शतदूषणी
।। अथ अविधेयज्ञानभङ्गवादश्चतुर्थः ।।4।।
विधित्रस्तैर्यत्तत्कथितमविधेयश्रुतिपथैर्विधत्ते दुखाब्धेर्विलयमविधेया मतिरिति ।
तदुद्ध्योपायं भगवदुपसत्तिं प्रथयते नमस्यामस्यामो यतिपरिबृढाय प्रतिकलम् ।।
यदेतद्भ्रान्तजनजल्पितम्; समूलस्य संसारस्य संविन्मात्रे परस्मिन्ब्रह्मण्यारोपितत्वादलीककलधौतादेरिवाधिष्ठान याथात्म्याध्यवसायादेव विलयः; नपुनः कर्मणोपासनेन वा विहितेनादृष्टद्वारा । आहुश्च –
“मणिमन्त्रौषधादिभ्यो दण्डघातादिनाऽपि वा ।
क्रियते नैव केनापि मायाकुण्डलिखण्डनम्” इति ।
यत्पुनरुन्मत्तान्प्रति भिषज्यते; तदपि तत्रानारोपितत्वाभिमतदोषविशेषमोक्षणायैव, न पुनस्तदधीनधीविशेषमात्र सिद्धमिथ्यापदार्थनिवर्तनाय । दोषे तु शममुपेयुषि स्वरसवाहितत्त्वज्ञानादेव तन्निवृत्तिः । अत्राप्याहुः-
“भ्रान्तभेषजनिर्माणं न भ्रान्तेरुपशान्तये ।
किन्तु भ्रान्तिनिदानस्य दोषस्यैवोपशान्तये”इति ।
नचात्रापि दोषनिवारणाय वैधापेक्षानुप्रवेशः; दोषस्याप्यत्र दृङ् मात्राधीनसिद्धितया मिथ्यात्वाविशेषेण एकहेलयैव तत्त्वज्ञानेन निवार्यत्वात् ।ततश्च –
“विश्वमिथ्यात्वविज्ञानकुक्षिनिक्षेपभक्षितः।
नापेक्षते पुनर्दोषः कर्मायत्तात्मबाधकम्” ।।
लौकिकस्य तु दोषस्य व्यावहारिकव्यवस्थानतिक्रमाद्भेषजाद्यवकाशः । यद्यप्यविद्यायामपि सा समाना; तथाऽपि तथाविधत्वप्रबोधनाय प्रवृत्तत्वाद्वाक्यस्य तावतैव तन्निवृत्त्युपपत्तिः । नच ज्ञानं स्वरूपेणविधातुं शक्यम्, अत एव”द्रष्टव्य”इत्यपि फलानुवाद इति निरणैषुः । तदर्थतया च न श्रवणादिविधिनैरर्थक्यम्। तादर्थ्यं च प्रतिबन्धकभेदवासनानिरसनद्वारेण । तस्याश्च प्रतिबन्धकत्वमसम्भावना विपरीत सम्भावनाख्यचित्तविक्षेपहेतुत्वात् । “ब्रह्म वेद” (मुंड 3-2-5) इत्यादौ च ज्ञानमात्रस्यैव मोक्षहेतुत्वं श्रूयते । नचास्य वाक्यतस्सिद्धस्यैव ज्ञानस्य विधेयत्वसम्भवः, “अप्राप्ते शास्त्रमर्थवदिति” हि न्यायविदः । यत्तु नायं सर्प इति बुध्यस्वेत्यादौ भ्रमनिवृत्त्यर्थं ज्ञानविधिवद्दृश्यते; तत्रापि नायं सर्प इत्येतावतैव सिद्धं ज्ञानं विस्रम्भमभिसन्धाय विधेयवदनूद्यते ।
यदिच नायं सर्प इत्येतावता भ्रमो न निवर्तेत, तदा जानीहीति परश्शतविधानेऽपि कथं तन्निवृत्तिः? अतः “तत्त्वमसि” (छा-6-8-7) इत्याद्युपदेशात् सोऽहमित्यादिरूपेण विवर्तमानया धियैव विशुद्धाधिष्ठाननिष्ठया समूलभेदभ्रमोन्मूलनमिति ।
