सिद्धान्तसिद्धाञ्जनम्-जीवपरिच्छेदः

श्रीः

श्रीमते रामानुजाय नमः

श्रीमदनन्ताचार्यविरचिता सिद्धान्तसिद्धाञ्जनम्

अनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने जीवपरिच्छेदः द्वितीयः

अथ जीवो निरूप्यते ॥

अणुत्वे सति ज्ञानाश्रयत्वम्, स्वव्यधिकरणसङ्कल्पजन्यकृतिमत्त्वम् न – तल्लक्षणम् । लक्षणद्वयेऽपीश्वरवारणाय सत्यन्तम् जन्यान्तम् च । जीवकृतिसामान्यस्य स्वव्यधिकरणेश्वरसङ्कल्पजन्यत्वाल्लक्षणसङ्गतिः । न च – *नित्यस्सर्वगतः* इति स्मृत्या जीवस्य विभुत्वबोधनाच्छरीरस्य देशान्तरगमनेऽपि ज्ञानसुखाद्युत्पत्तिदर्शना- त्तन्निर्वाहायात्मनोऽपि गमनागमनादिकल्पने गौरवाच्च विभुत्वकल्पनमेवोचितमित्यणुत्वघटितलक्षणासम्भव इति – वाच्यम् ।

*एषोऽणुरात्मा चेतसा वेदितव्यो बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्नमात्रो ह्यवरोऽपि दृष्टः*,
*वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः*-
इत्यादिश्रुतिभिर्जीवस्याणुत्वसिद्धौ सर्वगतत्वश्रुतेः *अग्निर्यथैको भुवनम् प्रविष्टः*, *वायुस्सर्वगतो महान्* – इत्यादिवदेकजातीयानाम् सर्वत्रानुप्रवेशपरत्वेन जीवस्सर्वगत इत्यस्य द्रव्यत्वसमानाधिकरणभेदप्रतियोगितानिरूपितसर्वयोगसम्बन्धावच्छिन्ना-वच्छेकतानवच्छेदकजीवत्वाश्रय इत्यर्थात्, द्रव्ये तत्तद्व्यक्तित्वावच्छिन्नजीवनिष्ठावच्छेदकताकभेदासत्त्वात् ॥ न च – एषोऽणुरात्मेति परमात्मन एवेन्द्रियजन्यज्ञानाविषयत्वात्मकदुर्दर्शत्वरूपमणुत्वम् प्रतिपाद्यते; न चक्षुषा गृह्यत इत्यादिना तस्याव्यवहितपूर्ववाक्ये प्रकृतत्वात् चेतसावेदितव्य इति विशुद्वमनोग्राह्यत्वलिङ्गाच्चेति वाच्यम्; *यस्मिन् प्राणः पञ्चधा सम्विवेश* इति यच्छब्दयोगेनैतच्छब्दस्य वक्ष्यमाणपरामर्शित्वात् । न च – तत्रापि परमात्मैव प्रतिपाद्यते, *यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम् मनः प्राणैश्च सर्वैः* इत्यादाविव प्राणाधारत्वस्य परमात्मन्यपि सम्भवादिति वाच्यम्; यस्मिन् द्यौरित्यादेरिवास्य वाक्यस्य सर्वाधारताप्रतिपादनपरत्वाभावात् जीवासाधारणप्राणचित्तेन्द्रियाधारत्वमात्रप्रतिपादनपरत्वात् जीवपरताया एव युक्तत्वात् । न च वेदितव्यत्वलिङ्गविरोधः; नियन्तृनियाम्यवैलक्षण्यज्ञानस्य अमृतत्वसाधनत्वादविरोधात्, इहापि पूर्वत्र *बृहच्च तद्दिव्यमचिन्त्यरूपम्* इति परमात्मनो महत्त्वमुक्त्वा एषोऽणुरात्मेति जीवे तद्वैलक्षण्यप्रतिपादनात् ॥

न च – अत्र वाक्ये चेतसाणुरित्यन्तःकरणौपाधिकमणुत्वम् प्रतिपाद्यत इति – वाच्यम् | चेतसेत्यस्य वेदितव्य इत्यनेनैव अन्वयस्य स्वरसतः प्रतीतेः । बुद्धेर्गुणेनेत्यत्र चबुद्धेर्गुणेनाराग्रमात्रः आत्मगुणेन महानिति नार्थः; व्यवहितान्वयप्रसङ्गादध्याहारप्रसङ्गात्, समुच्चयार्थनिपातानन्वयाच्च । किम् तु अपरो जीवस्सम्सारदशायाम् बुद्धेर्गुणेनात्मगुणेन चाराग्रमात्रः; आरा – चर्मसूची, बुद्धेर्विभुत्वयोग्यत्वेऽपि कर्मणा सङ्कुचितत्वान्मलरुद्धमणिप्रभावदाश्रयतुल्यपरिमाणोपपत्तेः । बुद्ध्या सह पूर्वमणुत्वस्य कीर्तनात्तद्वत्कादाचित्कताशङ्काव्यावृत्त्यर्थम् पुनस्स्वरूपमाह – वालाग्रेत्यादि । पुनः कीर्तनात्स्वाभाविकतासिद्धेः आत्मा न विभुः, क्रियावत्त्वात्, घटादिवत् – इत्यनुमानेन विभुत्वस्य बाधाच्च । न च क्रियावत्त्वमसिद्धम्; *तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यः* इति श्रुत्या विभागानुकूलव्यापाररूपनिष्क्रमणस्य, *ये वै के चास्माल्लोकात्प्रयान्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति*, इति श्रुत्या सम्योगानुकूलव्यापाररूपगमनस्य, *तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे* इति श्रुत्या स्वसजातीयसम्योगध्वम्ससमानाधिकरण-सम्योगानुकूलव्यापाररूपपुनरागमनस्य च जीवे सिद्धत्वात् । स्वपदम् धात्वर्थतावच्छेदकसम्योगत्वावच्छिन्नपरम्; साजात्यम् च स्वप्रतियोगिप्रतियोगिकसम्योगत्वेन ॥
यद्यपि – निष्क्रामति गच्छतीत्यादौ शरीरनिष्ठम् यन्निष्क्रमणगमनादिकम् तदनुकूलकृतिमत्त्वमेव जीवे प्रतीयते, न तु क्रियावत्त्वम्; आख्यातस्य यत्रार्थकत्वात् । तथाऽपि शरीरविरहदशायामेवोक्तश्रुतिषूत्क्रान्त्यादीनाम् श्रूयमाणत्वेन रथो

गच्छतीत्यादाविव आख्यातस्य आश्रयत्वार्थकताया एव वक्तव्यत्वादुक्तश्रुतिभिरात्मनः क्रियावत्त्वम् सिध्यति ॥ न च – निष्क्रामतीत्यस्य प्राणविभागाश्रय इत्यर्थाङ्गीकाराद्विभुत्वपक्षेऽपि नानुपपत्तिरिति – वाच्यम् । तथाऽपि – *तमुत्क्रामन्तम् प्राणोऽनूत्क्रामति, प्राणमुत्क्रामन्तम् सर्वे प्राणा अनूत्क्रामन्ति* इत्यादौ जीवोत्क्रमणजन्योत्क्रमणाश्रयत्वस्य प्राणेषु प्रतीत्या जीवस्य क्रियावत्त्वावश्यकत्वात्; यज्ञमनुप्रावर्षीदित्यादाविव अनुशब्दस्य जन्यत्वार्थकत्वात्, द्वितीयायाश्च निरूपितत्वार्थकत्वात्, उत्क्रमण- विशिष्टजीवजन्यत्वस्य जीवोत्क्रमणजन्यत्वे पर्यवसानात्, *अनुर्लक्षणे* इत्यनेन जन्यत्वरूपलक्षणार्थकानुशब्दयोगे द्वितीयाविधानात्, गत्यागति- श्रुत्तेरनिर्वाहाच्च । एतदभिप्रेत्यैव सूत्रितम् *उत्क्रान्तिगत्यागतीनाम्*, *स्वात्मना चोत्तरयोः* – इति । किञ्चात्मनो विभुत्वे अन्यदीयमनसा अन्यात्मनः प्रत्यक्षापत्तिः; आत्ममनस्सञ्चयोगे परात्मसञ्चयोगव्या- वृत्तञ्च वैजात्यञ्च कल्पयित्वा तेन रूपेणात्ममानसञ्च प्रति हेतुतास्वीकारे च गौरवात् ॥

