सिद्धान्तसिद्धाञ्जनम्-जडपरिच्छेदः

श्रीः

श्रीमते रामानुजाय नमः

श्रीमदनन्ताचार्यविरचिता सिद्धान्तसिद्धाञ्जनम्

श्रीयादवाद्रिनिलयम् श्रितकल्पवृक्ष

नारायणम् निखिललोकनिदानभूतम् ।

निस्सीमनिर्मलगुणम् निरवद्यरूपम्

नित्यम् नमामि शिरसा सकलार्थसिद्ध्यै ॥

जयन्तु श्रीमन्तः श्रुतिशिखरसारस्यमधुराः

सुधासध्रीचीनाः कुटिलमतकोलाहलमुषः ।

स्फुरद्युक्त्यासक्त्या द्रुहिणरमणीश्लाघ्यविभवाः

यतिक्षोणीभर्तुर्निरुपमवचोगुम्भविसराः ॥

शेषार्यवम्शाम्बुधिशीतरश्मिस्सुधीरनन्तार्य इति प्रतीतः । सिद्धान्तसिद्धाञ्जननामधेयम् प्रबन्धमेनम् प्रकटीकरोति ॥

येऽर्था दुर्बोधताम् प्राप्ता गम्भीराचार्यसूक्तिषु ।

तादृशार्थप्रकटनात्सफलोऽयम् श्रमो मम ॥

चिदचिदीश्वरतत्त्वज्ञानसहकृतभगवदुपासनस्य मोक्षहेतुतया तादृशतत्त्वज्ञानार्थम् प्रमेयम् निरूप्यते ॥

अनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने जडपरिच्छेदः प्रथमः

        ज्ञेयत्वम् प्रमेयसामान्यलक्षणम् । ज्ञेयत्वम् च विषयतासम्बन्धेन ज्ञानमेव; तेन विषयत्वमात्रस्यैव लक्षणत्वसम्भवात्तत्र ज्ञाननिरूपितत्वम् व्यर्थमिति शङ्काऽनवकाशः ॥ यद्यपि – सिद्धान्ते ज्ञानस्य द्रव्यतया विषयतायाश्च सम्योगरूपतया ज्ञानवत्त्वम् लक्षणम् पर्यवसन्नमित्यद्रव्ये-ऽव्याप्तिः । तथाऽपि सम्योगसम्युक्तापृथक्सिद्ध्योर्द्वयोरेव विषयतात्वस्य वक्ष्यमाणतया अद्रव्ये सम्युक्तापृथक्सिद्धिरूपविषयतासम्बन्धेन ज्ञानस्य सत्त्वान्नाव्याप्तिः ॥

तञ्च प्रमेयम् द्विविधम् – द्रव्याद्रव्यभेदात् । तत्रावस्थावत्त्वम् द्रव्य-लक्षणम्, तदन्यत्वम् चाद्रव्यलक्षणम् बोध्यम् । ईश्वरादावापि *नित्यम् विभुम् सर्वगतम् सुसूक्ष्मम्* – इत्यादिश्रुत्या सर्बसम्युक्तत्वरूपसर्वगतत्वप्रतिपादनेनानवरतपरिस्पन्दमानाणुसम्योगरूपावस्थावत्त्वस्य सत्त्वान्नाव्याप्तिः; आगन्तुकापृथक्सिद्धधर्मस्यैवावस्था-शब्दार्थत्वात् । न चैवम् – निर्विकारत्वश्रुतिविरोधः, स्वभिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेन परिमाणविशिष्टपरिमाणरूपस्य सङ्कोचविकासादिरूपावस्थाद्वयवत्त्वस्यैव निर्विकारत्वश्रुतिघटकविकारशब्दार्थत्वेनाविरोधात् ॥ अत एव न च पर्यायादप्यविरोधो विकारादिभ्यः – इति सूत्रे सङ्कोचविकास वत्त्वरूपावस्थाद्वयाङ्गीकार एव विकारित्वमापादितम्, न तु शरीरसम्योगादिरूपावस्थावत्त्व इति स्फुटीभविष्यतिचेदमुपरिष्टात् ॥

द्रव्यम् द्विविधम् – जडमजडम् चेति । जडत्वम् चास्वप्रकाशत्वम्, स्वनिरूपितविषयतावत्त्वतादात्म्योभयसम्बन्वेन किञ्चिद्विशिष्टान्यत्वम् । उक्तोभयसम्बन्धेन किञ्चिद्विशिष्टत्वरूपस्वप्रकाशत्वम् चाजडत्वम् । तत्र जडम् प्रकृतिकालभेदाद्द्विविधम्, अजडम् तु  जीवेश्वरनित्यविभूतिधर्मभूतज्ञानभेदाच्चतुर्विधमिति – द्रव्याणि षट् ॥

ननु – तत्तद्विषयकव्यवहारनिर्वाहार्थम् तत्तद्विषयकज्ञानस्य स्वीकर्तव्यतया ज्ञानगोचरव्यवहारस्य ज्ञानान्तरेण निर्वाहे चानवस्थापत्त्या धर्मभूतज्ञानस्य स्वप्रकाशत्वाङ्गीकारस्य युक्तत्वेऽपि जीवादीनाम् स्वप्रकाशत्वमयुक्तम् । तथा हि – जीवानाम् स्वस्वगोचरव्यवहारस्य स्वविषयकस्वापृथक्सिद्धसाक्षात्काररूपधर्मभूतज्ञानेनैव निर्वाहात् जीवान्तरविषयकव्यवहारस्य च तद्विषयकप्रवृत्त्यादिलिङ्गकानुमित्यादिरूपज्ञानेनैव निर्वाहात्स्व- प्रकाशत्वाङ्गीकारो व्यर्थः । तदङ्गीकारेऽपि जीवस्य स्वगोचरधर्मभूतज्ञानेन विना स्वव्यवहारानिर्वाहाच्च । स्वानुकूलकृतिमत्त्वसम्बन्धेन बुबोधयिषापूर्वतत्तद्विषयकव्यवहारम् प्रति तत्तद्विषयकज्ञानस्य अपृथक्सिद्धिसम्बन्धेन हेतुत्वेन स्वस्य स्वविषयकत्वेऽप्यात्मन्यपृथक्सिद्धिसम्बन्धेन अभावेन तद्व्यवहारहेतुत्वासम्भवात् । शुकादिव्यवहारे व्यभिचारवारणाय बुबोधयिषापूर्वकेति । एवमीश्वरगोचरास्मदादिकर्तृकव्यवहारे शास्त्रादिजन्येश्वरज्ञानस्य हेतुतया ईश्वरकर्तृकस्वगोचरव्यवहारे तद्गतधर्मभूतज्ञानस्यैव हेतुत्वात्स्वप्रकाशत्वकल्पनमफलम्; स्वस्य स्वस्मिन्नपृथक्सिद्धिसम्बन्धेनाभावाच्च । एवम् नित्यविभूतेरपि तत्कल्पनमफलम्, नित्यमुक्तादिकर्तृकतद्गोचरव्यवहारस्य तदीयधर्मभूतज्ञानेनैव निर्वाहात्, बद्धकर्तृकव्यवहारस्य च शास्त्रजन्यज्ञानेन निर्वाहात् – इति चेन्न ॥ घटचाक्षुषादौ रूपादिशून्यस्यात्मनो भानासम्भवेन तद्दशायामपि स्वगोचरव्यवहारस्य अनुभवसिद्धस्य निर्वाहायात्मनस्स्वविषयकत्वस्य स्वानुकूलकृतिमत्त्वसम्बन्धेन तद्विषयकव्यवहारम् प्रति तादात्म्यापृथक्सिद्ध्यन्यतरसम्बन्धेन कारणत्वस्य च कल्पनात् । अनुमितौ परामर्शविषयस्य शाब्दबोधे पदानुपस्थितस्य च भानासम्भवेन तद्दशायामपि तद्व्यवहारनिर्वाहार्थम् स्वप्रकाशत्वावश्यकत्वात् । एवम् सुखमहमस्वाप्समिति सुषुप्त्युत्तरकालीनप्रत्यभिज्ञानिर्वाहाय सुषुप्तिकाले आत्मानुभवस्य वक्तव्यतया तद्दशायाम् च धर्मभूतज्ञानस्य  इतरविषयकत्वासम्भवेन स्वप्रकाशात्मकानुभवस्यैव तादृशप्रत्यभिज्ञाहेतुभूतसम्स्कारजनकताया अङ्गीकार्यत्वात्, आत्मनः स्वप्रकाशत्वावश्यकत्वात् । समानविषयकसम्स्कारम् प्रति तादात्म्यापृथक्सिद्ध्यन्यतरसम्बन्धेन अनुभवस्य कारणत्वेन स्वरूपात्मकानुभवस्यापि सम्स्कारजनकतासम्भावत् । व्यवस्थापयिष्यते चेदमग्रे ॥

ईश्वरनित्यविभूत्योश्च प्रमाणबलात्स्वप्रकाशत्वमङ्गीक्रियते । ईश्वरस्वरूपात्मकानुभवस्येश्वरकर्तृकव्यवहारे तादात्म्येन हेतुत्वसम्भवात्, नित्यविभूतेरपि नित्यमुक्तादिकर्तृके स्वगोचरव्यवहारे अपृथक्सिद्धिसम्बन्धेन हेतुतासम्भवात्, शरीरात्मना परिणतायास्तस्या नित्यमुक्तादिष्वपृथक्सिद्धिसम्बन्धेन सत्त्वात् । प्रपञ्चयिष्यते चेदम् यथावसरमिति दिक् ॥

एवम् जीवेश्वरयोः प्रत्यक्त्वम् नित्यविभूतिधर्मभूतज्ञानयोश्च पराक्त्वम् साधारणधर्मः । तत्र प्रत्यक्त्वम् स्वस्मै स्वेनावभाससानत्वम् ॥

ननु – अत्र स्वस्मा इति चतुर्थ्यन्तार्थः स्वकर्तृक व्यवहारजनकतावच्छेदकत्वम् यदि, तदा अहमेक इत्यादिस्वकर्तृक- व्यवहारजनकतावच्छेदिकाया एकत्वप्रकारतानिरूपिताहन्त्वावच्छिन्नविशेष्यतायाः स्वनिरूपितायाः मानुषादिशरीरावच्छिन्नात्मनि सत्त्वेऽपि पश्चादिशरीरावच्छिन्नात्मन्य-व्याप्तिः । यदि स्वनिष्ठसम्शयप्रतिबन्धकतावच्छेदकत्वम् तदा असम्भवः; अहमेको न वेत्यादिसम्शयम् प्रत्यपृथक्सिद्धिसम्बन्धेन तत्समानाधिकरणनिश्चयस्यैव प्रतिबन्धकत्वात् । अपृथक्सिद्धितादात्म्यान्यतरसम्बन्धेनतत्समानाधिकरणनिश्चयस्य प्रतिबन्धकत्वाङ्गीकारेऽप्यसम्भवः; स्वनिष्ठस्य स्वविशेष्यकैकत्वादिसम्शयस्याप्रसिद्धेः । स्वनिष्ठो यस्सम्शयानुत्पादः तत्प्रयोजकत्वम् चतुर्थ्यन्तार्थ इत्यपि न युक्तम्, सम्शयानुत्पादस्य तादृशसम्शयप्रागभावरूपस्य स्वनिष्ठत्वासम्भवात्, यत्र तादृशसम्शयो जायते तत्रैव तत्प्रागभावाभ्युपगमात् – इति चेन्न ॥ स्वनिष्ठसम्शया-भावप्रयोजकत्वस्य तदर्थत्वेऽप्यदोषात्, सम्शयप्रागभावस्य स्वनिष्ठत्वा-सम्भवेऽपि तदत्यन्ताभावस्य तन्निष्ठत्वसम्भवात् ॥ न चैवम् धर्मभूतज्ञानस्य प्रत्यक्त्वापत्तिः, अधिकरणभेदेनाभावभेदानुपगमे तादृशज्ञाननिष्ठस्वनिरूपितविषयत्वस्यात्मनिष्ठसम्शयाभावप्रयोजकस्य स्वनिष्ठसम्शयाभावप्रयोजकत्वानपायात् – इति वाच्यम् । स्वनिष्ठ-सम्शयाभावाधिकरणताप्रयोजकत्वस्य निवेशात्, आधेयाभेदेऽपि अधिकरणभेदेन अधिकरणताया भेदात्, सिद्धान्ते अभावस्याधिकरण- वृत्तिधर्मरूपत्वेनाधिकरणभेदेन भेदाच्च । स्वसामानाधिकरण्य-स्वप्रयोजकत्वोभयसम्बन्धेन सम्शयाभावविशिष्टस्वनिरूपितविषय-तावत्त्वम् प्रत्यक्त्वमिति निष्कर्ष: । प्रथमस्वपदद्वयम् सम्शयाभावपरम् । चरमस्वपदम् च यत्र प्रत्यक्त्वम् स्थाप्यम् तत्परम् ॥ एतदन्यत्वे सति स्वप्रकाशत्वम् पराक्त्वमवसेयम् ॥

अद्रव्यम् तु दशधा-सत्त्वरजस्तमोरूपरसगन्धस्पर्शशब्दसम्योगशक्ति-भेदात् ॥

द्रव्याद्रव्यभेदभिन्नम् प्रमेयम् स्थिरमेव, क्षणभङ्गे प्रमाणाभावात् । न च – जगत्क्षणिकम् सत्त्वादित्यनुमानेन तत्सिद्धिरिति – वाच्यम्; क्षणिकत्वस्य स्वाधिकरणक्षणध्वम्साधिकरणक्षणवृत्तिध्वम्सप्रतियोगित्व- रूपत्वे सिद्धसाधनस्यार्थान्तरस्य वा प्रसङ्गात् । स्ववृत्तित्वस्वभिन्न-क्षणावृत्तित्वोभयसम्वन्धेन क्षणविशिष्टत्वरूपत्वे च साध्याप्रसिद्धिः, एकक्षणमात्रवृत्तिवस्तुनोऽस्माभिरनङ्गीकारात्, क्षणोपाधे: क्रियारूपत्वे कालद्रव्यपरिणमरूपत्वेऽपि वा क्षणमात्रवृत्तित्वानभ्युपगमात् ॥ न च – क्षेत्रस्थबीजादङ्कुरोत्पत्तिः कुसूलस्थबीजान्नेत्यङ्कुरजननसामर्थ्या-सामर्थ्यरूपविरुद्धधर्माध्यासेन तादृशबीजयोर्भेदसिद्धौ तत्रैव क्षणिकत्वरूप-साध्यप्रसिद्धिरिति – वाच्यम् । तावताप्यङ्कुरमकुर्वाणस्य कुसूलस्थ-बीजस्य क्षणिकत्वासिद्धेः, तादृशस्याङ्कुरजन्मपूर्वतृतीयक्षणपर्यन्ता-वस्थाने बाधकाभावात् ॥ न च – अङ्कुरकारिबीजजननसमर्थात् तृतीयक्षणस्थबीजात्तदसमर्थचतुर्थक्षणस्थबीजस्य भेदः, एवम् तृतीयक्षणस्थ बीजजननसमर्थाचतुर्थक्षणस्थबीजात्तदसमर्थपञ्चमक्षणस्थबीजस्य भेद इत्यादिरीत्याकुसूलस्थबीजपर्यन्तम् भेदसिद्ध्या क्षणिकत्व सिद्धिरिति – वाच्यम् । सामर्थ्यासामर्थ्यशब्देन स्वरूपयोग्यत्वतदभावयोर्विवक्षणे कुसूलस्थबीजे असामर्थ्यासिद्धिः, तस्यापि बीजत्वेनाङ्कुरोत्पत्तिस्वरूपयोग्यत्वात्, सहकारिसमवधानासमवधानयोर्विवक्षणे च तयोरेकस्मिन्नपि कालभेदेन समावेशसम्भवेन तयोर्विरोधासिद्ध्या स्वाश्रयभेदकत्वासम्भवात् ॥

न च – उक्तोभयसम्बन्धेन क्षणविशिष्टत्वस्य साध्यता न स्वीक्रियते, येनोक्तदोष: स्यात्, किन्तु स्वाधिकरणसमयप्रागभावाधिकरण क्षणानुत्पत्तिकत्वे सति कादाचित्कत्वमेव साध्यम्, तच्च प्रागभावे प्रसिद्धमिति न साध्याप्रसिद्धिः । अत्र कादाचित्कत्वानिवेशे उत्पत्तिरहितनित्यवस्तुन्यात्मादौ अम्शतस्सिद्धसाधनम् स्यात् । अवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतया तस्यादोषत्वेऽप्यर्थान्तरम् । आत्मादेर्नित्यत्वेऽप्युत्पत्तिविरहेणैवोक्तसाध्यनिर्वाहात् । अतः कादाचित्कत्वरूपविशेष्यदलम् – इति वाच्यम् ॥ तन्मते अभावमात्रस्य तुच्छत्वेन कालसम्बन्धित्वासम्भवेन स्वाधिकरणक्षणप्रागभावाधिकरण-क्षणाप्रसिद्ध्या साध्याप्रसिद्धेरेवमपि दुर्वारत्वात् ॥ न च–सौगतमते अभावस्य तुच्छत्वेऽपि तस्य कालसम्बन्धोऽस्त्येव । किन्त्वर्थक्रियाकारित्वरूपसत्त्वमेव नेति न साध्याप्रसिद्धिरिति-वाच्यम्। एवमप्यर्थान्तरस्य दुर्वारत्वात्, आत्मादेर्महाप्रलयमात्रासत्त्वाङ्गीकारेणैव तस्य कादाचित्कत्वनिर्वाहात् ॥ न च कादाचित्कत्वस्थाने उत्पत्तिमत्त्वनिवेशान्नोक्तार्थान्तरम्, साध्यप्रसिद्धिस्तु नैयायिकादिमते महाप्रलयात्मकचरमध्वम्स एव, तत्र चरमध्वम्साधिकरणक्षणश्चरमध्वम्सात्मक एवेति तत्प्रागभावाधिकरणक्षणानुत्पत्तिकत्वस्य तादृशचरमध्वम्सात्मकक्षणोत्पत्तिकत्वस्य च सत्त्वात्; चरमध्वम्ससाधारणम् क्षणत्वम् च स्वाधेयपदार्थप्रागभावानधिकरणत्वमिति – वाच्यम् । तथापि साध्याप्रसिद्धेः, स्वाधिकरणसमयध्वम्सानधिकरणसमयसम्बन्धरूपोत्पत्तिमत्त्वस्य चरमध्वम्से अभावात्, स्वाधिकरणसमयस्य महाकालरूपस्य वा ध्वम्सरूपस्य वा ध्वम्साप्रसिद्धेः ॥ न च – स्वाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षणसम्बन्ध एवोत्पत्तिरिति महाप्रलयेऽपि तादृशोत्पत्तिसत्त्वान्नाप्रसिद्धिरिति-वाच्यम् । उक्तरीत्या नैयायिकमते कथश्वित्साध्यप्रसिद्धावपि सत्त्वरूपसाधनवति दृष्टान्ते साध्यस्याप्रसिद्ध्या व्याप्तिग्रहासम्भवात् केवलव्यतिरेकिणरेकणश्चाग्रे निरसिष्यमाणत्वात् । सिद्धान्तेत्वनादेः प्रागभावस्य नैयायिकाद्यभिमतमहाप्रलयस्य चानङ्गीकारेण साध्याप्रसिद्धिर्दुष्परिहरैव । सोऽयम् घट इत्यादिप्रत्यभिज्ञाबाधितञ्चेदमनुमानमित्यन्यत्र विस्तरः ॥