अत्र ब्रूमः- “सिद्धे विश्वस्य मिथ्यात्वे धीमात्रात्तन्निवर्तनम् । तदेव न घटेतेति यथावदभिधास्यते ।।” यत्तु लौकिकदोषस्याविद्यायाश्च मिथ्यात्वाविशेषेऽपि व्यावहारिकव्यवस्थया वैषम्यमुक्तं, तदपि न, मिथ्याभूतानामपि काचकामलादिदोषाणां ज्ञानेतरनिवर्त्यत्वे दृष्टे सत्यविद्यायामपि तदविरोधात् । अस्त्वविरोधः, तथाऽपि प्रयोजकोपदेशजन्यज्ञानादेव तन्निवृत्त्युपपत्तेः । हेत्वन्तरपरिग्रहे कल्पनागौरवमिति चेन्न, श्रुते तदभावात्, तत्परिग्रह एव तत्प्रसङ्गाच्च । नहि श्रुतहानं न्याय्यम्, येच ब्रह्मव्यतिरिक्तं सर्वं मिथ्येति प्रयोजकज्ञानवन्तः, तेऽपि चक्षुरादिगततिमिरादिदोषनाशाय प्रतिभटभङ्गाय च भेषजशास्त्रादीन् प्रयुञ्जाना दृश्यन्ते, नपुनर्मिथ्यात्वाध्यवसायमहाभेषजं प्रमाणयन्तो जोषमासते । आहुश्च-
“मायावादिमतस्थाश्च महारोगेण (दूषि) पीडिताः ।
मञ्चे शयाना दृश्यन्ते किंच भेषजकांक्षिणः” इति ।
तस्मादविद्यायामपि मिथ्यात्वाध्यवसायस्य प्रयोजकोपदेशवशात्सिद्धावपिदोषान्तरवदेव ज्ञानेतरहेतुनिवर्त्यत्वाविरोधात् तदर्थं कर्माङ्गकोपासनविधानं नानुपपन्नम् । उक्तं च वरदराजाचार्यैः-
“यथा हरीतकीखादः क्रियते दोषशान्तये ।
तद्बद्दुरितशान्त्यर्थं क्रियतां हरिर्कीतनम्” इति ।
यत्तूक्तं न ज्ञानं स्वरूपेण विधातुं शक्यमिति, तत्किं ज्ञानस्याभाव्यरूपतया, उताभावार्थतया, यद्वा साक्षात्प्रयत्नविषयत्वाभावात्, अथवा साक्षात्पुरुषव्यापारत्वाभावात्, उत सांशभावनानुप्रवेशविरहात्, अन्यस्माद्वा कुतश्चिदिति । न प्रथमः, भवत्पक्षे वृत्तिरूपस्य परपक्षे त्वात्मविशेषगुणस्य अस्मत्पक्षे तु तदवस्थाविशेषरूपस्य करणाधीनतया भाव्यत्वसिद्धेः । आहुश्च-
“कादाचित्कस्वभावस्य भाव्यत्वं केन वार्यते ।
तस्याकारणजन्यत्वे चार्वाकमतचवर्णम्” इति ।
न द्वितीयः, “ज्ञा अवबोधने” इति भावार्थतयैव पाणिनीयस्मरणात्, आत्मस्वरूपभूतज्ञानस्य तु विधानप्रसङ्गाभावात् । न तृतीयः, प्रयत्नस्या विधेयत्व प्रसङ्गात्; लोके हि स्वाभिमतकार्यार्थं प्रयतेतेति प्रयत्नविषयविधानदर्शनात् । न चतुर्थः, भावार्थान्तराणामप्यविधेयत्वप्रसङ्गात् । न पञ्चमः, “यष्टव्य” इत्यादौ यागादेरिव “द्रष्टव्य” इत्यादौ दर्शनादेरपि तदनुप्रवेशे विरोधाभावात् ।नापि षष्ठः, ज्ञानविधिविरोधिनः कस्यचिदन्यस्यापि कुतश्चित्सिद्ध्यभावात् ।
किञ्च यदि ज्ञानं न विधेयम्, कथं तर्हि यागादिविधिरपि न भज्येत? यागोऽपि हि देवतोद्देशेन द्रव्यत्यागात्मा बुद्धिविशेष एव । एवञ्च द्वादशाहे अविवाक्ये दशमेऽहनि बुद्धिविशेषरूपस्य मानसग्रहादेः, कथं विधेयतेष्यते? कथं वा मनश्चिताद्यग्नीनां दृष्टिरूपाणां तत्त्वविषयाणां चोपासनानां विधेयत्वमिष्यते? कथञ्च दर्शनार्थतयाऽपि श्रवणमनननिदिध्यासनानि विधेयानीच्छसि? तान्यपि ज्ञानविशेषरूपाण्येव । ननु न तानि ज्ञानरूपाणि, अपि तु तदर्थव्यापाररूपाणीति चेत् तन्न; तदर्थत्वे सत्यपि तेषामपि स्वरूपस्य ज्ञानरूपत्वात् । श्रवणं हि नाम तत्वदर्शिन आचार्यान्न््याययुक्तार्थ गृहणं । मननमपि तथा एवमेवैवतदिति प्रतिष्ठापनरूपो व्यवसायः, निदिध्यासनमपि अनवरतभावनात्मकस्मृतिसन्तानः । तदेवमेषां ज्ञानभूतानामेव यदि विधेयत्वमिष्येत, कथं “द्रष्टव्य” इत्यत्र दर्शनस्य विधेयत्वं नेष्यते । तथाच-