न च – जीवस्याणुत्वे प्रत्यक्षानुपपत्तिः, प्रत्यक्षसामान्ये महत्त्वस्य कारणत्वात्; अन्यथा परमाणोरपि प्रत्यक्षत्वापत्तिरिति – वाच्यम् । जालसूर्यमरीचिकास्थस्य त्रसरेणुशब्दवाच्यस्यैव परमाणुत्वेन तदतिरिक्तपरमाणोरस्वीकारात्, तस्य च प्रत्यक्षाङ्गीकारेण प्रत्यक्षे महत्त्वस्य हेतुत्वानभ्युपगमात् ॥

अथ – जीवस्याणुत्वे एकस्य जीवस्यानेकशरीरावच्छेदेन सुखदुःखादिप्रतिसन्धानानुपपत्तिः; न चेष्टापत्तिः, सौभरिप्रभृतीनामेकदा अनेकशरीरावच्छेदेन सुखदुःखादिसाक्षात्कारस्यपूराणादिसिद्धत्वात् । न च – जीवस्य तत्र तत्र गमनवशादनेकशरीरावच्छेदेनापि सुखाद्युपलम्भो- पपत्तिः, वेगातिशयाच्च क्रमेण जायमानानामपि सुखदुःखाद्यनुभवानाम् यौगपद्यभ्रमः शतपत्रच्छेदनयौगपद्यभ्रमवदिति – वाच्यम् । योगिनायौ भ्रमासम्भवात्, प्रयत्नवदात्मसम्योगस्यैव शरीरपतनप्रतिबन्धकत्वेनानेकदेशविद्यमानानामनेकशरीराणाम् युगपद्वारणानुपपत्तेश्च, एकशरीरे तादृशात्मसम्योग दशयामन्यशरीरे सम्योगनाशात् – इति चेन्न । प्रयत्नवदात्मसम्योगत्वेन पतनप्रतिबन्धकत्वे गौरवात्सम्योगेन प्रयत्नत्वावस्थापन्नधर्मभूतज्ञानस्यैव शरीरपतने प्रतिबन्धकत्वात्, आत्मन एकशरीरस्थत्वेऽपि धर्मभूतज्ञानस्य मणिप्रभान्यायेन अनेकशरीरेषु प्रसरणोपपत्तेः, निरात्मकेषु शरीरेषु धर्मभूतज्ञानव्याप्त्यैव सुखदुःखाद्यनुभवोपपत्तेः, जीवस्य सुखाद्यनुभवार्थम् तत्र तत्र गमनाकल्पनात्, *गुणाद्वाऽऽलोकवत्*, *प्रदीपवदावेशस्तथा हि दर्शयति* इति सूत्राम्याम् तथा प्रतिपादनात् ॥ न च – सुषुप्त्यवस्थायाम् शरीरधारणानुपपत्तिः, निरात्मकशरीरस्य धर्मभूतज्ञानसम्योगेनैव धारणस्य वक्तव्यत्वात्तद्दशायाम् धर्मभूतज्ञानप्रसरणाभावादिति – वाच्यम्; तद्दशायामपि निरात्मकशरीरेषु धर्मभूतज्ञानसम्योगाभ्युपगमात्; विषयतारूपविजातीयसम्योगस्यैव तदानीमस्वीकारात् ॥ न च – *अस्य
सोम्य महतो वृक्षस्य यदेकाम् शाखाम् जीवो जहाति, अथ सा शुष्यति* इति श्रुत्या जीवस्य सङ्कोचविकासप्रतीत्या अणुत्वानुपपत्तिरिति – वाच्यम्; तादृशश्रुत्या धर्मभूतज्ञानसङ्कोचविकासयोरेव शरीरशोषणाशोषणप्रयोजकत्वावगमात्, शाखादौ भोगावच्छेदकताप्रयोजकादृष्टनाशाधीनधर्मभूतज्ञानविभागानुकूलव्यापार-स्यैव जहात्यर्थत्वात् ॥ उक्तम् चाधिकरणसारावल्याम् –
*मैवम् शाखादिभोगायननियतिकरोपाधिनाशात्प्रहाणम् क्षेत्रादिन्यायतोऽसावभिमतिविरहात्स्यादधीतो जहातिः ॥* इति ॥

न चैवम् – निरात्मकशरीरेषु स्वापार्थम् प्रवृत्त्यनुपपत्तिः, सौषुप्तिकात्मस्वरूपात्मकसुखानुभवार्थमेव प्रवृत्तेर्वक्तव्यत्वात्तत्रात्मस्वरूपाभावात्तत्स्वरूपात्मकसुखानुभवासम्भवादिति – वाच्यम्; जाग्रदवस्थाकालीनशरीरायासजनित दुःखोपशान्त्यर्थमेव तत्र प्रवृत्त्युपपत्तेः –
*स्वापे सुखत्वाभिज्ञानात्तद्विच्छेदे च रोषतः ।
तदर्थमन्यत्यागाच्च श्रुतिस्मृतिशतैरपि ॥*

इति विष्णुचित्तवचनस्य स्वापार्थप्रवृत्तेस्सुखानुभवार्थत्वपरस्य च सात्मकशरीरविषयत्वेन तद्विरोधाभावात् ॥  न च –वीजगताङ्कुरत्वावस्थायाश्चैत्रभोगजनिकायास्तददृष्टजन्यत्वा-दङ्कुरत्वावस्थाम् प्रत्यात्मगतादृष्टस्य स्वाश्रयसम्योगेन कारणत्वम् वाच्यम्, आत्मनोऽणुत्वे च तन्न सम्भवतीति – वाच्यम् । कार्यसामान्ये अदृष्टस्य स्वाश्रयसम्योगेन हेतुत्वे शब्दादावदृष्टस्य कारणत्वानुपपत्तेः, विभोरात्मनः विभावाकाशे सम्योगासम्भवात् नैयायिकैर्विभुद्वय- सम्योगानुपगमात्; स्वाश्रयसम्युक्तसम्योगेन अदृष्टस्य हेतुत्वे चाणुत्वपक्षेऽप्यनुपपत्तिविरहात्स्वाश्रयजीवसम्युक्तेश्वर सम्योगस्य बीजेऽपि सत्त्वात् । अदृष्टस्य भगवत्सङ्कल्परूपताया वक्ष्यमाणत्वेन भगवदात्मनश्च विभुत्वेन जीवस्याणुत्वेऽपि स्वाश्रयसम्योगेनैवादृष्टस्य हेतुत्वसम्भवाच्च, विभुद्वयसम्योगाङ्गीकारेण कालगतपरिणामेऽपि तत्सम्बन्धेन हेतुताया अबाधात् ॥
स चायमात्मा ज्ञानाश्रयो ज्ञानस्वरूपश्च । *विज्ञातारमरे केन विजानीयात्*, *जानात्येवायम् पुरुषः* इत्यादिश्रुत्या ज्ञानाश्रयत्वस्य *विज्ञानम् यज्ञम् तनुते*, *यो विज्ञाने तिष्ठन्* इत्यादिश्रुत्या ज्ञानस्वरूपत्वस्य च प्रतिपन्नत्वात् ॥ यद्यपि – *विज्ञानम् यज्ञम् तनुते* इत्यादौ विज्ञानपदम् तद्गुणसारत्वादितिसूत्रे ज्ञानाश्रयपरम् व्याख्यातम् । तथापि *एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ताविज्ञानात्मा पुरुषः* इति श्रुतौ द्रष्टा श्रोतेति विशेषतो वोद्धेति सामान्यतश्च ज्ञानाश्रयत्वस्योक्तत्वेन विज्ञानात्मेत्यस्य ज्ञानाश्रयत्वपरत्वे पौनरुक्त्यापत्त्या ज्ञानस्वरूपत्वपरत्वावश्यकतया ज्ञानस्वरूपत्वसिद्धिः ॥
अथ – आत्मनो ज्ञानत्वम् न सम्भवति, तस्य सविषयकत्वव्याप्यत्वात्, आत्मनश्च सविषयकत्वासम्भवात् । न तावदात्मनस्स्वभिन्नविषयकत्वम्; अनङ्गीकारात्; अङ्गीकारे च धर्मभूतज्ञानवैयर्थ्यापत्तेः । नापि स्वमात्रविषयकत्वम्, भाष्ये निष्प्रकारकज्ञाननिराकरणेन तद्विरोधात् ॥ न च –  आत्मस्वरूपज्ञानस्या