इदानीमुद्देशक्रमानुसारेण प्रकृतिर्निरूप्यते ॥ कालभिन्नत्वे सति- जडत्वम् प्रकृतेर्लक्षणम् । कालेऽतिव्याप्तिवारणाय सत्यन्तम्, जीवादिवारणाय विशेष्यम् ॥  रजोगुणवत्त्वम् तमोगुणवत्त्वम् च तल्लक्षणम्; सत्त्ववत्त्वम् तु न लक्षणम्, शुद्धसत्त्वाश्रयनित्यविभूतावतिव्याप्तेः ॥ एवम् नित्य- विभूतित्वसमानाधिकरणभेदप्रतियोगितानिरूपितसम्योग-सम्बन्धावछिन्नावच्छेदकताश्रयत्वे सति तद्भिन्नद्रव्यत्वसमानाधिकरण- भेदप्रतियोगितानिरूपितसम्योगसम्बन्धावच्छिन्नावच्छेदकताशून्य-त्वमपि तल्लक्षणम् ॥ तदनन्तमसङ्ख्यातमप्रमाणञ्च – इति वचनेन प्रकृतेरधः प्रदेशेषु अपरिच्छिन्नत्वस्य नित्यविभूतेः तमःपरत्वश्रुत्या तद्देशे परिच्छिन्नत्वस्य च प्रमितत्वाल्लक्षणसङ्गतिः ॥ कालादिरूपविभुद्रव्यवारणाय सत्यन्तम्, जीवादिरूपाणुवारणाय विशेष्यम् ॥ तद्भिन्नद्रव्ये तदनवच्छिन्नत्वमपि निबेश्यम्, तेन नित्यविभूतिस्थजीवादिषु सम्योगेन प्रकृतिमद्भेदसत्त्वेऽपि न क्षतिः ॥ न च – प्रकृतेस्सर्वत्रावस्थाने गतिमताम् गतिनिरोधापत्तिरिति गतियोग्यप्रदेशेष्वनवस्थानम् स्वीकर्तव्यमित्युक्तलक्षणाव्याप्तिरिति – वाच्यम् । प्रकृतेः स्पर्शरहितत्वेन गतिनिरोधकताविरहेणाधोदेशे सर्वत्रावस्थाने बाधकाभावात् ॥ सा च प्रकृतिस्सृष्टिकाले गुणवैषम्ययुक्तप्रदेशविशेषे महदादीन्विषमविकारानारभते; गुणसाम्ययुक्ते च समान्विकारानारभते; प्रकृतिस्वरूपस्य सततविकारलक्षणत्वात् प्रलयकाले च सर्वत्र समा एव विकारा भवन्ति ॥ न च – प्रलयत्वव्याघातः, विषमविकारराहित्यस्यैव प्रलयपदार्थत्वात् ॥

पूर्वावस्थोपमर्दकावस्थाभेदात्सा चतुर्विशतिधा – मूलप्रकृति- र्महानहङ्कार इन्द्रियाण्येकादश पञ्च तन्मात्राणि पञ्च भूतानि चेति ॥

ननु – एषा प्रकृतिर्निरम्शा साम्शा वा ?

आद्ये – अनेकतत्त्वात्मना परिणामानुपपत्तिः, निरम्शस्यैकस्यानेकरूपेण परिणामासम्भवात्, मृत्पिण्डादेस्सावयवस्यैव घटशरावादिरूपेण बहुधा परिणामदर्शनात् ॥ न च – स्वभावतो निरम्शस्यापि प्रधानस्यौपाधिकाम्शसम्भवाद्विविधकार्योत्पादकत्वसम्भवः, नैयायिकनये स्वभावतो निरम्शस्यापि गगनस्य भेर्यवच्छिन्नाम्शे तीव्रशब्दजनकत्वम्, मृदङ्गाद्यवच्छिन्नाम्शे मृदुशब्दजनकत्वमित्यौपाधिकाम्शभेदस्यापि कार्यवैलक्षण्यनिर्वाहकत्वदर्शनादिति – वाच्यम् । तोव्रमन्दशब्दोत्पादकतावच्छेदकभेरीमृदङ्गादिवत् महदहङ्काराद्युत्पादकतावच्छेदकानान्त्रयो विम्शत्युपाधीनामदर्शनात् औपाधिकाम्शासम्भवात्, प्रधानस्य स्वभावतो निरम्शत्वे पृथिवीत्वाद्यवस्थापन्नस्यापि तस्य छेदनाद्यनुपपत्तेः । औपाधिकभेदाभेदवादिनम् प्रति भाष्ये उपाधिसम्सर्गादपि निरम्शस्य ब्रह्मणः छेदनाद्यनुपपत्तेरुक्तत्वात् ॥

द्वितीये तु – महदादिकार्याणामेकोपादानवादभङ्गः, तत्तदम्शानामेव तत्तत्कार्योत्पादकत्वेन बहूनामेव बहुकार्योत्पादकत्वात् । तादृशाम्शेषु  प्रधानत्वरूपैकधर्माङ्गीकारस्य विफलत्वात् । परमाणुकारणवादाद-विशेषप्रसङ्गश्च ॥ तथा च तादृशाम्शानाम् परस्परसम्युक्तानामेव महदाद्युत्पादकत्वस्य वाच्यतया तादृशाम्शानाम् कृत्स्नसम्योगे स्वाधिकपरिमाणद्रव्यारम्भकत्वासम्भवः, एकदेशसम्योगे चाम्शस्याप्येक- देशाङ्गीकारेणा नवस्थेत्यादिरूपस्य *महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम्* इति सूत्रोक्तस्य परमाणुकारणवाददूषणस्य स्वमतेऽपि दुर्वारता ॥ – इति चेन्न ॥

अत्र महानुत्पद्यताम्, अत्राहङ्कार उत्पद्यताम् – इत्यादिरूपाणाम् त्रयोविम्शतिभगवत्सङ्कल्पानामेव त्रयोविम्शतितत्त्वोत्पादतावच्छेद- कत्वसम्भवेनौपाधिकाम्शवादे दोषाभावात्, भेर्यादिवद्भगवत्सङ्कल्पस्यापि द्रव्यत्वेन प्रधानसम्युक्ततया प्रधानप्रदेशावच्छेदकत्वसम्भवात् ॥ न च – भगवत्सङ्कल्पसम्योगोऽपि प्रधाने किमेकदेशाबच्छेदेन कृत्स्नावच्छेदेन वेति विकल्पो दुर्निवार इति – वाच्यम् । भेरीसम्योगेऽपि तादृशविकल्प-साम्यात् – वाच्यम्; तथाऽपि परमाणुगगनसम्योगे उक्तविकल्पस्य दुर्वारत्वात् ॥ न च – अणुसम्योगावच्छिन्नगगन एवाणुसम्योगो जायते, आत्माश्रयस्त्वागत्या स्वीक्रियते; अत एव बौद्धाधिकारे शिरोमणिना घटाभावस्य स्ववृत्तित्वस्वीकारे आत्माश्रये इष्टापत्तिरभिहितेति – वाच्यम् । प्रकृतेऽपि तत्तद्भगवत्सङ्कल्पसम्युक्तप्रधान एव तत्तद्भगवत्सङ्कल्पसम्योगोत्पत्ति-स्वीकारसम्भवादगत्या आत्माश्रयस्यादोषत्वात् ॥

उक्तम् च न्यायसिद्धाञ्जने –

*प्रदेशवृत्तिसम्योगाद्याधाराणुविभुक्रमात् ।

निरम्शस्यापि घटते प्रादेशिकविकारिता ॥* – इति ॥ यथा अव्याप्यवृत्तिसम्योगादिर्गगनादौ निरम्शेऽपि प्रदेशभेदेनोत्पद्यते, तथा महदादिकमपि निरम्शे प्रधाने उत्पद्यत इत्यर्थः । न च  छेदनाद्यनुपपत्तिः, पृथिवीत्वाद्यवस्थापन्नस्य तस्य छेदनाद्यङ्गीकारे बाधकाभावात् । न च भाष्यविरोधः, ब्रह्मस्वरूपस्य निष्कलत्वाच्छेद्यत्वादिवचनविरोधेन छेदनाद्यसम्भवे तद्भाष्यतात्पर्यात्; अन्यथा ब्रह्मस्वरूप एव सविकारत्वापत्तौ निर्विकारत्वश्रुतेर्निरवकाशत्वप्रसङ्गात्; ब्रह्मणस्सर्वज्ञत्वेन सर्वाम्शगतसुखदुःखादिप्रतिसन्धानप्रसङ्गस्यापि दुष्परिहरत्वात् । प्रधानस्य च पृथिवीत्वाद्यवस्थापन्नस्य छेदनाद्यङ्गीकारे प्रमाणविरोधस्य बाधकयुक्तश्चाभावात् ॥

अत एव तत्त्वमुक्ताकलापे अव्यक्त प्रतिबन्दीम् पुरस्कृत्य प्रवृत्ते ब्रह्मपरिणामवादे ब्रह्मणस्स्वस्मिन् जीवभावेन दुर्विषहदुःखाद्युत्पादना- नुपपत्तिरेव दोष उक्तः ॥

*अव्यक्तम् त्वन्मतेऽपि ह्यनवयवमथाप्येतदम्शा विकाराः

ते चान्योन्यम् विचित्राः पुनरपि विलयम् तत्र तत्त्वेन यान्ति ।

इत्थम् ब्रह्मापि जीवः परिणमति विहृत्यर्थमित्यप्सारम्

स्वानर्थैकप्रवृत्तेः प्रसजति च तदा सर्वशास्त्रोपधातः ॥ – इति ॥ प्रधानस्य स्वाभाविकानन्ताम्शाङ्गीकारपक्षोऽपि निर्दुष्टः । न च – तत्कल्पे तदम्शैरेव कार्यारम्भनिर्वाहात्तावदम्शेषु प्रधानत्वरूपैकावस्थाङ्गीकारो विफल इति – वाच्यम् । *तद्वेदम् तर्ह्य- व्याकृतमासीत्*, *सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्*, *तदैक्षत बहु स्याम्* इत्यादिकारणबोधकश्रुतावेकत्वावस्थायाः प्रतिपन्नत्वेन तन्निर्वाहाय प्रधानत्वरूपैकावस्थाङ्गीकारस्य युक्तत्वात् । न चैवम् -प्रधानस्य परमाणुपुञ्जमात्रत्वे पर्यवसानेन नैयायिकमतप्रवेश इति – वाच्यम् । गन्धरसरूपस्पर्शादिरहितपरस्पराप्रतिघातकसत्त्वरजस्तमोरूपगुणत्रया-श्रयपरस्परसम्युक्तपञ्चभूतसूक्ष्मतमद्रव्यरूपत्वेन *शब्दस्पर्शविहीनम् तद्रूपादिभिरसम्युतम् । त्रिगुणम् तज्जगद्योनिः*–इत्यादिप्रमाणसिद्धे प्रघाने परमाणुस्वभावगन्धाभावात्, जालकरन्ध्रनिर्गतसौरालोकदृश्यमानत्र- सरेणुशब्दवाच्यद्रव्यातिरिक्तपरमाणुकल्पने प्रमाणाभावाच्च । न चैतत्कल्प एव तादृशदोषस्योक्तत्वात्; श्रुतिप्रतिपन्नार्थे तादृशदोषस्याप्रसरात्, अन्यथा माध्यामिकातिरिक्तमतसामान्ये तादृशदोषप्रसङ्गात्, अणुसम्योगे विभुसम्योगे ज्ञानज्ञेयसम्वन्धे जातिव्यक्तिसम्बन्धे कृत्स्नैकदेशविकल्पस्य दुर्वारत्वात् ॥ बिभुरीश्वरो घटादिभिरेकदेशेन सम्युज्यते, सर्वात्मना वा? एकदेशेन सम्योगे तस्य सावयवत्वप्रसङ्गः । सर्वात्मना सम्योगे च सर्वात्मना सम्योगे च घटासम्युक्तप्रदेशस्यैवाभावेनेश्वरस्य पटादिसम्योगानुपपत्त्या विभुत्वानुपपत्ति-रित्यादिदोषाणाम् तत्तत्पक्षेषु सम्भवात् । तस्मात् श्रुतिप्रतिपन्नार्थे नोक्तरीत्यादोषसम्भवः । अत एव – बहु स्यामिति सङ्कल्पानुरोधेना-काशवाय्वादिरूपेण ब्रह्मणः कार्यत्वाभ्युपगमे कृत्स्नस्य ब्रह्मणः कार्यत्वापत्तिः, एकदेशतः कार्यत्वाभ्युपगमे च ब्रह्मणो निरवयवत्व-श्रुतिविरोधः इत्याशङ्काम् कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा – इत्यनेनोपन्यस्य श्रुतिप्रतिपन्नार्थे ईदृशशङ्का न युक्तेत्यभिप्रायकम् श्रुतेस्तु शब्दमूलत्वात् इति परिहारसूत्रमारचितम् ॥ तथा च – प्रधान-स्यौपाधिकाम्शवत्त्वे स्वाभाविकाम्शत्त्वे वा बाधकविरहान्महदादि-विचित्रपरिणामहेतुत्वम् तस्य सम्भवतीति दिक् ॥

तत्र गुणत्रयसाम्यावस्थापन्नत्वम् मूलप्रकृतेर्लक्षणम् । तच्च तद्वैषम्यप्रयोज्यकार्याभाववत्त्वम्, स्वजन्यत्वकालिकविशेषणत्वोभयसम्बन्धेन धर्मविशिष्टधर्माभाववत्त्वपर्यवसितम् । अव्यक्तत्वाश्रयानन्ताम्शेषु सत्स्वेव कतिपयाम्शेष्वव्यक्तत्वनाशपूर्वकमहत्त्वावस्थायाः महत्त्वाद्याश्रयानन्ताम्शेषु सत्स्वेव तन्नाशपूर्वकम् कतिपयाम्शेष्वहङ्कारत्वाद्यवस्थाया उत्पत्तिस्वीकारेण पूर्वावस्थाकालीनत्वतज्जन्यत्वयोरुत्तरावस्थासु सत्त्वेन निरुक्तोभयसम्बन्धेन धर्मविशिष्टधर्माः अव्यक्तत्वविशिष्टमहत्त्वतद्विशिष्टा-हङ्कारत्वादय इति तच्छूत्यत्वस्य मूलप्रकृतौ सत्त्वाल्लक्षण-सङ्गतिः ॥

न च –

*वारिवह्न्यनिलाकाशैस्ततो भूतादिना बहिः ।

वृतम् दशगुणैरण्डम् भूतादिर्महता तथा ॥

अव्यक्तेनावृतो ब्रह्मन् तैस्सर्वैस्सहितो महान् ।

एभिरावरजैरण्डम् सप्तभिः प्राकृतैर्वृतम् ॥*

इत्यादिना जलतेजोवाय्वाकाशाहङ्कारमहन्मूलप्रकृतीनामण्डावरणतया- ऽवस्थानस्य सिद्धतया तथाऽवस्थाननिर्वाहाय, *महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च* इत्यनेन अष्टद्रव्याणाम् शरीरारम्भकतयाऽवस्थानस्य भगवद्गीतादिसिद्धत्वेन तन्निर्वाहाय च प्रकृत्यादीनामेकदेशपरिणामो युक्तः । अन्यथा पृथिव्येकशेषप्रसङ्गेन प्रत्यक्षादिबाधापत्तेः । तन्मात्राणाम् त्वावारकत्वशरीरारम्भकत्वयोरश्रवणेन निश्शेषपरिणामाङ्गीकारेऽपि बाधकाभाव इत्युक्तलक्षणस्याकाशादावतिव्याप्तिः, आकाशत्वस्य शब्दतन्मात्रत्वजन्यत्वेऽपि तत्समानकालीनत्वाभावादिति – वाच्यम् ॥ तन्मात्राणामावारकत्वाद्यश्रवणेऽपि *अष्टौ प्रकृतयष्षोडश विकाराश्शरीरे तस्य देहिनः* इत्यादिना शरीरस्य चतुर्विम्शतितत्त्वमयत्वप्रतिपादनेन तेषाम् भूतैस्सहावस्थानसिद्ध्या तेषामप्येकदेशपरिणामस्यैव युक्तत्वात् ॥ न चैवम् – गीताभाष्ये *महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च* इति क्षेत्रारम्भकद्रव्याणीत्युक्तत्वाच्छरीरस्याष्टद्रव्योपादानकत्वाभ्युप-गमाद्भाष्यकृताम् तन्मात्राणाम् निश्शेषपरिणामपक्ष एवेष्ट इति – वाच्यम्; गीतातद्भाष्ययोरुक्तलक्षणपरत्वात् । अन्यथा – शरीरे एकादशेन्द्रियाणाम-प्यवस्थानासिद्ध्यापत्तेः ॥

न च–उक्तोभयसम्बन्धेन प्रकृतित्वविशिष्टाक्षरत्वाद्यवस्थायाः प्रकृतौ सत्त्वात्तच्छून्यत्वलक्षणस्यासम्भवः – इति वाच्यम् । अक्षरत्वावस्थायास्तमस्त्वावस्थानाशरूपत्वेन तज्जन्यत्वेऽपि प्रकृतित्वावस्थानाशरूपत्वाभावेन तज्जन्यत्वासम्भवात्, तन्नाशरूपत्वावस्थाया एव तज्जन्यत्वात्, प्रकृतित्वातिरिक्तत्वेन प्राथमिकधर्मविशेषणेनाक्षरत्वार्दानाम् प्रकृतित्वजन्यत्वेऽपिक्षत्यभावाच्च । अविभक्ततमसः कृत्स्नत एव विभक्ततमोरूपेण विभक्ततमसः कृत्स्नत एवाक्षररूपेणाक्षरस्य च कृत्स्नत एवाव्यक्तरूपेण परिणामादुक्तधर्मचतुष्टये एकैकस्य जन्यतासम्बन्धेन अपरधर्मविशिष्टत्वेऽपि कालिकसम्बन्धेन तद्विशिष्टत्वा भावादसम्भवविरहात्, । *अव्यक्तत्वप्रागभावासमानकालीनत्वेन प्राथमिकधर्मविशेषणेन अक्षरादीनाम् सुबालश्रुतावण्डावरणतयाऽवस्थानस्योक्त्या तमः प्रभृतीनाम् निश्शेषपरिणामासम्भवेऽपि न क्षतिः ॥ अव्यक्तत्वनाशप्रागभाववत्त्वम् तस्या लघु लक्षणम् बोध्यम् ॥

सा च मूलप्रकृतिश्चतुर्धा- अव्यक्तमक्षरम् विभक्ततममोऽविभक्ततमश्चेति । तत्र महत्तत्त्वादिरूपफलोन्मुखावस्था अव्यक्तावस्था, तत्पूर्वावस्था चाक्षरत्वम् इति रीत्या बोध्यम् ॥

*भूतलनिहितबीजस्थानीयमविभक्तम् तमः, मुनिस्सृतबीजवद्विभक्तम् तमः, सलिलसम्सृष्टार्द्रपृथ्ववयवबीजतुल्यमक्षरम्, उच्छूनबीजसमान-मव्यक्तम्, अङ्कुरस्थानीयो महान् – इति विवेकः ॥*

इति व्यासार्यैः सुबालोपनिषद्व्याख्याने प्रपश्चितम् । मूलप्रकृता- वुक्तावस्थाचतुष्टयम् च –

*महानव्यक्ते लीयते, अव्यक्तमक्षरे लीयते, अक्षरम् तमसि लीयते, तमः परे देव एकीभवति ॥*

