः तदभ्युपगम्योक्तमिति न दोषः॥

वस्तुतस्तु यास्कवचनस्यापि निर्वचनत्वे तद्वैयर्थ्यपरिहारार्थमेव ब्रह्मशब्दस्य स्वेतरस्वसजातीयसर्वोत्कृष्टत्वावच्छिन्ने निरूढलक्षणाङ्गी-कारेण पृष्ठशब्दान्वाख्यानवदेवापत्त्या तस्य शक्यतावच्छेदकग्राहकत्व-मनुपपन्नमेवेत्येव दूषणमनुसन्धेयम्‌।

न च बृहद्रथन्तरादिविषयपृष्ठशब्दस्य पृष्ठस्तोत्रसम्बन्धित्वलक्षण-लक्ष्य तावच्छेदकस्य निर्वचननैरपेक्षयेण सिद्धावपि ब्रह्मशब्द-लक्ष्यतावच्छेदकस्य कस्यचिदसिद्ध्यायुक्तम्‌ यास्कवचनस्या-पेक्षितार्थसमर्पकत्वमिति शङ्क्यम्‌। ब्रह्मशब्दयोगनिमित्तभूतबृहत्त्वगुणलेशयोगस्यैवात्रापि सिद्धत्वेन तदयोगात्‌। अत एव वार्त्रघ्नीपूर्णमासे अनूच्येते वृथन्वती अमावास्यायामिति वाक्यद्वयोदाहरणमपि पाण्डित्यप्रकाशनमात्रफलम्‌। वार्त्रघ्नीवृथन्वतीनाम्‌ लिङ्गक्रमाभ्यामाज्यभागाङ्गत्वे नाव्यवस्थया प्राप्तानाम्‌ विधिविषयत्वायोगात्‌, प्रमाणान्तरप्राप्ततत्तादर्थ्यबाधेन तयोर्वाक्ययोस्तन्मन्त्रव्यवस्थाविशेष- मात्रपरत्वमाश्रितम्‌ सत्यमेव । तत्तु न प्रकृतार्थस्योदाहरणम्‌, अव्यवस्थया प्राप्तानाम्‌ मन्त्राणाम्‌ समुच्चयस्यापि सम्भवेन तत्र व्यवस्थाया आकाङ्क्षितत्वाभावात्‌, तयोर्वाक्ययोराकाङ्क्षितार्थविधायकत्वाभावाच्च। प्रकृतेऽपि वेदे भूरिप्रयोगाच्चेत्यस्य शार्ङ्गिणीत्यनेनैव निराकाङ्क्षत्वेन यास्कवचनस्य तदपेक्षितार्थाभिधायित्वाभावाच्च ॥

अथ यदपि ब्रह्मशब्दस्य सर्वोत्कृष्टत्वरूढत्वे उत्कर्षमात्रयोगनिमित्तकत्वे

चाभ्युपगते, ब्रह्मरब्दजन्यशाब्दबोधे उत्कर्षस्य द्वेधा भानानुपपत्तिरिति दूषणस्य ब्रह्मशब्दजन्यबोधे योगार्थाभानमङ्गीकृत्य परिहरण, तदप्यसमीक्ष्यकृतमेव । उपलक्ष्यम्‌ ह्यनवधिकातिशयम्‌ बृहत्‌ बृम्हणम्‌ च बृहतेर्धातोस्तदर्थत्वादिति भाष्यविरोधात्‌। यदि योगार्थाभानम्‌ भाष्यकृदभिमतम्‌ स्यात्‌, तर्हि धातोस्तदर्थत्वादिति कथमुपपद्यते । न हि वस्तुतो धात्वर्थस्योपलक्ष्यतावच्छेदकत्वम्‌ तत्रोच्यते। निरतिशयबृहत्त्वेन ज्ञातस्य ब्रह्मणो ज्ञानशक्त्यादिविशेषाकारैनिरतिशयबृहत्वरूपाकारान्तरेण ज्ञानार्थम्‌ हि तत्र जगज्जन्मादिकमुपलक्षणमुच्यते।