हमित्याकारकस्य प्रत्यक्त्वैकत्वप्रकारकत्वाङ्गीकारान्न निष्प्रकारकत्वमिति – वाच्यम्; प्रत्यक्त्वस्यात्मविशेषणत्वेनात्मस्वरूपत्वासम्भवेन आत्मस्वरूपज्ञानस्य तत्प्रकारकत्वासम्भवात्, प्रत्यक्त्वात्मनोरभेदे आधाराधेयभावासम्भवात् । अन्यथा *भेदव्यपदेशाच्चान्यः* *उभयेऽपि हि भेदेनैनमधीयते* इत्यादौ च *आदित्ये तिष्ठन् य आत्मनि तिष्ठन्* इत्यादेराधाराधेयभावप्रतिपादकस्य भेदप्रतिपादकत्वेनोपन्यासासङ्गत्यापत्तेः । एकत्वस्य सङ्ख्यारूपतया आत्मस्वरूपत्वासम्भवाच्च – इति ॥ मैवम् । प्रत्यक्त्वैकत्वयो- रात्मस्त्ररूपातिरिक्तत्वेऽपि तन्मात्रप्रकारकत्वस्य स्वरूपात्मकानुभवे अभ्युपगमेन विरोधाभावात् । अनतिरिक्ततापक्षेऽपि न दोषः, अभेदेऽप्याधाराधेयभावोपगमात् ॥  न चोक्तसूत्रविरोधः *य आदित्यमन्तरो यमयति*, *य आत्मानमन्तरो यमयति* इति नियाम्यनियामकभावोक्त्या तत्सहिताधाराधेयभावस्य भेदव्याप्यत्वेऽपि शुद्धाधारावेयभावस्य अभेदेऽपि सम्भवात् । एवमनुकुलत्वस्यापि तत्र प्रकारतया भानमनुमतम्; अहमर्थः प्रत्यक्त्वेनानुकूलत्वेनैकत्वेन च स्वतोभातीति श्रुतप्रकाशिकायामभिधानात् । अत एव सुख- महमस्वाप्समिति प्रत्यभिज्ञोपपत्तिः; अन्यथा सुषुप्तिकाले आत्मगतानुकूलत्वस्य अननुभूतत्वे तत्प्रतिसन्धानासम्भवात्, तद्द्शायाम् धर्मभूतज्ञानस्यात्यन्तसङ्कुचितत्वेन तेनानुकूलत्वस्य दुर्ग्रहत्वात् ॥ न च स्तोकया पचतीत्यादौ पाकस्य स्तोकत्वमिव सुखमहमस्वाप्समिति प्रतीतौ स्वापस्यैव सुखरूपत्वम् भासते, न त्वात्मनः; तथा च स्वगतानुकूलत्वस्य आत्मग्राह्यत्वेऽपि स्वापगतानुकूलत्वस्य तेन ग्रहणासम्भवात्प्रतिसन्धानानुपपत्तिः तदवस्थैवेति – वाच्यम् | ज्ञानसामान्याभावरूपस्यात्मगतस्वापस्याधि-करणस्वरूपत्वेन तद्गतानुकूल्यस्यात्मगतानुकूल्यादनतिरिक्तत्वात् ॥

ननु – सुखमहमस्वाप्समिति ज्ञानस्य प्रत्यभिज्ञानरूपत्वम् न पूर्वाननुभूतयोरतीतकालस्वापयोरपि तत्र भानात्,
प्रत्यभिज्ञायामसन्निकृष्टार्थस्य पूर्वानुभूतस्यैव भाननियमात् ॥ अथ – स्वापकालाम्शेऽनुमितिरूपमेकम् ज्ञानम्, सुखविशिष्टात्माम्शे च प्रत्यभिज्ञारूपमपरम् ज्ञानमिति ज्ञानद्वयात्मकमेव सुखमहमस्वाप्समिति ज्ञानम् । जागराद्यक्षणः कालपूर्वकः, कालत्वात्, द्वितीयादिक्षणवत्- इत्यनुमानेन पूर्वकालमनुमाय; तत्कालावच्छिन्नोऽहम् ज्ञानाभाववान्, ज्ञानसामग्रीविरहवत्त्वात्, तुल्ययोगक्षेमे आत्मादौ स्मर्यमाणेऽपि तद्वत्तया नियमेन अस्मर्यमाणत्वाद्वेति प्रयोगासम्भवात् । उक्तम् च  न्यायसिद्धाञ्जने –