इति सुबालश्रुतिसिद्धम् । तमः परे देव एकीभवतीत्यनेन अविभक्ततमोऽवस्थाभिधानात् ॥

ननु- उक्तसुबालश्रुतेर्मूलप्रकृतिगतावस्थाचतुष्टयपरत्वम् न सम्भवति; सा च प्रशासनादिति सूत्रावतरणभाष्यादिषु – *अव्यक्तमक्षरे लीयते, अक्षरम् तमसि लीयते*, *यस्याव्यक्तम् शरीरम् यस्याक्षरम् शरीरम्* इत्यादिश्रुतिगताव्यक्तसहचरिताक्षरशव्दस्य जीवपरतया व्याख्यानात् — इति चेत् ॥

अत्राहुः –

उक्ताक्षरशब्दव्याख्यानस्य परव्याख्यानानुरोधेन प्रवृत्तत्वान्न तत्र तात्पर्यम् । यद्वा – जीवे धर्मभूतज्ञानगतसङ्कोचविकासादिरूपविकारस्य परम्परया सत्त्वेऽपि साक्षात्सम्बन्धावच्छिन्नविकाराभाववाचकाक्षरशब्दस्य प्रवृत्तिर्यथा न विरुध्यते, तथा महत्त्वाहङ्कारत्वादिरूपविकार विशेषाभावपरत्वे मूलप्रकृतावपि तच्छब्दप्रवृत्तिरुपपद्यत इति दृष्टान्तविधया जीवपरताप्रतिपादनपरत्वान्न विरोधः ॥ अथवा – मूलप्रकृतौ विकारसामान्याभावस्य बाधेन तद्वाचकाक्षरशब्दस्य मुख्यत्वासम्भवात् अक्षरब्रह्मसम्बन्धित्वेन वा तादृशजीवसम्बन्धित्वेन वा लक्षणा वाच्या, तत्र ब्रह्मसम्बन्धित्वेन लक्षणोक्ती विशेषणे लयान्वयसम्भवात् विशेष्यमात्रे लयान्वयस्य विशिष्टे लयान्वयप्रकरणविरोधेनासम्भवात्, जीवसम्वन्धित्वावच्छिन्न एवाजहल्लक्षणेत्यभिप्रायेण तद्भाष्यस्य प्रवृत्तत्वान्न विरोधः ॥ – इति ॥

तत्र अव्यक्तत्वावस्थानाशरूपत्वे सत्यहङ्कारत्वावस्थाप्रागभावरूपत्वम् – महत्त्वावस्थाया लक्षणम्; अव्यक्तत्वावस्थानाशत्वस्याहङ्कारत्व-तन्मात्रत्वादिसाधारणत्वात्तद्वारणाय विशेष्यम्; तावन्मात्रस्याव्यक्तत्वाक्षरत्वादिसाधारण्यात्तद्वारणाय स॒त्यन्तम् ॥ यद्वा – अव्यक्तत्वावस्थाध्वम्सत्वावच्छिन्नविषयताकसङ्कल्पजन्यावस्थात्वम् – तल्लक्षणम्; अव्यक्तत्वावस्थाश्रयेष्वनन्ताम्शेषु मध्ये केषुचिदम्शेषु अव्यक्तत्वावस्थाध्वम्सरूपमहत्त्वावस्थोत्पद्यतामिति–सङ्कल्पेन तादृशावस्थोत्पत्तेर्लक्षणसङ्गतिः । अत्र सङ्कल्पनिष्ठजनकता विषयतासम्बन्धावच्छिन्ना ग्राह्या, तेन तादृशसङ्कल्पगतोत्तरावस्थायाम् नातिव्याप्तिः । अव्यक्तत्वावस्थान्यूनवृत्तित्वे सत्यहङ्कारत्वावस्थाव्यापकप्रकृतिविभाजकोपाधिमत्त्वम् वा तल्लक्षणम्; अव्यक्तत्वाक्षरत्वादिवारणाय सत्यन्तम्, अहङ्कारत्वादिवरणाय विशेष्यम् । व्यापकत्वम् च तत्समानाधिकरणभेदप्रतियोगितानवच्छेदकत्वे सति तदभाववद्वृत्तित्वम्,तेनाहङ्कारत्वादेस्तद्व्यापकत्वेऽपि न तद्दोषतादवस्थ्यम् । प्रकृतिविभाजकोपाधित्वनिवेशादव्यक्तत्व- न्यूनवृत्त्यहङ्कारत्वव्यापकान्यतमत्वादौ नातिव्याप्तिः ॥

सोऽयम् महाम्स्त्रिविधः – सात्त्विक राजसतामसभेदात् । सत्त्व-गुणोन्मेषवान् सात्त्विक इत्यादिबोध्यम् ॥

महत्त्वावस्थानाशरूपत्वे सति तन्मात्रत्वावस्थाप्राक्कालीनत्वम् – अहङ्कारत्वस्य लक्षणम् । अत्र तन्मात्रत्वावस्थाप्रागभावत्वस्य ताभसाहङ्कारत्व एव सत्त्वात्सात्त्विकराजससाधारणाहङ्कारत्वे तदभावादसम्भवः प्राप्नोतीति न तथा निवेश: तन्मत्रत्वपूर्वकालीनत्वम् चाहङ्कारत्वे, अक्षतमेव । व्यावृत्तिः पूर्ववत् । महत्त्वावस्थानाशत्वावच्छिन्नविषयताकसङ्कल्पप्रयोज्यावस्थात्वम् वा तल्लक्षणम्; महत्त्वावस्थान्यूनवृत्तिवृत्तित्वे सति तन्मात्रत्वावस्था- व्यापकप्रकृतिविभाजकोपाधित्वमपि तल्लक्षणमवसेयम् ॥

सोऽयमहङ्कारास्त्रिविधः – सात्त्विकराजसतामसभेदात् । तत्र सात्त्विकादिन्द्रियाणि जायन्ते, तामसाच्च शव्दतन्मात्रम्, राजस उभयानुग्राहकः ॥

तत्र शब्दाश्रयान्यत्वे सति आत्मप्रयत्नजन्यव्यापारवत्त्वरूपजीवात्मोपकरणत्वम् –इन्द्रियसामान्यलक्षणम् । शरीरप्राणयोरतिव्याप्तिवारणाय सत्यन्तम् । महदहङ्कारवारणाय विशेष्यम् ॥

न च-अप्राकृतद्रव्ये अव्यक्तमहदहङ्कारविभागाभावेन अप्राकृतेन्द्रि- याणामप्राकृतभूतपरिणामत्वस्यैव वाच्यतया तेषु शब्दाश्रयान्यत्वघटितोक्तक्षणाव्याप्तिरिति – वाच्यम्, अप्राकृतद्रव्येऽप्यव्यक्तमहदहङ्कारविभागस्य कैश्विदाचार्यैरङ्गीकाराद-  प्राकृतेन्द्रियाणाम् तत्परिणामत्वसम्भावात्, प्राकृतशब्दाश्रयान्यत्वस्य सत्यन्तार्थत्वे तद्दोषाप्रसवक्तेश्च । प्राकृतत्वम् च-रजस्समानाधिकरणत्वम् तमस्समानाधिकरणत्वम् वा ॥

न च – श्रीमद्गीताभाष्ये *महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च* इति श्लोकव्याख्याने *अव्यक्तमहदहङ्कारपञ्चमहाभूतारब्धम् शरीरम्* इत्युक्तत्वेन अतिरिक्तावयविनमनङ्गीकुर्वाणानाम् वेदान्तिनाम् मते शरीरस्योक्ताष्टद्रव्यसमुदायरूपत्वे पर्यवसानात्तादृशशरीरघटकाव्यक्तमहदहङ्कारेष्वतिव्याप्तिः; तेषाम् शब्दाश्रयान्यत्वे सत्यात्मप्रयत्नजन्यव्यापारवत्त्वादिति – वाच्यम् । तेषाम्  शरीरघटकत्वेऽप्यात्मप्रयत्नजन्यव्यापारवत्त्वानभ्युपगमात्, पञ्चमहाभूतात्मकभागेष्वेव तत्स्वीकारात्; शब्दाश्रयान्यत्वम् परित्यज्य प्राणशरीरान्यत्वनिवेशे तादृशभागेष्वतिव्याप्त्यप्रसक्तेश्च, तेषाम् शरीरान्यत्वाभावात् ॥ एतेन मुक्तादिशरीरे उक्तलक्षणस्यातिव्याप्तिरिति निरस्तम् ॥

इन्द्रियम् द्विविधम् – प्राकृतमप्राकृतम् चेति । रजोरहितत्वे सति तमोरहितत्वे सति वा इन्द्रियत्वमप्राकृतेन्द्रियलक्षणम् ।  सात्त्विकाहङ्कारोपादानकत्वम् प्राकृतेन्द्रियस्य लक्षणम्; जीवगमनव्यापकगमनवदिन्द्रियत्वम् वा प्राकृतेन्द्रियलक्षणम्, यदा जीवगमनम् तदेन्द्रियगमनमिति व्याप्तेः ॥

यद्यपि – मुक्तिकाले जीवगमनेऽपि नेन्द्रियगमनमिति न व्यापकत्वसम्भवः । तथापि बद्धजीवगमनव्यापकगमनवत्त्वस्य लक्षणत्वान्न दोषः ॥ न च कर्मेन्द्रियाणाम् हस्तपादादीनाम् शरीरेण सह विनाशदर्शनाज्जीवेन सह गमनासम्भावादुक्तलक्षणस्य तत्राव्याप्तिरिति – वाच्यम् । इन्द्रियाधिष्ठानभूतस्य भौतिकहस्तपादादे- र्नाशेऽपि तदधिष्ठानकस्याहङ्कारिकस्येन्द्रियस्य शरीरनाशकाले नाशानुपलम्भेन जीवेन सह गमनोपपत्तेः; तेषाम् शरीरेण सह नाश इति यादवप्रकाशपक्षस्यायुक्तत्वात् । हस्तादीनाम् प्रतिशरीरमुत्पत्तिविनाशा-भ्युपगमे *अष्टौ प्रकृतयष्षोडश विकाराः*, *चतुर्विम्शतिसङ्ख्यात-मव्यक्तम् व्यक्तमुच्यते* – इत्यादि-   श्रुत्यभिहिततत्त्वसङ्ख्याया विकारसङ्ख्यायाश्च विरोधप्रसङ्गात्, पृथिव्युत्पत्तिप्रतियोगिकध्वम्सपूर्वकालीनोत्पत्तिकानामेव तत्त्वरूपत्वात् । अन्यथा घटपटादीनामपि तत्त्वरूपतापत्त्या तत्त्वसङ्ख्याधिक्यप्रसङ्गात् । *तमुत्क्रामन्तम् प्राणोऽनूत्क्रामति, प्राणमनूत्क्रामन्तम् सर्वे प्राणा अनूत्क्रामन्ति* इति श्रुतौ सर्वपदेनोन्द्रियत्वव्यापकोत्क्रमणप्रतीतेश्च ॥

यद्यपि – *सर्वेभ्यो दर्शपूर्णमासौ* इत्यादौ सर्वपदस्य प्रक्रान्तकतिपयवस्तुपरत्वम् दृश्यते । तथाऽपि – अभेदसम्बन्धेन किञ्चि द्धर्मावच्छिन्नविशेषणतापन्नसर्वशब्दस्योद्देश्यतावच्छेदकव्यापकविधेय-व्याप्यसर्वत्वावच्छिन्नबोधकत्वस्य व्युत्पत्तिसिद्धत्वान्न प्रकृते सर्वशब्दस्य सङ्कुचितवृत्तिकत्वम् युक्तम् ॥ स्पष्टम् चेदम् प्रतिज्ञालक्षणगादाधर्याम् ॥ किञ्च अग्न्यादिश्रुतेरिति चेन्न भाक्तत्वादिति सूत्रे *यत्रास्य पुरुषस्य मृतस्याग्निम् वागप्येति वायुम् प्राणश्चक्षुरादित्यम्* इत्यादिना प्राणानाम् जीवमरणकाले अग्न्यादिष्वप्ययश्रवणान्न तेषाम् जीवेन सह गमनमित्याशङ्क्या- प्ययश्रवणस्य देवतापक्रमणपरत्वान्न दोष इति समाधानेन कर्मेन्द्रियस्य वाचो जीवेन सह गमनस्य स्थापितत्वात् तन्न्यायेन सर्वेषामपि गमनाङ्गीकारस्य युक्तत्वात् ॥

न च – वेदान्तदीपे हस्तादयस्तु स्थितेऽतो नैवमिति सूत्रे –          *तत्र श्रोत्रादीनि जीवेन सह शरीरान्तरगमनेऽपि गच्छन्ति । वाग्वस्तादीनि कर्मेन्द्रियाणि तु शरीरे तेनैव सहोत्पत्तिविनाशयोगीन्युपकारकाणि ॥*

इत्युक्तम् विरुध्येतेति वाच्यम् । उदाहृतवेदान्तदीपवाक्यस्य परमतवद्धस्तादीनाम् प्रतिशरीरमुत्पादविनाशाभ्युपगमेऽपि तेपामिन्द्रियत्वम् सिद्व्यतीत्यत्र तात्पर्यात्तेषाम् शरीरेण सहोत्पादविनाशवत्त्वे तात्पर्यम् विरहात् । अत एव सारे तत्सूत्रमन्यथा व्याख्यातम् —*हस्तादयोऽपीन्द्रियाणि, जीवे देहान्तरवस्थिते उपकारकत्वा विशेषात्* – इति ।

एवमेव भाष्येऽपि व्याख्यातम् *न सप्तैवेन्द्रियाणि अपित्वेकादश; हस्तादीनामपि शरीरे स्थिते जीवे तस्य भोगोपकरणत्वात्* ॥ इति ॥

न च सूत्रघटकस्थित इत्यस्य दीपोक्तरीत्या शरीरे स्थित इत्यर्थकत्वे शरीरेण सहोत्पत्तिविनाशवत्त्वम् हस्तादीनाम् प्रतीयते सारभाष्योभयरीत्या शरीरान्तरवस्थिते *जीवे हस्तादीन्युप कारकाणीत्यर्थकत्वे च स्थित इत्यस्य वैयर्थ्यम्; चक्षुरादीनामपि शरीरे जीवावस्थानदशायामेवोपकरणत्वेन तद्व्यावर्तकत्वासम्भवात्; तथा च दीपोक्तयोजनाया एव युक्तत्वाद्धस्तादीनाम् शरीरेण सहोत्पत्तिविनाश- वत्त्वेऽपि सूत्रादितात्पर्यमस्तीति – वाच्यम् । सारभाष्योक्तयोजनायामपि दोषाभावात् । शरीरान्तरवस्थिते जीवे हस्तादीन्युपकारकाणीत्यत्र जीव इत्यस्य कर्तरीत्यर्थकत्वेनेच्छाविषयकार्यजनकत्वरूपोपकारकत्वघटककार्येजीवकृति-जन्यत्वलाभाद्धस्तादिजन्यादानादिरूपकार्ये जीवकृतिजन्यत्वम्, चक्षुरादिजन्यसाक्षात्कारे च तदजन्यत्वमिति वैलक्षण्यसूचकतया  स्थित इत्यस्य सार्थकत्वात् । पाथसि पीते तृष्णा शाम्यतीत्यादाविव सति सप्तम्या जन्यजनकभावलाभात् । यद्वा शरीरान्तरवस्थिते जीवे उपकारकाणीत्यस्य जीवाधिकरणीभूतशरीरावच्छेदेनादानादिकार्यजनकानीत्यर्थः; – चक्षुरादीनि तु वृत्त्या शरीरानवच्छिन्ने घटादिदेशेऽपि चाक्षुषादिरूपकार्य जनकानीति चक्षुरादीनाम् वृत्त्या कार्यजनकत्वम्, हस्तादीनाम् तन्निरपेक्ष- कार्यजनकत्वमिति वैलक्षण्यसूचकतया स्थित इत्यस्य सार्थकत्वात् ॥

यद्यपि – *सप्तगतेर्विशेषितत्वाच्च* इति पूर्वपक्षसूत्रे सप्तानाम् गतिश्रवणात्सप्तैवेन्द्रियाणीत्यर्थके गतेरित्यस्य प्रतिकोटितया हस्तादय इति सिद्धान्तसूत्रे स्थित इत्यस्योपादानात्; हस्तादीनाम् गतिर्नास्तीति स्वरसतः प्रतीयते । तथाऽपि – भौतिकेन्द्रियवादे दोषस्योक्तत्वादाहङ्कारिकेन्द्रियपक्षे च तादृशार्थासम्भवादुक्तार्थ एव युक्त इति बोध्यम् ॥

न चैवमपि – जीवस्य परकायप्रवेशदशायामिन्द्रियादीनामगमनादव्याप्तिरिति – वाच्यम् । जीवस्य स्वेन्द्रियैस्सहैव परकाये प्रवेशात्; अन्यथा तच्छरीरावच्छेदेनेन्द्रियकार्याणामनुत्पत्तेः । मृतशरीरे प्रवेशस्थले तदीयेन्द्रियाणामभावात्तन्न्यायेन जीवविशिष्टशरीर प्रवेशस्थलेऽपीन्द्रियैस्सह प्रवेशाङ्गीकारस्य युक्तत्वात्, अन्यदीयेन्द्रियाणामन्यादृष्टोपार्जितानामेतदुपकारकत्वासम्भवात्;       *शरीरम् यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।

गृहीत्वैतानि सम्याति वायुर्गन्धानिवाशयात् ॥*

इति स्मृतेश्च ॥ तथा च – पूर्वपरित्यक्ते स्वशरीरे मृतकायप्रवेशवत् पुनरिन्द्रियैस्सह प्रवेशः ॥

न च – प्रदीपवदावेशस्तथा हि दर्शयतीति सूत्रे योगिनाम् एकदा अनेकशरीरेषु प्रवेशो ज्ञानव्याप्त्येत्युक्तम्, तत्रेन्द्रियाणामभावात् कथम् तत्कार्यनिर्वाहः – इति वाच्यम् । तत्रानेकशरीरेष्विन्द्रियाणामपि प्रतिशरीरम् विविक्ताभिर्वृत्तिभिरीश्वरसङ्कल्पेन प्रसृतामिः कार्यनिर्वाहाङ्गीकारात् ॥ उक्तञ्च न्यायसिद्धाञ्जने –

*प्रतिदेहम् विविक्तानि मनःप्रभृतिकान्यापि । इन्द्रियाणीश्वरेच्छाद्यैः प्रवर्तन्ते तु योगिनः ॥* इति ॥

एवमेव स्वप्ने भगवता सृष्टेष्वपि देहेष्विन्द्रियकार्यनिर्वाहो वृत्तिभिरेव बोध्यः ॥

पुनरिन्द्रियम् द्विविधम् – ज्ञानेन्द्रियकर्मेन्द्रियभेदात् ॥

ज्ञानप्रसरणहेतुत्वे सतीन्द्रियत्वम् – ज्ञानेन्द्रियत्वम् । इन्द्रिय- सम्योगेऽतिव्याप्तिवारणायेन्द्रियत्वनिवेशः । न च – अप्राकृतज्ञानेन्द्रियेष्वव्याप्तिः, नित्यमुक्तेश्वराणाम् ज्ञानस्येन्द्रियाधीनप्रसरवत्त्वाभावादिति – वाच्यम्; ज्ञानप्रसरण हेतुतावच्छेदकधर्मवत्त्वस्य विवक्षितत्वात्, अप्राकृतेन्द्रियेष्वपि तादृश- हेतुतावच्छेदकचक्षुष्ट्वादिमत्त्वस्याक्षतत्वात् ॥ तच्च षड्विधम् -मनश्श्रोत्रस्पर्शननयनरसनघ्राणभेदात् । तत्र मनस्स्पर्शननयनानाम् द्रव्यग्राहकेन्द्रियत्वम्, अन्येषाम् तदग्राहकेन्द्रियत्वम् लक्षणम् । यद्यपि–सर्वेषामेवेन्द्रियाणाम् तत्तत्काल  विशिष्टवस्तुग्राहकत्वाद्द्रव्यग्राहकत्वमविशिष्टम्; तथापि – द्रव्यपदेन कालातिरिक्तद्रव्यमेव विवक्षितमिति न दोष: । कालस्य षडिन्द्रियवेद्यत्वम् च वक्ष्यते ॥

