सिद्धान्तसिद्धाञ्जनम्-ईश्वरपरिच्छेदः

श्रीः

श्रीमते रामानुजाय नमः

श्रीमदनन्ताचार्यविरचिता सिद्धान्तसिद्धाञ्जनम्

अनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने ईश्वरपरिच्छेदः तृतीयः

अथेश्वरो निरूप्यते ॥

     *विभुत्वे सति चेतनत्वम् तल्लक्षणम्* । जीववारणाय सत्यन्तम्, कालवारणाय विशेष्यम् । प्रमेयत्वव्यापकत्वनिरूपकत्वरूपम् सर्वस्वामित्वम्, सर्वकर्मजन्यप्रीत्याश्रयत्वरूपम् सर्वकर्म-
समाराध्यत्वम्, सर्वकर्मफलोत्पादकसङ्कल्पवत्त्वरूपम् सर्वफलप्रदत्वम्, सर्वद्रव्यपतनप्रतिबन्धक सङ्कल्पवत्त्वरूपसर्वाधारत्वम् च – तल्लक्षणम् । न च – ईश्वरस्य विभुत्वे *अनुप्रविश्य नामरूपे व्याकरवाणि* इत्यादिश्रुत्युक्तमनुप्रवेशादिकम् नोपपद्यत इति – वाच्यम्; विलक्षणसम्योगस्यैवानुप्रवेशशब्दार्थत्वात् । न च -भगवन्निरूपितस्वत्वस्य सर्वत्र सिद्धत्वे अग्नये स्वाहेत्यादावग्निपदस्याग्न्यन्तर्यामिपरत्वानुपपत्तिः, हविर्निष्ठस्वत्वरूपफलावच्छिन्नस्वस्वत्वध्वम्सानुकूलव्यापारस्यैव स्वाहापदार्थत्वात्तत्र स्वत्वरूपफलेऽन्तर्यामिनिरूपितत्वासम्भवादिति-वाच्यम्; तत्र विशेषणीभूताग्निनिरूपितत्वस्यैव स्वत्वरूपफलेऽन्वयाङ्गीकारात् । न चैवमपि – भगवते गाम् ददाति, आत्मानम् समर्पयतीत्यादिव्यवहारानुपपत्तिरिति-वाच्यम्; तत्र स्वत्वप्रकारतानिरूपितविशेष्यत्वरूपफलावच्छिन्नस्वस्वत्व-ध्वम्सानुकूलव्यापारस्यैव ददात्यर्थत्वात् भगवन्निरूपितस्वत्वस्य सर्वत्र सिद्धत्वेऽपि सर्वेषाम् तज्ज्ञानाभावेन तत्प्रकारकज्ञानीयविशेष्यतायाः फलत्वाविरोधात् । अत एव भगवति सर्वोत्कर्षस्य सिद्धत्वेऽपि भगवान् जयत्वित्यादिप्रयोगः ।  उत्कर्षनिष्ठप्रकारतानिरूपितविशेष्यताया एव तत्र जिधात्वर्थतया तस्या असिद्धत्वेन लोडर्थेच्छाविषयत्वस्य तत्रान्वयाबाधात् । न च – सर्वकर्मसमाराध्यत्वम् भगवतो न सम्भवति अन्येषामेवान्यभक्ताराध्यत्वादिति वाच्यम्;
*येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः ।

तेऽपि मामेव कौन्तेय यजन्त्य विधिपूर्वकम् ॥” इत्यादिभिरन्यदेवताभक्ताराध्यत्वस्यापि भगवत्यभिधानात् ॥  तत्र गौरवितप्रीतिहेतुव्यापाररूपयजिधात्वर्थतावच्छेदकप्रीतिरूपफले द्वितीयान्तार्थमद्वृत्तित्वान्वयात् क्षणध्वम्सिक्रियायाः
कालान्तरभाविस्वर्गादिजनकत्वासम्भवेन द्वारस्य वक्तव्यत्वे अत्यन्तापरिदृष्टापूर्वस्य द्वारत्वापेक्षया *स एवैनम् भूति गमयति*, *तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति* इत्यादिश्रुत्युक्तदेवताप्रसादस्यैव द्वारताया युक्तत्वेन निरुक्तसर्वफलप्रदत्वम् भगवत उपपन्नम् । न च–तत्रेन्द्रादिप्रीतेरेव द्वारत्वम् श्रूयते न भगवत्प्रीतेरिति-वाच्यम्; आराधितेन्द्रादिनाशे कल्पान्तरे फलोत्पादानुपपत्त्या तत्रेन्द्रादिपदस्य तदन्तर्यामिपरत्वावश्यकत्वात् । उपपादितम् चेदम् फलमत उपपत्तेरित्यत्र भाष्ये । निरुक्तसर्वाधारत्वम् च *एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः* इत्यादिश्रुतिसिद्धम् । *पाथसि पीते तृष्णा शाम्यति इत्यादाविव सतिसप्तम्या जन्यजनकभावलाभात् जगदुपादानत्वमपि तल्लक्षणम् । भाव्यवस्थाविशेषवतः प्रागवस्थायोगित्वमुपादानत्वम् । स्वावच्छेदककालानवच्छिन्नत्व स्वपूर्वत्वस्वसामानाधिकरण्यैतत्त्रितयसम्वन्धेन तद्धर्मविशिष्टधर्मवत्त्वम् तद्धर्मावच्छिन्नम् प्रत्युपादानत्वमिति फलितम् । मृत्पिण्डे निरुक्तसम्बन्धत्रयेण घटत्वावस्थाविशिष्टपिण्डत्वावस्थासत्त्वाद्घटत्वा-वच्छिन्नम् प्रति पिण्डत्वावच्छिन्नस्योपादानत्वोपपत्तिः; घटत्वावच्छिन्नम् प्रति द्रव्यत्वावच्छिन्नस्योपादानतावारणाय प्रथमसम्बन्धनिवेशः, घटत्वावस्थाध्वम्सविशिष्टस्यापि तदवच्छिन्नम् प्रत्युपादानत्ववारणाय स्वपूर्वत्वनिवेशः । घटाव्यवहितपूर्वतन्त्वादे-स्तदुपादानतावारणाय सामानाधिकरण्यनिवेशः । अन्यथासिद्धिनिरूपकतानवच्छेदकत्वस्यापि निवेशाच्च न घटत्वावस्थापूर्वकालीनवायुसम्योगादिविशिष्टस्य तदवच्छिन्नम् प्रत्युपादानत्वापत्तिः । न चैवम् – द्रव्यत्वाद्यवच्छिन्नस्य घटत्वाद्यवच्छिन्नम् प्रत्यन्यथासिद्धत्वादेव वारणे प्रथमसम्बन्धनिवेश- वैयर्थ्यमिति – वाच्यम् । अन्यथासिद्धत्वस्यैकस्याभावेन अन्यथासिद्धि- निरूपकतावच्छेदकत्वेन प्रामाणिकानाम् व्यवहारविषया ये ये धर्मास्तत्तद्व्यक्तित्वावच्छिन्नभेदकूटवत्त्वस्य निवेश्यतया विशेषणान्तरावार्याणामेव भेदकूटनिवेशेन वारणाङ्गीकारात् । सामानाधिकरण्यशरीरे च स्वाश्रयापृथक्सिद्धिसम्बन्धावच्छिन्ना स्वापृथक्सिद्धिसम्बन्धावच्छिन्ना चाधिकरणता अपृथक्सिद्धिसम्बन्धावच्छिन्नाधिकरणतात्वेन प्रवेश्या । *बालोऽपि यः प्रजानाति तम् देवाः स्थविरम् विदुः*, *काठिन्यवान्यो बिभर्ति* इत्यादिभिः स्वाश्रयापृथक्सिद्धेरपि वृत्तिनियामकत्वस्य सिद्धत्वात्तदवच्छिन्नाधिकरणताप्रसिद्धेः ॥ एवम् च – सूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मणः स्थूलचिदचिद्विशिष्टम् स्वम् प्रत्युपादानत्वमुपपन्नम् ॥ उक्तसम्बन्धत्रयेण स्थूलत्वविशिष्टसूक्ष्मत्वस्य तत्र सत्त्वात्, तादात्म्येन स्थूलविशिष्टम् प्रति तेन सम्बन्धेन सूक्ष्मविशिष्टब्रह्मणः कारणत्वात्, तादात्म्यसम्बन्धावच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणताश्रयत्वम् चोपादानलक्षणम् बोध्यम्; उपादानोपादेययोरभेदाच्च  तदनन्यत्वमारम्भणशब्दादिभ्य इत्यधिकरणोपपत्तिः ॥