*प्रत्यक्स्वयम्प्रभसुखे नित्ये पुम्सि व्यवस्थिते ।

अस्वाप्सम् सुखमित्यादौ कालाद्यम्शेऽनुमास्थितिः ॥* – इति चेन्न ॥ ज्ञानद्वयकल्पनापेक्षया आत्मसुखाम्शयोरप्यनुमितिरूपत्वकल्पने लाघवात् ॥ इति चेत् ॥
अत्र व्यासाचार्याः – सुखमस्वाप्समिति ज्ञानस्य प्रत्यभिज्ञा-रूपत्वम् स्वरसतः प्रतीयते, स्वापकालाम्शे च प्रत्यभिज्ञारूपत्वाम्भवेऽपि सुखविशिष्टात्माम्शे तत्स्वरूपतासम्भवात्प्रतीतिस्वारस्यानुरोधेन ज्ञानद्वयरूपताकल्पनम् युक्तम् । यथा – प्रातचत्वरे गजो नासीदिति ज्ञानम् ज्ञानद्वयात्मकम्; तत्र हि प्रातश्चत्वरमात्रमनुभूतम्, न गजाभावः; प्रतियोगिभूतगजास्मरणात् । पश्चात्तु गजः किम् स्थित इति पृष्टे योग्यार्थास्मरणलिङ्गेन गजाभावोऽनुमीयते । पूर्वोक्तरीत्या कालोऽपि तद्वत् ॥
— इत्याहुः ॥
न च – उक्तज्ञानस्यात्माम्शेऽपि प्रत्यभिज्ञारूपत्वम् न सम्भवति, सम्स्कारजन्यप्रत्यक्षस्यैव प्रत्यभिज्ञारूपत्वादात्मस्वरूपात्मकानुभवस्य नित्यत्वेन तस्य सवोस्कारजनकत्वाकल्पनात् चिरातीतस्य अनुभवस्य कालान्तरभाविस्मरणप्रजनकतानिर्वाहार्थमेव द्वारतया सवोस्कारस्यानित्यानुभवस्थले कल्पनीयत्वान्नित्यानुभवस्थले च तत्कल्पनस्य विफलत्वादिति – वाच्यम्; स्वजन्यसवोस्कारवत्तासम्बन्धेनानुभवस्य नित्यानित्यसाधारण्येनैक- हेतुता निर्वाहाय नित्यानुभवस्थलेऽपि सम्स्कारकल्पनस्यावश्यकत्वात्; अन्यथा नित्यानुभवस्य साक्षादनित्यानुभवस्य च परम्परया हेतुत्वमिति कार्यकारणभावद्वयापत्तेः ॥
अयम् चात्मा कर्ता; भोक्तृत्वात्, चेतनोऽहम् करोमीति प्रतीत्या आत्मनि कृत्याश्रयत्वरूपकर्तृत्वस्य प्रत्यक्षसिद्धत्वाच्च । न च – जपाकुसुमस्थम् लौहित्यम् स्फटिक इवान्तःकरणगतम् कर्तृत्वमात्मन्यध्यस्यते, न तु तात्त्विकम्; निर्विकारत्वश्रुतिविरोधात्, सुषुप्तौ बुद्ध्यभावे कर्तृत्वादर्शनाच्चेति – वाच्यम्; तथा सति रक्तम् कुसुममितिवत्कदाचित् मनः कर्त्रिति प्रमा, लोहितस्स्फटिक इतिवच्चैतन्यम् कर्त्रिति भ्रमश्च स्यात्; सुषुप्तावन्तःकरणाभावेऽप्यात्मनि श्वासादिकर्तृत्वदर्शनात् सुषुप्तौ भूर्भुवरित्येव श्वसितीति श्रुतेश्व, आत्मनि कर्तृत्वस्याप्यौपाधिकत्वासम्भवात् । किञ्च– आत्मनोऽकर्तृत्वे बुद्धिरेव श्रवणादिकर्त्रीति तस्या एव तत्फलम् मोक्षोऽपि स्यात्; शास्त्रफलम् प्रयोक्तरीतिन्यायात्, अन्यथाऽतिप्रसङ्गात् । न च – जातोष्टिपितृयज्ञयोर्व्यभिचारान्न कर्तुरेव फलभाक्त्वनियम इति – वाच्यम्, तत्रापि पूतपुत्रकत्वस्वर्गभागिपितृकत्वयोः कर्तृगतयोरेव फलत्वात् । एवम् तन्मनोऽकुरुतेति श्रुतौ मनसः कृतिकर्मत्वस्य *श्रृण्वन्तश्श्रोत्रेण विद्वाम्सो मनसा* इत्यादिश्रुतौ *शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।* इति स्मृतौ च करणत्वस्य प्रतिपन्नत्वेन कर्तृत्वासम्भात्; कर्तृत्वकर्मत्वयोरेकत्रासम्भवस्य *कर्तृकर्मव्यपदेशाच्च* इति सूत्रसिद्धत्वात् । *मन उदक्रामन् मिलित इवाश्नन्पिबन्नास्ते वा* इत्यादिश्रुतौ मनस उत्क्रमणेऽप्यात्मनः कर्तृत्वस्य, तथा—
*परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ॥*
इत्यादिस्वरूपाविर्भावरूपमुक्तावपि कर्तृत्वस्य प्रतिपन्नत्वेन नास्यौपाधिकतासम्भवः । तच्च कर्तृत्वम् परमपुरुषहेतुकमिति – कर्ता शास्त्रार्थवत्त्वात्, परात्तु तच्छ्रुतेः- इत्यधिकरणयोः प्रपश्चितम् ॥
न च – जीवकृतिसामान्यस्येश्वरकृतिजन्यत्वे कलञ्जभक्षणादिकर्तुरपि पापाद्यनुपपत्तिः, आश्रयतासम्बन्धेन पापम् प्रति स्वानुकूलकृतिमत्त्वसम्बन्धेन कलञ्जभक्षणादेर्हेतुत्वे बलात्कलञ्जभक्षणम् कारिते पुरुषे पापापत्तिवारणाय स्वानुकूलकृतावितरकृत्यजन्यत्वनिवेशस्यावश्यकत्वादितरकृत्यजन्य-स्वानुकूलकृतिमत्त्वसम्बन्धेन कलञ्जभक्षणादेस्तादृशकर्तर्यभावादिति – वाच्यम्; जीवकृतिसामान्यस्येश्वरसङ्कल्पजन्यत्वेन तत्कृतिजन्यत्वानङ्गीकारात्, तदङ्गीकारेऽपीतरकृतिनिष्ठासाधारणकारणताकान्यत्वस्यैव निवेशादीश्वरकृतेश्च साधारणकारणत्वेनादोषात् ॥ न च –
*एष ह्येव साधु कर्म कारयति, तम् यमेभ्यो लोकेभ्य उन्निनीषति । एष एवासाधुकर्म कारयति, तम् यमधो निनीषति ॥* इति श्रुत्या,
*अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गम् वा श्वभ्रमेव वा ॥