“विष्णुर्यष्टव्य इत्यादौ विधिबाधनदर्शनात् ।
सर्वत्र स्याच्च तद्बाधोदर्शने वा न बाधनम् ।।”
अथ च ध्यानफलतया दर्शनमनूद्यत इति मन्यसे, तदा मननध्यानयोरपि पूर्वपूर्वफलतयाऽनुवादइति किं न कल्पयसि? अस्त्वेवमिति चेन्न; “फलोपकार्यङ्गतया श्रवणादित्रयविधि”रिति युष्माभिः प्रतिपादनात् । तथा चैकत्रैव विधेयत्वमनुवाद्यत्वं चेति विरोधः; नहि विरुद्धत्रिकद्वयापत्तिरनुमन्यते तान्त्रिकैः । उक्तं हि “उद्देशेनानुवादेन प्राधान्येन समन्वितम् । उपादानं विधानं वा गुणत्वं नैव दृश्यते” इति । “उपस्थितेऽतस्तद्वचनात्” (ब्र.सू.3-3-40) इति सूत्रोक्तन्यायेनोपासनस्य सांसारिकफलोत्तीर्णे प्राकरणिक स्वरूपाविर्भावपूर्वक निरतिशयानन्दब्रह्मानुभवाख्यफले सति “द्रष्टव्य” (बृ.4-5-4) इत्यत्र निष्कारणविधिभङ्गप्रयासेन दर्शनस्य फलत्वं किमर्थं कल्प्यते? । नियोगसाध्यत्वे मोक्षस्या नित्यत्वप्रसङ्गादिति चेन्न, मोक्षशब्देन दुःखध्वंसविवक्षायां साध्यत्वेऽपि नित्यत्वोपपत्तेः, प्रायश्चित्तधर्मसाध्यपापध्वंसवच्च । नच दुःखप्रध्वंसो मोक्षः, किन्तु दुःखहेतुसर्वकर्मध्वंसः, दुःखस्य क्षणिकत्वेन स्वयमेव विनाशात् । पुनर्दुःखानुत्पत्तिविवक्षायां तस्यास्साध्यत्वाभावेन प्रसञ्जकाभावः । ब्रह्मस्वरूपविवक्षायामपि तेनैव दत्तोत्तरत्वम् । नह्यनादिसिद्धं ब्रह्म उपायसाध्यमित्यनुन्मत्तो ब्रवीति । स्वरूपाविर्भावविवक्षायामपि नियोगविशेषादत्यन्तवृत्ते प्रतिबन्धे स्वरूपमात्राधीनस्य स्वरूपाविर्भावस्य स्वरूपवन्नित्यत्वात्पुनः प्रतिबन्धाभावाच्चानिवर्त्यत्वमुपपद्यते ।
ननु यद्युपासनविधेः फलतया मोक्षः स्वीक्रियते, तर्हि श्रवणमननदर्शनविधीनां किं फलमिति चेन्न, “श्रोतव्यो मन्तव्य’ (बृ.6-5-6) इत्यनयोर्विधित्वाभावात्, “द्रष्टव्य’ (बृह – 4-5-4) इत्यस्यतु पृथग्विधित्वाभावात्, निदिध्यासनापरपर्यायमुपासनमेव दर्शनरूपं तस्मिन्विधेयम् । तथा हि-श्रवणं तावत् साङ्गसशिरस्कस्वाध्यायाध्ययनजनितापातप्रतीतिविदितपुरुषार्थतत्साधननिर्णयार्थिनः पुरुषस्य रागत एव सिद्धमिति न तत्र विध्यपेक्षा । श्रवणप्रतिष्ठार्थत्वान्मननस्य तदपि तत एव सिद्धमिति न तत्रापि । अतो यथावस्थितवाक्यार्थाध्यवसायस्य ध्यानोपकारकत्वात् तज्जनकयोः श्रवणमननयोरिहानुवाद एव । ध्यानं त्वप्राप्तत्वाद्विधेयमेव । यद्यपि चात्र विषयस्यानुकूलत्वात्तच्चिन्तनेऽपि रागस्सम्भवति, तथाऽपि तत्तद्गुणविशेषविशिष्टस्याहरहरनुवर्तनीयस्य साङ्गस्य तस्य
