सिद्धान्तसिद्धाञ्जनम्-नित्यविभूतिपरिच्छेदः

श्रीः

श्रीमते रामानुजाय नमः

श्रीमदनन्ताचार्यविरचिता सिद्धान्तसिद्धाञ्जनम्

अनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने नित्यविभूतिपरिच्छेदः

अथ नित्यविभूतिर्निरूप्यते ॥

      रजोरहितत्वे सति तमोरहितत्वे सति वा सत्त्ववत्त्वम्, स्वयम्प्रकाशत्वे सति सत्त्ववत्त्वम् वा, चेतनधर्मभूतज्ञानान्यत्वे सति स्वयम् प्रकाशत्वम्, धर्मभूतज्ञानान्यत्वे सति पराक्त्वम् वा तल्लक्षणम् । लक्षणत्रयेऽति प्रकृतिवारणाय सत्यन्तम्, जीवादिवारणाय विशेप्यम्; चतुर्थलक्षणे जीवेश्वरधर्मभूतज्ञानवारणाय सत्यन्तम्, कालवारणाय विशेष्यम् । व्यावृत्तिः पञ्चमेऽप्यूह्या । न्यायसिद्धाञ्जने तु –निश्शेषाविद्यानिवृत्तिदेशविजातीयान्यस्वमपि तल्लक्षणमुक्तम् । निश्शेषाविद्याध्वम्सोत्पत्तिम् प्रत्याधेयतासम्बन्धेनावच्छेदकीभूतो यो देशस्तदवृत्तिद्रव्यविभाजकोपाधिमद्भिन्नत्वे सति द्रव्यत्वम् नित्यविभूतिलक्षणमिति तदर्थः । न च -तादृशदेशवृत्तिद्रव्यविभाजकोपाधिमत्त्वमेव लक्षणम् युक्तम्,  द्रव्यविभाजकोपाधिनिवेशाच्च न भगवद्विग्रहादावव्याप्तिरित्यभावद्वयनिवेशो व्यर्थ इति – वाच्यम् । तदवृत्तिद्रव्यविभाजकोपाधिशून्यत्वघटितलक्षणे तद्वृत्तिद्रव्यविभाजकोपाधि- मत्त्वस्यानिविष्टत्वेन वैयर्थ्याभावात्, प्रकृतित्वकालत्वाद्युपाधिपञ्चक-विषयकमेकम् ज्ञानम् तद्व्यक्तित्वेन निवेश्य तादृशज्ञानव्यक्त्यवच्छिन्नावच्छेदकताकभेदनिवेशवैयर्थ्यशङ्काया एवाप्रसक्तेश्च । न च – रजोरहितत्वम् तमोरहितत्वम् च नित्यविभूतावसिद्धमिति तद्घटितलक्षणयोरव्याप्तिरिति – वाच्यम्; *आदित्यवर्णम् तमसः परस्तात्*, *ते ह नाकम् महिमानस्सचन्ते*, *क्षयन्तमस्य रजसः पराके* इत्यादिभिस्तयोस्सिद्धेः; तमस इत्यस्य तमोगुणविशिष्टपरतया परस्तादित्यस्य भिन्नदेशवृत्तित्वपरतया आदित्यवर्णेभगवद्विग्रहे तमोगुणवद्भिन्नवृत्तित्वबोधनेन तदधिकरणीभूतनित्यविभूतेस्तमोगुणवद्भिन्नत्वस्यावश्यकत्वात् । न च – ब्रह्मस्वरूपस्य तमोगुणवद्भिन्नत्वपरा उक्तश्रुतिः, आदित्यवर्णमित्यस्य स्वप्रकाशमित्यर्थादिति – वाच्यम्; तथा सत्यादित्यवर्णमित्यस्यास्वारस्यापत्तेः, अस्तातिप्रत्ययस्य वृत्तित्वपरतया तादृशगुणवद्भिन्नत्वमात्रबोधासम्भवाच्च ॥