तत्र श्रावणस्पार्शनोभयजनकेन्द्रियत्वम् – मनसो लक्षणम् । श्रावणजनकत्वमात्रोक्तौ श्रोत्रे, स्पार्शनजनकत्वमात्रोक्तौ त्वगिन्द्रियेऽतिव्याप्तिः ; अत उभयनिवेशः । तावन्मात्रोक्तौ चात्मादावतिव्याप्तिः ; अत इन्द्रियत्वनिवेशः । एवम् स्पार्शनचाक्षुषोभयादिघटितमपि लक्षणान्तरमूह्यम् ॥ न चोक्तलक्षणस्याप्राकृतमनस्यव्याप्ति:; नित्यमुक्तादिज्ञानस्येन्द्रियान्तराधीनप्रसरणवत्त्वाभावेऽपि मनोऽधीनप्रसरणस्याङ्गीकारात्; *मनसैतान्कामान् पश्यन् रमते* इति श्रुत्या मुक्तादिज्ञानेऽपि मनोधीनप्रसरणबोधनात्, श्रावणस्पार्शनोभयजनकतावच्छेदकधर्मघटितलक्षणसम्भवाच्च ॥ स्मृतिजनकतावच्छेदकधर्मवदिन्द्रियत्वम् वा मनोलक्षणम्, हृत्प्रदेशमात्रवृत्तित्वम् वा तल्लक्षणम् । न च *अनवस्थितेरसम्भवाच्च नेतरः* इति सूत्रभाष्ये जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूतेस्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानमित्युक्तत्वाज्जीवेऽतिव्याप्तिरिति-वाच्यम् । इन्द्रियत्वस्यापि निवेशात्, चक्षुरादीनाम् च स्वस्वाधिष्ठाने हृत्प्रदेशे च वर्तमानत्वेऽपि न तन्मात्रवृत्तित्वमिति नातिव्याप्तिः ॥

तदेकमेव मनः वृत्तिभेदात् बुद्ध्यहङ्कारचित्तसञ्ज्ञाम् लभते, न तु बुद्ध्यादिकमिन्द्रियान्तरम् । न च – सुबालोपनिषदि चक्षुश्च द्रष्टव्यम् च नारायणः* इत्यादिना पञ्च ज्ञानेन्द्रियाण्युक्त्वा –

*मनश्च मन्तव्यम् च नारायणः, बुद्धिश्च बोद्धव्यम् च नारायणः, अहङ्कारोऽहङ्कर्तव्यम् च नारायणः ॥*

इत्याम्नानात्, अनन्तरम् च कर्मेन्द्रियाणाम् गणनात्, बुध्द्यादीनामपीन्द्रियान्तरत्वम् प्रतीयत इति – वाच्यम् । वृत्तिभेदादेव पृथग्गणनोपपत्तेः; प्राणस्य वृत्तिभेदात्प्राणापानादिरूपेण पृथक्परिगणनवन्मनसोऽपि वृत्तिभेदात् पृथगभिधानोपपत्तेः । कामसङ्कल्पविचिकित्सादयोऽपि मनोवृत्तिविशेषाः – *कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धीर्भीरित्येत्सर्वम् मन एव* इति श्रुतेः पञ्चवृत्तिर्मनोवद्व्यपदिश्यते इति सूत्रभाष्ये कामादीनाम् मनोवृत्तित्वाभिधानाच्च । *कामादयोऽध्यवसायादयश्च पुरुषधर्मा एव । उक्तश्रुतौ कामादिपदस्य आयुर्घृतमित्यादाविव तज्जनके लाक्षणिकत्वात्* इत्युक्तम् सर्वार्थसिद्धौ ॥

नचैवम् पञ्चवत्तिर्मनोवव्द्यपदिश्यते इति सूत्रभाष्यविरोधः, तत्र कामादीनाम् मनोवृत्तिविशेषत्वाभिधानात्; एवम् सप्तगतेरित्यधिकरणभाष्यविरोधश्च, तत्राध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव बुव्द्यहङ्कारचित्तशब्दैर्व्यपदिश्यत इत्युक्त्वादिति – वाच्यम् । कामत्वाध्यवसायत्वाद्यवस्थाश्रयज्ञानजनकत्वादिरूपतत्तदवस्थाविशिष्टस्य मनस एव कामसङ्कल्पादिशब्दैर्बुद्ध्यहङ्कारादिशब्दैश्च व्यपदेशस्योदाहृतभाष्याभिप्रेततया श्रुतप्रकाशिकान्यायसिद्धाञ्जनयोः प्रतिपादितत्वात् ॥

अन्ये. तु – *पञ्चवृत्तिर्मनोवद्व्यपदिश्यते* इति सूत्रे श्रुतौ च मनः पदम् धर्मभूतज्ञानपरम् । नचैवम् लक्षणाप्रसङ्गः *मनश्चेतस्सञ्ज्ञान-माज्ञानम् विज्ञानम् प्रज्ञानम् मेधा दृष्टिर्धृतिर्मतिर्मनीषा, ज्योतिस्स्मृतिस्सङ्कल्पः क्रतुरसः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति* इति ऐतरेयश्रुत्या मनःपदस्य ज्ञाने शक्त्यभिधानात् । तथा च – धर्मभूतज्ञानस्य यथा कामादिवृत्तिमत्त्वम्, तथा प्राणस्य प्राणापानादिवृत्तिमत्त्वमिति दृष्टान्तसामञ्जस्यम्- इत्याहुः ॥

स्पर्शविषयकसाक्षात्काराजनकत्वे सति शब्दविषयकसाक्षात्कार-जनकेन्द्रियत्वम् – श्रोत्रस्य लक्षणम् । मनस्यतिव्याप्तिवारणाय सत्यन्तम्, चक्षुष्यतिव्याप्तिवारणाय शब्दविषयकसाक्षात्कारजनकेति श्रौत्र- सम्योगेऽतिव्याप्ति वारणायेन्द्रियत्वमिति । तच्च मनुष्यादीनाम् कर्णशष्कुल्यवच्छिन्नप्रदेशवृत्ति द्विजिह्लादीनाना नयनवृत्तीति ज्ञेयम् ॥

ननु – एकादशेन्द्रियाणामपि अणवश्चेति सूत्रेणाणुत्वाभिधानात् श्रोत्रस्याणुरूपस्य कथम् दूरस्थशब्दग्राहकत्वम् । न च-ग़गने वीचीतरङ्गन्यायेन शब्दधाराया उत्पत्त्यङ्गीकारात् क्षेत्रसम्बद्धस्य शब्दस्य तेन ग्रहणम् युज्यत इति – वाच्यम् । तथा सत्य नन्तशब्दकल्पना प्रसङ्गेन गौरवात्; श्रोत्रदेशोत्पन्नस्यैव ग्रहणे प्राच्याम् शब्दः, प्रतीच्याम् शब्दः दूरे शब्दः, समीपे शब्द इत्यादिप्रतीत्यनुपपत्तिश्व इति चेत् ॥

अत्र केचित् – श्रोत्रस्याणुत्वेऽपि शब्दोत्पत्तिदेशपर्यन्तम् प्रसृतया तद्वृत्त्या शब्दस्य सम्बन्धात् दूरस्थशब्दग्रहोपपत्तिः, प्रच्याम् शब्दो दूरे शब्द इत्यादिप्रतीत्युपपत्तिश्च । वीणायाः शव्दम् शृणोमीत्यादि-व्यवहारस्याप्युपपत्तिः, वीचीतरङ्गन्यायेन शब्दोत्पत्तिपक्षे वीणाजन्यशब्दस्याश्रवणात्तदनुपपत्तिः – इत्याहुः ।

वस्तुतस्तु – *शब्दगन्धसूर्यालोकरत्नप्रभादयो धर्म्यतिवर्तिनो गति- मन्तश्च* इति आत्मसिद्धिवाक्यानुरोधात्, शब्दाश्रयस्य वाय्वादिभूतस्य श्रोत्रदेशागमनात् शब्दस्य सन्निकृष्टत्वात् शब्दप्रत्यक्षोपपत्तिः । उक्तात्मसिद्धिवाक्ये गन्धपदम् शब्दपदम् च तत्तदाश्रयद्रव्यपरम्; यथा गन्धाश्रयपार्थिवभागानाम् वायुना समानीतत्वाद्दूरस्थचम्पकादेर्गन्धो घ्राणेन गृह्यते, तद्वत् शब्दोपीति भावः । अत एवानुकूलवातदशायाम् दूरस्थस्यापि शब्दस्य गहणम्, प्रतिकूलवाते च समीपस्थस्याप्यग्रहण मित्युपपद्यते । एवम् भेर्याम् ताड्यमानायाम् प्रथमम् समीपस्थानाम् पुरुषाणाम् शब्दप्रत्यक्षम्, अनन्तरम् च विप्रकृष्टानाम् प्रत्यक्षम्, गृहान्तर्गतानामस्फुटम् दूरस्थशब्दग्रहणम् बहिनिर्गतानाम् च स्फुटम् सद्ग्रहणमित्यादिकम् चोपपद्यते । न च – प्रतिकूलवातेन श्रोत्रवृत्ते- र्निरोधान्न तदा शब्दग्रहणम्, समीपस्थानाम् च झटिति वृत्तिप्रसरणादविलम्बेन शब्दग्रहणम्, गृहान्तर्गतानाम् तु श्रोत्रवृत्तौ कतिपयाम्शस्य कुड्यादिना निरोधादल्पाम्शानाम् प्रसरणादस्फुटग्रहणमितिरीत्या वृत्तिगमनपक्षेऽप्युपपत्तिरिति – वाच्यम् । भेर्यादिशब्देन गुहासौधादौ प्रतिशब्दोत्पादस्य चलनस्य च तादृशशब्दाश्रयद्वव्याभिघातमन्तरेणानुपपत्तेश्शब्दाश्रयद्रव्यागमनपक्षस्यैव युक्तत्वात् ॥

उक्तम् च सर्वार्थसिद्धौ –

*गुहासौधादिसङ्क्षोभः प्रतिशब्दश्च जृम्भते ।

निस्साणादिप्रणादेन तदेतत्पक्षसङ्गतम् ॥* – इति ॥

न चैतत्पक्षे प्राच्याम् शब्द इत्यादिप्रतीत्यनुपपत्तिः । प्राच्यास्स- मागतवायुना शब्दोपलम्भेन शब्दे प्राच्यादित्वप्रतीतेरानुमानिकत्वात् । एतदप्युक्तम् तत्रैव –

*यथा मयूरवीणादेश्शब्दोऽयमिति गृह्यते ।

तथा प्राच्यादिशब्दोऽयमिति लिङ्गात्तथाविधात् ॥* –  इति ॥

तस्मात् शब्दाश्रयद्रव्यागमनपक्षे न कोऽपि दोष इति दिक् ॥  रूपाग्राहकत्वे सति स्पर्शग्राहकेन्द्रियत्वम् – त्वगिन्द्रियलक्षणम् । मनस्यतिव्याप्तिवारणाय सत्यन्तम्, श्रोत्रेऽतिव्याप्तिवारणाय स्पर्श- ग्राहकेति, त्वगिन्द्रियसम्योगवारणायेन्द्रियत्वमिति । त्वगिन्द्रियम् च सर्वशरीरवृत्ति, अणुत्वेऽपि तस्य विकासशक्त्या वृत्तिद्वारेण वा तस्य शरीरव्यापकत्वसम्भवात् । अत एव पिपीलिकादिशरीरस्थस्य स्पर्शनस्य विकासावस्थयैव गजादिशरीरप्रवेशे तादृशशरीरव्यापकत्वम्, गजादि शरीरस्थस्य च तस्य सङ्कोचावस्थया पिपीलिका दिशरीरव्यापकत्वमुपपद्यते । नखदन्तकेशादिषु प्राणमान्द्यतारतम्यात् स्पर्शानुपलम्भः ॥

स्पर्शाग्राहकत्वे सति रूपग्राहकेन्द्रियत्वम् – चक्षुषो लक्षणम् । तच्च नयनवृत्ति, एतस्य च वृत्तिप्रसरणेन विषयदेशप्राप्त्या दूरस्थपदार्थग्राहकत्वम् *दिवीव चक्षुराततम्* इति श्रुतिव्यवहारस्वारस्याच्चक्षुषो वृत्यङ्गीकारस्य युक्तत्वात् । कुड्या- दिव्यवधानस्थले कुड्यादिना अञ्जनाद्यसम्स्कृतनेत्रवृत्तेः प्रतिरोधान्न व्यवहितार्थग्राहकत्वम् । अञ्जनादिसम्स्कृतनेत्रवृत्तेः कुड्यादावपि प्रवेशादञ्जनसम्स्कृतचक्षुषाम् व्यवहितार्थग्रहोपपत्तिः । काचज- लाद्यच्छद्रव्याणाम् च वृत्तिनिरोधकत्वाभावत्तद्व्यवहितानामपि चक्षुषा ग्रहणमुपपन्नम् । ज्ञानेन्द्रियेषु चक्षुष एकस्यैव विषयदेशद्र गत्वा तद्ग्राहकत्वम्, अन्येषाम् तु स्वदेशप्राप्तविषयग्राहकत्वमिति – विवेकः । पिपीलिकादीनाम् रसनम् पश्चादीनाम् घ्राणमपि वृत्त्या विषयदेशम् गत्वा तद्ग्राहकमित्यनुभवानुसारात् कल्पयन्ति ॥

रूपग्राहकत्वे सति रसग्राहकेन्द्रियत्वम्-रसनेन्द्रियलक्षणम् । तच्च जिह्वाग्रवर्ति ॥

रसाग्राहकत्वे सति गन्धग्राहकेन्द्रियम् – घ्राणम्, तच्च नासाग्रवर्ति ॥

उक्तानामिन्द्रियाणाम् द्रव्यप्रत्यक्षे सम्योगः । द्रव्याश्रितानाम् रूपादीनाम् प्रत्यक्षे सम्युक्तापृथक्सिद्धत्वम् सन्निकर्ष इति बोध्यम् ॥

उच्चारणाद्यन्यतमजनकेन्द्रियत्वम् – कर्मेन्द्रियसामान्यलक्षणम् | तच्च वाक्पाणिपादपायूपस्थभेदात् पञ्चधा । तत्र वर्णोद्देश्यक- कृतिज़न्यव्यापारवदिन्द्रियम् वाक् । अत्र जिह्वादावतिव्याप्तिवारणायेन्द्रियत्वनिवेशः । सा च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासामूर्धरूपस्थानाष्टकवृत्तिः । शुकादीनामपि किञ्चित्तादृशसम्स्थानवैषम्यादुच्चारणवैषम्यम् ॥

आस्यकबलसम्योगोद्देश्यककृतिप्रयोज्यव्यापारवदिन्द्रियम् – पाणिः । भौतिक्रहस्तादावतिव्याप्तिवारणायेन्द्रियमिति । विलेखनसाधनेन्द्रियम् वा सः; विलेखनम् च पत्रादिगतावयवविभागमष्यादिसम्योगान्यतरानुकूल-व्यापारः । तथा चावयवविभागमष्यादिसम्योगान्यतरोद्देश्यक- कृतिजन्यव्यापारवदिन्द्रियम् पाणिरिति फलितम् । स च मनुष्यादीनाम् अङ्गुल्यग्रवृत्तिः, गजादीनाम् नासाग्रवृत्तिः । न च–अभ्यासपाटवात्पादादिभिरपिकेषाम्द्विद्धिलेखनस्य  जायमानत्वात्पादादावतिव्याप्तिरिति-वाच्यम् । तत्राप्यल्पीयस्याः हस्तादिवृत्तेः प्रसरणाङ्गीकरेण तादृशवृत्त्यैव लेखनाद्युत्पत्तेः ॥

उत्तरदेशसम्योगाद्देश्यककृतिजन्यव्यापारवदिन्द्रियम् – पाद: । भौतिकपादवारणायेन्द्रियमिति । स च मनुष्यादीनाम् चरणवृत्तिः भुजगपतगादीनाम् उरःपक्षादिवृत्तिः ॥

मलादिपतनोद्देश्यककृतिजन्यव्यापारवदिन्द्रियम्-पायुः । स च तत्तदवयवविशेषवृत्तिः ॥

आनन्दविशेषोद्देश्यककृतिजन्यव्यापारवदिन्द्रियम् – उपस्थः । स च मेहनादिवृत्तिः ॥

उक्तानामिन्द्रियाणाम् मुक्तिदशायामप्राकृतदेशगमनासम्भवादिहैब यावत्प्रलयम् स्थितिः करणविधुररैन्यैः परिग्रहो वा बोध्यः ॥

अत्र नैयायिकाः –

कर्मेन्द्रियाणामिन्द्रियत्वमेवासिद्धम्, प्रमाणाभावात् । ज्ञानेन्द्रियेषु च श्रोत्रख्याकाशत्वम्, स्पर्शनस्य वायुत्वम्, नयनस्य तेजस्त्वम्, रसनस्य जलत्वम्, घ्राणस्य च पृथिवीत्वम् युक्तम् । तथा हि – श्रोत्रम् स्वग्राह्य- गुणसजातीयगुणवत्, बाह्येन्द्रियत्वात्, चक्षुरादिवत्; स्पर्शनम् वायवीयम्, रूपाग्राहकत्वेसति स्पर्शग्राहकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकव्यजनपवनवत्; चक्षुस्तैजसम्, स्पर्शाग्रहकत्वे सति रूपग्राहकत्वात्, प्रदीपप्रभावत्; रसनम् जलीयम्, रूपाग्राहकत्वे सति रसग्राहकत्वात्, सक्तुरसाभिव्यञ्जकनवशरावोदकवत्; घ्राणम् पार्थिवम्, रसाग्राहकत्वे सति गन्धग्राहकत्वात्, कुङ्कुमगन्धाभिव्यञ्जगोघृतवत् – इत्याद्यनुमानैश्श्रोत्रादीनामाकाशत्वादिकम् सिध्यति – इत्याहुः ॥