फलसाधनत्वधियमन्तरेण तथाविधविशिष्टानुष्ठानस्य रागप्राप्तत्वं न संभवति, सा च धीश्चोदनयैव, तन्मूलश्च रागो यागादिष्वपि समानो विधेरपेक्षितश्चेति न दोषः ।
ननु यदि ध्यानोपकारकतया श्रवणमननयोरनुवादस्तर्हि “द्रष्टव्य’ (बृह-4-5-4) इत्येव विधिरस्तु, ध्यानं तु तदुपकारकत्वेन सिद्धत्वाच्छ्रवणादिवदनूद्यत इति कल्प्यमिति चेन्न; ध्यानस्य दर्शनोपकारकत्वं किमदृष्टद्वारा? उत दृष्टद्वारा? न पूर्वः, तस्य चोदनामन्तरेणासिद्धेः । उत्तरत्रापि दर्शनशब्देन किं चाक्षुषं ज्ञानं विवक्षितम्? उत प्रत्यक्षमात्रम्? यद्वा प्रत्यक्षसमानकारमिति? आद्ये, “न चक्षुषा गृह्यते नापि वाचा “(मुडं.3-2-8)” “मनसा तु विशुद्धेन” (?) इत्यादिश्रुतिविरोधः । द्वितीयेऽपि किं लौकिकं प्रत्यक्षम्? उत योगिप्रत्यक्षम्? पूर्वत्र ध्यानस्य लौकिकप्रत्यक्षजनकतायामन्वयव्यतिरेकाद्यभावेन अदृष्टद्वारा तत्सिद्धौ तत्रापि चित्रपशुफलत्वादाविव विध्यपेक्षैव । भावनाबलजं तु प्रत्यक्षं नाभ्युपगच्छामः । तस्यच “वृक्षे वृक्षे च पश्यामी’ (श्रीमद्रमाद्यणंतिवद्भ्रान्तौ स्मृतिवैशद्यमात्रे वा पर्यवसानात् । न भ्रान्तिः, अनङ्गीकारात् । नापि स्मृतिवैशद्यम्, अस्मत्पक्षाङ्गीकारप्रसङ्गात् । इतरत्र तु योगितप्रत्यक्षस्य प्रकृष्टादृष्टजन्यत्वात्तन्मूलविध्यपेक्षायां “निदिध्यासितव्य” इत्ययमेवात्र विधिरङ्गीकार्यः। तृतीये तु “द्रष्टव्य” इत्यनेन ध्यानस्यैव वैशद्यलक्षण विशेषविधानमिति तदेव सामान्यतो “निदिध्यासितव्य” इत्युच्यत इति वैशद्यविशिष्टध्यानसिद्धौ ध्यानदर्शनयोस्साध्यसाधनभावाभावात् कथं दर्शनार्थतया ध्यानानुवादः ।
नन्वेवमस्तु ध्यानस्य विधेयता, दर्शनं तु योगिप्रत्यक्षात्मकं पृथग्विधेयमिति किं नाङ्गीक्रियते, पृथक्फलनिर्देशाभावादिति न वक्तव्यम्; मोक्षार्थतया विधेयस्य दर्शनस्य प्रधानत्वे तन्निर्वर्तकतया ध्यानस्यापि विधाने पृथक्फलनैरपेक्ष्यात्प्रधानवाक्यार्थैक्योपपत्तेश्च, अन्यथा दर्शनशब्दस्य मुख्यार्थभङ्गश्चेतिचेत् ।
मैवम्, “ध्रुवा स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’ (छां.7-26-2) इति क्वचिद् ध्रुवानुस्मृतेः साक्षात्सर्वग्रन्थिविप्रमोक्षहेतुत्वं श्रूयते स्मृतिलम्भ इति सप्तम्या । क्वचित्तु “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे (मुंड-2-2-1) इतिदर्शनस्य तयैव फलसाधनत्वं श्रूयते । अनयोर्न तावदेकफलसाधनयोर्विकल्पः; गुरुलघुविकल्पायोगात् । अधिकारिभेदेन व्यवस्थितविकल्पकल्पनायामतिगौरवम्, विकल्पकल्पनतद्व्यवस्थाकल्पना चेति । किञ्च विकल्पस्य प्रयोगत्रयेण प्रामाण्यत्यागाप्रामाण्यस्वीकारत्यक्तप्रामाण्यस्वीकार स्वीकृताप्रामाण्यपरित्यागा वृत्तिरूपाष्टदोषदुष्टत्वादन्याय्यत्वमेव ।