अथैवम्— न विलक्षणत्वादस्य तथात्वम् च शब्दादित्यादिना
विलक्षणयोरुपादानोपादेयभावासम्भवमाशङ्क्य, दृश्यतेत्वित्यादिना तत्सम्भवसिद्धान्तकरणम् नोपपद्यते, अभिन्नयोरेवोपादानोपादेयभावे केनापि रूपेण वैलक्षण्याप्रसक्तेः – इति चेन्न । विशिष्टयोरुपादानोपादेयभावाङ्गीकारेऽपि विशेषणाम्शयोरिव विशेषणाम्शम् प्रति विशेष्याम्शस्याप्युपादानताया  अभिमतत्वात्तन्निर्वाहायाविलक्षणयोरप्युपादानोपादेयभावस्य व्यवस्थापनीयत्वात्, अवस्थाम् प्रति द्रव्यस्योपादानता निर्वाहायोपादानत्वलक्षणस्य तादात्म्या पृथक्सि- द्ध्यन्यतरसम्बन्धावच्छिन्नकार्यताघटितस्य परिष्कर्तव्यतया  विशेषणाम्शनिष्ठापृथक्सिद्धिसम्बन्धावच्छिन्नकार्यतानिरूपितकारण- त्वस्य विशेष्याम्शे सत्त्वेन तत्रोपादानत्वव्यवस्थापनस्यावश्यकत्वात्, अन्यथोपादानत्वलक्षणातिव्याप्तेर्दुर्वारत्वात् । अत एव विशेषणाम्शम् प्रति विशष्याम्शस्योपादानत्वपरा यतोवेत्यादिश्रुतिरुपपन्ना; तत्र भूतानीत्यस्य तच्छरीरकपरमात्मपरत्वे बहुवचनस्थ प्रत्यक्षविषयार्थकेदमर्थान्वयस्य *यत्प्रयन्त्यभिसम्विशन्ति* इत्यस्य च अस्वारस्यापत्तेः । क्वचिद्विशिष्टम् प्रति विशिष्टस्योपादानत्वमुच्यते – यथा *सदेव सोम्येदमग्र आसीत्*, *आकाशाद्वायुः* – इत्यादौ, तत्राकाशशरीरकाद्वायुशरीरक उत्पन्न इत्यार्थात् । तदभिध्यानादेव तु तल्लिङ्गात्सः – इत्यनेनाकाशादिशब्दस्य विशिष्टपरताप्रतिपादनात् पञ्चम्यन्ताकाशादिपदानाम् विशिष्टपरत्वे प्रथमान्तानामपि तेषाम् तत्परत्वावश्यकत्वात् । छान्दोग्यश्रुतौ *तत्तेज ऐक्षत*, *ता आप ऐक्षन्त* इत्यादीक्षणरूपलिङ्गात्तेजोऽप्शब्दयोर्विशिष्टपरत्वावश्यकतया तदनुरोधेन *अग्नेरापः, अद्भ्यः पृथिवी* इत्यत्र – अप्पदपर्यन्तम् विशिष्टपरतायास्स्वीकारेऽपि पृथिवीपदस्य विशेषणमात्रपरत्वमेव । ततश्च *पृथिव्या ओषधयः, ओषधीभ्योऽन्नम्, अन्नात्पुरुषः* इति च विशेषणानामेवोपादानोपादेयभावपरम् । अत एवानन्दमयाधिकरणे *स वा एष पुरुषोऽन्नरसमयः* इत्यत्र पुरुषपदस्य शरीरपरतया व्याख्यानम् सङ्गच्छते; अन्यथा पुरुषपदस्यापि विशिष्टपरत्वे विकारार्थकमयट्प्रत्ययानुपपत्ते:, उत्तरत्र *तस्यैष एवम् शारीर आत्मा* इति प्रतिपादनात्सर्वान्तरात्मत्वोपपादनायास्य प्रकरणस्य प्रवृत्तत्वेन तद्विरोधापत्तेश्च । विशेषणाम्शम् प्रति विशेष्याम्शस्योपादानत्वाभिप्रायेणैव श्रुतिप्रक्रियायाम् *यत्र हि द्वैतमिव भवति* इत्यादिश्रुत्यर्थविचारे भाष्यम् – *कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात्तत्प्रत्यनीकनानात्वश्रु प्रतिषिध्यते ॥* – इति ॥
अत्र जगत इति विशेषणमात्रपरम्, विशिष्टपरत्वे  तदन्तर्यामिकतयेत्यत्रान्वयानुपपत्तेः ॥ न च-जगत इत्यस्य विशिष्टपरत्वेऽपि तदन्तर्यामिकतयेत्यस्य विशेषणाम्शेऽन्वयाद्विशेषणमात्रपरस्य जगत इति  पदान्तरस्याध्याहारेण तत्रान्वयसम्भवाद्वा नानुपपत्तिरिति-वाच्यम्; अस्य वाक्यस्य विशिष्टोपादानतापरत्वे ब्रह्मकार्यतयेत्यत्र ब्रह्मपदस्य सूक्ष्मविशिष्टपरत्वावश्यकत्वेन तदन्तर्यामिकतयेति तच्छब्देन विशिष्ट- परामर्शे बाधात्, स्थितिदशायाम् सूक्ष्मावस्थानाशेन सूक्ष्मशरीरकस्यान्तर्यामित्वासम्भवात्, विशिष्टस्य प्रक्रान्ततास्थले विशेष्यमात्रस्य तच्छब्देन परामर्शायोगात्; अन्यथा तत्त्वमसीत्यादौ परमते लक्षणाभिधानासङ्गत्यापत्तेः । न च – सन्मूला इत्यत्र सच्छब्दस्य विशिष्टपरत्वेऽपि सदायतना इत्यत्र सच्छब्दस्य श्रुतप्रकाशिकोक्तरीत्या विशेष्यमात्रपरत्वात् विशिष्टस्य प्रक्रान्तत्वेऽप्यैतदात्म्यमित्यत्र विशेष्यमात्रस्यैतच्छब्देन परामर्शवत्प्रकृतेऽपि विशेष्यमात्रस्य तच्छब्देन परामर्शस्सम्भवतीति वाच्यम्; क्लिष्टकल्पनापत्तेः ॥
यदि च – सर्वम् खल्विदम् ब्रह्म तज्जलानिति शान्त उपासीतेत्यत्र विशिष्टोपादानत्वतात्पर्यानुरोधेन ब्रह्मपदस्य विशिष्टपरत्वे तत्पदस्यापि विशिष्टपरत्वम् वाच्यम्; तच्च न सम्भवति; विशिष्टस्य जननेऽन्वयसम्भवेऽप्यननपदार्थस्थितावन्वयासम्भवात्, सकृदुच्चरित इति न्यायविरोधैनैकस्य तच्छब्दस्योभयबोधकत्वासम्भवात् । अतो ब्रह्मपदस्य तत्पदस्य च विशेष्यपरत्वमेव वक्तव्यम्; विशिष्टस्य कारणत्वे विशेष्यस्यापि तदनपायेन जननेऽपि तदन्वयाविरोधात् । तथा च प्रकृतेऽपि ताहशश्रुत्यनुसारेण ब्रह्मपदस्य तच्छब्दस्य च विशेष्यपरत्वान्नानुपपत्तिरिति विभाव्यते; तदाऽपि – विशेषणाम्शम् प्रति विशेष्यस्योपादानत्वपरतयाऽपि तद्भाष्यस्य व्यासार्यैर्व्याख्यातत्वात्तदपि भाष्यटीकोभयाभिमतम् ॥