तन्न । *एका कन्या दशेन्द्रियाणि दशेमे प्राणा आमैकादशः* इति श्रुत्या, *इन्द्रियाणि दशैकम् च देवा वैकारिका दश । एकादशम् मनश्च* इत्यादिस्मृत्या च हस्तादीनामपीन्द्रियत्वावगमात् । श्रुतौ कन्यापदमात्मपदम् च मनःपरम्, श्रुतौ प्राणपदम् स्मृतौ देवपदम् चेन्द्रियपरम् बोध्यम् । श्रोत्रादीनामनुमानैराकाशत्वादिसाधनमप्ययुक्तम् । तत्र श्रोत्रादिशब्दैः प्रत्यक्षग्राह्यकर्णशष्कुल्यादिरूपाधिष्ठानानाम् ग्रहणे बाधः । स्वमते तेषामाकशत्ववायुत्वादेरनङ्गीकारात् तत्तदधिष्ठानकेन्द्रियाणाम् चाकाशादिरूपाणामनुमानात्पूर्वमसिद्ध्या उक्तानुमानेषु पक्षत्वासम्भात् । न च – शब्दग्राहकेन्द्रियत्वस्पर्शग्राहकेन्द्रियत्वादिना पक्षीकरणात् न दोष इति – वाच्यम् । प्रथमानुमाने स्वग्राह्यगुणसजातीयगुणाभाववति हस्तादौ बाह्येन्द्रियत्वस्य हेतोर्व्यभिचारात्, मनोभिन्नज्ञानेन्द्रियत्वस्य हेतुत्वेऽपि दृष्टान्तस्य साध्यविकलत्वात् चक्षुरादौ स्वग्राह्यरूपादिमत्त्वस्यास्माभिरनङ्गीकारात् । द्वितीयतृतीयानुमानयोरपि दृष्टान्तस्साधनविकलः, व्यजनपवनस्य वेगेन शरीरोपरि निपततस्तत्सम्युक्तसूक्ष्मसलिलकणानाम् शरिरान्तःप्रवेशहेतुत्वेऽपि स्पर्शग्राहकत्वाभावात्, प्रविष्टानाम् च सलिलानाम् शैत्यस्यान्तर्गतत्वगिन्द्रियप्रदेशेन स्फुटमवगमात्; विषयतासम्बन्धेन चाक्षुषम् प्रति सम्योगादिसम्बन्धेन तमसःप्रतिबन्धकतया दीपप्रभायास्तादृशतमोनिवर्तकत्वेन चाक्षुषप्रयोजकत्वेऽप्यालोकसम्योगत्वादिना चाक्षुषहेतुत्वे मानाभावात्, प्रभायाः रूपग्राहकत्वाभावात् । क्रिञ्च द्रव्यचाक्षुषे आलोकप्रतियोगिकसम्योगो न हेतुः; मणिप्रभादौ तदभावेऽपि चाक्षुषोत्पत्तेः; नाप्यालोकानुयोगिकः, घटादौ तदाभावात्; नाप्यालोकप्रतियोगिकत्वतदनुयोगिकत्वान्यतरविशिष्टस्सम्योगः, आलोकप्रतियोगिकत्वतदनुयोगिकत्वदीनाम् विशेषणविशेष्यभावे  विनिगमनादिविरहेण तदवच्छिन्नस्य कारणताबाहुल्यापत्तेः ॥ न च–अन्यदेशावच्छिन्नादप्यालोकसम्योगाच्चाक्षुषोत्पत्त्यभावाज्जातिविशेषस्यैव द्रव्यादिचाक्षुषजनकतायामालोकसम्योगनिष्ठायामवच्छेदकत्वम् स्वीकार्यम्; सा च – जातिरालोकनिष्ठे वाय्वादिसम्योगेऽपि सम्भवति । अत एव प्रभादि चाक्षुषमिति – वाच्यम् । तादृशजातिरालोकसम्योगे तत्समानाधिकरणतत्समानकालीनवायुसम्योगादौ वेत्यत्र  विनिगमकाभावात् । किन्तु तमस्त्वेन प्रतिबन्धकत्वमेव द्रव्यचाक्षुषे कल्प्यते, तदभावादेवोक्तप्रभादौ चाक्षुषोपपत्तिः ॥ न च–तमोऽभावत्वेन हेतुत्वेऽपि तमः प्रतियोगिकत्वाभावत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण कारणताद्वयापत्तिरिति – वाच्यम् । स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन तमस्त्वविशिष्टत्वेनैव कारणतास्वीकारेण कारणतावच्छेदके अभावत्वानिवेशात् ॥ न च –  अत्रापि प्रतियोगितासम्बन्धेनालोकविशिष्टत्वेनहेतुतास्वीकारान्न विनिगमनाविरह इति वाच्यम्; मणिप्रभादौ व्यभिचारावारणात् ॥ एतेन – सम्योगेनालोकस्य हेतुत्वमित्यापि – निरस्तम् ॥

उक्तम् च प्रथमसूत्रभाष्ये –

*प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानमुत्पादयतोविरोधितमोनिरसन-द्वारेणोपकारकत्वमात्रमेव ॥* — इति ॥

न च यथाकथञ्चिच्चाक्षुषप्रयोजकत्वस्य हेतुत्वात्तस्य प्रभायाम् सत्त्वान्न साधनवैकल्यमिति – वाच्यम्; तादृशप्रयोजकत्वस्योन्मीलनादि-हेतुभूतपक्ष्मादिसाधारण्येन व्यभिचारात् । एवमुक्तानुमानानाम् – इन्द्रियाण्यभौतिकानि, इन्द्रियत्वात्, मनोवत् –इत्यादिभिस्सत्प्रतिपक्षि-तत्वादाह-ङ्कारिकत्वप्रतिपादकश्रुत्यादिबाधितत्वाच्च न भौतिकत्वमिन्द्रियाणामिति । न च – *आकाशमिन्द्रियेषु, इन्द्रियाणि तन्मात्रेषु, तन्मात्राणि भूतादौ लीयन्ते* इति श्रुत्या इन्द्रियाणाम्म् तन्मात्रेषु लयप्रतिपादनात्तन्निष्ठलयप्रतियोगित्वस्य तदुपादानकत्व-व्याप्यत्वात्तन्मात्रोपादनकत्वसिद्ध्या भौतिकत्वम् सिध्यतीति – वाच्यम् ; इन्द्रियपर्याये आकाशपर्याये च लीयन्त इति पदाश्रवणेन तत्पर्यायद्वयस्याकाशेन्द्रिययोः इन्द्रियतन्मात्रयोश्च परस्परसयेयोगप्रतिपादनपरत्वात् ॥ न चेन्द्रियपर्याये लीयन्त इति पदानुषङ्गः, सति गत्यन्तरे अध्याहारवत्तस्याप्ययोगात्; अन्यथा आकाशपर्यायेऽप्यवैरूप्यायानुषङ्गापत्त्या सर्वोपबृम्हणविरोधापत्तेः । इन्द्रियाणामाकाशोपादानत्वस्य कुत्राप्यकथनात् । अस्याञ्चोपनिषदि भूतादेराकाशमाकाशाद्वायुरिति सृष्टिक्रमेण भूतादेरेवाकाशोपादानत्वाभिधानात् ॥ न च – उक्तपर्यायद्वयस्याकाशेन्द्रि-ययोस्सम्सर्गप्रतिपादनपरत्वमपि न सम्भवति, तादृशसम्सर्गस्येदानीमपि सत्त्वेन तत्प्रतिपादने प्रयोजनाभावादिति – वाच्यम्; स्पर्शनचक्षुरादि ष्विन्द्रियेष्वाप्यायकानाम् वायुतेजः – प्रभृतिभागानाम् सत्त्वात् तत्तदिन्द्रियाप्यायकत्वस्य तत्तदिन्द्रियेणैकसङ्घाततापत्तिरूपत्वात्तादृश शभूताम्शानाम् सर्वेषामपि तद्दशायामाकाशतापत्त्या इन्द्रियत्वावच्छेदे-नाकाशत्वावच्छिन्न प्रतियोगिकविलक्षणसम्योगस्य प्रलयदशायामेव सम्भवात् । ततस्तादृशाकाशस्य शब्दतन्मात्ररूपताप्राप्तौ तन्मात्रत्वावच्छिन्ने इन्द्रियसम्योगस्योपपत्तेः । शब्दतन्मात्रस्यैकत्वेऽप्यम्शभेदविवक्षया बहुवचनोपपत्तेःतः । तन्मात्राणि भूतादौ लीयन्त इत्यनेन शब्दतन्मात्रस्य तामसाहङ्कारे भूतादिपदवाच्ये लयप्रतिपादनेन विरोधाभावादिति ॥

अथ तन्मात्रादिकम् निरूप्यते । तन्मात्रभूतोभयसाधारणम् लक्षणम् तु शब्दवत्त्वम्, शब्दतन्मात्रादिपञ्चतन्मात्रेषु पञ्चमहाभूतेषु च तत्सत्त्वाल्लक्षणसङ्गतिः । स्वसमानाधिकरणस्वसजातीयगुणध्वम्सा-समानकालीनगुणवत्वम् पञ्चतन्मात्राणाम् लक्षणम् । साजात्यम् चाद्रव्यविभाजकशब्दत्वस्पर्शत्वादिना ।  शब्दतन्मात्रे पूर्वम् शब्दविरहेऽपि भगवत्सङ्कल्पेन शब्दोत्पत्त्या तादृशशब्दस्व स्वसमानाधिकरणशब्द- ध्वम्सासमानकालीनत्त्वाल्लक्षणसमन्वयः ॥ एवम् स्पर्शतन्मात्रे स्पर्श- रूपतन्मात्रादौ रूपादिकञ्चादाय लक्षणसमन्वयः बोध्यः । अत्र शब्दादिमत्त्वस्याकाशादिभूते सत्त्वादतिव्याप्तिवारणायासमानकाली-नान्तगुणविशेषणम्, आकाशादौ तन्मात्रादिनिष्ठसूक्ष्मशब्दादि- विनाशपूर्वकम् स्थूलशब्दाद्युःपत्तेत्तादृशस्थूलशब्दस्य च स्वसमाना-धिकरणस्वसजातीयसूक्ष्मशब्दध्वम्ससमानकालीनत्वान्नातिव्याप्तिः । स्थूलसूक्ष्मगुणभेदादेव भूततन्मात्रयोर्भेदात् ॥

उक्तम् च तत्त्वमुक्ताकलापे –

*सूक्ष्मस्थूलस्वभावस्वगुणसमुदयप्रक्रियातारतम्यात्

तन्मात्राभूतभेदः कललदधिनयात्कल्पितस्तत्त्वविद्भिः ।*

– इति ॥
स्वगुणाः – शब्दादयः, तेषाम्, समुदयः – उत्पत्तिः । अत्र शब्दादौ स्थूलत्वसूक्ष्मत्वे उद्भूतत्वानुद्भूतत्वरूपे ॥

उक्तम् च सर्वार्थसिद्धौ –
*आगमेन विना सिद्धिस्तन्मात्राणाम् च दुर्वचा ।

उद्भवानुद्भवाद्यैस्तु लोके सूक्ष्मादिकल्पना ॥* – इति ॥

स्पर्शतन्मात्रादिषु स्पर्शादेरपि घटादिनिष्ठस्पर्शध्वम्स समानकाली- नत्वादसम्भव इति तद्वारणाय स्वसमानाधिकरणत्वम् गुणविशेषणम् । तादृशस्पर्शादेः स्वतमानाधिकरणसम्योगादिध्वम्ससमान कालीनत्वात्तद्दोषतादवस्थ्यवारणाय स्वसजातीयेति ॥ न च – शब्दतन्मात्रेऽव्याप्तिः तत्र शब्दस्य यावद्द्रव्यभाविन एकस्यासम्भवात् द्वितीयादिशब्दानाम् प्रथमशब्दध्वम्ससमकालीनत्वेन तदसमानकालीन- शब्दवत्त्वाभावादिति – वाच्यम् । सोऽयम्  ककार इत्यादिप्रत्यभिज्ञाबलेन सिद्धान्तिभिरपि शब्दस्य यावद्द्रव्यभावित्वाभ्युपगमात् । उक्तम् च न्यायसिद्धाञ्जने –

*आकाशनिष्ठस्य शब्दस्याकाशेन सहोत्पत्तिविनाशौ, वाय्वादिनिष्ठस्यापि तत्तद्भूतै स्सह ॥ * — इति ॥  स्वसमानाधिकरणस्वसजातीयगुणे स्वपूर्वप्रलयपूर्वत्वाभाववत्त्वम् विशेशणम् देयम् । तेन पूर्वसृष्टौ तादृशतन्मात्रत्वाद्याश्रयप्रकृत्यम्शेषु स्पर्शादेस्सत्त्वेन तद्ध्वम्ससमानकालीनत्वस्यैतत्सृष्टिघटकतन्मात्रनिष्ठ-स्पर्शादिषु सत्त्वेऽपि न क्षतिः ॥
स्वपूर्वावस्थापूर्वत्वाभाववत्त्वस्वपूर्वत्वोभयसम्बन्धेन भूतत्वावस्था-विशिष्टावस्थावत्त्वम् वा तल्लक्षणम्, भूतत्वविशिष्टघटत्वावस्थामादाय घटादावतिव्याप्तिवारणाय स्वपूर्वत्वनिवेशः । भूतत्वविशिष्टाहङ्कारत्वादि- कमादाय तत्रातिव्याप्तिवारणाय स्वपूर्वावस्थापूर्वत्वाभावनिवेशः । तत्र प्राकृताप्राकृतविभागः पूर्ववत् ॥
तानि च तन्मात्राणि पञ्च – शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्र रसतन्मात्र गन्धतन्मात्रभेदात् ॥

तत्र स्पर्शशून्यत्वे सति तन्मात्रत्वम् – शब्दतन्मात्रलक्षणम् । स्पर्शतन्मात्रादिवारणाय सत्यन्तम्, अव्यक्तादिवारणाय विशेष्यम् ॥  रूपशून्यत्वे सति स्पर्शवत्तन्मात्रत्वम् – स्पर्शतन्मात्रलक्षणम् । रूपतन्मात्रादिवारणाय सत्यन्तम्, शब्दतन्मात्रवारणाय स्पर्शवदिति, वायुवारणाय तन्मातत्वमिति ॥ रसशून्यत्वे सति रूपवत्तन्मात्रत्वम् – रूपतन्मातलक्षणम् । रसतन्मात्रादिवारणाय सत्यन्तम्, शब्दतन्मात्रादि- वारणाय रूपवदिति, तेजस्यतिव्याप्तिवारणाय तन्मात्रत्वनिवेशः ॥ एवम् गन्धशून्यत्वे सति रसवत्तन्मात्रत्वम् – रसतन्मात्रस्य लक्षणम्, व्यावृत्तिः पूर्ववत् । गन्धवत्तन्मात्रत्वम् च गन्धतन्मात्रलक्षणमिति बोध्यम् ॥

यद्वा – तामसाहङ्कारत्वावस्थाध्वम्सरूपाकाशत्वावस्थाप्रागभाव- रूपावस्थावत्त्वम् – शब्दतन्मात्रलक्षणम्, आकाशत्वावस्थाध्वम्सरूपवायु- त्वावस्थाप्रागभावरूपावस्थावत्त्वम् स्पर्शतन्मात्रलक्षणम्, वायुत्वध्वम्सरूपतेजस्त्वप्रागभावरूपावस्थावत्त्वम् रूपतन्मात्रलक्षणम् – इत्यादिरीत्या ज्ञेयुम् ।  तामसाहङ्कारात् शब्दतन्मात्रस्य तस्मादाकाशस्य, आकाशात् स्पर्शतन्मात्रस्य तस्माद्वायोः, वायोश्च रूपतन्मात्रस्य तस्मात्तेजसः, तेजसो रसतन्मात्रस्य तस्माज्जलस्य, जलाद्गन्धतन्मात्रस्य तस्मात्पृथिव्याश्चोत्पत्तेरुक्तलक्षणानाम् सङ्गतिः ॥
यत्तु–तामसाहङ्कारात्पञ्चतन्मात्राणामुत्पत्तिः, तेभ्यश्चाकाशादि-पञ्चभूतोत्पत्तिः । अत एव तन्मात्राणि भूतादौ लीयन्त इति बहुवचनम् स्वरसतस्सङ्गच्छते – इति । तन्न । तथा सति *आकाशाद्वायुः, वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी* इति श्रुति- विरोधापत्तेः । तन्मात्राणि भूतादाविति श्रुतेः शब्दतन्मात्रमात्रलयप्रतिपादकत्वेन सकलतन्मात्राणाम् भूतादौ लयप्रतिपादकत्वविरहात्; अदितिः पाशानितिवद्बहुवचनोपपत्तेः । अन्यथा – *पृथिव्यप्सु प्रलीयते, आपस्तेजसि लीयन्ते*, इत्यादिपूर्ववाक्यविरोधापत्तेः ॥ न च – आकाशसहकृतस्पर्शतन्मात्रस्य वायुजनकत्वमितिरीत्या पूर्वपूर्वभूतसहकृतस्य तन्मात्रस्योत्तरोत्तरभूतजनकत्वस्वीकारादाकाशस्य वायुम् प्रति निमित्तत्वात्तत्परा आकाशाद्वायुरित्यादिश्रुतिः । अन्यथा *अष्टौ प्रकृतयष्षोडश विकाराः* इति आथर्वणश्रुतिविरोधापत्तेः । तच्छ्रुतौ प्रकृतिमहदहङ्कारतन्मात्राणाम् प्रकृतित्वस्यैकादशेन्द्रि-यपञ्चभूतानाम् च विकृतित्वस्याभिधानात्, आकाशादीनाम् चतुर्णाम् तन्मात्रद्वारेण तत्त्वान्तरोत्पादकत्वे तेषामपि प्रकृतित्वापत्त्या द्वादशप्रकृतीनाम् द्वादशविकृतीनाम् चापत्तेः- इति वाच्यम् । तथा सति पृथिव्यप्सु प्रलीयत इत्यादिश्रुतिविरोधापत्तेः । आकाद्वायुरित्यादेरुपादानपरत्वस्य *पृथिव्या ओषधयः ओषधीभ्योऽन्नम्* इत्याद्युत्तरवाक्यानुरोधेनाङ्गीकार्यत्वात् ॥

भूतादिस्तु विकुर्वाणश्शब्दमात्रम् ससर्ज ह ।

ततस्ससर्ज तन्मात्रमाकाशत शब्दलक्षणम् ॥

आकाशस्तु विकुर्वाण: स्पर्शमात्रम् ससर्ज ह ।

बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ॥

ततो वायुर्विकुर्वाणो रूपमात्रम् ससर्ज ह ॥*

इत्यादि विष्णुपुराणवचनेष्वप्युपादानताया उक्तत्वाच्च । अष्टौ प्रकृतयःषोडश विकाराश्शरीर इत्यादिश्रुतिर्न हि चतुर्विम्शतितत्त्वानाम् प्रकृतिभावेन भेदप्रतिपादनपरा; किन्तु अव्यक्तमहदहङ्कारपञ्चमहाभूतरूपाष्टद्रव्याणाम् शरीरारम्भकत्वेन प्रकृतित्वम्, शब्दादिपञ्चविषयैकादशेन्द्रियाणाम् शरीराश्रितत्वेन विकारत्वमित्येवम्परा । स्फुटम् चेदम् श्रीगीताभाष्ये ॥ अष्टौ प्रकृतय इत्यत्र प्रकृतित्वम् च न तावद्यत्किञ्चित्कार्योपादानत्वम्, पृथिव्या अपि घटाद्युपादानत्वादिन्द्रियाणामपि वृत्त्युपादानत्वात् प्रकृतित्वापत्तेः । नापि प्रकृति विभाजकोपाधिरूपेण स्वविजातीयकायोपादानत्वम् तत्, आकाशत्वादीनाम् भूतविभाजकत्वेन प्रकृतिविभाजकत्वाभावेन तेन रूपेण विजातीयकार्यजनकत्वस्य तन्मात्रेष्वभावेन तेषाम् प्रकृतित्त्वानापत्तेः; किन्तु भूतविभाजकोपाधि- महदहङ्कारशब्दतन्मात्रत्वान्यतमरूपेण विजातीयकार्यजनकत्वम् तथेतिवाच्यम् । तदस्माकमपि तन्मात्रसाधारणमाकाशादिव्यावृत्तम् चेति नोक्तश्रुतिविरोधः ॥