यद्यपि – *दिक्छब्देभ्यस्सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः* इत्यस्तातिप्रत्ययस्य प्रथमान्तादपि विधानसत्त्वान्निरर्थकत्वमावश्यकमेव । पुरस्ताद्वसतिः पुरस्तादागतः पुरस्ताद्रमणीय इति तदुदाहरणात् *स
एवाधस्तात्स उपरिष्टात्स पश्चात्सपुरस्तात्स दक्षिणतस्स उत्तरतस्स एवेदम् सर्वम्* इति भूमविद्यायाम् स एवेदम् सर्वमित्युपसम्हारानुरोधेन स एवाधस्तादित्यादेरधोदेशस्स एवेत्यर्थाङ्गीकारावश्यकत्वात् । तथा च प्रकृतेऽपि तमसः परत्वम् ब्रह्मण एव बुध्यते । तथाऽपि –  अधश्शब्दस्यार्थान्तरेऽनुशासनप्रयोगयोस्सत्त्वेऽप्यर्थान्तरापेक्षया आनन्तर्यरूपार्थे स्वारस्यवदस्तातिप्रत्ययान्तस्य किञ्चिद्देशवृत्तित्वपरत्व एव स्वारस्यात्, गवादिशब्दस्यानेकार्थत्वेऽपि बाधकविरहे सास्नावद्व्यक्तेः परित्यागादर्शनात्तमसः परस्तादित्यस्य तद्देशवृत्तित्वपरत्वमेव युक्तम् । एवम् क्षयन्तमस्येत्यादेः रजोगुणवद्भिन्नदेशे वसन्तमित्यर्थ: । न च – जापकोपाख्याने मुक्तप्राप्यस्थानस्य *द्वाभ्याम् मुक्तम्, त्रिभिर्मुक्तम्* इति गुणत्रयविरहबोधनात्तत्र सत्त्ववत्त्वमपि न सम्भवतीति – वाच्यम्;
*शुद्धसत्त्वमयम् दिव्यमक्षरम् ब्रह्मणः पदम् ।

अथातो ब्रह्मणो लोकः शुद्धसत्त्वस्सनातनः ॥* —
इत्यादि पाद्मपुराणवचनैस्तादृशलोके सत्त्वसिद्धौ उक्तवचनस्य त्रित्वावच्छिन्नावच्छेदकताकभेदपरतया घटवति घटपटोभयत्वावच्छिन्नावच्छेदकताकभेदवदविरोधात्, *स्वसत्ताभासकम् सत्त्वम् गुणसत्त्वाद्विलक्षणम्* इति प्रधानगतसत्त्वस्य विजातीयत्वेन तद्वद्भेदस्याबाधाच्च ॥