तत्रेयम् टीका –
*यद्वा – कृत्स्नस्य जगत इति निष्कर्षकशब्दः, ब्रह्मशब्दो विशेष्यमात्रपरः, ब्रह्मकार्यतया तदन्तर्यामिकतया च जगत्तदात्मकम्; तदात्मकत्वम् नाम जगतस्तत्प्रकारैकस्वभावतया प्रागवस्थानाभावात्तदन्तर्गतत्वम् तेन प्रकारेणैक्यम्, न तु स्वरूपैक्यम्; विशिष्टान्तर्भाव ऐक्यमित्यर्थः ॥* इति ॥
*दृश्यते तु* इति सूत्रे भावप्रकाशिका च –

*अत्रे केचित् – कारणकोटौ विशेष्यभूतस्य ब्रह्मणः कार्यकोटौ विशेषणभूतेष्वचेतनेष्वप्युपादानत्वमुपपादनीयम्, अन्यथा तस्य सर्वोपादानत्वासिद्धेः । अत एव श्रुतप्रकाशिकायाम् *यद्वा जगत इति निष्कर्षकश्शब्दः, ब्रह्मशब्दो विशेष्यमात्रपरः* इत्यादिना कार्यकोटौ विशेषणभूतस्य जगतः कारणकोटौ विशेष्यभूतम् ब्रह्म प्रत्युपादेयत्वशरीरत्वे स्तः – इत्याचार्यैः प्रतिपादितम् । ततश्च सालक्षण्याभावादुपादानत्वम् न सम्भवतीत्याक्षेपस्य अचेतनाम्शे चेतनत्वानुवृत्तिरस्तीति परिहारासम्भवादेतत्सूत्रोक्तन्यायेन विलक्षणयोरप्युपादानोपादेयभावोऽस्तीत्येवम् परिहर्तव्यम् – इति वदन्ति ॥*— इति ॥
तथा च – न विलक्षणत्वादित्यादिकम् विशेषणविशेष्ययोरुपादानोपादेयभावपरम्, आरम्भणाधिकरणम् च-विशिष्टयोरुपादानोपादेयभाव परम्; चमसवदविशेषादिति च-विशेषणाम्शयोरेवोपादानोपादेयभावपरमिति न परस्परम् विरोधः; चमसवदित्यत्र *विकारजननीमज्ञामष्टरूपामजाम् ध्रुवाम्* इत्यादिश्रुत्यनुरोधेन ब्रह्मशरीरभूताया अजाया उपादानत्वस्योक्तत्वात् ॥

नन्वेवम् – *ईक्षतेर्नाशब्दम्* *आकाशस्तल्लिङ्गात्* इत्याद्यधिकरणानुत्थितिः; विशेषणभूतप्रकृत्याकाशादीनामेवोपादानत्व- परतया *सदेव सोम्येदमग्र आसीत्* *सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते* इत्यादिश्रुतेरुपपत्तेस्सदाकाशादिपदानाम् ब्रह्मपरताव्यवस्थापनस्यानावश्यकत्वात्; सच्छब्दस्य परमात्मशरीरभूतप्रधानपरत्वाङ्गीकारेण तत्र विशेष्ये ईक्षणाद्यन्वयासम्भवेऽपि विशेषणे तदन्वयसम्भवात्; ब्रह्मपरतापक्षेऽपि विशेषणद्वारैव परिणामस्य वक्तव्यत्वात् ॥ न च – सदादिपदस्य परमात्मशरीरभूतप्रधानपरत्वे लक्षणा स्यादिति–वाच्यम्; सूक्ष्मचिदचिद्विशिष्टब्रह्मपरत्वेऽपि लक्षणाया अवर्जनीयत्वात्, शतदूषण्याम् सच्छब्दस्य विशिष्टपरत्वे लक्षणा दोष इत्याशङ्क्य, सर्वशब्दलक्षणापक्षादस्यैवोपादेयतमत्वाभिधानात् । एवम् चाकाशो हेवेत्यत्र न रूढित्यागोऽपि तद्वाक्ये ईक्षणादेरश्रवणेन परमात्मशरीरत्वेन बोधनावश्यकत्वात्, ब्रह्मपरतापक्षे रूढित्यागस्य दुस्त्यजत्वात्, अर्थविरोधेन अपशूद्राधिकरणसूत्रोक्तम् शूद्रशब्दरूढित्यागमुपजीव्यात्रापि रूढिम् विहाय आसमन्तात्काशत इत्यादियोगार्थस्य भाष्येऽङ्गीकारात् । यद्यप्याकाशाधिकरणटीकायामाकाशपदस्याकाशशरीरकत्वपरत्वाङ्गीकारेण रूढ्यपरित्याग उक्तः, तथापि वैश्वानराधिकरणटीकायामग्निपदस्य *शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते* *साक्षादप्यविरोधम् जैमिनिः* इति सूत्रद्वयानुरोधेन अग्निशरीरकपरताया अग्रनयनरूपगुण- विशिष्टपरतायाश्च स्वीकारे रूढ्यर्थयोगार्थप्रकारकवैश्वानरविद्ययोर्भेदापत्तिरित्याशङ्क्य चिदचिदसाधारणलिङ्गवत्सु वाक्येषु चिदचिद्वाचिपदानाम् तच्छरीरकपरत्वम् तादृशलिङ्गरहितेषु च योगार्थपरत्वमिति व्यवस्था-  करणादाकाशवाक्ये तादृशलिङ्गाभावेन योगार्थस्यैव युक्तत्वेन आकाशाधिकरणोक्तरूढ्यपरित्यागे व्यासार्याणाम् निर्भराभावात् । उक्तम् च न्यायसिद्धाञ्जने –
*परविद्यासु जीवोक्तिनिरुक्त्त्यादेः परराश्रया ।
तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ॥*