* इति स्मृत्या च जीवनिष्ठसाधुसाधुकर्मानुकूलकृतिम् प्रति उन्निनीषाजन्यभगवद्यत्नस्य, असाधुकर्मानुकूलकृतिम् प्रति चाधोनिनीषाजन्यभगवद्यत्नस्य हेतुताबोधनात्, भगवत्कृतिनिष्ठासाधारणकारणताकत्वमेव जीवकृतावस्तीति – वाच्यम्; साधुकर्मकारयितृत्वश्रुतेरतिमात्र- भगवदानुकूल्यप्रसक्तपुरुषविशेषविषयत्वेनासाधुकर्मकारयितृत्व-श्रुतेश्चातिमात्रप्रातिकूल्यप्रसक्तपुरुषविशेषविषयत्वेन सर्वविषयत्वाभावात्तदतिरिक्तपुरुषकृतौ भगवत्सङ्कल्पादेस्साधारणतयैव निर्वाहे असाधारणकारणत्वाकल्पनात् । न चैवमप्यतिमात्रप्रातिकूल्यप्रसक्तपुरुषे पापोत्पत्त्यनुपपत्तिरिति वाच्यम्; ईश्वरभिन्नेतरकृत्यजन्यत्वस्यैव स्वानुकूलकृतौ निवेशेन तादृशपुरुषेऽपि निषिद्धानुष्ठानस्य पापजनकत्वोपपत्तेः । न च – सिद्धान्ते पुण्यपापयोर्भगवदनुग्रहनिग्रहरूपतया निषिद्धानुष्ठातरि  भगवन्निग्रहानुपपत्तिस्तदवस्थैव; विषयतासम्बन्धेन तत्पुरुषीयनिग्रहम् प्रति तत्पुरुषानभिमतकरणस्य हेतुत्वे अयमस्मदनभिमतम् कुर्यादितीच्छादशायाम् तस्य निग्रहजनकत्वादर्शनेन, तत्पुरुषीयेच्छा- विरहविशिष्टतत्पुरुषानभिमतकरणस्य तत्पुरुषीयनिग्रहजनकत्वस्य वाच्यत्वात्, कलञ्जभक्षणादेर्भगवदनभिमतत्वेऽपि तदनुकूलकृतेर्भगवदिच्छाविरहविशिष्टत्वाभावाद्भगवतस्सङ्कल्पात्मक-    तादृशेच्छाविरहे तादृशकृतेरेवोत्पत्त्यनुपपत्तेरिति – वाच्यम्; अयम् यत्किञ्चित्कार्यम् कुर्यादित्यादीच्छासत्त्वे राजाद्यनभिमतकरणस्य राजनिग्रहजनकत्वदर्शनेन तत्तत्कार्यम् कुर्यादित्यादिरूपविशेषाकारेच्छा- विरहस्यैव निग्रहजनकतावच्छेदकगर्भेनिवेश्यत्वात् । प्रकृते चायम् कलञ्जम् भक्षयेदिति विशेषाकाराया भगवदिच्छाया अभावादयम् स्वेष्टम् कुर्यादिति सामान्यसङ्कल्पेनैव तादृशकृत्युपपत्तेः, तदर्थम् विशेषसङ्कल्पानावश्यकत्वादिति दिक् ॥
जीवो द्विविधः – सम्सार्यसम्सारिभेदात् । पुण्यपान्पान्यतरवत्त्वम् सम्सारिणो लक्षणम् ॥
सम्सार्यपि द्विविधः – नित्यानित्यसम्सारिभेदात् । पुण्यपापान्यतरत्वावच्छिन्नाभाववदन्यत्वम् – नित्यसम्सारिलक्षणम् ।
स्वपूर्वकालीनत्वस्वसामानाधिकरण्योभयसम्बन्धेन तादृशान्यतरत्वावच्छिन्नाभावविशिष्टतादृशान्यतरवत्त्वम् – अनित्यसम्सारिलक्षणम् । नित्यसम्सारिसद्भावे प्रमाणम् तु *अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसम्यमाः ।* इत्यादिरूपा लीलाविभूतिनित्यतोक्तिः। *क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु* *न क्षमामि कदाचन* – इत्यादिकम् च ॥
परे तु – क्षिपाम्यजस्रमित्यादेर्विलम्बातिरेकपरत्वान्नित्य-सम्सारिसद्भावे प्रमाणाभाव एव । विमतो जीवो मोक्षसाधनज्ञानवान्, जीवत्वात्, सम्प्रतिपन्नजीववत् – इत्यनुमानेन जीवत्वावच्छेदेन मुक्तियोग्यतासिद्धौ नित्यसम्सार्यसम्भवात् । अन्यथा सर्वेषाम् स्वस्मिन् नित्यसम्सारित्वसन्देहसम्भवेन मोक्षसाधनानुष्ठाने कस्यापि  प्रवृत्तिर्नस्यादिति श्रवणादिविधिवैयर्थ्यापत्तिः; सम्सारिणामनन्तत्वाच्च सर्वेषाम् मुक्तियोग्यत्वेऽपि लीलाविभूतिनित्यतोपपत्तिः ॥ न च – सम्सारिणामनन्तत्वे *पादोऽस्यम् विश्वा भूतानि, त्रिपादस्यामृतऽ दिवि* इति सम्सार्यसम्सारिजीवानाम् एकपादत्वत्रिपादत्वतारतम्यकथनम् नोपपद्यत इति – वाच्यम्; मुहूर्तयामाहोरात्रकल्पादीनामानन्त्यस्य समानत्वेऽपि – यथा कल्पापेक्षयाऽहोरात्रादीनामाधिक्यम् तदपेक्षया च मुहूर्ताधिक्यम्, यथा वा सताम् द्रव्याणाम् च आनन्त्येऽपि द्रव्यानन्त्यापेक्षाया सदानन्त्याधिक्यम् तद्वदुपपत्तेः ॥  –  इत्याहुः ॥
असम्सारी द्विविधः – नित्यमुक्तभेदात् । पुण्यपापान्यतरवद्भिन्नत्वे सत्यणुत्वम् नित्यानाम् लक्षणम् । ईश्वरवारणायाणुत्वनिवेशः, ते चानन्तगरुडविष्वक्सेनादयः । *सदा पश्यन्ति सूरयः* इत्यादिभिस्सदापश्यदनेकद्रष्टृविशिष्टस्थानविधानान्नित्यसूरिसद्भावसिद्धिः । न चोक्तश्रुतेर्मुक्तप्रवाहविषयत्वमीश्वरविषयत्वम् वाऽस्त्विति वाच्यम्; सदापदार्थस्य कालत्वव्यापकत्वस्य मुक्तदर्शने वाधाद्भगवति बहुवचनार्थबहुत्वानुपपत्तेः । स्वसामानाधिकरण्यस्वसमानकालीनत्वोभयसम्बन्धेन कर्मप्रागभावविशिष्टान्यकर्मध्वम्ससमानाधिकरणपरमात्मानुभवरूपो यो मोक्षस्तद्वत्त्वम् – मुक्तलक्षणम् ॥
मोक्षहेतुश्च परविद्या; परविद्यात्वम् च ब्रह्मविषयकविद्यात्वम्, विद्यात्वम् च वेदविहितभक्तित्वम् । वेदविहितत्वनिवेशादुदासीनस्मृतिसन्ततौ नातिव्याप्तिः । वेदविहितत्वम् च वेदतात्पर्यविषयीभूतकृतिसाध्यत्वादिप्रकारकबोधविषयत्वम्; *स आत्मानमुपासीत मनोमयम् प्राणशरीरम्* इत्यादौ लिङः कृतिसाध्यत्वार्थकत्वात्, वेदार्थसङ्ग्रहे *लिङः कोऽर्थः परिगृहीतः* इति प्रश्नपूर्वकम् *यज देवपूजायामिति देवताराधनभूतयागादेः कर्तृव्यापार-साध्यताम् व्युत्पत्तिसिद्धाम् लिङादयोऽभिदधति* इत्युक्तेः; वेदतात्पर्यविषयीभूतकृतिसाध्यत्वप्रकारकबोधविषयत्वम् शाण्डिल्यविद्यादावस्तीति लक्षणसङ्गतिः, मनोमयत्वादिप्रकारकात्मविशेष्यकम् यत्कृतिसाध्यमुपासनम् तत्कर्तेति बोधस्य तद्वाक्यादुत्पत्तेः; कर्त्रधिकरणदीपादावाख्यातार्थमुख्यविशेष्यक-बोधस्योक्तत्वात्, लिङो लिङ्त्वेन कृतिसाध्यत्वार्थकत्वस्य आख्यातत्वेन कर्त्रर्थकतायाश्च सम्भवात् । बोधे वेदजन्यत्वमनिवेश्य वेदतात्पर्य- विषयत्वनिवेशात्सद्विद्यादौ नाव्याप्तिः; तत्र सदुपासीतेति विध्यभावेऽपि तस्य तावदेव चिरम् यावन्न विमोक्ष्ये, अथ सम्पत्स्ये* इति मोक्षसाधनत्वश्रवणेन विधिकल्पनस्यावश्यकतया सदुपासनविशेष्यक- कृतिसाध्यत्वप्रकारकबोधस्यापि सद्धिद्यातात्पर्यविषयत्वात् । अत एवोद्गीथविद्याविचारे भाष्ये उक्तम् –
*वेदनविषयविधिप्रत्ययाश्रवणेऽपि फलसाधनत्वश्रवणाद्वेदनविषये विधिः कल्प्यते ॥ * -इति ॥