यत्तु – *तदक्षरे परमे व्योमन्* इत्यक्षरशब्दप्रयोगात्, *आदित्यवर्णम् तमसः परस्तात्* इति तमः परत्वोक्त्या चाव्यक्ततमसोरन्तरालेऽधीतः प्रकृतिपरिणामविशेष एव मुक्तानामीश्वरस्य त्र भोगस्थानतया आम्नायते; शुद्धसत्त्वव्यपदेशस्य च रजस्तमसोरभिभूततयोपपत्तेरतिरिक्ताप्राकृतस्थान- कल्पने गौरवात् । तत्रापि पृथिव्यादिभेदाभ्युपगमेन प्राकृतत्वज्ञानाच्च, अन्यथा तत्त्वसङ्ख्याधिक्यप्रसङ्गात्; *तम् षड्विम्शकमित्याहुस्सप्त- विम्शमथापरे* इति श्रुत्या कालस्यान्तर्भावानन्तर्भावाभिप्रायेण षड्विम्शत्वसप्तविम्शत्वयोः प्रतिपादनेन नित्यविभूतेरतिरिक्तत्वे तादृशश्रुतिविरोधात् । एवम् *सदेव सोम्येदमग्र आसीत्*, *आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्*, इत्यादि श्रुतिविरोधश्च; तत्रैकपदस्य समानकालीनविभिन्नव्यवहारजनकजन्यधर्माभावरूप-नामरूपविभागाभावपरत्वात्, स्वाप्रयोज्यव्यवहारप्रयोजकत्वकालिक- विशेषणत्वैतदुभयसम्बन्धेन जन्यधर्मविशिष्टजन्यधर्माभावस्यैकपद- निष्कृष्टार्थत्वात् । महत्त्वादिविशिष्टप्रकृतिगतसततपरिणामरूपाविशदा-वस्थामादायासम्भववारणाय कालिकसम्बन्धनिवेशः; चित्त्वाचित्त्वादि- वारणाय जन्यत्वनिवेशः; अभावश्च स्वाश्रयपृथक्सिद्धि-सम्बन्धावच्छिन्नप्रतियोगिताको ग्राह्यः, तेन सम्बन्धान्तरावच्छिन-तादृशधर्माभावस्येदानीमपि सत्त्वेऽपि न क्षतिः, *नित्यविभूतेऱतिरिक्त-द्रव्यात्मिकायास्तद्दशायामपि सत्त्वे च तद्गतानन्तधर्माणामुक्तसम्बन्धेन प्रलयकालेऽपि ब्रह्मणि सत्त्वेनैकत्वव्याघातात् । लीलाविभूत्यपेक्षयानित्यविभूतेस्त्रिगुणत्वेन तत्सत्तादशायाम् लीलाविभूत्यभावादेकत्वव्यवहारसमर्थनस्य मन्दत्वात् । वियदादेरेकैकस्याकार्यत्वे प्रतिज्ञाहानिमुद्भावयताम् सूत्रकृताम् तादृशा-     नेकतत्त्वात्मिकाया अतिरिक्ताया नित्यविभूतेस्सत्त्वे तत्र प्रतिज्ञाहानेरवारणस्यानुचितत्वात् । एवम् – *एतस्मादात्मनस्सर्वे लोकास्सर्वे देवास्सर्वाणि भूतानि व्युच्चरन्ति* इति श्रुतेस्सर्वलोकोत्पत्तिप्रतिपादिकाया विरोधश्च । तस्मात्प्रकृतेरक्षरत्वावस्था- पन्नाया एव नित्यविभूतिरूपेण परिणामः; *तदेकमव्यक्तमनन्तरूपम् विश्वम् पुराणम् तमसः परस्तात्* इत्यादावव्यक्तशब्दोऽपि तद्धेतुभूताक्षरपर एव, तमसः परस्तादित्युक्तेरतो न विरोधः – इति यादवप्रकाशमतम् ॥ तन्न – *अपुनर्भवाय कोशम् भिनत्ति*, *कोशम् भित्वा शीर्षकपालम् भिनत्ति* इत्युपक्रम्य, *पृथिवी भिनत्त्यापो भिन्नत्त्यव्यक्तमक्षरम् भिनत्ति मृत्युम् भिनत्ति* इति सुबालश्रुत्या ब्रह्माण्डतदावरणाद्वहिर्भूतस्य तल्लोकस्य अक्षरभेदनानन्तरम् प्राप्यत्वेनाभिहितस्याक्षरात्मकत्वासम्भवात्, शीर्षकपालम् भिनत्तीत्यभिधाय पृथिव्यादिभेदनस्याभिहितत्वेन शरीरानुप्रविष्टानामेव पृथिव्यादीनामव्यक्ताक्षरतमसाम् च भेदनम् तत्राभिधीयते;  नावरणरूपाणामिति वक्तुमशक्यत्वात् । पाद्मपुराणोत्तरखण्डे –

*त्रिपाद्व्याप्तिः परम् धाम पादोऽस्येहाभवत्पुनः ।
त्रिपाद्विभूतिर्नित्या स्यादनित्यम् पादमैश्वरम् ॥

नित्यम् तद्रूपमीशस्य परम् धाम्नि स्थितम् शिवम् ।

अमृतम् शाश्वतम् दिव्यम् सदा यौवनमास्थितम् ॥* –

इत्यारभ्य सप्तावरणावेष्टिताण्डकटाहादिवृत्तान्तम् प्रकृत्यादिस्वरूपम् च विस्तरशोऽभिधाय;
*प्रधानपरमव्योम्नोरन्तरे विरजा नदी ।