तथा च – आकाशादिपदानाम् योगेन ब्रह्मपरत्वव्यवस्थापनमफलम् – इति चेन्न ॥  आदेशशब्दोदितप्रशासितृत्व सत्यसङ्कल्पत्व तेजःप्रभृतिस्रष्टत्व – नामरूपव्याकर्तृत्वादीनाम् बहूनाम् विशेषणेऽन्वयाङ्गीकारस्यायुक्ततेत्यभिप्रायेणेक्षत्यधिकरणस्य प्रवृत्तेः; सच्छब्दस्य प्रधानपरत्वे गतिसामान्यन्यायविरोधाच्च । एवमाकाशशब्दस्य रूढिस्वीकारे ज्यायस्त्वपरायणत्वादीनामन्वयानुपपत्तेः परमात्मापृथक्सिद्धाकाशपरताम् स्वीकृत्य विशेषणे तदन्वयाङ्गीकारे च रूढित्यागस्यावर्जनीयत्वात् योगार्थपरत्वमेव युक्तम्; अन्यथा सर्वकारणत्वानुपपत्तेश्च । तथा च – विशेषणाम्शयोः पपस्परमुपादानोपादेयभावेऽपि न विरोधगन्धः ॥
ननु – सिद्धान्तेऽतिरिक्तावयव्यनभ्युपगमेन द्रव्यस्वरूपस्य नित्यतयाऽवस्थानामेवोत्पत्तिमत्त्वेन अवस्थाम् प्रति तदाश्रयद्रव्यस्योपादानत्वम्, पूर्वावस्थायाश्चासमवायित्वमित्येतदुचितम्; न
तु पूर्वावस्थाविशिष्टद्रव्यस्योत्तरावस्थाविशिष्टद्रव्यम् प्रत्युपादानत्वम्; द्रव्यस्य नित्यतयोपादेयत्वासम्भवात् । तथा महत्त्वादिरूपावस्थाविशिष्टद्रव्यम् प्रति प्रकृतित्वरूपावस्था- विशिष्टद्रव्यस्योपादानत्वासम्भवात् सुतरामुत्तरावस्था- विशिष्टद्रव्यशरीरकब्रह्म प्रति पूर्वावस्थाविशिष्टद्रव्यशरीरकब्रह्मण उपादानत्वम् न सम्भवति – इति चेत् ॥ मैवम् । सिद्धान्ते कालसम्युक्तत्वरूपकालसम्बन्धित्वस्य द्रव्यमात्रनिष्ठत्वेनावस्थासाधारण्याभावेनाद्रव्ये कालसम्बन्धित्वस्य द्रव्य- मात्रनिष्ठत्वेनावस्थासाधारण्याभावेनाद्रव्ये कालसम्बन्धित्वव्यवहारस्य गौणत्वादाद्यक्षणसम्बन्धरूपोत्पत्तेः पूर्वकालवृत्तित्वरूपकारणत्वस्य च द्रव्य एव सम्भवादुत्तरावस्थाम् प्रति पूर्वावस्थायाः कारणत्वमित्यस्यापि उत्तरावस्थाविशिष्टद्रव्यनिरूपितपूर्वावस्थाविशिष्टद्रव्यगतकारणतायामेव पर्यवसानात् । अद्रव्यस्यापि कालसम्बन्धित्वस्वीकारे पूर्वमसत्या एवावस्थाया उत्पत्तिस्वीकारापत्त्या असत्कार्यवादस्य दुर्वारत्वात् । स्ववृत्तिध्वम्सप्रतियोगिक्षणावृत्तित्वस्ववृत्तित्वोभयसम्बन्धेन क्षणविष्टत्वम् हि असत्कार्यवादविषयः; अवस्थायाः कालसम्बन्धित्वे च उक्तोभयसम्बन्धेन क्षणविशिष्टत्वस्यावस्थायामक्षतत्वात्तदापत्तिर्दुर्वारा । तथा च *कथमसतस्सज्जायेत* इति श्रुतिविरोधः । असत इति षष्ठ्यन्तम्, सदिति भावप्रधानम्; पूर्वम् कालासम्बन्धिनः कालसम्बन्धित्वम् न सम्भवतीत्युक्तासत्कार्य वाद निरासोऽभिप्रेतः । आद्यक्षणसम्बन्धरूपोत्पत्तिशरीरे च घटत्वाद्यवच्छिन्ननिरूपिताधिकरणतैव निवेश्या; तेन द्रव्यस्वरूपस्य नित्यतया  स्वाधिकरणध्वम्सानधिकरणक्षणाप्रसिद्व्या स्वपदेन द्रव्योपादानासम्भवेऽपि न क्षतिः । स्वसमभिव्याहृत पदार्थतावच्छेदकधर्मावच्छिन्ननिरूपिताधिकरणतावत्क्षणध्वयाःसा-        नधिकरणक्षणसम्बन्धस्यैवोत्पत्तिपदार्थत्वात्; घट उत्पद्यत इत्यादौ घटत्वावच्छिन्ननिरूपिताधिकरणतावत्क्षणध्वम्सानधिकरणक्षणसम्बन्धी घट इति बोधात् ॥
यद्यपि – स्वसमभिव्याहृतपदार्थतावच्छेदकेत्यनेन घटत्वादेरुपादानेऽपि तदवच्छिन्ननिरूपिताधिकरणतावत्क्षण-ध्वम्सानधिकरणक्षणाप्रसिद्धिरस्त्येव; घटादे: प्रवाहानादितया सर्वस्यापि क्षणस्य यत्किञ्चिद्घटाधिकरणत्वेन तादृशक्षणध्वम्साधिकरणत्वात् । तथाऽपि – सिद्धान्ते घटत्वस्य प्रतिव्यक्तिभिन्नतया उत्पत्त्यन्वयितावच्छेदकम् यद्घटत्वम् तदवच्छिनाधिकरणक्षणस्य पूर्वमभावादेव प्रसिद्धिसम्भवः । अत्र यत्किञ्चिद्धर्ममनिवेश्य  स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मस्यैव विशिष्यनिवेशाच्च आत्मा जायते मृज्जायत इत्यादि व्यवहारः, आत्मत्वाद्यवच्छिन्नाधिकरणक्षण-ध्वम्सानधिकरणक्षणाप्रसिद्धेः । एवम् च – स्थूलसूक्ष्मशरीरकस्य ब्रह्मणः स्थूलसूक्ष्मत्वाभ्याम् कार्यकारणभावोपपत्तिः; स्थूलरूपस्य निरुक्तजनिघटकत्वसम्भवात् । तथा च तदनन्यत्वाधिकरणे भाष्यम् –
*सम्स्थानस्यासत उत्पत्तावसत्कार्यवादप्रसङ्ग इति  चेदसत्कार्यवादिनोऽप्युत्पत्तेरनुत्पत्तिमत्त्वे सत्कार्यवादप्रसङ्गः, उत्पत्तिमत्त्वे चानवस्था; अस्माकम् त्ववस्थानाम्  पृथक्प्रतिपत्तिकार्ययोगानर्हत्वादवस्थावत एवोत्पत्त्यादिकम् सर्वमिति निरवद्यम् ॥* — इति ॥