तत्र स्पर्शरहितत्वे सति उद्भूतशव्दवान् – आकाशः । वाय्वादिवारणाय सत्यन्तम्; अव्यक्तादिवारणाय विशेष्यम्; शब्दतन्मावारणायोद्भूतेति- श्रोत्राप्यायकत्वम् वा तल्लक्षणम् । श्रोत्राप्यायकत्वम् च श्रोत्रेण सहैकसङ्घाततापन्नत्वम् । न च – श्रोत्रानाप्यायकभागेष्वव्याप्तिः; श्रोत्राप्यायकत्वसमानाधिकरणभूतविभाजकोपाधिमत्त्वस्य तदर्थत्वात् ॥  न च – स्पर्शवद्गत्याद्यप्रतिबन्धरूपावकाशात्मककार्यसिद्ध्यर्थमेवाकाशो-ऽङ्गीकार्यः, तथा शास्त्रसिद्धत्वात्; तथाचाकाशरूपपरिणामरहित-प्रकृतिप्रदेशेऽपि गतिनिरोधप्रसङ्गः, स्पर्शशून्यद्रव्यत्वेनैवावकाशहेतुत्वस्वीकारात्प्रकृत्यादीनामपि तथात्वे चाकाशकल्पनम् व्यर्थमिति वाच्यम् । यत आकाशस्यावकाशरूप- कार्यनिर्वाहार्थमेव न स्वीकारः, किन्तु श्रुतिसिद्धत्वात्प्रत्यक्षसिद्धत्वाच्च; आकाशोऽयम्, कूपोऽयम्, रन्ध्रमिदम्, इह पतङ्गः पतति- इत्यादिचाक्षुषप्रत्यक्षस्याकाशेऽपि सत्त्वात् । न च – इह पतङ्ग इति प्रत्यक्षे आलोकस्याधिकरणतया भानम्; नाकाशस्येति – वाच्यम्; इहालोक इति प्रत्यक्षे तदसम्भवात्, आलोकावयवस्य तदधिकरणतया भानोपगमेऽपि त्र्यणुकाद्यात्मकालोकविषयकतादृशप्रत्यक्षे तदवयवस्य द्व्यणुकस्याप्रत्यक्षत्वेनाधिकरणतया भानासम्भवात् ॥  न च – सभायाम् ब्राह्मणा इतिवदिह त्र्यणुकमिति प्रत्यक्षे त्र्यणुकसमुदायस्याधिकरणतया भानसम्भव इति वाच्यम्; एवमपि – नभसि त्र्यणुकम्, व्योम्न्यातप इत्यादिप्रत्यक्षे त्र्यणुकसमुदायस्याधिकरणतया भानासम्भवात्, तस्य नभोव्योमादिशब्दार्थत्वासम्भवात्, आकाशस्या प्रत्यक्षत्वे नीलम् नभ इति प्रत्यक्षानुपपत्तेश्च ॥ न च-उपनीतस्य नीलादेरुपनीते आकाशे  आरोप: आकाशस्याप्रत्यक्षत्वेऽप्युपपद्यत इति वाच्यम् । उपनीतम् विशेषणतयैव भासत इति नियमेन चाक्षुषे नीलम् नभ इति प्रत्यक्षे आकाशस्य विशेष्यतया भानासम्भवात्, स्वायोग्य विशेष्यकज्ञानजनने  इन्द्रियाणामसामर्थ्यात् । स्पष्टञ्चेदम् पक्षतायाम् ॥

मानसत्वम् तु तादृशप्रतीतेर्वक्तुमशक्यम्; निमीलितनयनस्यापि तदापत्तेः, नीलम् नभश्चक्षुषा साक्षात्करोमीत्यादिप्रतीत्यनुपपत्तेश्च । न च – द्रव्यनिष्ठविषयतासम्बन्धेन चाक्षुषप्रत्यक्षम् प्रति समवायेन रूपस्य कारणतया आकाशे च रूपाभावान्न चाक्षुषसम्भव इति – वाच्यम्; कालस्य षडिन्द्रियवेद्यताया वक्ष्यमाणत्वेन तच्चाक्षुषे व्यभिचारेण उक्त- कारणत्वासम्भवात् । न चैवम् – प्रकृतिमहदहङ्काराणाम् वाय्वीश्वरयोश्च चाक्षुषप्रसङ्ग इति – वाच्यम्; सामानाधिकरण्येन कालाकाशान्यत्वविशिष्टो य उद्भूतरूपाभावस्तदभावत्वेन द्रव्यचाक्षुषम् प्रति हेतुतास्वीकारात्, कालाकाशयोर्विशेषणाभावेन पृथिव्यादौ च विशेष्याभावेनोक्तविशिष्टान्यत्वसम्भवात्, प्रकृत्यादौ चोक्तयोर्विशेषणविशेष्ययोर्द्वयोरेव सत्त्वेन विशिष्टाभावविरहात् ॥

वस्तुतस्तु – चाक्षुषम् प्रत्युद्भूतरूपस्य नोद्भूतरूपत्वेन कारणता, किन्तु शक्तिमत्त्वेन; तत्रोद्भूतरूपे कालाकाशयोश्चैकस्या एव शक्तस्वीकारात् कालाकाशयोश्चक्षुषोपपत्तिः; प्रकृत्यादौ तदनापत्तिश्च । अद्रव्येपि शक्तिसद्भावो वक्ष्यते ॥

यत्तु – भाष्ये पञ्चीकरणप्रक्रियया रूपवत्त्वादाकाशस्य चाक्षुषत्वमुपपद्यत इत्युक्तम् । तत्तु – वैभववादमात्रमित्युक्तम् सर्वार्थसिद्धौ । तथारूपाङ्गीकारे आकाशस्याष्टमाम्श एव रूपसत्त्वेन तादृशभागस्य चाक्षुषोपपादनेऽपि भागान्तरे तदुपपादनासम्भवात्, कालस्य सुतराम् तदसम्भवात् ॥ यदपि – न चक्षुषा सन्मात्रम् गृह्यते, तस्य रूपरूपिरूपैकार्थसमवेतपदार्थग्राहित्वादिति भाष्यम्, तदपि – न चाक्षुषसामान्ये रूपकारणताप्रदर्शनपरम्, किन्तु द्रव्यचाक्षुषस्य रूपप्रकारकत्वनियमपरमिति बोध्यम् ॥

अत्र नैयायिकाः – आकाशम् नित्यम्, निरवयवद्रव्यत्वात्, महाकालवत् इत्याद्यनुमानेनाकाशस्य नित्यत्वम् सिध्यतीति । तन्न; *आत्मन आकाशस्सम्भूतः* इति श्रुतिबाधितत्वात्तदनुमानस्य । किञ्च -नित्यत्वम् ध्वम्साप्रतियोगित्वम् प्रागभावाप्रतियोगित्वम्, कालनिष्ठभेदप्रतियोगितानवच्छेदकत्वम् वा? सर्वत्र सिद्धसाधनम् दुर्वारम् । आकाशत्वरूपावस्थायाम् ध्वम्सप्रतियोगित्वादिसत्त्वेऽपि तदाश्रयद्रव्ये तदभावस्याक्षतत्वात्, द्रव्यस्य कालनिष्ठभेदप्रतियोगितानवच्छेदकत्वाच्च । न च – आकाशलयोक्त्या आकाशो नष्ट इत्यादिप्रतीतेर्भवन्मते प्रमात्वात् आकाशत्वविशिष्टेऽपि ध्वम्सप्रतियोगित्वादिकम् स्वीकार्यमिति – वाच्यम्; तादृशप्रतियोगिताया विशिष्ट एव पर्याप्ततया द्रव्यस्वरूपे तदपर्याप्तेस्तस्य नित्यत्वानपायात् । न च – आकाशत्वम् कालनिष्ठभेदप्रतियोगितावच्छेदकतानवच्छेदकम्, निरवयवद्रव्यवृत्ति-त्वादित्यत्र तात्पर्यान्न सिद्धसाधनता, आकाशत्वावच्छिन्नावच्छेद-कताकभेदस्य प्रलये सिद्धान्तिभिरुपगमादिति वाच्यम् । तथाऽपि निरवयवद्रव्यवृत्तित्वस्यासमवेतद्रव्यवृत्तित्वरूपत्वे घटत्वादौ व्यभिचारात् घटादेरपि सिद्धान्ते असमवेतत्वात्, समवायानङ्गीकारेण हेत्वप्रसिद्धेश्चेति ॥

*आकाशात् स्पर्शतन्मात्रम्, ततो वायुः* । रूपशून्यत्वे सत्युद्भूतस्पर्शवत्त्वम् तल्लक्षणम् । तेजोजलादिवारणाय सत्यन्तम्, आकाशवारणाय विशेष्यम्, स्पर्शतन्मात्रवारणायोद्भूतेति । गन्धशून्यत्वे सत्यनुष्णाशीतस्पर्शवत्त्वम् च तल्लक्षणम्, पृथिवीवारणाय सत्यन्तम्, जलतेजसोर्वारणायानुष्णाशोतेति । तन्मात्रवारणायोद्भूतत्वमपि निवेश्यम् ॥ न च – सुरभिर्वायुरिति प्रतीतेर्गन्धशून्यत्वम् वायावसिद्धम्, एवम् शीतो वायुरुष्णोवायुरिति प्रतितेश्चानुष्णाशीतस्पर्शवत्त्वमप्यसिद्धमिति –वाच्यम्; कुसुमादिगन्धस्य स्वाश्रयसम्योगादिसम्बन्धेन वायुसम्बद्धस्य तत्र साक्षात्सम्बन्धेनारोपात् जलातपगतयोरेव शीतोष्णस्पर्शयोस्तत्रारोपात्, चाक्षुषाविषयत्वे सति स्पार्शनप्रत्यक्षविषयद्रव्यत्वम् च लक्षणम् । रूपशून्यत्वेऽपि वायोः स्पर्शस्यैव हेतुत्वात् ॥ बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वावच्छिन्नम् प्रति रूपस्य कारणत्वमिति तु न युक्तम्; मानाभावात् । उक्तम् च श्रीभाष्ये –*स्पार्शनमपि न सन्मात्रविषयम्, स्पर्शतद्विषयत्वात्* इति । कालान्यत्वविशिष्टोद्भूतस्पर्शाभावाभावत्वेन हेतुत्वात् कालत्वस्पर्शयोरेकशक्तिमत्त्वेन हेतुत्वाद्वा कालस्य स्पार्शनोपपत्तिः । अयम् च समीपस्थेन स्पर्शनेन्द्रियग्राह्यः; दूरस्थितेन तु तृणरजःप्रभृतीनाम् भ्रमणोर्ध्वगमनादिभिरनुमेयः । अस्य चादृष्टात्मकेश्वरसङ्कल्पात्तिर्यग्गमनम् स्वाभाविकम्, पार्थिवादिद्रव्येण वाय्वन्तरेण वाऽभिघातादिवशात् भ्रमणोर्ध्वगमनादयः ॥

स चायम् वायुः – इन्द्रियाप्यायकप्राणशरीरविषयभेदाच्चतुर्धा | तत्र त्वगिन्द्रियेणैकसङ्घाततापन्ना वाय्वरशा इन्द्रियाप्यायकाः; शरीरधारणादिहेतुर्वायुविशेषः प्राणः । स चैकोऽपि  प्राणापानव्यानोदानसमानात्मकवृत्तिभेदात्पञ्चधा, नागकूर्मकृकरदेवदत्तधनञ्जयभेदैस्सह दशधा चोच्यते ।

*प्राणोऽपानस्समानश्च उदानो व्यान एव च ।

नाग: कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥

चरन्ति दशनाडीषु दश प्राणादिवायवः ॥*

इत्यारभ्य,

*उद्गारादीनथो नागः कूर्मोऽक्ष्यादिनिमीलनम् ।

कृकरश्चक्षुषः कर्ता दत्तो निद्रादिकर्मकृत् ॥*

इत्यादि प्रमाणात् । जङ्गमशरीरवत् स्थावरशरीरेऽप्यसावस्त्येव । भग्नशाखादीनाम् सम्रोहणेन क्षतभागानाम् वृद्ध्या च वृक्षादौ प्राणसद्भावोन्नयनात् । परम् तु स्थावरशरीरेष्वेकधैव वर्तते, न पञ्चधा ॥ उक्तम् च भाष्ये –

*स्थावरेषु हि प्राणसद्भावेऽपि हि तस्य पञ्चधाऽवस्थाय शरीर धारणत्वेनावस्थानम् नास्ति ॥* – इति ॥

शरीरोपादानभूताद्वायोरन्थ एब प्राणाख्यो वायुः, वायवीयम् च शरीरम् मारुतादीनाम् प्रसिद्धम् चण्डानिलतालवृन्तपवनादिर्विषयः ॥

*वायो रूपतन्मात्रम्, ततस्तेजः*; *वायोरग्निः* इति श्रुतेः, अग्निशब्दस्य तेजस्सामान्यपरत्वात् ॥ ननु – वायुपरिणामत्व-रूपवायूपादानकत्वम् तेजसो न सम्भवति, तृणपर्णकाष्ठादीनामेवपार्थिवानामग्न्यादिरूपेण परिणामदर्शनात् ॥ न च – तत्राप्यदृष्टाद्युपनीतैस्तेजोऽवयवैरेवाग्न्यारम्भ इति – वाच्यम्; कल्पनागौरवात् । एवम् च वायोरग्निरिति श्रुतिर्निमित्तकारणत्वमात्रेणाप्युपपद्यते – इति चेन्न ॥ तृणपर्णादावपि पञ्चीकरणादिना तेजोभागसत्त्वेन तस्यैव सजातीयावयवयोगे-नोद्भूताग्न्यादिरूपेण परिणामोपपत्तेर्गौरवविरहात्, श्रुतेरनन्यथा-सिद्धोपादानप्रकरणपठिताया निमित्तकारणत्वपरत्वा-सम्भवात् । अन्यथा काष्ठादिजन्याग्न्यादौ पार्थिवापादानकत्वम्, अबिन्धनाग्नौ च तदसम्भवाज्जलोपादानकत्वमिति कल्पने

भवतामेवानेकोपादानकल्पनागौरवात् । काष्ठादावनुद्भूताग्निसत्त्वम् च महर्षिभिरेवोक्तत्व – *काष्ठेऽग्निरिव शेरते ।

दारुण्यग्निर्यथा तैलम् तिले तद्वत्पुमानपि ॥* इति ॥

तथा च – समष्टिसृष्टिदशायाम् वायोरेवोपादानभूताद्वह्नेरुत्पत्तिः, व्यष्टिदशायाम् तु सूक्ष्मात्तेजस एव स्थूलतेजस उत्पत्तिरिति ॥

उष्णस्पर्शवत्वम् भास्वररूपवत्वम् च *तेजसो लक्षणम्*; रसशून्यत्वे सति रूपवत्त्वम् च *तल्लक्षणम्* । *तच्चतुर्धा* -आप्यायकवैश्वानरशरीरविषयभेदात् । वाक्चक्षुषोराप्यायकम् तेज इन्द्रियाप्यायकम्; *तेजोमयी वाक्*, *आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत्, रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः* इति श्रुतेः । भुक्तान्नादेः परिणामहेतुस्तेजोविशेषो वैश्वानरः । आदित्यादिशरीरं तैजससरीरम्, *सुकृताम् वा एतानि ज्योतीम्षि यन्नक्षत्राणि इत्यादिश्रुतिसिद्धम् । चन्द्रिकातपादिर्विषयः ॥

*तेजः पुनस्सामान्यतो द्विधा* – प्रभा प्रभावाम्श्चेति । स्वापृथक्- सिद्धत्वस्वाधिकषरमाणवत्त्वोभयसम्बन्वेन तेजोविशिष्टम् तेजः – प्रभा । अपृथक्सिद्धत्वक् च – अपृथक्सिद्ध्यात्मकसम्योगप्रतियोगित्वम्, गुणगुणिनोस्स्वरूपसम्बन्ध इव प्रभाप्रभावतोस्सम्योगेऽप्यपृथक् क्सिद्धित्वस्य स्वीकारात् । सर्वम् तम् परादाद्योऽन्यत्रात्मनस्सर्वम् वेद*, *न तदस्ति विना यत्स्यान्मया भूतम् चराचरम्* इत्यादिना जगद्ब्रह्मणोस्सम्योगे अपृथक्सिद्धित्वस्य प्रतिपन्नत्वेन तादृशधर्मस्य सम्योगत्वविरुद्धत्वाभावात् । यद्वा – स्वापृथक्सिद्धत्वम् स्वसम्योगाभावनिरूपितकालविशेषावच्छिन्नाधिकरणताशून्यत्वे सति स्वसम्योगवत्त्वम् । स्वापृथक्सिद्धत्वसम्बन्धेन प्रभाविशिष्ट- दीपकलिकादिवारणाय स्वाधिकपरिमाणवत्त्वनिवेश: । अल्पदीपविशिष्ट-महादीपवारणाय स्वापृथथक्सिद्धत्वनिवेशः । स्वाधिकपरिमाणवत्त्वम् च स्वासम्युक्तानेकदेशसम्युक्तत्वम् । तेन परिमाणानङ्गीकारेऽपि न क्षतिः । न च – आतपतप्तसलिलादौ रात्रावप्यौष्ण्योपलम्भादादित्यमुक्ताः  किरणास्सलिलान्तः प्रविष्टास्सन्तीत्यभ्युपगन्तव्यम्; तथा चादित्यापृथक्सिद्धत्वम् किरणेषु नास्तीत्यव्याप्तिरिति – वाच्यम् । रविकिरणोपात्तमुक्तानाम् तुहिनकिरणानाम् सङ्क्रमाच्छैत्योपलम्भवत्तत्किरणोपात्तमुक्तानामग्नयवयवानाम् सङ्क्रमात्सलिलादौ औष्ण्योपलम्भोपपत्तेः; तत्र किरणानाम् सद्भावस्याकल्पनात् । उक्तम् च मात्स्ये –
*वसन्ते ग्रीष्मके रश्मिशतैस्सन्तपति त्रिभिः ।
शरद्यपि च वर्षासु चतुभिस्सम्प्रवर्षति ॥
हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ।* – इति ॥

अत्र सन्तपतीत्यस्याग्न्यवयवानुत्सृजतीत्यर्थः । स्पष्टम् चैतच्छ्रुतप्रकाशिकायाम् ॥
यत्तु – विशीर्णदीपावयवसमुदाय एव प्रभेति । तन्न; ऊर्ध्वगमनस्वभावानाम् दीपावयवानाम् वाताद्यभिघातादर्शने युगपद्विष्व- ग्विशरणादिकल्पनस्य गुरुत्वात्, प्रभाया द्रव्यान्तरत्वे तु प्रत्यक्षाद्यनुरोधेन तथाऽभ्युपगमोपपत्तेः, मण्यादिप्रभाया विशीर्णतदवयवसमुदायत्वासम्भवाच्च । न च – मण्यादौ पार्थिवाम्शस्य स्थिरत्वेऽपि तदन्तर्गततेजोम्शस्य विशरण प्रसरणादिकमुपपन्नमिति – वाच्यम्, कल्पनागौरवात् ॥