वेदतात्पर्यम् च वेदोच्चारणप्रयोजकेच्छा, न तु वेदकर्मकाद्योच्चारण- प्रयोजकेच्छा; वेदस्यापौरुषेयत्वेन तत्कर्मकाद्योच्चारणस्यैवाप्रसिद्धेः । सा चेच्छा क्वचिदीश्वरसमवेता, क्वचिदध्यापकसमवेता च प्रसिध्यतीति नाप्रसिद्धिः । भक्तित्वम् च प्रीतिरूपतापन्नदर्शनसमानाकारध्रुवानुस्मृति- रूपध्यानत्वम्; प्रीतित्वम् चानुकूलत्वप्रकारकत्वम्; अनुकूलत्वम् च – यद्धर्मावच्छिन्नविषयता इतरेच्छानधीनेच्छाजनकतावच्छेदिका, तादृशधर्मरूपम् वैजात्यम् । इच्छायामितरेच्छानधीनत्वनिवेशादिष्टसाधनत्वव्युदासः । दर्शनसमानाकारत्वम् च – साक्षात्कारत्वव्यञ्जकविषयितावत्त्वम् । अनवरतभावनावशात् स्मृतावपि तादृशविषयिता जायते, *वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्* इत्यादौ तथा दर्शनात् ॥ यद्यपि – इदम् रजतमित्यादाविव वृक्षविशेष्यकम् रामादिप्रकारकम् ज्ञानम् भ्रमात्मकसाक्षात्कार एव; तथाऽपि – सिद्धान्ते असन्निकृष्टभ्रमस्थले  ग्रहणस्मरणात्मकज्ञानद्वयस्य तदीयविषययोर्निरूप्यनिरूपकभावस्य च स्वीकारात्स्मरणस्यैव लौकिकविषयितावत्त्वमभ्युपगन्तव्यम्; अन्यथा पश्यामीत्यस्यानुपपत्तेः । स्पष्टम् चेदम् ज्ञानयाथार्थ्यवादे ॥
न च एवमपि कामातुरपरिभावितवनितादि साक्षात्कारवत् ब्रह्मध्यानस्यापि भ्रमत्वापत्तिः, भावनारूपदोषजन्यत्वात्, उक्तस्थले भावनाया दोषत्वेन क्लृप्तत्वादिति – वाच्यम्; न हि भावनाजन्यत्वमुक्तकामिनीसाक्षात्कारे अप्रामाण्यप्रयोजकम्ता, किम् तु बाधितविषयत्वम्, भावनानपेक्षेऽपि शुक्तिरजतादिभ्रमे बाधादेवाप्रामाण्यस्वीकारात्, ब्रह्मणश्च सर्वव्याप्तस्य सर्वप्रमाणाबाधितत्वात्तद्भावनाजन्यज्ञानस्यापि प्रामाण्याविघातात्, भावनायाश्च व्यवहितकामिनीसाक्षात्कारे दोषत्वेऽपि ब्रह्मध्याने दोषत्वासम्भवात्; अन्यथा शङ्खपीतत्वभ्रमकारणीभूतस्य पित्तद्रव्यस्य स्वविषयकज्ञानेऽप्यप्रामाण्यप्रयोजकत्वापत्तेः, क्वचिदेव कस्यचिद्दोषत्व-मित्येवाङ्गीकार्यत्वात् ॥ ध्रुवानुस्मृतित्वम् च – घटिकाद्यात्मककाल- निष्ठावान्तरकालावच्छिन्नाभावाप्रतियोगित्वम् धारावाहिकप्रत्यक्षस्थल इव तावत्पर्यन्तमेकस्या एव स्मृतिव्यक्तेस्स्वीकारात् ॥
उक्तम् च प्रज्ञापरित्राणे वरदनारायणभट्टारकैः –
*स्तम्भस्स्तम्भस्स्तम्भ इति धीः धारावाहिका मता ।
धारावाहिकविज्ञानमेकम् ज्ञानम् मतम् हि नः ॥ * – इति ॥