न च-उक्तरीत्या अवस्थायाः कालसम्बन्धित्वाभावेन पूर्वोत्तरा- वस्थद्रव्ययोरेवोपादानोपादेयभावसिद्धावपि तच्छरीरकब्रह्मणस्तदसिद्धितादवस्थ्यमिति – वाच्यम्; एवमप्युपादानो-पादेयशरीरतया ब्रह्मण उपादानोपादेयशब्दयोर्ब्रह्मणि मुख्यत्वोपपत्तेः । अत एव शतदूषण्याम् – विशिष्टस्योपादानत्वे प्राप्ताप्राप्त विवेकेन विशेषणयोरेवोपादानोपादेयभावपर्यवसानमित्याशङ्क्य विशेष्यस्याप्युपादानादिशब्दवाच्यत्वप्रतिक्षेपस्त्वशक्य इति समाहितम् ॥ न च – अवस्थाया उत्पत्तिमत्त्वानङ्गीकारे उपादानलक्षणे अपृथक्सिद्धिसम्बन्धावच्छिन्नकार्यतानिवेशनस्य व्यर्थतया ब्रह्मणो विशेषणाम्शम् प्रति करणत्वाभावेन *न विलक्षणत्वात्* इत्यधिकरणस्यानुत्थितिरिति – वाच्यम्; यतो वेत्यादिश्रुत्युक्ताया विशेषणाम्शनिरूपितकारणताया निर्वाहार्थमेवापृथक्सिद्धिसम्बन्धा-वच्छिन्नकार्यतानिवेशावश्यकतयोक्ताधिकरणसङ्गतेः ॥
इदम् तु बोध्यम् ॥  सूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मणः स्थूलचिदचिद्विशिष्टम् प्रति कारणत्वम् नास्तीत्यस्य कोऽर्थः ? स्थूलचिदचिद्विशिष्टस्य कार्यत्वाभावात्तन्निरूपितोपादानत्वम्  सूक्ष्मचिदचिद्वशिष्टस्य न सम्भवतीति; अथवा तस्य कार्यत्वेऽपि तम् प्रत्येतस्योपादानत्वमप्रामाणिकमिति ?
आद्येऽपि – स्थूलचिदचिद्विशिष्टस्य निषेध्यभूतम् कार्यत्वमुत्पत्तिमत्त्वरूपम् वा, प्रागभावप्रतियोगित्वरूपम् वा ? नाद्यः । विशिष्टाधिकरणताघटितोत्पत्तिमत्त्वस्य पूर्वमेवोपपादनात् । न च –स्ववृत्तिध्वम्सप्रतियोगिक्षणावृत्तित्वरूपस्वपूर्वक्षणावृत्तित्वस्ववृत्तित्वो-भयसम्बन्धेन क्षणविशिष्टत्वरूपोत्पत्तिमत्त्वमेव कार्यताप्रयोजकम्, तच्च न स्थूलविशिष्टब्रह्मणि विशेष्यीभूतब्रह्मणः पूर्वक्षणवृत्तित्वेन विशिष्टे तस्मिन् तदभावासम्भवादिति – वाच्यम्;     शुद्धवह्नित्वापर्याप्तत्ववच्छुद्धब्रह्मपर्याप्ताधेय-तायास्स्थूलविशिष्टापर्याप्ततया पूर्वक्षणनिरूपितवृत्तितायाः पर्याप्तिसम्बन्धावच्छिन्नाभावस्य तत्र सम्भवेन निरुक्तोत्पत्तिमत्त्वसम्भवात् ॥ न द्वितीय: घटत्वावस्था घटो भविष्यतीति द्विविधव्यवहारनिर्वाहाय एकस्यैव प्रागभावस्य घटत्वावस्थापर्याप्ता तद्विशिष्टपर्याप्ता च प्रतियोगिता द्विविधा स्वीक्रियते । तथा स्थूलावस्था भविष्यति, स्थूलशरीरकम् ब्रह्म भविष्यतीति द्विविधव्यवहारनिर्वाहाय प्रागभाव निरूपितप्रतियोगिताद्वयस्वीकार-स्यावश्यकत्वात्, इच्छाविषयत्वस्य प्रागभावप्रतियोगित्वव्याप्यतया बहुस्यामितीच्छानुरोधेन बहुशरीरकब्रह्मणस्तदावश्यकत्वाच्च ।
नापि द्वितीयकल्पो युक्तः । स्थूलविशिष्टस्य कार्यत्वे तादात्म्येन तत्सम्बन्धिनि पूर्वकालावच्छेदेन तादात्म्येन सम्बन्धित्व- रूपोपादानत्वस्य सूक्ष्मविशिष्टे ब्रह्मणि सर्वसिद्धत्वेन तस्य कैरप्यपल पितुमशक्यत्वात् ॥ न च – तादात्म्येन कार्याधिकरणनिरूपित- पूर्वकालावच्छिन्नतादात्म्यावच्छिन्नसम्बन्धितामात्रम् नोपादानतारूपम्, किम् त्वनन्यथासिद्धत्वघटितम्; तथा च स्थूलविशिष्टम् प्रति सूक्ष्म- विशिष्टस्यान्यथासिद्धत्वान्नोपादानत्वम्, अन्यथा स्थूलविशिष्टाकाशादिकम् प्रति सूक्ष्मविशिष्टस्य तस्योपादानताप्रसङ्गादिति – वाच्यम्; अन्यथासिद्धत्वस्यानुगतानतिप्रसक्तस्यैकस्य दुर्वचत्वेन यत्र प्रामाणिकानाम् न कारणत्वव्यवहारस्तत्तद्भेदकूटत्त्व- स्यैवानन्यथासिद्धत्वरूपतया *यतो वा इमानि भूतानि जायन्ते* *यद्भूतयोनिम् परिपश्यन्ति धीराः* *सदेव सोम्येदमग्र आसीत्* इत्यादिश्रुतिभिस्सूक्ष्मविशिष्टब्रह्मणः स्थूलविशिष्टम् प्रति कारणत्वस्यैव व्यवहृतत्वेन तद्भेदस्यपादानताशरीरे अनिवेशात्, आकाशादेश्च तादृशव्यवहाराभावेन अन्यथासिद्धताया एव युक्तत्वात्तद्भेदस्योपादानता-गर्भेप्रवेश्यत्वात् । एतेनावस्थानाम् कालसम्बन्धित्वस्य कार्यकारणभावस्य च सत्त्वेऽपि न क्षतिः, अवस्थानाम् कार्यकारणभावेऽपि तद्विशिष्टयोरपि तथात्वस्य दुरपह्नवत्वात् । ब्रह्मण उपादानत्वे निर्विकारत्वश्रुतिविरोधपरिहारः प्रागेव प्रतिपादितः । निरुक्तोपादानत्वम् च *प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्* इत्यधिकरणे एवोत्पत्त्यादिकम् सर्वमिति निरवद्यम् ॥* – इति ॥