अथ यदपि, बृम्हणत्वस्यापि रूढिशक्यतावच्छेदकत्वकथनम्‌, तदपि बृहतेर्धातोस्तदर्थत्वादिति भाष्यविरोधादनुपपन्नमेव । बृम्हणत्वस्य रूढिशक्यतावच्छेदकत्वे विशिष्य प्रमाणाभावाच्च । न च बृहति बृम्हयतीत्येतदेव प्रमाणमिति वाच्यम्‌ । ब्रह्मशब्दावयवबृहि धातुघटितत्वादेवास्य वाक्यस्य योगवृत्तिनिर्वचनपरतायाः सुस्पष्टत्वात्‌॥

अथ यच्च, बृहत्त्वबृम्हणत्वबृहद्गुणकत्वानाम्‌ पार्थक्येन वा सामान्यत एकरूपेण उभयथापि वा ब्रह्मशब्दनिमित्तत्वमिति प्रतिपादनम्‌, तदप्यनुपपन्नम्‌। तथासति ब्रह्मशब्दघटितवाक्यविद्याविशेषाणाम्‌ सर्वेषामनुसन्धेयगुणभेदेन त्रेधाभेदप्रसङ्गात्‌। न चेष्टापत्तिः। एकविद्यात्वे सम्भवति विकल्पादेकविद्यात्रैविध्यायोगात्‌। अत एव वैश्वानराधिकरणश्रुतप्रकाशिकायामग्निशब्दस्यापर्यवसानवृत्त्या साक्षाद्योग-वृत्त्या वा विकल्पेनार्थद्वयप्रतिपादकत्वे प्राप्ते सति, ननु अग्निशरीरकतया अनुसन्धाने साक्षादेवाग्ननयनादिगुणकत्वानुसन्धाने च विद्याभेदः स्यादिति पूर्वपक्ष कृत्वा, तदभ्युपगमेन समाहितम्‌। न चात्र लाघवतर्केण कस्यचित्‌ पक्षस्य विनिगमनसम्भवान्न विकल्पापत्तिरिति वाच्यम्‌। बृहति बृम्हयति, बृहन्तो ह्यस्मिन्‌ गुणाः, बृहत्त्वाद्बृम्हणत्वाच्चेत्यादिशास्त्राणाम्‌ ब्रह्मशब्दघटितवाक्यविहितविद्याविशेषानुसन्धेयगुणप्रकाशनपरत्वेन केवल-तर्केण तद्बाधने विद्यावैकल्यापातात्‌॥

अथ यदपि, वस्तुतस्त्वित्यारभ्य सर्वोत्कृष्टस्य ब्रह्मयोगार्थत्वम्‌ बृम्हण-

त्वस्य तद्रूढिनिमित्तत्वम्‌ चाश्रित्योपक्रान्तवैपरीत्येनोपसम्हारस्तदपि न साधीयः। बृम्हणत्वस्य रूढिनिमित्तताग्राहकप्रमाभावात्‌, बृहतेर्धातोस्तदर्थत्वादिति भाष्यविरोधाच्च। न हि समुदायशक्तिनिमित्तम्‌ धातुप्रत्ययनिरूप्यम्‌। न च बृम्हणत्वस्य अवयवशक्त्या प्रतिपादयितु-मनर्हत्वात्‌ तस्य च परिशेषाद्रूढिनिमित्तत्वसिद्विरिति वाच्यम्‌। प्रागुपदर्शितरीत्या ऋतम्‌ पिबन्तावित्यत्रेव मनिन्प्रत्ययेनैव साक्षात्प्रयोज-

कतया च कर्तृत्वाभिधानमङ्गीकृत्य बृम्हणत्वस्यापि योगवृत्त्यैव प्रतिपादनसम्भवात्‌, बृहति बृम्हयतीति निर्वचनबलेनैवाद्विविधकर्तृत्वेऽपि मनिन्प्रत्ययस्य तात्पर्यनिर्णयाच्च।