यदि च – धारावाहिकज्ञानस्थले नैका व्यक्तिः, किम् तु सजातीयज्ञानधारैव । उक्तम् च श्रीमति भाष्ये – *ध्यानम् च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपा ध्रुवानुस्मृतिः* इति – इत्युच्यते; तदा घटिकाद्यात्मककालनिष्ठावान्तरकालावच्छिन्नो यस्स्वाश्रयत्वस्वसमानविषयकस्वसमानाधिकरणस्मृत्याश्रयत्वैतदन्यतर-सम्बन्धावच्छिन्नप्रतियोगिताकोऽभावस्तादृशाभावाप्रतियोगित्वम् ध्रुवा- नुस्मृतित्वमिति बोध्यम् । ब्रह्मविषयकत्वम् च सत्यत्वज्ञानत्वानन्दत्वामलत्वनिष्ठप्रकारतानिरूपित ब्रह्मनिष्ठविशेष्य-ताकत्वम् । तेन मनो ब्रह्मेत्युपासीतेत्यादिनाभिहितेषु प्रतीकोपासनेषु  नातिव्याप्तिः । परविद्यासामान्ये सत्यत्वादि-प्रकारकत्वम् च – आनन्दादयःप्रधानस्य, इतरे त्वर्थसामान्यादिति सूत्रसिद्धम् ॥
सा च विद्या – सदानन्दमयान्तरादित्यशाण्डिल्यदहरमधुभूमवैश्वानर- पञ्चाग्न्यादिविद्याभेदाद्वहुविधा ॥ तत्र – जगदुपादानत्व-तत्तदनुप्रवेष्टृत्व-नामरूपव्याकर्तृत्वजगज्जन्मस्थितिलयहेतुत्वादिगुण-प्रकारकसच्छब्द- वाच्यपरब्रह्मविशेष्यकोपासनम्सद्विद्या । सा च – सदेव सोम्येदमग्र आसीदित्यादिना छान्दोग्ये प्रतिपादिता ॥ विपश्चित्त्व-जगत्कारणत्वानन्दैकतानत्वेतरानन्दयितृत्व-स्वसङ्कल्पप्रयोज्य-चिदचिदात्मकप्रपञ्चस्रष्टृस्व-सृज्यवर्गानुप्रवेशकृततदात्मकत्व- भयाभयहेतुत्व-वाय्वादित्यादिप्रशासितृत्व निरतिशयानन्दाश्रयत्वादि-प्रकारकानन्दमयविशेष्यकभक्तिः – आनन्दमयविद्या । सा च तैत्तिरीयकगता ॥ मनोमयत्व-प्राणशरीरकत्व-भारूपत्व-सत्यसङ्कल्प-त्वाकाशशरीरकत्व-सर्वगन्धत्व-सर्वरसत्वावाप्तसमस्तकामत्वावाकित्वा-नादरत्व-हृदयोपाधिकाणुत्वादिप्रकारकात्मविशेष्यकोपासनम्- शाण्डिल्य – विद्या । सा च छान्दोग्ये बृहदारण्यकेऽग्नि\रहस्ये चाम्नाता ॥
अथ – बृहदारण्यके सत्यसङ्कल्पत्वाद्यप्रतिपादनात्तत्प्रकारकत्व-घटितोक्तलक्षणस्य तदुक्तशाण्डिल्यविद्यायामव्याप्तिः । न च -सत्यसङ्कल्पत्वादिप्रकारकत्वमनिवेश्य मनोमयत्वभारूपत्वहृदयो- पाधिकाणुत्वैतत्त्रितयप्रकारकत्वमेव लक्षणे निवेश्यत इति नाव्याप्तिः, उक्तगुणत्रयस्य छान्दोग्येऽग्निरहस्ये बृहदारण्यके च सत्त्वादिति-वाच्यम् । शाण्डिल्यविद्यायाम् उक्तगुणत्रयप्रकारकत्वेनैव कारणत्वे छान्दोग्याग्नि- रहस्ययोः प्राणशरीरकत्वसत्यसङ्कल्पत्वादीनाम् प्रतिपादनस्य वैयर्थ्यप्रसङ्गेन प्राणशरीरकत्वादिप्रकारकत्वस्यापि कारणतावच्छेदकत्वावश्यकत्वात् बृहदारण्यकोक्तशाण्डिल्यविद्यायास्तत्प्रकारकत्वाभावे मोक्षजनकत्वानुपपत्तेः । न च – सर्ववेदान्तप्रत्ययम् चोदनाद्यविशेषात्
इत्यादिना रूपैक्यस्य विद्यैक्यप्रयोजकतया गुणोपसम्हारप्रयोजकत्वा- भिधानात् प्रकृते मनोमयत्वभारूपत्वविशिष्टात्मन एव बृहदारण्यकेऽप्युपास्यत्वोक्त्या रूपैक्याद्गुणोपसम्हारावश्यकत्वेन तद्विद्याया अपि प्राणशरीरकत्वादिप्रकारकत्वान्मोक्षजनकतासम्भव इति – वाच्यम् । विद्यैक्यस्य तत्प्रयोजकरूपैक्यस्य च बृहदारण्यकोक्तविद्यायामसम्भवात् । तथा हि – विद्यैक्यम् च न तावदभिन्नत्वम्; पुरुषभेदेन कालभेदेन च भिन्नानाम् मनोमयत्वादिप्रकारकोपासनरूपशाण्डिल्यविद्यानामभेदायोगात्;  किन्त्वभिन्नकारणताश्रयत्वम्, शाण्डिल्यविद्यानाम् सर्वासामेकरूपेण कारणत्वात्; एकविषयतावत्त्वम् वा, समानाकारज्ञानेषु विषयताया ऐक्यात् । तत्प्रयोजकम् रूपैक्यमपि न तावदेकविशेष्यकत्वम्, उद्गीथविद्यानाम् सर्वासामप्युद्गीथात्मकैकविशेष्यकत्वेनैक्यापत्तेः । किम् तु तदनिवर्त्यसम्शयनिवर्तकतावच्छेदकविषयताशून्यत्वरूपम् तदनतिरिक्तविषयकत्वमेव तदैक्यप्रयोजकम् रूपैक्यम् । तथा च – *तत्रापि दहम् गगनम् विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्* इति तैत्तिरीयकगता दहरविद्या छान्दोग्यगतदहरविद्यानिष्ठकारणतावती तन्निष्ठविषयितावती वा, तादृशविद्यानिष्ठप्रतिबन्धकताकान्य सम्शयनिवर्तकतावच्छेदकविषयिताशून्यत्वात्, छान्दोग्यगतदहरविद्यावत् इत्याद्यनुमानेन भिन्नभिन्नशाखागतविद्यानामैक्यम् साधनीयमिति सर्ववेदान्तप्रत्ययन्यायाभिप्रेतम् । तथा च – बृहदारण्यकगतशाण्डिल्यविद्याया अग्निरहस्याद्युक्तशाण्डिल्यविद्यैक्यम् न सम्भवति, तादृशोपासनाप्रतिबध्यवशित्वेशानत्वादिकोटिकसम्शय निवर्तकतावच्छेदकविषयितावत्त्वेन तच्छून्यत्वात्मकरूपैक्याभावात् ॥ इति चेत् ॥