वेदाङ्गस्वेदजनिततोर्यैर्विस्राविता नदी ॥
तस्याः पारे परव्योम्नि त्रिपाद्भूतिस्सनातनी ।

अमृतम् शाश्वतम् नित्यमनन्तम्म् परमम् पदम् ॥

शुद्धसत्त्वमयम् दिव्यमक्षरम् ब्रह्मणः पदम् ।

अनेककोटिसाहस्राग्निवर्चम् ध्रुवमव्ययम् ॥
सर्ववेदमयम् शुभ्रम् सर्गप्रलयवर्जितम् ॥* –

इत्यादिना वैकुण्ठलोकस्य नित्यत्वप्रकृत्युत्तीर्णत्वयोरभिधानेन तस्य प्रकृतिपरिणामत्वासम्भवात् । *एको ह वै नारायण आसीन्न ब्रह्मनेशानः* इति श्रुत्या, *पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतम्* इत्यादौ च प्रलये भगवद्देहस्य साक्षात् स्थित्युक्त्या नित्यविग्रहावश्यकत्वेन तद्गताकुञ्चनप्रसारणादिजन्यधर्मद्वयमादाय निरुक्तैकत्वानुपपत्तिवारणाय शुद्धसत्त्वावृत्तिविभिन्नव्यवहारजनका- नेकधर्माभावस्यैवैकत्वरूपत्वावश्यकतया एकमेवेत्यादिश्रुतेरविरोधात्, बहुस्यामित्युत्तरवाक्यगतबहुत्वविरोध्येकत्वस्यैव तत्र विवक्षितत्वात्, नित्यविभूतौ बहुत्वस्य सर्वदा सिद्धत्वेन इच्छाविषयत्वासम्भवेन  प्रकृतिगतबहुत्वस्यैवेच्छाविषयताया वक्तव्यत्वोचितत्वात् ॥  न च – नित्यविभूतिमादाय बहुशरीरकत्वस्य सर्वदा सत्त्वे इच्छाविषयत्वानुपपत्त्या तद्दशायाम् तदपि नास्तीति निश्चीयत इति – वाच्यम्; तेजोऽप्सृष्ट्यनन्तरमपि *बह्व्यः स्याम प्रजायेमहि* इति सङ्कल्पस्य श्रुतिसिद्धत्वेन स्रक्ष्यमाणगतबहुत्वस्यैवेच्छाविषयताया आवश्यकत्वेन नित्यविभूतिसत्त्वेऽप्यविरोधात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अपि न विरोधः, यथा सोम्यैकेन मृत्पिण्डेनेति दृष्टान्ते सर्वम् मृण्मयमित्यनेन यथैकमृत्पिण्डकार्याणामेव ग्रहणम्, तथा ब्रह्मकार्याणामेव तत्र ग्रहणेऽपि नित्यत्वेन सिद्धायाः नित्यविभूतेरग्रहणे  तद्विरोधाप्रसक्त्या सूत्रकारैस्तच्छङ्कापरिहारयोरकरणोपपत्तेः॥ महाभारते –

*अभयम् चानिमित्तम् च न च क्लेशभयावृतम् ।

द्वाभ्याम् मुक्तम् त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च ॥
अप्रधर्षम् महानन्दम् विशोकम् विगतक्लमम् ।