नापि समुच्चयः, यौगपद्यस्या शक्यत्वात् । क्रमेऽप्युपकार्योपकारकयोरुपकार्यस्य फलहेतोरङ्गिनः स्वाङ्गेन सह समुच्चयायोगात् । न च क्रमिक्योरपि दर्शपूर्णमासयोरिव धृवानुस्मृति दर्शनयोरेकं कारणत्वं । तदुपस्थापकश्रुत्यद्यभावात् । न च अङ्गभूतायां ध्रवानुस्मृतावङ्गिनो दर्शनस्यैव फलं कीर्त्यत इति न विरोध इति वाच्यम्, अङ्गाङ्गिभावस्याद्याप्यनिश्चितत्वात्, दृष्टद्वारस्यासिद्धेः अदृष्टद्वारकल्पने गौरवात् । स्वतः प्रतीयमानार्थभङ्गे च श्रुतहानिदोषात् । न चात्र प्रजापतिवाक्यनयः, भूयसां न्यायविरोधात्, “द्वैधे बहूनां वचन”मिति तान्त्रिकाः । भूयांसि हि वाक्यानि ध्यानोपासनादिशब्दैर्ध्रुवानुस्मृतिमेव मोक्षसाधनमभिदधति । न केवलं श्रुतिरेव, स्मृतीतिहासपुराणसर्वोत्तरतन्त्रयोगसांख्यशास्त्राण्यपि । दर्शनं त्वल्पवाक्यावसितम् । एवमीश्वरोपासनस्यैव भूयोभिर्वाक्यैर्मोक्षसाधनत्वावसायात् तदन्यनिषेधश्रुतिसामर्थ्यात् क्वाचित्कजीवोपासनानां मोक्षसाधनतया श्रुतानां यथालिङ्गं जीवविशिष्टपरमात्मविषयतया अङ्गतया वा निर्वाहः, अत्र तु न तथेति विशेषः । अतः परिशेषाद् ध्रुवानुस्मृनिदर्शनयोरैक्य एव पर्यवसानम् । विस्तृतं चैतद्भाष्य एव-छागपशुन्यायेन वेदनध्यानादिशब्दानामुत्तरोत्तरं विश्रान्तिप्रतिपादनात् ।
एवं स्थिते स्मृतिदर्शनशब्दयोर्मुख्यैकार्थासम्भवे कस्यचिदौपचारिकत्वमवश्याश्रयणीयमिति चावधारिते स्मृतिशब्देन प्रत्यक्षज्ञानोपचारे अतिशयासिद्धेः; दर्शनशब्देन तु स्मृतेरुपचारे प्रत्यक्षसमानाकारतारूपवैशद्यातिशयलक्षणविशेषसिद्धेश्च दर्शनशब्देन विशदतमा ध्रवानुस्मृतिरेव विवक्षितेत्यङ्गीक्रियते । अतोऽत्रापि निदिध्यासितव्य इति घु्रवानुस्मृतिविधानात् “द्रष्टव्य” इत्येतदपि तद्विशेषसमर्पकमिति । तेन “स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’ (छा.7-26-2) “तस्मिन्दृष्टे परावरे’ (मुंड-2-2-1) इत्यत्र छागपशुन्यायनिर्णीतोऽर्थः एकस्मिन्नपि वाक्ये “निदिध्यासितव्यः”, “द्रष्टव्य” इत्यनयोरप्याश्रीयत इति न विरोधः । नचतव्यप्रत्ययद्वयविराेधः, “अग्नये पथिकृते’ (पू.मी.6) इत्यादिषु एकविधेयत्वेऽपि चतुर्थीद्वयवदविरोधात् । एवं स्थिते यदि वाक्यार्थज्ञानस्य मोक्षोपायता तदोपासनादिविधिनैरर्थक्यं दुष्परिग्रहम्, शब्दजन्यप्रत्यक्षवादस्तु परिहरिष्यते (वादः 7) ।
यत्तु वाक्यार्थज्ञानोत्पत्तौ प्रतिबन्धकभेदवासनानिरासद्वारेण श्रवणमनननिदिध्यासनानामुपकारकत्वमुक्तम्, तदपि हास्यं,