न च उक्तरीत्या अवस्थायाः कालसम्बन्धित्वाभावेन पूर्वोत्तरावस्थद्रव्ययोरेवोपादानोपादेयभावसिद्धावपि तच्छरीरकब्रह्मणस्तदसिद्धितादवस्थ्यमिति – वाच्यम्; एवमप्युपादानोपादेयशरीरतया ब्रह्मण उपादानोपादेयशब्दयोर्ब्रह्मणि मुख्यत्वोपपत्तेः । अत एव शतदूषण्याम् – विशिष्टस्योपादानत्वे प्राप्ताप्राप्तविवेकेन विशेषणयोरेवोपादानोपादेयभावपर्यवसानमित्याशङ्क्य विशेष्यस्याप्युपादानादिशब्दवाच्यत्वप्रतिक्षेपस्त्वशक्य इति समाहितम् ॥ न च – अवस्थाया उत्पत्तिमत्त्वानङ्गीकारे उपादानलक्षणे अपृथक्सिद्धि- सम्बन्धावच्छिन्नकार्यतानिवेशनस्य व्यर्थतया ब्रह्मणो विशेषणाशम् प्रति कारणत्वाभावेन *न विलक्षणत्वात्* इत्यधिकरणस्यानुत्थितिरिति – वाच्यम्; यतो वेत्यादिश्रुत्युक्ताया विशेषणाम्शनिरूपितकारणताया निर्वाहार्थमेवापृथक्सिद्धिसम्बन्धावच्छिन्नकार्यतानिवेशा- वश्यकतयोक्ताधिकरणसङ्गतेः ॥