ईदृशम् परमम् स्थानम् निराशास्ते च तादृशाः ॥

कालम् स पचते तत्र न कालस्तत्र वै प्रभुः ।

आरण्यपर्वणि –
*योगसिद्धा महात्मानस्तमोमोहविवर्जिताः ।

तत्र गत्या पुनर्नेमम् लोकमायान्ति भारत ॥

स्थानमेतन्महाराज ध्रुवमक्षरमव्ययम् ॥*

इत्यादिभिर्बहुधा नित्यविभूतेस्सूत्रकारैरेव प्रपश्चितत्वेन तत्र तेषामनभ्युपगमस्य वक्तुमशक्यत्वात् ॥
अथैवम् — नैयायिकमतनिरासावसरे *रूपादिमत्त्वाच्च विपर्ययो दर्शनात्*, *उभयथा च दोषात्* इत्याभ्याम् सूत्राभ्याम् परमाणूनाम् रूपादिमत्त्वे अनित्यत्वप्रसङ्गस्य तदभावे च द्व्यणुकादौ कारणगुणपूर्वकगुणानुत्पत्त्या जगतो नीरूपत्वापादनरूपदूषणस्य च अभिधानासङ्गतिः; नित्यविभूतेर्भगवद्विग्रहस्य च नित्यत्वाभ्युपगमे रूपस्यानित्यत्वव्याप्यताभङ्गात् । एवम् – *प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे* इति सूत्रस्य चासङ्गतिः; तत्र ब्रह्मणः शिरःपक्षपुच्छाद्यवयवभेदवत्त्वे उपचयापचययोरापादनान्नित्यविग्रहसत्त्वे च तत्र शिरः पक्षादिसत्त्वे-ऽप्युपचयापचययोरभावेन सावयवत्वस्योपचयापचयव्याप्यत्वाभावेनोक्तापादनासम्भवात् – इति चेन्न ॥ स्वमते रूपादिमत्त्वस्यानित्यत्वव्याप्यताविरहेऽपि तन्मते तद्व्याप्यत्वाविघातेन तन्मतसिद्धार्थमादाय तन्मते दूषणाभिधानस्योपपत्तेः, *न च पर्यायादप्यविरोधो विकारादिभ्यः* इति सूत्रे आत्मनस्स्वमते सङ्कोचविकासरूपावस्थाविरहेऽपि जैनमतसिद्धार्थमादाय तन्मते दूषणाभिधानदर्शनात्; प्रियशिरस्त्वाद्यप्राप्तिरित्यत्र च न कालभेदेन वृद्धिहा- सपरावुपचयापचयशब्दौ, किम् तु प्रकोष्ठाड्गुल्योरिव कालभेदानपेक्षपीनत्वकृशत्वरूपोपचयापचयपराविति सावयवत्वस्य तादृशोपचयापचयव्याप्यत्वे व्यभिचारविरहाद्ब्रह्मणस्सावयवत्वे प्रदेशभेदेन स्थूलत्वकृशत्वयोरेवापादनस्याभिमतत्वात्, अस्थूलमनण्विति श्रुतिविरोधेन तत्रेष्टापत्त्यसम्भवात् । स्पष्टम् चेदम् टीकायाम् । तथा च -अप्राकृतलोकस्सूत्रकृदनुमत एव । अक्षरशब्दस्वारस्यादपि न तल्लोकस्य प्रकृतिपरिणामरूपत्वम्; न क्षरतीत्यक्षरमिति योगार्थस्य नित्यविभूतौ सम्भवात्, लोकत्वरूपावस्थाविशिष्टस्यापि प्रलयादौ नाशाभावेन नाशप्रतियोगितापर्याप्त्यनधिकरणत्वस्य तादृशलोकत्वविशिष्टे सत्त्वेनाक्षरशब्दस्य तत्रैव स्वारस्यात्, *अक्षरमम्बरान्तधृतेः* इत्यत्र योगमादायैवाक्षरशब्दस्य ब्रह्मपरताव्यवस्थापनात्तद्वदिहापि सम्भवात्, परमेव्योमन्निति समभिव्याहारस्य प्रकृतिपरिणामपरत्वे बाधकस्य सत्त्वाच्च ॥ न च नित्यविभूतेरतिरिक्तत्वे सप्तविम्शमथापर इत्युक्ततत्त्वसङ्ख्याविरोधः, नित्यविभूतेरनङ्गीकारेऽपि गुणक्रियादिकमादाय तत्त्वसङ्ख्याविरोधस्य जागरूकत्वात्, द्रव्याणमेव परिगणनमित्यङ्गीकारेऽपि धर्मभूतज्ञानस्य द्रव्यस्याधिकस्य सत्त्वेन तद्विरोधस्य दुष्परिहरत्वात् ॥ न च – जीवस्य धर्मभूतज्ञानविशिष्टत्वेन तत्त्वपङ्क्तौनिवेशाद्विशेष्याणामेव परिगणनाद्धर्मभूतज्ञानस्य विशेषणत्वान्न सङ्ख्याविरोध इति – वाच्यम्; तथा सति नित्यविभूतेरपीश्वरविशेषणतयैव प्रवेशेन तद्विरोधाभावात् ॥
सा च विभूतिर्ज्ञानानन्दात्मिका, *ज्ञानानन्दमया लोकाः* इत्यादि प्रमाणात् । रहस्याम्नाये *किमात्मिका भगवतो व्यक्तिः* इति भगवद्विग्रहस्य प्रकारे पृष्टे-*यदात्मको भगवाम्स्तदात्मिका व्यक्तिः*; *किमात्मको भगवान्* *ज्ञानात्मको भगवान् शक्त्यात्मको बलात्मक ऐश्वर्यात्मकः* इत्याद्युत्तरदर्शनेन दिव्यमङ्गलविग्रहरूपस्य शुद्धसत्त्वद्रव्यस्य ज्ञानात्मकत्वसिद्धेश्च ॥
अत्र केचित् — उक्तरहस्याम्नायानुरोधाद्विग्रहस्य ज्ञानात्मकत्वस्वीकारे षाड्गुण्यरूपत्वमपि दुर्वारम्; तस्मिन्नेव शास्त्रे सहपाठात्, इष्टापत्तौ च चेतनत्वप्रसङ्गात् । न च-तत्रापीष्टापत्तिरिति – वाच्यम्, जीवेश्वरविकल्पबाधात्, षाड्गुण्यात्मकत्वस्यौपचारिकत्वे च ज्ञानात्मकत्वेऽपि तथात्वस्य दुर्वारत्वात् । अतस्त्रिगुणविभूतिरिव नित्यविभूतिरपि जडैव, निश्शेषाविद्यानिवृत्तिपूर्वकनिरवधिकज्ञानविकास-स्थानतया ज्ञानत्वोपचार इति युक्तम् । विफलम् च नित्य विभूतेस्स्वयम्प्रकाशत्वकल्पनम्, नित्यमुक्तेश्वराणाम् सर्वविषयक- साक्षात्कारसत्त्वेन तेषाम् तेनैव तद्भानात्, बद्धानाम् च शास्त्रादिजन्यपरोक्षज्ञानेन तद्भानात् ॥  न चैवम् – जीवस्वरूपस्यापि स्वप्रकाशत्वम् न स्यात्, तस्यापि धर्मभूतज्ञानेनैव भानोपपत्तेरिति – वाच्यम्; सुषुप्त्यवस्थायाम् धर्मभूतज्ञानविरहेऽप्यात्मनो भासमानतया स्वप्रकाशताया युक्तत्वेऽपि नित्यविभूतेः क्वापि ज्ञानान्तरविगमदशायाम् भानाभावेन तत्कल्पनस्यायुक्तत्वात् । एवम् नित्यविभूतेरनन्तानाम् गोपुरमण्टपप्रासादादीनाम् ज्ञानपरिणामत्वाभ्युपगमे अल्पीयसाम् लीलाविभूतिस्थानाम् तेषाम् ज्ञानपरिणामत्वस्य कैमुतिकन्यायेनाङ्गीकर्तुम् प्रवृत्तस्य यत्र ज्ञानत्वम् तत्र स्वभिन्नार्थविषयकत्वमिति व्याप्तिप्रतिपादनपरस्य *नाभाव उपलब्धेः* इति सूत्रस्य, यत्र स्वभिन्नार्थविषयकत्वाभावः