वाक्यस्याकाङ्क्षायोग्यतासन्निधिपरामर्शमन्तरेणापेक्षणीयान्तराभावात् । सत्यां तु सामग्र्यां वाक्यार्थज्ञानानुत्पत्त्यनुपपत्तेः ।
नच प्रतिबन्धकमपि सामग्रीवैकल्यपर्यवसितम्,
यथाऽऽहुः-“प्रतिबन्धोऽ विसामग्रीतद्धेतुप्रतिबन्धक” (न्यायकु – 1-10) इति ।
विपरीतवासनायाः प्रतिबन्धकत्वस्यैवासिद्धेः, सत्यामपि विपरीतसर्पादिवासनायामाप्तोपदेशलिङ्गादिभिः सर्पादिबाधकं तत्त्वज्ञानमुत्पद्यते । अत एव “असम्भावनाविपरीत सम्भावनाख्यचित्तविक्षेपद्वारा भेदवासनायाः प्रतिबन्धकत्व” मित्येतदपि निरस्तम् । यदिच भेदवासनानिरसनद्वारेणाद्वैतवाक्यार्थज्ञानोत्पत्तिरिष्यते, तदा न कदाचिदपि तदुत्पत्तिस्सेत्स्यति, उक्तं हि –
“यावच्छरीरपातं हि किं न वर्तेत वासना ।
तन्निवृत्तौ कथं पुंसामुन्मीलननिमीलने” इति ।
किञ्च अनादिकालोपचितानां पटुतरप्रत्ययाभ्यासादरैर्दृढतरनिरूढानाम परिमितानां भेदवासनानां कतिपयकालसाध्या विशदप्रत्ययादिमूलाल्पीयस्तमाद्वैतवासनया निरसितुमशक्यत्वात् ।
किञ्च तत्त्वज्ञाने सति तद्विषयभावनया तद्विपरीतवासनानिरासः तन्निरासे च तत्त्वज्ञानमिति मिथस्संश्रयस्स्यात् ।
तदप्याहुः-“उत्पन्ने सति विज्ञाने वासना तु निरस्यते । निरस्तवासनस्यैव विज्ञानमिति दुर्भणम्” इति ।
अनुत्पन्न एव तत्त्वज्ञाने श्रवणमनननिदिध्यासनैः क्रमात्तन्निरास इति चेत्, किं तानि तत्त्वगोचराणि? उतातत्त्वगोचराणि? पूर्वत्र विपरीतवासनायां सत्यां तेषामप्यनुत्पत्तिरेव । उत्तरत्रातत्त्ववासनया कथं तत्त्वज्ञानोत्पत्तिप्रतिबन्धकवासना निरासः?तथाच-“सागरं गन्तुकामस्य हिमवद्गमनोपम”मिति न्यायः । किञ्च अभेदज्ञाने सिद्धे भेदवासनानिरासस्य किमर्थमपेक्षा? तदसिद्धौ तु तत्प्रतिपक्षवासनानिरासाभिलाषानुत्थानम् । नह्यभेदज्ञानप्रतीतिरभेदप्रतीतिमन्तरेण स्यात् । नच प्रतीतौ तु वैशद्यावैशद्यादिवैषम्यं त्वया वक्तुं शक्यम्, अभेदस्य ब्रह्मस्वरूपायमाणस्य सर्वदैकरूपत्वात्, विशेषग्रहे च भेदप्रतीतित्वप्रसङ्गात् । नच व्यावहारिकभेदोऽत्रास्तीति वाच्यम्, भेदवासनानिरासद्वारेणाभेदग्रहस्य परमार्थविषयत्वात् । अतो न भेदवासनानिरासद्वारेण श्रवणादित्रयस्य दर्शनोपकारकत्वमिति ।
यत्पुनरुक्तम्, “ब्रह्म वेद ब्रह्मैव भवति” (मुंड-3-2-1) इत्यादौ ज्ञानमात्रस्यैव मोक्षहेतुत्वं श्रूयते; न हि प्रतिपन्नेऽर्थे नास्तिकत्वं न्याय्यम्; अत एवोच्यते “नैषा करणमितिस्तर्केणापनेया ”(कठ-2-9) इतीति, तदप्यसत्; सामान्यशब्दानां विशेषे पर्यवसानस्य पश्वाधिकरणादिन्यायसिद्धत्वात् । न्यायानपेक्षत्वे किं शारीरकशास्त्रेणापि । ध्यानोपासनशब्दयोश्च ज्ञानविशेषविषयतयाज्ञानसामान्यविषयवेदनादिशब्दानां तस्मिन् विशेषशब्दार्थ एव पर्यवसानं युक्तम्, विकल्पसमुच्चयफलान्तरार्थाद्यसम्भवस्योक्तत्वात्; तदुक्तम्-