तदतिरिक्तम् तेजः प्रभावत्, तच्च मणिद्युमणिप्रदीपादि । सुवर्णम् तु पार्थिवमेव, पीतरूपवत्त्वात्, गुरुत्ववत्त्वात्, काठिन्यवत्त्वाच्च; *काठिन्यवान्यो बिभर्ति* इत्यनेन पृथिव्या एव काठिन्योक्तेः ।
न च सुवर्णम् तैजसम्, अत्यन्तानलसम्योगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात्; यन्नैवम् तन्नैवमिति व्यतिरेक्यनुमानेन सुवर्णस्य तैजसत्वसिद्धिरिति – वाच्यम् । व्यतिरेक्यनुमानस्य निरसिष्यमाणत्वात्, द्रुतम् द्रुततरम् द्रुततममिति प्रतीत्या उच्छिद्यमानद्रवत्ववत्त्वेनानुच्छिद्यमानद्रवत्वासिद्धेः पीतम् द्रुतमिति प्रतीत्या तादृशद्रचत्वदर्शनेन व्यभिचाराच्चेति । अत्र रक्तभास्वरमेव रूपम्, रूपान्तरोपलम्भस्तु पृथिवीजलाम्श सम्सर्गवशात् । एतच्च *यदग्ने रोहितम् रूपम् तेजसस्तद्रूपम् यच्छुल्कम् तदपाम् यत् कृष्णम् तदन्नस्य* इत्यादि श्रुतिसिद्धम् । एवमुष्ण एव स्पर्शः, चन्द्रिकादौ शीतस्पर्शशुक्लरूपयोस्तदन्तर्गतजलाम्शसम्बन्धित्वात्, मरकतप्रभादावनुष्णाशीतनीलरूपयोश्च पार्थिवत्वादिति ॥
तेजसो रसतन्मात्रम्, तस्माज्जलम् । शीतस्पर्शवत्त्वम्, निर्गन्धत्वे सति रसवत्त्वम्, अपाकजशुक्लरूपवत्त्वम्, साम्सिद्धिकद्रवत्ववत्त्वमित्यादि- तल्लक्षणम् ॥ न च – उष्णोदके शीतस्पर्शवत्त्वस्याव्याप्तिरिति – वाच्यम्; तत्रापि शीतस्पर्शसत्त्वात्, तेजस्स्पर्शेनाभिभवेन तदनुपलब्धेः । प्रथमम् पृथिव्याः कृष्णाया एवोत्पत्तावपि पाकवशात्तत्र शुक्लरूपोत्पत्तेस्तत्राति- व्याप्तिवारणायापाकजेति ॥ न च – साम्सिद्धिकद्रवत्वस्य हिमकरकयोः अव्याप्तिरिति – वाच्यम्; तत्रापि द्रवत्वसत्त्वादुपष्टम्भकपार्थिवभागगत-काठिन्येनाभिभूतत्वादनुपलम्भोपपत्तेः । तच्चाप्यायकशरीरविषय-भेदात्त्रिधा । तत्र रसनप्राणयोराप्यायका अम्शा अप्यायकाः । शरीरम् वरुणलोके । सरित्समुद्रादिविषयः – इति ॥
जलाद्गन्धतन्मात्रम्, तस्मात्पृथिवी । गन्धवत्त्वम् तल्लक्षम् । न च – तन्मात्रेऽतिव्याप्तिः, उद्भूतत्वनिवेशे च पाषाणेऽव्याप्तिरिति – वाच्यम् । गन्धध्वम्ससमानाधिकरणगन्धवत्त्वस्य विवक्षितत्वात् । रसवत्त्वे सत्यनुष्णाशीतस्पर्शवत्त्वम्, पाकजरूपवत्त्वमित्यादिकमपि तल्लक्षणम् । सा प्रथमम् सुरभिमधुरकृष्णानुष्णाशीतस्पर्शा जाता । तत्रानुष्णाशीतस्पर्शो यावद्द्रव्यभावी; तेजस्सलिल सम्पर्कादौष्ण्याद्युपलम्भः ।  कृष्णरूपम् स्वाभाविकमिति च *यत्कृष्णम् तदन्नस्य* इति श्रुतिसिद्धम् । पाकवशाच्च रूपान्तरोत्पत्तिः । सा त्रिधा – आप्यायकशरीरविषयभेदात् । मनोघ्राणयोराप्यायकाः पार्थिवभागाः आप्यायकाः; अस्मदादिशरीरम् पार्थिवम्; विषयो मृत्पाषाणादिरिति ॥
तमो द्रव्यम्, सङ्कोचविकासरूपावस्थावत्त्वात् क्रियावत्त्वाच्च; पार्थिवम् चाबाधितनीलादिप्रत्ययविषयत्वादिति – वेदान्ताचार्याः ॥ न च – तेजोऽभाव एव तमः, द्रव्यान्तरकल्पने गौरवादिति – वाच्यम्; तथा सत्यबाधितनीलादिप्रत्ययानुपपत्तेः, *तमस्ससर्जभगवान्* इति तत्त्वान्त-रवत्सृष्टिश्रवणानुपपत्तेः, *नासीत्तमो ज्योतिरभून्न चान्यत्* इति तेजस्तमसोर्द्वयोरपि निषेधानुपपत्तेश्च, तयोर्भावाभावरूपत्वे एकदा निषेधासम्भवात्; अन्तर्यामिब्राह्मणे यस्य तमश्शरीरमिति तमश्शरीरत्वानुपपत्तेच शरीरत्वस्य वक्ष्यमाणरीत्या द्रव्यत्वघटितत्वात् । न च- तमसो द्रव्यत्वे तमस्सम्युक्तस्य तमसः चाक्षुषानुपपत्तिः;  द्रव्यनिष्ठलौकिकविषयतासम्वन्धेन चाक्षुषम् प्रति सम्योगेन तमसः प्रतिबन्धकत्वादिति – वाच्यम्; तमोभिन्नद्रव्यनिष्ठविषयतासम्बन्धेन चाक्षुषम् प्रत्येव तत्प्रतिबन्धकतास्वीकारात् ॥
व्यासाचार्यानुयायिनस्तु – तम आकाशम् गतिनिरोधकत्वाभावे सति चाक्षुषप्रत्यक्षविषयद्रव्यत्वात्, प्रसिद्धाकाशवत्; पृथिव्याम् व्यभिचारवारणाय सत्यन्तम्, आत्मनि व्यभिचारणाय चाक्षषेति । प्रत्यक्षविषयता च – मुख्यविशेष्यतारूपा ग्राह्या; तेन काले न व्यभिचारः । उक्तम् च श्रुतप्रकाशिकायाम् – *स्वच्छद्रव्यत्वादकाशकार्यम् तमः* – इति ॥ गतिनिरोधकत्वाभावे सति चाक्षुषविषयद्रव्यत्वमेव स्वच्छद्रव्यत्वम्; यद्वा – स्पर्शशून्यत्वे सति चाक्षुषविषयद्रव्यत्वम् तत्; तेन प्रभादौ न व्यभिचारः । न च तमस आकाशत्वे रूपवत्त्वानुपपत्तिः; पञ्चीकरणवशात्तदुपपत्तेः । अथवा तमस्तैजसत्, रसशून्यत्वे सति रूपवत्त्वात्, वह्न्यादिवत् । न चैवमुष्णस्पर्शप्रत्यक्षापत्तिः; नीलमणिप्रभादाविव स्पर्शस्यानुद्भूतत्वकल्पनात् ॥ उक्तम् च श्रुतप्रकाशिकायाम् – *यद्वा तेजः-कार्यम् तमः, रूपवत्त्वात्; स्पर्शानुपलम्भस्तु स्वच्छद्रव्यत्वात्* इति ॥ स्वच्छत्वादित्यस्यानुद्भूतत्वादित्यर्थः ॥  – इत्याहुः ॥
अपरे तु – प्रकृतेरवस्थान्तरमेव तमः, न तावद्वायुपर्यन्तेषु  तस्यान्तर्भावः, रूपवत्त्वात्; नापि जलतेजसोः, नीलरूपवत्त्वात्; नापि पृथिव्याम्, गन्धरसादिरहितत्वात् । अत एवोक्तम् न्यायसिद्धाञ्जने –

*अस्तु वा किञ्चिदभिनवघनाघनावलीमलीमसमनाघ्रातस्पर्शरस- गन्धमन्धकाराभिधानमवस्थान्तरम् प्रकृतेः ॥* – इति ॥

तत्त्वरत्नाकरेपि –

*अत्र तत्त्वविदः प्राहुस्स्थूलसूक्ष्मात्मना स्थिता ।

दैवी गुणमयी माया बाह्यान्तरतमो मता ॥* – इति  ॥

अत एव भाष्येऽप्य द्रव्यत्वमेवोक्तम्, पृथिव्यादिष्वन्तर्भावो नाभिहितः ॥ – इत्याहुः ॥

एवम् चतुर्विम्शतिविधा प्रकृतिनिरूपिता ॥
इदमत्र बोध्यम् –
न तावदव्यक्तादेः कारणत्वम्, महदादेः कार्यत्वम्; किन्तु तत्तच्छरीरक- परमात्मन एव कारणत्वम् कार्यत्वम् कार्यत्वम् च । तथा च – आकाशाद्वायुरित्यादौवाकाशशरीरकाद्वायुशरीरकपरमात्मोत्पन्न इत्यर्थः । अत एव *तत्तेज ऐक्षत, बहुस्याम् प्रजायेयेति, तदपोऽसृजत, ता आप ऐक्षन्त, बह्व्य स्स्याम प्रजायेमहि* – इत्यादिच्छान्दोग्यश्रुतौ तेजश्शब्दवाच्ये अप्शब्दवाच्ये च बहुभवनसङ्कल्पादिकमुपपद्यते; तेज आदिशब्दस्याचेतनमात्रपरत्वे तादृशेक्षणानुपपत्तेः । ईक्षतिधातोर्गौणत्वम् तु – गौणश्चेन्नात्मशब्दादित्यत्रैव निराकृतम् । न चैवम् – *आत्मन आकाशस्सम्भूतः* इति श्रुतौ सम्भूतशब्दस्य गौण्यसम्भवादिति पूर्वपक्षसूत्रोक्तन्यायेन गौणत्वापत्तिः, आकाशस्योत्पत्तिमत्त्वेऽपि तच्छरीरकपरमात्मनस्तदसम्भवादिति – वाच्यम्; स्वाधिकरणक्षणध्वम्सानधिकरणक्षणसम्बन्धरूपोत्पत्तेः; विशेषण इव विशिष्टेऽप्यक्षतत्वात् । स्वाधिकरणक्षणध्वम्सानधिकरणक्षणा-प्रसिद्व्या स्वपदेन केवलपरमात्मोपादानासम्भवेऽपि आकाशादिशरीरकत्वविशिष्टपरमात्मन उपादानसम्भवात्, विशिष्ट- निरूपिताधिकरणतावत्क्षणध्वम्सानधिकरणत्वस्याकाशोत्पत्तिक्षणे प्रसिद्धेः । अत एवोक्तम् बौद्धाधिकारे शिरोमणिना –
*आत्मनामुत्पत्त्यभावेऽपि विशेषणस्य शरीरस्य तथात्वाद्विशिष्टस्य तथात्वव्यपदेशः, अपूर्वशरीरादिसम्बन्धरूपम् तु न मुख्यो जन्यर्थः ॥* – इति ॥
व्याख्यातम् चात्र गदाधरेण – *विशेषणोत्पत्तिक्षणस्य विशेष्याधिकरण-समयध्वम्साधिकरणत्वेऽपि विशिष्टाधिकरणसमयध्वम्सानधिकरणत्व-रूपाद्यत्वाक्षतेः, तत्सम्बन्धरूपजननस्य विशिष्टेऽपि निर्वाहाच्चैत्रो जात इत्यगौणः प्रयोग उपपन्नः; जात इत्यस्याद्यशरीरसम्बन्ध- वानित्याद्यर्थकत्वे च जात इत्यस्य लाक्षणिकत्वापत्तिः ॥*  – इति ॥
तथा च *आत्मन आकाशस्सम्भूतः* इत्यादौ न गौणताप्रसङ्गः । अत्र पृथिव्यप्तेजसाम् त्रिवृत्करणम् छान्दोग्येऽभिहितम् *तासाम् त्रिवृतम् त्रिवृतमेकैकाम् करवाणि* इति । तच्च-स्वसजातीयधर्मद्वयविशिष्टविशिष्ट-धर्मवत्त्वम् । साजात्यम् च पृथिवीत्वजलत्वतेजस्त्वान्यतमत्वेन । धर्मद्वयवैशिष्ट्यं च – स्वाश्रयचतुर्थाम्शसम्युक्तार्धभागवृत्तित्वसम्बन्धेन । तथा च स्वपदेन पृथिवीत्वोपादाने उक्तान्यतमत्वरूपेण स्वसजातीयधर्मद्वयम् जलत्वम् तेजस्त्वम् च, तदाश्रयजलचतुर्थाम्श-   तेजश्चतुर्थाम्शयोस्सम्योगस्य पृथिव्यर्धभागे सत्त्वादुक्तसम्बन्धेन जलत्वतेजस्त्वोभयविशिष्टपृथिवीत्ववत्त्वम् पृथिव्यामुपपन्नम् । त्रिवृत्करणपक्षे भूते भूतान्तरचतुर्थाम्शमेलनस्याभिमतत्वात् । चतुर्थाम्शसम्योगश्चाण्डोत्पत्त्यभावप्रयोजकीभूताभावप्रतियोगित्वेन विशेषणीयः; तेन न यथाकथञ्चित्सम्योगस्य त्रिवृत्करणरूपतापत्तिः, परस्परानुप्रवेशात्मकसम्योगस्यैव अण्डोत्पत्तिप्रयोजकत्वेनोक्तविशेषणेन तादृशसम्योगस्यैव लाभात् ॥
*नानावीर्याः पृथग्भूतास्ततस्ते सम्हति विना ।

नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्नशः ॥

समेत्यान्योन्सम्योगम् परस्परसमाश्रयाः ।

एकसङ्घातलक्ष्यास्तु सम्प्राप्यैक्यमशेषतः ॥

महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ।*

इति भगवत्पराशरवचनाद्विलक्षणसम्योगाभावस्यैवाण्डोत्पत्त्यभाव-प्रयोजकत्वाभिधानात् । *सम्हतत्वम् समागतत्वम् चेत्यवस्थाद्वयमस्ति । तत्र सम्हृतत्वम् नाम – पृक्स्थित्यर्हसम्योगमात्रम्, समागतत्वम् च –पृथक्स्थित्यनर्हसम्योगविशेषः* – इति व्यासार्यैर्व्याख्यातम् ॥
पञ्चीकरणम् सप्तीकरणम् च पुराणप्रसिद्धम् । स्वसजातीयधर्मचतुष्टयविशिष्टधर्मवत्त्वम् – पञ्चीकरणम्; साजात्यम् च – पृथिवीत्वजलत्वतेजस्त्ववायुत्वाकाशत्वान्यतमत्वेन । धर्मचतुष्टय वैशिष्ट्यम् च – स्वाश्रयाष्टमाम्शसम्युक्तार्धभागवृत्तित्वसम्बन्धेन । पञ्चीकरणपक्षे भूतानि प्रत्येकम् द्विधा विभज्य पृथिव्याद्येकैकार्धेषु जलादीनामष्टमाम्शचतुष्टयसम्योगस्य स्वीकारत् ॥
*एवम् जातेषु भूतानि प्रत्येकम् स्युर्द्धिधा ततः ।

चतुर्धा भिन्नमेकैकमर्धमर्धम् तथा स्थितम् ॥

व्योम्नोऽर्धभागश्चत्वारो वायुतेजःपयोभुवाम् ।

अर्धानि यानि वायोस्तु व्योमतेजःपयोभुवाम् ॥*

इत्यादिपुराणवचनात् ॥
एतेन – पृथिव्यादिकम् द्वेधा विभज्य तदर्धम् पञ्चधा विभज्य पञ्चस्वर्धान्तरेषु योजनम् पञ्चीकरणम्; तथा चोत्तलक्षणे स्वाथयाष्टमाम्शसम्युक्तेत्यपहाय दशमाम्शसम्युक्तेति वक्तव्यमिति -निरस्तम् । उक्तपुराणवचनविरोधात् ॥
सप्तीकरणम् तु – स्वसजातीयधर्मषट्कविशिष्टधर्मवत्त्वम्; साजात्यम् च महत्त्वाहङ्कारत्वपृथिवीत्वादिपञ्चकान्यतमत्वेन । धर्मषट्कवैशिष्ट्यम् च स्वाश्रयद्वादशाम्शसम्युक्तार्धभागवृत्तित्वसम्वन्धेन । सप्तीकरणपक्षे पृथिव्याद्येकैकार्धम् षोढा विभज्य षट्स्वर्धान्तरेषु सम्योगस्याभिप्रेतत्वात् ॥

यद्यपि – पृथिव्याद्यर्धेषु जलादिचतुर्थाम्शसम्योगरूपत्रिवृत्करणस्य श्रुत्यभिप्रेतत्वे तदष्टमाम्शद्वादशाम्शसम्योगप्रतिपादनपराणामुदाहृत- पुराणवचनानामप्रामण्यम् प्राप्नोति; पञ्चीकरणपक्षे चतुर्थाम्श-
सम्योगासम्भवात्, वस्तुनि विकल्पासम्भवेनैकतराप्रामाण्यावश्यकत्वे *विरोधे त्वनपेक्षम् स्यात्* इति न्यायेन श्रुतिविरुद्धार्थे पुराणादेः प्रामाण्यासम्भवात् । तथाऽपि – तासाम् त्रिवृतम् त्रिवृतमित्यादेरेकैकम् तेजःप्रभृति भूतम् स्वार्धेनेतरार्धयोगद्वयेन च त्रिभागम् करवाणीत्यर्थः ॥ तथा च – तादृशश्रुतौ चतुर्थाम्शसम्योगाप्रतीतेरष्टमाम्शसम्योगपरताया एवोपबृम्हणानुरोधेनाङ्गीकारेण विरोधाभावात्, स्वाश्रयाष्टमाम्शसम्युक्तार्धभागवृत्तित्वसम्बन्धेन स्वसजातीयधर्मद्वयविशिष्टधर्मवत्त्वमेव त्रिवृत्करणम्; न तु चतुर्थाम्शघटितपूर्वोक्तलक्षणम्; उक्तदोषात् । सप्तीकरणपक्षे तु – त्रिवृत्करणम् पञ्चीकरणम् च द्वादशाम्शघटितम्, न त्वष्टमाम्शघटितम्; तथा सति विरोधापत्तेः । इत्थम् च सप्तीकरणैकदेशः पश्चीकरणम्, तदेकदेशस्त्रिवृत्करणमिति न परस्पविरोध इति बोध्यम् ॥

एतेन – चतुर्थाम्शघटितत्रिवृत्करणप्रतिपादकश्रुतिविरुद्धत्वात्पुराण- मप्रमाणम्, वाचस्पत्युक्तम् त्रिवृत्करणमेव युक्तम्; तदुक्तम् कल्पतरौ –
*सम्प्रदायाध्वना पञ्चीकरणम् यद्यपि स्थितम् ।
तथाऽपि श्रुतियुक्तिभ्याम् वाचस्पतिमतम् शुभम् ॥*