तत्र ज्ञानत्वाभाव इति व्यतिरेकव्याप्तिप्रतिपादनपरस्य *न भावोऽनुपलब्धेः* इति सूत्रस्य चासङ्गतिः; नित्यविभूतौ ज्ञानत्वसत्त्वेऽपि स्वभिन्नार्थविषयकत्वाभावेन व्याप्तिद्वयेऽपि व्यभिचारात् । जागरितप्रत्ययः स्वभिन्नार्थशून्यः, ज्ञानत्वात्, स्वाप्रज्ञानवत् -इत्यनुमाने बाधितत्वदोषजन्यत्वादिरूपोपाधिप्रतिपादनपरस्य *वैधर्म्याच्च न स्वप्नादिवत्* इत्यस्य चासङ्गतिः; नित्यविभूत्यात्मकज्ञाने स्वभिन्नार्थशून्यत्वसत्त्वेऽपि बाधितत्वादरेभावेन साध्यव्यापकताभङ्गात् । एवम् नित्यविभूतेरजडत्व एव प्रथमसूत्रटीकास्वारस्यम् । तथा च – *सम्विन्नाम काचिन्निराश्रया निविषया वा अत्यन्तानुपलब्धेर्न सम्भवति* इति भाष्यप्रतीकमुपादाय टीका –
*ननु कथम् विषयाश्रयशून्यज्ञानाभावः, स्वरूपज्ञानम् विषयाश्रयशून्यम् त्वन्मते । उच्यते । स्थविष्ठमिदम् चोद्यम्, किम् त्वयाज्ञातुरेव ज्ञानशब्दवाच्यस्याजडत्वनित्यत्वादिकम् विषयाश्रय-शून्यत्वम् नित्यत्वादिकम् च साध्यते, तत्सिद्धसाधनम् । यदि- ज्ञातृव्यतिरिक्तस्य ज्ञानस्य, तर्हि ज्ञातृव्यतिरिक्तम् विषयाश्रयरहितम् ज्ञानम् शून्यमिति ब्रूमः, ज्ञातृज्ञेयतदवच्छिन्नज्ञानस्वरूपव्यतिरिक्तम् ज्ञानमनुपलम्भनिरस्तम् ॥* इति ॥ तस्मान्नित्यविभूतिर्जडैव ॥ — इति वदन्ति ॥
परे तु – नित्यविभूतिरजडैव; उक्तरहस्याम्नायाद्यनुरोधात्, शक्त्याद्यात्मकत्वादिवत् ज्ञानात्मकत्वस्य मुख्यत्वे बाधकविरहात्, *स्वसत्ताभासकम् सत्त्वम् गुणसत्त्वाद्विलक्षणम्* इत्युपबृम्हणानुरोधाच्च; उक्तरीत्या प्रमाणसिद्धे स्वप्रकाशत्वे तद्वैयर्थ्यस्याकिञ्चित्करत्वात्; अन्यथा धर्मभूतज्ञानेनैव सर्वकार्योत्पत्तावात्मकल्पनस्य व्यर्थतया तस्याप्यप्रसिद्धिप्रसङ्गात्; आत्मनि व्यभिचारवारणाय प्रमाणजन्यज्ञानत्वम् यत्र तत्र स्वभिन्नार्थविषयत्वमित्यादिव्याप्तिस्वीकारेण नित्यविभूतौ- व्यभिचाराप्रसक्त्या उक्तसूत्रविरोधविरहात्, प्रमाणतदाभासान्यतरजन्य-  ज्ञानत्वविशिष्टसाध्यव्यापकत्वस्यबाधितत्वरूपोपाघौ सत्त्वेन वैधर्म्याच्चेत्यस्यापि न विरोधः ॥

सा च पञ्चोपनिषत्प्रतिपाद्यानि पञ्च महाभूतानि एकादशे- न्द्रियाणीति षोडशतत्त्वात्मिका ॥*

इति

श्रीशेषार्यवम्शमुक्ताफलस्य श्रीयादवाद्रिनिवासरसिकस्य श्रीमदनन्तार्यवर्यस्य कृतिषु

सिद्धान्तसिद्धाञ्जने
नित्यविभूतिपरिच्छेदो यावत्सम्पादितः ॥

॥ श्रीः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.