“अष्टदोषा विकल्पे स्युर्गौरवं च व्यवम्थितौ ।
समुच्चयेऽनपेक्षा स्यादङ्गाङ्गित्वं न मीयते” इति ।
तथा विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनाच्च तयोरैकार्थ्यं सिद्धम् । “मनो ब्रह्मेत्युपासीत” (छां.3-28-2) इति विहितमेव ह्युपासनम्, “भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद” इति फलविधानार्थमनूद्यते । नह्यफलं विधायान्यत्सफलमनुवदितुं युक्तम्, एवं, “यस्तद्वेद यत्स वेद” (छां.4-2-4) इति वेदनशब्दमात्रश्रावी जानश्रुतिः तदर्थम् “यां देवतामुपास्से’ (छां.4-2-2) इत्युपासिनाऽनु वदति । एवमन्यत्रापि । तथा “तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते” (तै.आ.3) “नाहं वेदैर्न तपसा” (श्री.गीता.22-43) इत्यादिश्रुतिस्मृत्योर्वेदनभक्तिशब्दाभ्यां मोक्षोपायमभिधाय तदपरोपायनिषेधपरयोः परस्परार्थप्रतिक्षेपानुपपत्तेः वेदनशब्देनापि तैलधारावदविच्छन्नभक्तिरूपज्ञानविशेष एव विवक्षित इति स्वीकर्तव्यम् ।
एवं ध्यानोपासनभक्तिशब्दसमानार्थतया वेदनादिशब्दानां विशेषविषयत्वे निश्चिते सति सामान्यमात्राश्रयणं न्यायानभिज्ञतानिबन्धनम् । तदुक्तम्-
“पशोश्छागत्वनिर्णीतौ निपुणन्यायपूर्वकम् ।
गर्दभादिषु तुल्यत्वं गर्दभप्रायकल्पितम्” इति ।
यत्पुनर्वाक्यतस्सिद्धस्यैव ज्ञानस्य विधेयत्वं न सम्भवतीति तदस्माकमिष्टमेव, ततोऽन्यस्यैव विधानोपपादनात् । प्रत्यक्षविरुद्धश्चायमविधेयज्ञानाधीनमोक्षवादः वाक्यार्थज्ञानमात्रेणाविद्यानिवृत्त्यदर्शनात्; आहुश्च-
“तत्त्वमस्यादिवाक्यस्य शतशश्श्रवणेऽपि हि ।
दृश्यते त्वमहंपूर्वो विवादो ब्रह्मवादिनाम्” इति ।
ननु येषां वाक्यार्थज्ञानं जातं तेषां तन्निवृतिरम्त्येव, येषां तु सा नास्ति तेषां तदपि न जातमित्यविरोध इति चेत् तन्न,तज्ज्ञानाभावे तत्प्रवचनाद्यसंभवात्, तदसंभवे च शिष्याणां श्रवणादेरप्यसिद्धिप्रसङ्गात् । एवमाचार्यस्यापि । अथ वाक्यार्थज्ञानेन निवृत्ताविद्या एवाविद्यावतां श्रावका इति चेन्न; तेषां श्रावकत्वादिव्यापारस्य तत्करणशरीरेन्द्रियादेस्तत्प्रयोजनस्यच ख्यातिलाभपूजापरानुग्रहादेस्तत्तत्प्रतिभासस्य चाविद्यामन्तरेणासम्भवात् । अविद्यानिवृत्तावपि बाधितानुवृत्त्या भेदप्रतिभासात् प्रत्यक्षाद्यविरोधः प्रवचनाद्युपपत्तिरितिचेत्; तन्न;भवत्पक्षेबाधितानुवृत्यसम्भवस्यवक्ष्यमाणत्वात् । तथाप्यविशद प्रतिपत्तिमात्रादविद्याविशेषवशादेव वा प्रवचनाद्युपपत्तिरिति चेन्न, विशदप्रतीतिपरामर्शरूप प्रत्यक्षसिद्धान्तयोर्विराधात् । विशदाध्यक्षितसमस्ततत्वार्थाश्च