इत्यादिकम् – निरस्तम् । उक्तरीत्या श्रुतिविरोधाभावात् ॥ – इति ॥

इत्थम् – पञ्चीकृतैस्सप्तीकृतैर्वा तत्त्वैरण्डाद्यारम्भो देहाद्युत्पत्तिश्च । न च – देहादेरनेकभूतोपादनकत्वे पृथिवीत्वादिजातीनाम् देहे सङ्करःस्या-दिति – वाच्यम् । अवयवातिरिक्तावयविनोऽस्माभिरनङ्गीकाराज्जाति- सङ्करात्रसक्तेः; कार्यकारणयोरनन्यत्वात् ॥ न च – पटतन्त्वादिरूपकार्यकारणयोरनन्यत्वम् न सम्भवति; एकत्वानेकत्वस्थूलत्वसूक्ष्मत्वादिरूपविरुद्धधर्माध्यासात्, कारकव्यापारवैयर्थ्यापत्तेश्चेति – वाच्यम्; असमवायिकारणत्वेन भवदभिमतसम्योगविशेषविशिष्टतन्तूनामेव पटत्वेन
तादृशसम्योगसम्पादनार्थमेव कारकव्यापारसार्थक्यात्; एकत्व- स्थूलत्वादीनाम् राशिवनसेनादिष्विवोपपत्तेः; सम्योगविशेषविशिष्ट- धान्यादीनामेव राशित्वेऽपि तद्गतापेक्षाबुद्धिविशेषविषयत्वरूपसमुदाय-स्यैकत्वेन एकत्वव्यवहारात् । अन्यथा पत्रताटङ्कादावपि पत्रात्ताटङ्कारम्भकल्पनाप्रसङ्गात् । तत्रावयवद्वयसम्योगरूपा- समवायिकारणविरहेण तत्र द्रव्यारम्भस्य भवद्भिरप्यस्वीकारात्; इतरथा-आकुञ्चनप्रसरणादावपि द्रव्यान्तरकल्पनाप्रसङ्गात् । किञ्च – अवयवातिरिक्तावयविस्वीकारे अनेकावयवारब्धकनकशृङ्खलादाववयवगतगुरुत्वैरवयविगुरुत्वोत्पत्त्यापातात्तोलने अधिकगुरुत्वोपलम्भप्रसङ्गः । न च – अवयविनि- गुरुत्वोत्पत्त्यनन्तरमवयवगुरुत्वनाशान्नाधिक्यमिति – वाच्यम्; अवयवानाम् गुरुत्वशून्यत्वे शाखादीनाम् पतनाभावप्रसङ्गात्, समवायेन पतनम् प्रति समवायेन गुरुत्वस्यासमवायिकारणत्वात्, अवयविनि गुरुत्वानुत्पत्तौ च अवयविनः पतनानुपपत्तेः । एवम् तन्तुसमुदायातिरिक्तस्य पटादिपदार्थत्वे दीर्घैकतन्तुभ्रमणारब्धे पटे पट इत्यादिव्यवहारानुपपत्तिः, असमवायिकारणरूपतन्तुद्वयसम्योगाभावेन तत्र पटानुत्पत्तेः ॥ अपि च – सहस्रतन्तुकपटस्थले द्वितीयतन्तु-सम्योगमारभ्य प्रतितन्तुसम्योगम् द्वितन्तुकादिपटपङ्क्तिरुत्पद्यते वा, न वा? ॥ आद्ये – अनेकपटोपलम्भप्रसङ्गः । न च त्रितन्तुकपटोत्पत्तिदशायाम् द्वितन्तुकपटस्य नाशान्नापत्तिरिति वाच्यम्; नाशकाभावादहेतुकविनाशस्यायुक्तत्वात् । ततश्च पटपङेक्तरुपलम्भप्रसङ्गः । तदुक्तम् सर्वार्थसिद्धौ –

*पूर्वसिद्धपटैस्सार्धम् तन्तुभि: पटसम्भवे ।

पटपङ्क्तिस्समीक्ष्येत क्रमादाधिक्यशालिनी ॥

प्राक्सिद्धानाम् पटादीनामुत्तरोत्तरजन्मनि ।

अहेतुको विनाशश्च स्थिरपक्षे न युज्यते ॥* – इति ॥
द्वितोये – अन्त्यतन्तुसम्योगात्पूर्वमुत्पद्यमानानाम् पटप्रतीतीनाम् भ्रमत्वप्रसङ्गात् । न चेष्टापत्तिः; एकद्वितन्त्वाद्यपगमेऽपि जायमानायाः पटप्रतीतेर्भ्रमत्वप्रसङ्गात् । न च तत्रापीष्टापत्तिः, भवद्भिरपि तत्र खण्ड- पटोत्पत्तेरभ्युपगमेन भ्रमत्वानङ्गीकारात् ॥

अथ – पूर्वतन्त्रे नवमे *अग्निधर्मः प्रतीष्टकम् सङ्घातात्पूर्णमासीवत्* इत्यधिकरणे *हिरण्यशकलैरग्निम् प्रोक्षति, मण्डूकेनाग्निम् विकर्षति* इति विहितमग्निपदलक्षिताग्न्यधिकरणस्थण्डिलकर्मकम् प्रोक्षणम् विकर्षणम् च अवयवातिरिक्तावयव्यभावात् प्रतीष्टकम् कर्तव्यमिति पूर्वपक्षम् प्रापय्य अवयवातिरिक्तावयविसद्भावात्सकृदेव कर्तव्यमिति सिद्धान्तितम्; तथा चावयवातिरिक्तावयव्यनङ्गीकारे तद्विरोधः – इति चेन्न ॥  व्रीह्यादिष्वतिरिक्तावयव्यभावेऽपि प्रतिव्यक्तिप्रोक्षणवदुपपत्तेः, पूर्वोत्तरपक्षयोरेकत्वावस्थानारम्भतदारम्भाभ्यावि उपपत्तावेकत्वाश्रयातिरिक्तावयव्यारम्भानारम्भपरत्वे प्रमाणाभावात् ॥

अथ कालो निरूप्यते ॥ अतीतादिव्यवहारहेतुः कालः, कालिकसम्बन्धावच्छिन्नकार्यत्वावच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धा वच्छिन्नकारणताश्रयत्वम् – तल्लक्षणम्; ईश्वरवारणाय कालिकसम्बन्धावच्छिन्नेति; तस्या पृथक्सिद्धिसम्बन्धेन कार्यसामान्यम् प्रति तादात्म्येन हेतुत्वेऽपि कालिकेन कार्यसामान्यम् प्रत्यहेतुत्वात्, कालिकेन सर्वाधारत्वम् च तल्लक्षणम् ॥

अथ – कालसद्भावे प्रमाणाभावः । न च – अतीतादिव्यवहारनिर्वाहार्थम् तस्यावश्यकतेति – वाच्यम्; प्रकृतशब्दप्रागभावावछिन्नाकाशादिभिरतीतव्यवहारस्य, प्रकृतशब्दावच्छिन्नाकाशादिभिर्वर्तमानव्यवहारस्य, प्रकृतशब्दध्वम्सावच्छिन्नाकाशादिभिर्भविष्यद्व्यवहारस्य च निर्वाहसम्भवेनातिरिक्तकालकल्पनानावश्यकत्वात् – इति चेन्न ॥ *सदेव सोम्येदमग्र आसीत्* इत्यादिश्रुत्या आकाशोत्पत्तेः पूर्वमपि कालबोधात्तत्तदुपाध्यवच्छिन्नाकाशस्य कालरूपत्वासम्भवादतिरिक्तकालकल्पनस्यावश्यकत्वात् ॥ न चैवमपि – *कालोऽस्मि लोकक्षयकृत्प्रवृद्धः* इत्याद्यनुरोधाद्भगवत एव कालत्वमस्तु; तत्तदुपाध्यवच्छिन्नस्य तथ्य प्रलयेऽपि सत्त्वेन सर्वव्यवहारनिर्वाहकत्व- सम्भवादिति – वाच्यम् । तथा सति *विष्णोस्स्वरूपात्परतोदिते द्वे* इत्यारभ्य, *रूपान्तरम् तद्द्विज कालसञ्ज्ञम्* इत्यादिविष्णुपुराणविरोधापत्तेः; स्वस्य स्वापेक्षया रूपान्तरत्वायोगात्, *ब्रह्मा दक्षादयः कालः* इति कालस्य भगवद्विभूतित्वाभिधानविरोधाच्च । *विष्णुर्मन्वादयः कालः* इत्यत्र विष्णुशव्दस्यावतारविष्णुपरत्वेन तस्यापि विभूतित्वाविरोधात्, *अनादिर्भगवान् कालः* इत्यादिसामानाधिकरण्यस्य शरीरशरीरिभावेन निर्वाहात् ॥ न चैवम् – जैनमतनिराकरणपरभाष्ये *कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याः, न च परिहर्तव्याः* इत्यादिना कालनिराकरणम् प्रतीयमानम् विरुध्यत इति – वाच्यम् । सर्वप्रतीतिषु विशेषणतया सर्वलोकानुभवसिद्धस्य कालस्य नास्तित्वशङ्काया बौद्धादिभिरपि कर्तुमशक्यतया जैनानाम् कालास्तित्वसाधनस्य विफलत्वादित्यत्र तद्भाव्यतात्पर्यात् तन्निराकरणे तात्पर्यविरहात्; एवमेव श्रुतप्रकाशिकासर्वार्थसिद्ध्योस्तद्भाष्याशयवर्णनात् । अत एव *वेदार्थसङ्ग्रहे* –   *निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितावच्छेदसर्वोत्पत्तिस्थिति- विनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पृष्टानन्तमहाविभूतिः*
इत्यादिना कालाभ्युपगमो भाष्यकृताम् सङ्गच्छते । अन्यथा भाष्यवेदार्थसङ्ग्रहयोविरोधापत्तेः । निमेषकाष्ठाकलामुहूर्ताद्याः  परार्धपर्यन्ता अपरिमिता अवच्छेदाः कालविभागाः स्वरूप-
मसाधारणधर्मो यस्य कालस्य, स तथोक्तः । तादृश एव सन्महदादिसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतो यः कालस्तत्कृतपरिणामास्पृष्टानन्तमहाविभूतियुक्तत्ति ब्रह्मेति तदर्थात् ॥

न च – नित्यविभूतेः कालकृतपरिणामास्पर्शे कार्यसामान्ये कालस्य कारणत्वानुपपत्तिः, प्राकृतकार्यसामान्यम् प्रति कारणत्वमिति स्वीकारे च धर्मभूतज्ञानपरिणामादेः कार्यतावच्छेदकानाक्रान्ततया कालकार्यत्वानुपपत्तिरिति – वाच्यम् । नित्यविभूतिभिन्नकार्यसामान्यम् प्रत्येव तन्य हेतुतास्वीकारात् पूर्वोक्तलक्षणेऽपि नित्यविभूतिभिन्नकार्यत्वावच्छिन्नकार्यताया एव निवेशात् । *कालम् स पचते तत्र न कालस्तत्र वै प्रभुः*, *कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः* इत्यादिवचनात् । सर्वाधारत्वलक्षणे च नित्यविभूतिभिन्नत्वम् न निवेश्यम्, नित्यविभूतेरपि कालवृत्तित्वाङ्गीकारात् । अन्यथा नित्यविभूतेः स्वपरिणामम् प्रति हेतुत्वानुपपत्तेः हेतुतायाः पूर्वकालवृत्तित्वघटितत्वात् । एवम् नित्यविभूतेः कालासम्बन्धित्वे तदवच्छेदेन जायमानकार्यस्यापि कालासम्बन्धित्वापत्त्या *सदा पश्यन्ति सूरयः* इति श्रुतिविरोधाच्च । नित्यसूरिनिष्ठदर्शनस्यापि कालवृत्तित्वात् ॥

अयम् च कालो नित्यो विभुरेक एव; क्षणादिव्यवहारस्तु एकस्याप्युपाधिभेदादुपपद्यते । तस्य कालस्यैकस्यैव क्षणलवादिरूपेण परिणामाङ्गीकारात् विभिन्नव्यवहारोपपत्तिः । *सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि, काला मुहूर्ता: काष्ठाचाहोरात्राश्च सर्वशः*, *कालम् स पचते तत्र*, *कलामुहूर्तादिमयश्च कालः* – इत्यादिस्मृतेश्च । क्षणादयः परिणामा अपि सर्वगता एव; एकैकक्षणादिसम्बन्धस्य सर्वपदार्थेषु प्रतीतेः ॥
*एकेनैव क्षणेनास्य विश्वस्यापि विशेषणात् ।

कालवत्तत्क्षणानाम् च व्यापित्वमवसीयते ॥* इत्युक्तेः ॥

न च – कालिकसम्बन्धे न देशनैरन्तर्यम् नियामकम्, किम् तु कालनैरन्तर्यमेव; तथा च क्षणादेरणुत्वेऽपि सर्वाधारतासम्भवः -इनि वाच्यम् । देशतो व्यवहितयोस्सम्बन्धकल्पनस्यानुभवविरुद्धत्वात्, तत्तत्कालसम्योगातिरिक्तकालिकसम्बन्धे मानाभावाच्च; अद्रव्ये च सम्युक्तापृथक्सिद्धेरेव कालिकसम्बन्धेत्वेन रूपादेरपि कालवृत्तितानिर्वाहात् । न च – कालतत्परिणामयोर्द्वयोरेव विभुत्वाङ्गीकारे परिणामपरिणामिभावानुपपत्ति:, विभोर्विकारित्वस्य विकारत्वस्य चादर्शनादिति – वाच्यम् । ईश्वरज्ञानतत्परिणामयोर्विभुत्वेऽपि विकारविकारिभावोपलब्धेः । एतेन – कालो न विकारी, विभुत्वात्; क्षणादिर्न विकारः, विभुत्वात्; ईश्वरवत् – इत्यनुमानम् निरस्तम् । ईश्वरज्ञाने व्यभिचारात् ॥  न च –कालस्य क्षणरूपेण परिणाम एव युक्तः, न तु दिवसादिरूपेण परिणामः; तादृशक्षणकूटादेव दिवसादिव्यवहारनिर्वाहादिति – वाच्यम्; तथा सति *अमावास्यायाम् पितृभ्यो दद्यात्* इत्यादौ लिङः प्रत्यवायप्रयोजकीभूताभावप्रतियोगित्वार्थकतया अमावास्यानिष्ठस्य श्राद्धकरणाभावस्य प्रत्यवायप्रयोजकत्वबोधनेन श्राद्धकर्तुरपि प्रत्यवायप्रसङ्गात्, कृतेऽपि श्राद्धे अमावास्याघटकेषु केषुचित्क्षणेषु श्राद्धकरणाभावस्य निरवच्छिन्नविशेषणतासम्बन्धेनापि सत्त्वात् । दिवसस्याखण्डातिरिक्तपरिणामात्मकत्वे च श्राद्धकरणस्थले तत्र निरवच्छिन्नविशेषणतया तदभावविरहान्न प्रत्यवायापत्तिः । एवम् पक्षमासादिपरिणामस्वीकारेऽपि युक्तिर्बोध्या ॥

अयम् च कालष्षडिन्द्रियवेद्यः; घटस्सन्निति चाक्षुषादिप्रतीते-
स्सर्वसिद्धत्वात् तत्र सत्त्वस्य कालसम्बन्धित्वरूपत्वात् । न च – तादृशप्रत्यक्षे सत्ताजातिरेव विषय इति – वाच्यम्; सामान्यम् सदित्यादिप्रत्यक्षानुपपत्तेः । न च – तादृशप्रतीतौ सामानाधिकरण्यसम्वन्धेन सत्ताया भानमिति – वाच्यम्; घटस्सन्, सामान्यम् सदिति – प्रतीत्योरविलक्षणाकारतया क्वचित्समवायेन सत्ताया विषयत्वम्; क्वचित्सामानाधिकरण्येन तस्या विषयत्वमिति कल्पनाया अनुपपन्नत्वात् । कालसम्बन्धस्यैव सत्त्वरूपत्वे चोभयत्रैका-कारतानिर्वाहः ॥  मीमाम्सकैस्तु कालस्य सर्वज्ञानविषत्वमुक्तम् –
*न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते ॥* – इति ॥ तत्र प्रत्यक्षम् स्वाधिकरणक्षणावच्छिन्नमेव स्वविषयमवगाहत इत्युत्सर्गः । अत एव धारावाहिज्ञानस्थले तत्तत्क्षणविशिष्टघटादेर्भानात् द्वितीयादिज्ञानानामप्यज्ञातज्ञापकत्वात्प्रामाण्यमिति मीमाम्सकाः ॥
परत्वापरत्वे च बहुकालसम्युक्तत्वाल्पकालसम्युक्तत्वरूपे, न तु गुणान्तरमिति वक्ष्यते ॥
दिग्द्रव्यम् तु नातिरिक्तम्, तत्तन्मूर्तात्मकोपाध्यवच्छिन्नाकशादिभिस्तत्तन्मूर्तैरेव वा प्राच्यादिव्यवहारनिर्वाहात् । चैत्रादिनिष्ठोदयगिरिसम्युक्तसम्योगापेक्षया अल्पतरोदयगिरिसम्युक्तसम्योगवन्मूर्तम् चैत्रस्य प्राची, चैत्रनिष्ठोदयगिरिसम्युक्तसम्योगापेक्षया अधिकतरोदयगिरिसम्युक्तसम्योगवन्मूर्तम् चैत्रस्य प्रतीची; एवम् सुमेरुसम्युक्तसम्योगाल्पत्वभूयस्त्वाभ्यामुदीचीत्वदक्षिणात्वे बोध्ये । न च – *पद्भ्याम् भूमिर्दिशःश्रोत्रात्* इति दिश: पृथक्सृष्टेः, *दिशःश्रोत्रम्* इति पृथग्लयस्य च श्रुतिसिद्धत्वादाकाशाद्यतिरिक्तम् कार्यभूतम् दिग्द्रव्यमभ्युपगन्तव्यमिति – वाच्यम्; तथा सति *नाभ्या आसीदन्तरिक्षम्, शीर्ष्णो द्यौस्समवर्तत* इति पूर्ववाक्ये स्वर्गान्तरिक्षयोरपि पृथक्सृष्टिश्रुत्या तयोरप्यतिरिक्तद्रव्यत्वापत्तेः, पूर्ववाक्यस्याभिमानिदेवतासृष्टिपरत्वे चोत्तरवाक्यस्यापि तत्परताया एवोचितत्वात्; *चन्द्रमा मनसो जातः, चक्षोस्सूर्यो अजायत* इति देवता सृष्टेरेव प्रक्रान्तत्वात् । किञ्च *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च*, *खम् वायुर्ज्योतिरापः पृथिवी विश्वस्य धारणी* इति श्रुतौ वाय्वपेक्षया प्राणस्य पृथक्सृष्टिश्रवणेऽपि वायुविशेषत्वमेव न वायुक्रिये पृथगुपदेशात् इत्यधिकरणे निर्णीतम् । तच्च पृथक्सृष्टिमताम् दिगादीनामपि प्रदर्शनार्थम् मन्तव्यम् । एवम् दिशो व्यष्टिदशायाम् सृष्टेः श्रूयमाणतया तदनुरोधेन सृष्टिकल्पने तत्सृष्टेः पूर्वम् तन्नाशानन्तरम् च विद्यमानानाम् प्रकृतिमहदहङ्कारादितत्त्वानामावरणा-वार्यभावानुपपत्तेः; अहङ्काराद्यपेक्षया सर्वदिग्व्यापकत्वरूपस्याहङ्कारा-वरणत्वस्य दिग्घटितत्वात्, तद्द्शायाम् दूरासन्नत्वादिव्यवस्थानुपपत्तेश्च; दिशः प्रकृतिकार्यत्वे नित्यविभूतौ प्राच्यादिव्यवस्थानुपपत्तेश्च । न च – समष्टिदशायाम् प्रकृतिप्रदेशात्मकोपाधिभिर्नित्यविभूतौ च तत्प्रदेशरूपोपाधिभिरेव प्राच्यादिव्यवहारनिर्वाहः – इति वाच्यम्; तथा सति सर्वत्रोपाधिभिरेव प्राच्यादिव्यवहारनिर्वाहाद्दिशो द्रव्यान्तरत्वे मानाभावादिति ॥

||इत्यनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने जडपरिच्छेदः प्रथमः ||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.