इदम् तु बोध्यम् ॥ सूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मणः स्थूलचिदचिद्विशिष्टम् प्रति कारणत्वम् नास्तीत्यस्य कोऽर्थः? स्थूलचिदचिद्विशिष्टस्य कार्यत्वाभावात्तन्निरूपितोपादानत्वम् सूक्ष्मचिदचिद्विशिष्टस्य न सम्भवतीति; अथवा तस्य कार्यत्वेऽपि तम् प्रत्येतस्योपादानत्वमप्रामाणिकमिति ?

आद्येऽपि – स्थूलचिदचिद्विशिष्टस्य निषेध्यभूतम् कार्यत्वमुत्पत्तिमत्त्वरूपम् वा, प्रागभावप्रतियोगित्वरूपम् वा ? नाद्यः । विशिष्टाधिकरणताघटितोत्पत्तिमत्त्वस्य पूर्वमेवोपपादनात् । न च – स्ववृत्तिध्वम्सप्रतियोगिक्षणावृत्तित्वरूपस्वपूर्वक्षणावृत्तित्वस्ववृत्तित्वोभय-सम्बन्धेन क्षणविशिष्टत्वरूपोत्पत्तिमत्त्वमेव कार्यताप्रयोजकम्, तच्च न स्थूलविशिष्टब्रह्मणि विशेष्यीभूतब्रह्मणः पूर्वक्षणवृत्तित्वेन विशिष्टे तस्मिन् तदभावासम्भवादिति वाच्यम्; शुद्धवह्नित्वापर्याप्तत्ववच्छुद्धब्रह्मपर्याप्ताधेयतायास्स्थूलविशिष्टापर्याप्ततया पूर्वक्षणनिरूपितवृत्तितायाः पर्याप्तिसम्बन्धावच्छिन्ना एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिभिस्सूत्रकारैरेव स्थापितम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा च *येनाश्रुतम् श्रुतम् भवत्यमतम् मतमविज्ञातम् विज्ञातम् स्यात्* *यथा सोम्यैकेन मृत्पिण्डेन सर्वम् मृण्मयम् विज्ञातम् स्यात्* इति श्रुतिसिद्धा ॥ श्रुतेश्चायमर्थः – *आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदम् सर्वम् विज्ञातम् भवति* इति मैत्रायणीयश्रुत्यनुसारादुपादानप्रकरणानुगुण्याच्च श्रुतेन मतेन विज्ञातेनेत्यध्याहारात्, येन श्रुतेनाश्रुतम् श्रुतम् भवति, येन मतेनामतम् मतम् भवति, येन विज्ञातेनाविज्ञातम् विज्ञातम् भवतीत्यर्थः । श्रुतेन येनेति तृतीयार्थोऽभेदः श्रुतपदार्थे शाब्दबोधविशेषविषयेऽन्वेति;  उक्तश्रुत्यनुरोधादेवेदम् सर्वमित्यप्यध्याहार्यम्; परिदृश्यमानस्थूलचिदचिच्छरीरकमिति तदर्थः । अश्रुतमित्यस्य स्थूलरूपावच्छिन्नशाब्दबोधीयविषयताशून्यमित्यर्थः। तस्य सर्वपदार्थेऽन्वयात् स्थूलावस्थावच्छिन्नशाब्दज्ञानीयविषयताशून्याभिन्नम् प्रत्यक्षविषयस्थूलचिदचिच्छरीरकम् ब्रह्म शाब्दबोधीयविषयताविशिष्ट- जगन्निमित्ताभिन्नसूक्ष्मचिदचिद्वैशिष्ट्यावच्छिन्नशाब्दबोधीयविषयताश्रयो भवतीति वाक्यार्थः । अश्रुतम् श्रुतमित्यस्य स्थूलशरीरकत्वेनाश्रुतम् सूक्ष्मशरीरकत्वेन श्रुतमित्यर्थात् । पूर्वमश्रुतमिदानीम् श्रुतमिति तु नार्थः; विशिष्टवैशिष्ट्यावगाहिबोधे विधेये उद्देश्यतावच्छेदकसमानकालीनत्वभाननियमस्य तिलकी कर्म कर्वीतेत्यादाविवौत्सर्गिकत्वेन तद्वाधापत्तेः । तादृशनियमभङ्गभयादेव हि *वर्षे जपन्निदम् स्तोत्रमपुत्रः पुत्रवान् भवेत्* इत्यादावपुत्रपदम् पुत्रविरोधिपुत्रेच्छापरम्, नञः असुर इत्यादाविव विरोध्यर्थकत्वात्, सति पुत्रे तदिच्छाया असम्भवेन तद्विरोधित्वोपपत्तेः । एवम् च स्थूलसूक्ष्मचिदचिद्विशिष्टब्रह्मरूपकार्यकारणयोरेभेदलाभात् *उत तमादेशमप्राक्ष्यः* इत्यादेशपदेन कारणत्वघटितनिमित्तत्वलाभेन कार्य- भिन्नत्वे सति कारणत्वरूपमुपादानत्वमुक्तम् भवति । न च – उक्तप्रतिज्ञाया अभेदमात्रलाभार्थत्वे येन सर्वमिदम् भवतीत्यनेनैव कार्याभिन्नत्वे सति कारणत्वरूपोपादानत्वस्य तावन्मात्रेण बोधनेऽपि सूक्ष्मचिदचिद्रूपकारणतावच्छेदकावच्छिन्नविषयतानवच्छेदकत्व-रूपकारणतावच्छेदकभेदस्य कार्यतावच्छेदके बोधनायाश्रुतमित्यादीनाम् सार्थकत्वात् । तद्बोधश्च कार्यकारणयोरत्यन्ताभेदे कारकव्यापारवैयर्थ्यमिति नैयायिकाशङ्कापरिहाराय; कारणतावच्छेदक- कार्यतावच्छेदकयोरुक्तपारिभाषिकभेदबोधने च कार्यतावच्छेदकविशिष्टस्य पूर्वमभावे तन्निष्पत्तये कारकव्यापारसार्थक्यमिति समाधानसूचनात् । तयोर्वास्तवभेदस्तु श्रुत्या बोधयितुमशक्यः, सूक्ष्मस्यूलचिदचिद्रूपयोस्तयो- रवस्थाभेदेऽपि स्वरूपैक्येन भेदाभावात्, आत्मनि खल्वर इत्यादि मैत्रायणीयश्रुतावपि सप्तम्याः दाने कर्णसम इत्यादाविवाभेदार्थकत्वा-त्पूर्वोक्तार्थ एव पर्यवसानम् । एकविज्ञानेन सर्वविज्ञानम् प्रतिज्ञा-
तमित्यादिभाष्यस्याप्येकपदस्य सूक्ष्मचिदचिच्छरीरकब्रह्मपरतया, सर्वपदस्य स्थूलसर्वशरीरकपरतया, तृतीयाया अभेदार्थकतया च सूक्ष्मचिदचिच्छरीरकब्रह्मज्ञानाभिन्नस्थूलचिदचिच्छरीरकत्वोपलक्षित-ब्रह्मज्ञानम् प्रतिज्ञातमित्यर्थः । तथा च स्वावच्छिन्नाभिन्नवृत्तित्वस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छे-दकत्व स्वावच्छिन्ननिरूपितकारणतावच्छेदकत्वैतत्त्रितयसम्बन्धेन धर्मविशिष्टधर्मवत्त्वम् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञार्थः। येनेत्यस्या- देशपदार्थनिमित्तकारणत्वस्यापि तद्घटकत्वात् । मृत्पिण्डादिदृष्टान्ते उक्तत्रितयसम्बन्धेन घदत्वविशिष्टमृत्पिण्डत्वमादायोक्तप्रतिज्ञानिर्वाहः, दार्ष्टान्तिके चेयम् प्रतिज्ञा स्थूलसर्वशरीरकत्वविशिष्टसूक्ष्म शरीरकत्वमादायोपपादनीया । सा च सर्वस्य कार्यत्वमन्तरा न निर्वहतीति वियदादेः कार्यत्वोपपादकतया प्रतिज्ञाहानिरव्यतिरेकादित्या- दिकमुपपन्नम् । वियदादेःकार्यत्वानङ्गीकारे प्रतिज्ञाया अहानिवदाकाशस्याप्यकार्यत्वेऽपि प्रतिज्ञाया अहानिः प्रसज्यत इति – वाच्यम्; येनाश्रुतम् श्रुतमित्यादाश्रुतादिशब्दानाम्  नित्यविभूत्यादिव्यतिरिक्तपरत्वादुत्तरत्र सदेव सोम्येदमग्र आसीदितीदङ्कारगोचरस्यैव जगतस्सन्मात्रतापत्तिप्रतिपादनात् ॥
एवम् स्वज्ञानातिरिक्तसर्वद्रव्यशरीरकत्वमपि तल्लक्षणम्, शरीरपदप्रवृत्तिनिमित्तभूतम् तल्लक्षणम् च; तन्निष्ठज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्ध- निरूपितद्रव्यत्वसमानाधिकरणप्रतियोगित्वम् तम् प्रति शरीरत्वम् । एतज्जीवस्येदम् शरीरमित्यादौ ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धनिरूपितद्रव्यत्व-
समानाधिकरणप्रयियोगित्वावच्छिन्नम् शरीरपदार्थः; तदेकदेशज्ञानावच्छिन्नानुयोगितायाम् षष्ठ्यन्तार्थस्यैतज्जीववृत्तित्वस्यान्वयात् ज्ञानावच्छिन्नैतज्जीव- निष्ठानुयोगिताकापृथक्सिद्धि निरूपितद्रव्यत्वसमानाधिकरणप्रतियोगित्वावच्छिन्नमिदमिति बोधः ॥ यस्यात्मा शरीरम्, यस्य पृथिवी शरीरमित्यादावपि बोध ऊह्यः । ईश्वरस्य तज्ज्ञानम् शरीरम् चैत्रस्य तज्ज्ञानम् शरीरमित्यादिव्यवहारवारणायानुयोगितायाम् ज्ञानावच्छिन्नत्वस्य, परिमाणे तस्य शरीरमित्यादिव्यवहारवारणाय प्रतियोगित्वे द्रव्यत्वसमानाधिकरण्यस्य प्रवेशः । श्रीभाष्योक्तलक्षणत्रयफलितमिदमेव शरीरपदप्रवृत्तिनिमित्तम् । यथाश्रुते लक्षणत्रयस्य प्रवृत्तिनिमित्तत्वे शरीरशब्दस्य शक्तित्रयापत्त्या नानार्थकत्वापत्तेः, अन्यतमस्य प्रवृत्तिनिमित्तत्वे चाधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानीति भाष्यविरोधात् ॥

उक्तम् च न्यायसिद्धाञ्जने–
अत्रेदम् चतुर्थमपि भाष्यकाराभिप्रेतम् लक्षण मुच्यते । यस्य चेतनस्य यदवस्थमपृथक्सिद्धविशेषणम् द्रव्यम् तत्तस्य शरीमित्याधेय-त्वविधेयत्वशेषत्वान्यपृथक्सिद्धेरेव अवान्तर भेदा इह विवक्षिताः ॥* – इति ॥

तथा च – स्वज्ञानातिरिक्तद्रव्यत्वव्यापकप्रतियोगिताकापृथक्सिद्धि-सम्बन्धनिरूपितज्ञानावच्छिन्नानुयोगिताश्रयत्वम् लक्षणम् फलितम्, सर्वशरीरकत्वादेव तत्तद्वाचिपदेन ब्रह्मणस्सामानाधिकरण्योपपत्त्या *सर्वम् खल्विदम् ब्रह्म*, *सदेव सोम्येदमग्र आसीत्*, *तत्त्वमसि* इत्यादि सामानाधिकरण्यनिर्वाहः । शरीरवाचिशब्दानाम् शरीरिणि शक्तेर्भाष्यादिसिद्धत्वात् ॥
अत्र वदन्ति –