वासुदेवादयोऽर्जुनादिभ्य उपदिशन्तीतिहि स्वीकृतं युष्माभिः । नचाद्वैतसिद्धान्तश्रावकास्स्वात्मनां तदनभिज्ञतामनुमन्यन्ते । तथा सत्यविवादश्च । किञ्च प्रतिवादिनः प्रबलाविद्याः कथं भवत्पक्षं प्रतिक्षिपन्ति? न तावदविदित्वैव, निराश्रयवादायोगात्। विदित्वा चेत् कथं तर्हि प्रतिवादिना विदिते भवत्पक्षे भवतां ज्ञानानुत्पत्तिः? नहि स्वोक्तं परे जानन्ति वयं तु न विद्म इति स्वस्थैरभिधेयम् ।
यत्तदविद्यानिवर्तकं विशदमद्वैतज्ञानमुदेष्यति, यच्चेदानीं श्रवणादविशदमुत्पन्नम्, तदुभयं भिन्नविषयमेकविषयं वा? भिन्नविषयत्वे
तस्यान्यसिद्धान्तज्ञानवत्तदनुपकारकत्वम् । एकविषयत्वेऽप्यन्यूनानतिरिक्तविषयं वा प्रकारविशेषविशेषितविषयं वा? आद्ये पश्चात्तनस्याप्यनिवर्तकत्वम्, इदानीन्तनस्यैव वा निवर्तकत्वं स्यात्; अविशेषात् । द्वितीये ब्रह्मणस्सविशेषत्वं स्यात् । सविशेषमिदानीं गृहीतं पश्चात्तु निर्विशेषं प्रकाशिष्यत इति वैषम्यमिति चेत्; कथमिदं त्वयाऽवगतम्? श्रुतेरितिचेत्; तर्हि श्रुतेरेव निर्विशेषज्ञानमिदानीमेव जातमिति कः पश्चातनस्य विशेषः? । ज्ञानमिदानीं जातं व्यवसायस्तु पश्चाद्भविष्यतीति विशेष इति चेन्न; वेदप्रामाणयनिश्चये तदानीमेव व्यवसायोदयात्, तदनिश्चयेतु पश्चादपि तदसिद्धेः । प्रमाणत्वाभ्युपगमे वा तदर्थविशेषे सन्देह इति चेत्,;तर्हि विशदप्रवचनप्रवीणेभ्य आचार्येभ्यो न्यायपूर्वं द्विस्त्रिश्शतशो वा श्रोतव्यम्, नपुनश्श्रवणदशायामेव सन्दिहानेन भवता पश्चादनवरतध्यानेनापि ज्ञातुं शक्यम् । मननवदाहार्यसन्देहनिराकरणाय पश्चात्तनं ज्ञानमिति चेन्न; मननेनैव संभावितनिष्कम्पत्वे पुनरन्यावकाशाभावात्; अन्यथाऽतिप्रसङ्गात् । अस्तु तर्हि पारोक्ष्यापारोक्ष्यलक्षणं वैषम्यमितिचेत्; विषयातिरेकाभावेनैव प्रागुक्तेन तदसिद्धेः; सिद्धावपि बाधकत्वमबाधकत्वं च प्रत्यकिञ्चित्करत्वात् । परोक्षेणापि शास्त्रानुमानजन्यज्ञानेना परोक्षभ्रमबाधस्याभ्युपगमात्, प्रत्यक्षेणापि देहात्मभ्रमादिना शास्त्रबाधानाभ्युपगमाच्च । उत्पन्ना भ्रान्तिरनित्यत्वात्स्वयमेव निवर्तते, भ्रान्त्यनुवृत्तिनिवृत्तिस्तु कारणानुवृत्तिनिवृत्त्या भवति, तदनुवृत्तौ तुबाधकस्य प्रत्यक्षत्वेऽपि भ्रान्त्यनुवृत्तिर्भवत्येव, चन्द्रैकत्वे प्रत्यक्षेऽपि अङ्गुल्यवष्टम्भादिना भ्रान्त्यनुवृत्तिवत् । वाक्यजन्यज्ञानमपरोक्षमिति च सर्वलोकविरुद्धम्; पृथक्चैतत्प्रपञ्चयिष्यामः (वादः7) ।
तदेतदखिलं मुखान्तरेण प्रपञ्चितं भाष्ये-“न तावद्वाक्यार्थज्ञानमि”(श्रीभाष्यं)त्यादिना विस्तरेण ।।
।। इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां अविधेयज्ञानभङ्गवादश्चतुर्थः ।। 4 ।।