अनुपाधिकनिर्देशे ह्यसङ्कोचो मनीषिभिः।

मुख्यस्य निर्विशेषेण शब्दोन्येषाम्‌ विशेषतः॥

इत्यादिनिर्वचनबलेन निर्विशेषणशब्दस्य असङ्कुचितार्थशक्ततायाः सिद्धत्वेन, ब्रह्मशब्दावयवभूतबृहिधातुना निरतिशयबृहत्त्वस्य मनिन्प्रत्ययेन तन्निरूपितसर्वप्रकारकर्तृत्वस्य च शक्त्यैव प्रतिपादने, तस्य निर्वचनश्रुतिस्मृत्यनुग्रहे सङ्कोचकान्तरविरहे च सति, केवलाग्रहेण तदपहाय बृहत्त्वासङ्कोचस्यार्थापत्तिलभ्यतावचनस्य बृम्हणत्वादेः कल्प्यशक्यन्तरलभ्यतावचनस्य चात्यन्तहेयत्वात्‌।

यदि च निर्विशेषशब्दासङ्कुचितार्थशक्तत्वम्‌ नाभ्युपगम्येत तर्हि प्रमिताधिकरणविरोधो दुरुद्धरः । तत्र शब्दादेव प्रमित इति सूत्रे, अङ्गुष्ठमात्रप्रमितो मध्य आत्मनि तिष्ठति इति श्रुतिप्रतिपाद्यस्य जीवत्वसाधकतया पूर्वपक्षोदाहृतस्याङ्गुष्ठप्रमितत्वलिङ्गस्य बाधकतया ईशानो भूतभव्यस्येति वाक्यगतेशानशब्दश्रुतेः सूत्रकारेण शब्दादेवेत्यनेन प्रदर्शिततया, निर्विशेषशब्दस्यासङ्कुचितार्थशक्त्यभावे तद्विरो-धस्य दुरुद्धरत्वात्‌। नहीशानशब्दासङ्कुचितेश्वरत्व-प्रतिपादनमन्तरा सर्वेश्वरासाधारणश्रुतित्वमनुभवेत्‌। न च भूतभव्यशब्द-समभिव्याहारात्‌ तस्य भगवदसाधारण्यम्‌ शङ्कम्‌। तथा सति तस्य वाक्यात्मकत्वेन लिङ्गाद्दुर्बलतया अङ्गुष्ठप्रमितत्वरूपजीवत्वसाघक-

लिङ्गाबाधकतायाः श्रुतप्रकाशिकायामेवानुगृहीतत्वात्‌

एवमानन्दमयाधिकरणे ब्रह्मणा विपश्चितेत्यत्र निरुपपदविपश्चिच्छब्दस्य भगवदसाधारण्यं भाषितम्‌। एवम्‌ द्युभ्वाद्यधिकरणे, आत्मशब्दश्च निरुपाधिकः परस्मिन्‌ ब्रह्मणि मुख्यवृत्त इत्यभाषि। एवम्‌ भूमाधिकरणे, एतदमृतमिति स्वाभाविकममृतत्वमिति भाषितम्‌। एवमन्तरधिकरणे, अपहतपाप्मत्वश्रुत्या अन्त- रादित्यविद्यावेद्यस्य परब्रह्मत्वम्‌ साधितम्‌। तदेवम्‌ शारीरकमीमाम्सायामपादचूडम्‌ निर्विशेषशब्दानामसङ्कुचितार्थशक्तताया आश्रितत्वेन तदपलापः प्रामाणिकानाम्‌ न युज्यत एव ॥ `

तस्मात्‌ सिद्धम्‌ ब्रह्मशब्दो योगवृत्या बृहत्त्वे सति बृहद्गुणकत्वे च सति बृम्हणत्वमेव निमित्तीकृत्य परमपुरुषमेव प्रतिपादयति, सहस्रनाम- पाठबलायातरूढिवृत्त्या तु श्रियःपतित्वम्‌ निमित्तीकृत्य तमेव परमपुरुषम्‌

प्रतिपादयतीति, स्वनिमित्ततो भगवदनन्यग एवायमिति सर्वम्‌ समञ्जसम्‌।

श्रीश्रीनिवासदासेन श्रीभूतपुरवासिना।

योगिराजेन रचितो वादार्थोऽयम्‌ विजृम्भताम्‌॥

इति

ब्रह्मपदशक्तिवादः सम्पूर्णः

 

 

 

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.