सर्वम् खल्विदम् ब्रह्मेत्यादौ सर्वपदस्य तच्छरीरकत्वावच्छिन्ने शक्त्यङ्गीकारापेक्षया सर्वपदार्थस्य ब्रह्मण्यपृथक्सिद्धिसम्बन्धेनान्वयाङ्गीकार एव युक्तः; अभेदापृथ- क्सिद्ध्यन्यतरसम्बन्धावच्छिन्नप्रकारताकबोधजनकत्वस्यैव समानाधिकरण्यरूपतया अपृथक्सिद्धिसम्बन्धेनान्वयेऽपि सामानाधिकरण्यनिर्वाहात् । एवम् च नीलादिपदानाम् गुणमात्रवाचकत्वेऽपि न क्षतिः, अपृथक्सिद्धिसम्बन्धमादायैव नीलो घट इत्यादिसामानाधिकरण्योपपत्तेः । एवम् तत्त्वमसीत्यत्र त्वम् पदस्य श्वेतकेतुमात्रपरत्वेऽपि न क्षतिः; तत्पदार्थस्य ब्रह्मणस्तत्रापृथक्सिद्धिसम्बन्धेनान्वयसम्भवात्, सर्वम् खल्विदम् ब्रह्मे- त्यत्र सर्वपदस्य तच्छरीरकपरमात्मपरत्वे इदम् पदार्थस्य प्रत्यक्षविषयस्य तदेकदेशे सर्वस्मिन्नन्वयस्य वक्तव्यत्वेन व्युत्पत्तिविरोधात् । सम्योगावच्छिन्नक्रियारूपगमनपदार्थैकदेशसम्योगे गुणाभेदान्वयतात्पर्येण गमनम् गुण  इत्यादिव्यवहारवारणायाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितर्विशेष्यता- सम्बन्धेन शाब्दबोधम् प्रति पदजन्योपस्थितेविशेष्यतासम्बन्धेन हेतुत्वात् । एवम् तत्त्वमसीत्यादौ त्वम् पदस्य श्वेतकेतुशरीरकपरमात्मपरत्वे श्वेतकेतुपदस्यश्वेतकेतुमात्रपरत्वे सम्बोधनस्थलसिद्धस्य युष्मच्छब्दसम्बोध्यवाचकपदयोस्समानार्थकत्व-नियमस्य व्याघातः । न च – चैत्र त्वत्पितेत्यादौ युष्मच्छब्दस्य सम्बन्धिनि लाक्षणिकत्वेन तत्र व्यभिचारात्तादृशनियम एवासिद्ध इति – वाच्यम्; समासस्थले ताहदशनियमाभावेऽपि व्यासस्थले तादृशनियमे बाधकविरहात् । तत्र सम्बोध्यवाचकश्वेतकेतुपदस्यापि तच्छरीरकपरमात्मपरत्वे प्रकृतवाक्यजन्यशाब्दबोधाश्रयत्वेनेच्छा- विषयरूपविभक्त्यर्थस्य प्रकृत्यर्थे परमात्मन्यन्वयो न सम्भवति; वक्तुरुद्दालकस्य सर्वज्ञम् परमात्मानम् प्रति बुबोधयिषाविरहात्, भगवाम्स्त्वमेव तद्ब्रवीत्विति प्रष्टारम् श्वेतकेतुम् प्रत्येव बुबोधयिषोत्पत्तेः । परमात्मन एव प्रष्टृत्वे प्रश्नम् प्रति जिज्ञासायास्ताम् प्रति चाज्ञानस्य कारणतया परमात्मनोऽज्ञत्वमवर्जनीयम् स्यात् । श्वेतकेतुपदस्य तच्छरीरकपरमात्मपरत्वे तदेकदेशश्वेतकेतौ विभक्त्यर्थान्वयस्तु न सम्भवति, विभक्त्यर्थसम्बोध्यत्वनिष्ठप्रकारतानिरूपिताविशेष्यतासम्बन्धेन शाब्दबोधम् प्रति प्रकृतिजन्योपस्थितेविशेष्यतासम्बन्धेन हेतुत्वात् । अन्यथा पुत्रीम् प्रति त्वत्पतिस्सुन्दर इति वक्तव्ये जामातस्त्वम् सुन्दरोऽसीतिवाक्यप्रयोगापत्तेः; पुत्रीपतिरूपजामातृपदार्थैक देशपुत्र्याम् तदन्वयसम्भवात् । एवम् प्रतर्दनविद्यायाम् *त्रिशीर्षाणम् त्वाष्ट्रमहनमरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छम्* इत्यारभ्य, *प्राणोऽस्मि प्रज्ञात्मा, तम् मामायुरमृतमित्युपास्व* इत्यस्यास्मच्छब्दार्थेन्द्रजीवविशेष्यकापृथक्सिद्धिसम्बन्धावच्छिन्न-प्राणपदार्थपरमात्मप्रकारताकोपासनस्य विधानपरत्वाङ्गीकारान्नानुपपत्तिः ; अन्यथा मामित्यस्य तच्छरीरकपरमात्मपरत्वे त्वाष्ट्रमहनमित्यादावध्याहृतस्याहम्पदस्य जीवपरत्वावश्यकतया वैरूप्यापत्तेः । शरीरवाचकानाम् शरीरिपर्यन्तत्वमित्यादिभाष्यस्य         शरीरिविशेष्यकबोधजनकत्वमित्यर्थाङ्गीकारात् शरीरशरीरिभावरूपापृथक्सिद्धेस्सम्सर्गत्वेऽपि न विरोधः; अन्विताभिधानपक्षे भाष्यकृताम् निर्भरस्य वक्ष्यमाणत्वेन सम्सर्गाम्शेऽपि शक्तिरस्तीत्यभिप्रायाद्वा ॥ – इति ॥
वस्तुतस्तु – इतरपदार्थाभेदान्वयबोधे विभक्त्यर्थसम्बोध्यत्वादि-
बोधे च मुख्यविशेष्यतासम्बन्धेन पदजन्योपस्थितेर्हेतुत्वमित्यत्रा- पृथक्सिद्धिसम्बन्धावच्छिन्नप्रकारताभिन्नत्वस्य मुख्यत्वरूपत्वात्सर्वम् खल्विदम् ब्रह्मेत्यादौ सर्वपदस्य तच्छरीरकपरत्वेऽपि इदम् पदार्थस्य तदेकदेशे तत्त्वमसि श्वेतकेतावित्यत्र त्वम् पदस्य विशिष्टपरत्वेऽपि तदेकदेशे सम्बोध्यत्वस्य चान्वयो न विरुद्धः । एवम् – राज्ञःपुरुष इत्यादौ यथा स्वत्वस्य सम्सर्गत्वापेक्षया षष्ठ्यास्तत्र शक्तिस्वीकारे लाघवम्, यथा च जानातीत्यादावाश्रयत्वस्य सम्सर्गत्वापेक्षया आख्यातार्थतापक्षे लाघवम्, तथाऽत्राप्यपृथक्सिद्धेस्सयासर्गत्वापेक्षया प्रकारत्वे लाघवम् सम्भवतीति शरीरवाचकानाम् शरीरिणि शक्तिरेव युक्तेति गुरुसामानाधिकरण्यवादे प्रपञ्चितम् ॥

इत्यनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने ईश्वरपरिच्छेदस्तृतीयः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.