मैवम् – सर्वस्थितिप्रयोजकसङ्कल्पवत्त्वरूपवशित्वस्य सर्वोत्पत्ति- प्रयोजकसङ्कल्पवत्त्वरूपसर्वेशानत्वस्य सर्वचेष्टाप्रयोजकसङ्कल्पवत्त्व-रूपसर्वप्रशासितृत्वस्य च बृहदारण्यकोक्तस्य अग्नि  रहस्यच्छान्दोग्ययोस्सत्यसङ्कल्पपदेनोक्तत्वात् सत्यपदस्य सर्वस्थितिप्रयोजकत्व-सर्वोत्पत्तिप्रयोजकत्व-सर्वचेष्टाप्रयोजकत्व-परत्वात् । सर्वनिष्ठस्वत्वनिरूपकत्वरूपसर्वाधिपतित्वस्य च सर्वम् स्वामितया प्राप्तवानित्यर्थकेन सर्वमिदमभ्यात्त इत्यनेनोक्तत्वेन बृहदारण्यकोक्त-विद्यायाम् रूपैक्यनिर्वाहात् । स्पष्टम् चेदम् *समान एवम् चाभेदात्* इत्यत्र भाष्ये ॥
अथ – एवमपि छान्दोग्यादौ ज्यायान्पृथिव्या इत्यादिना ज्यायस्त्व-स्योक्त्या तत्प्रकारकत्वस्यापि हेतुतावच्छेदकत्वमावश्यकम्, अन्यथा तत्प्रतिपादनवैयर्थ्यात् । तच्च – न सम्भवति, हृदयावच्छिन्नपरमात्मनि पृथिव्याद्यवधिकज्यायस्त्वासम्भवात् ॥ न च – तादृशज्यायस्त्वस्यावच्छिन्ने असम्भवेऽपि स्वरूपे सम्भवान्नानुपपत्तिः; एवम् चानन्दादय इत्यस्यापि न विरोधः, हृदयावच्छिन्नपरमात्मन्यपि स्वरूपे अपरिच्छिन्नत्वरूपानन्त्यस्य सम्भवेन तत्प्रकारकत्व- निर्वाहादिति – वाच्यम् । तथा सति *सम्भृतिद्युव्याप्त्यपि चातः* इत्यधिकरणविरोधापत्तेः, तत्र हृदयादिरूपाल्पस्थानगोचरासु विद्यासु द्युव्याप्तिप्रकारकत्वासम्भवस्य प्रतिपादनात्, उक्तरीत्या द्युव्याप्ते-र्हृदयावच्छिन्ने असम्भवेऽपि स्वरूपे सम्भवात् ॥ न च द्युव्याप्ति- राकाशावधिकमहत्त्वम्; तच्च स्वरूपे न सम्भवति, स्वरूपगतपरम-  महत्त्वस्य निरवधिकत्वेनाकाशाद्यवधिकत्वाभावात्; मध्यमपरिमाण एवान्यापेक्षयाऽल्पत्वरूपत्वस्येतरापेक्षया महत्त्वरूपत्वस्य चोपपत्त्यर्थम् सावधिकत्वकल्पनादिति – वाच्यम् । तथा सति पृथिव्याद्यवधिक-ज्यायस्त्वस्यापि शाण्डिल्यविद्याप्रकारत्वासम्भवतादवस्थ्यात्, आनन्दादय इतिसूत्रोक्तानन्त्यस्यैव स्वरूपाम्शे प्रकारतया भानसम्भवात् – इति चेन्न ॥ ज्यायान्पृथिव्या इत्यादेरुपास्यमाहात्म्यप्रतिपादनपरत्वेन शाण्डिल्यविद्याबेद्यत्वानुपगमात्, सम्भृत्यधिकरणभाष्ये तथा प्रतिपादनादिति दिक् । उक्तरीत्यैव बिद्यान्तराणाम् लक्षणान्यूह्यानि ॥
तासाम् च विद्यानाम् तृणारणिमणिन्यायेन पृथगेन हेतुत्वम्, न तु दण्डचक्रादिन्यायेन मिलितानाम् हेतुत्वमिति विकल्पोऽविशिष्टफल-त्वादिति सूत्रसिद्धम्; दहरादिविद्यागतमोक्षोत्पादप्रयोजकतावच्छेदक-समुदायत्वशून्यत्वे सति मोक्षोत्पादप्रयोजकतावच्छेदकसमुदायत्वा-श्रयरूपभिन्नसामग्नीप्रविष्टत्वस्यैव विकल्पशब्दार्थत्वात्, अव्यवहितोत्तरत्वनिवेशाच्च-न परस्परम् व्यभिचार इति बोध्यम् । अत्र अविशिष्टफलत्वादिति सूत्रयता मुक्तावानन्दतारतम्यम् निरस्तम्; ब्रह्मविद्यासामान्यस्यैकजातीयफलजनकत्वाभिधानात्, भोगमात्रसाम्यलिङ्गाच्चेति सूत्रोक्तम्य भोगसाम्यस्य सम्भवाच्च । तथा हि-अनुकूलत्वप्रकारकसाक्षात्कारो भोगः, तत्साम्यम् च समान- विषयकत्वम् । तथा च प्रमेयत्वव्यापकानुकूलत्वनिष्ठप्रकारता-निरूपितविशेष्यताकसाक्षात्कारवत्त्वमेव समानभोगवत्त्वम्, *सदा पश्यन्ति सूरयः* इत्यनेन नित्यानाम्, *सर्वता ह पश्यः पश्यति* इत्यनेन मुक्तानाम् चेश्वरस्येव सर्व साक्षात्कारवत्त्वबोधनात्तदम्शे वैलक्षण्याभावात् परस्परमीश्वरेण च भोगसाम्यमुप॒पन्नम् । उक्तम् च तत्त्वमुक्ताकलापे –
*शेषाणाम् शेषिणश्च स्फुरति सुखतया सर्वदा सर्वतत्त्वे नित्या-नाम् मुक्तिभाजामपि भुवनकृता भोगमात्रम् समानम् ॥* – इति ॥
न च – मुक्तानाम् दुःखादिसाक्षात्कर्तृत्वे दुःखित्वापत्त्या न सर्वसाक्षात्कारसम्भवः; *न पश्यो मृत्युम् पश्यति, न रोगम् नोत दुःखताम्* इति श्रुत्या दुःखादिसाक्षात्कारनिषेधाच्च, *सर्वम् ह पश्यः पश्यति* इत्यस्य सङ्कोचावश्यकत्वादिति – वाच्यम् । स्वतोऽनुकूलभूतभगवद्विभूतित्वेन सर्वस्याप्यनुकूलत्वेन दुःखादेरपि मुक्तान्प्रति प्रतिकूलत्वाभावेनानुकूलतया दुःखादिसाक्षात्कर्तृत्व-सम्भवात्तस्य दुःखित्वानापादकत्वात् प्रतिकूलतया तत्साक्षात्कर्तृत्वस्यैव तथात्वात् स्वतोऽनुकूलभूते वस्तुनि प्रातिकूल्यस्य कर्मकृतत्वेन कर्मनाशे तत्कृतप्रातिकूल्यस्यासम्भवात्, नोतदुःखतामित्यस्य प्रातिकूल्यप्रकारकसाक्षात्कारनिषेधपरत्वेन दुःखसाक्षात्कारनिषेधपरत्वाभावाच्च ॥ न च – पूर्वानुभूतनरकादौ प्रातिकूल्यस्य पूर्वम् स्थितत्वादतीतादिसाक्षात्कर्तुर्मुक्तस्य तत्साक्षात्कर्तृत्वमावश्यकमिति – वाच्यम् । प्रतिकूलतया अनुभूतम् नरकादिकमपि भगवद्विभूतित्वादनुकूलमेवेति साक्षात्कारस्य मुक्तिदशायाम् स्वीकारेऽपि तस्य दुःखित्वानापादकत्वात्, प्रत्युतानन्दावहत्वात् ॥
अत्र माध्वाः – देवमनुष्यादीनाम् मुक्तानाम् परस्परमानन्दे तारतम्यमावश्यकम् साधनतारतम्यस्य साध्यतारतम्यप्रयोजकत्वात्, मनुष्योपासनापेक्षया देवोपासनस्य कालतो विषयतश्च प्रकृष्टत्वात्, अन्यथा प्रयत्नाधिक्यवैफल्यापत्तेः, प्रकृष्टाप्रकृष्टसाधनवतामेकजातीयफलप्रदत्वे भगवतो वैषम्यापत्तेश्च । श्रुतिसिद्धश्चायमर्थः –
*अक्षण्वन्तः कर्णवन्तस्सखायो मनोजवेष्वसमा बभूवुः ॥* – इति ॥ अत्र हि मनोजवशब्दिते ज्ञाने साम्याभावप्रतिपादनात्तारतम्यमवगम्यते, तेन च फलतारतम्यमर्थसिद्धम् । तथा *सैषानन्दस्य मीमाम्सा भवति* इत्यारभ्य मनुष्यादिचतुर्मुखपर्यन्तानाम् मुक्तानामानन्दतारतम्यम् प्रतिपाद्य *श्रोत्रियस्य चाकामहतस्य* इति तत्तन्मुक्तेष्वपि तत्तदानन्दतारतम्यातिदेशात्, परमसाम्यश्रुतेश्च भवन्मतेऽपि नासङ्कु  चितार्थत्वम्; जगत्कारणत्वलक्ष्मीपतित्वादेर्मुक्तेष्वसम्भवाच्छेषित्व-शेषत्वाणुत्वविभुत्वादिकृततारतम्यस्य दुरपह्नवत्वाच्च । अतो निर्दोषत्वमात्रेण तत्साम्यमुपपन्नमिति न तेनानन्दसाम्यसिद्धिः – इति वदन्ति ॥
अत्रोच्यते – मुक्तानामानन्दतारतम्यम् सङ्ख्याकृतम् परिमाणकृतम् विषयकृतम् स्वरूपकृतम् वा न सम्भवति ॥ सङ्ख्याकृततारतम्यम् हि एकतरकृतमुक्तानन्दपर्याप्तसङ्ख्याव्याप्यत्वव्यापकत्वान्यतरावच्छेदक-सङ्ख्याविभाजकधर्मवत्सङ्ख्यापर्याप्त्यधिकरणत्वमपरमुक्तानन्देषु । यथा अष्टवस्वपेक्षया सप्तर्षिषु द्वादशादित्येषु च वसुपर्याप्ताष्टत्वसङ्ख्याव्याप्यतावच्छेदकसप्तत्वत्वरूपसङ्ख्या विभाजकधर्मवत्सङ्ख्यपर्याप्त्याधिकरणत्वस्य सप्तर्षिषु तादृशसङ्ख्याव्यापकतावच्छेदकद्वादशत्वत्वरूपतादृशधर्मवत्सङ्ख्या- पर्याप्त्यधिकरणत्वस्य द्वादशादित्येषु च सत्त्वात् । एतादृशम् च तारतम्यम् मुक्तानन्देष्वसम्भवि; आनन्दस्य भवन्मते जीवस्वरूपत्वेन प्रत्येकमेकत्वेन सङ्ख्याकृतवैषम्याभावात् ॥ नापि परिमाणकृतम्, परिमाणकृततारतम्यम् ह्यामलकापेक्षया बिल्वबदरयोस्तत्सम्युक्तयावत्प्रदेशसम्योगयोग्यत्वसमानाधिकरणतद-सम्युक्तप्रवेशसम्योगयोग्यत्वतत्सम्युक्तयत्किञ्चित्प्रदेशसंयोग-योग्यत्वान्यतररूपम् प्रसिद्धम्, तादृशस्याणुरूपजीवस्वरूपानन्दे-ष्वसम्भवात् । नापि विषयकृतम् । तद्धि तद्विषययत्किञ्चिदविषय-कत्वतदविषयविषयकत्वान्यतररूपम्; यथा-घटपठोभयविषयक-ज्ञानापेक्षया एकविषयकज्ञान त्रितयविषयकज्ञानयोः; तादृशानन्दतारतम्यस्य, *सर्वम् ह पश्य: परयति* इत्यादिश्रुत्युक्तसर्वज्ञत्वेन समानेषु मुक्तेष्वसम्भवात् ॥ नापि स्वरूपकृतम्; तद्धि – मधुरमधुरतररसयोरिव  परस्परासमानाधिकरणवैजात्यवत्त्वम्, तादृशवैजात्यस्य मुक्तस्वरूपानन्देष्वप्रामाणिकत्वात् ॥
यदपि – तादृशवैजात्यसाधनायोक्तम्-प्रकृता बन्धनिवृत्तिः स्वसजातीयबन्धनिवृत्त्याश्रयप्रतियोगिकतारतम्यवन्निष्ठा, बन्धनिवृत्तित्वात्, निगलबन्धनिवृत्तिवत् – इति । तदपि न – तारतम्यस्य गुणगतवैजात्यरूपस्य बन्धनिवृत्त्याश्रयात्मनिष्ठत्वाभावात्, तदवृत्तिधर्मस्यैतत्प्रतियोगितारतम्यशब्देनाभिधाने मुक्तानन्तयोरेकजातीयत्वेऽपि स्वस्वमात्रविषयकधीविषयत्वमादाया-र्थान्तरात् । न च – गुणगुणिनोरभेदाङ्गीकाराद्गुणगतवैजात्यस्य आत्मनिष्ठत्वमिति–वाच्यम्; स्वरूपातिरिक्ततादृशवैजात्यस्यापसिद्धान्तपराहतत्वेन भवद्भिरङ्गीकर्तृ मशक्यत्वात् । न च – जीवस्वरूपानन्दानामनादितारतम्यस्वभावत्वमिति – वाच्यम्; जीवस्वरूपाणाम् तारतम्यस्वरूपत्वे भेदमात्रे पर्यवसानेन परिभाषामात्रापत्तेः पूर्वोक्तभोगसाम्याविघातात् । साधनतारतम्यात्साध्यतारतम्यमित्यपि न सत्; धूमालोकादिलिङ्गकपरामर्शरूपसाधनतारताभ्येऽप्यनुमितौ तारतम्यादर्शनेन व्यभिचारात्, मोक्षसाधनज्ञाने तारतम्यासिद्धेश्व अक्षण्वन्तइत्यादिश्रुतेस्सर्वसाक्षात्कर्तृत्वेन समान्तरराहित्यपरत्वा-दक्षण्वन्तःकर्णवन्तइत्याभ्याम् सर्वसाक्षात्कर्तृत्वेन सदृशान्तरनिषेध- बोधनस्य युक्तत्वात्, सैषानन्दस्येत्यादिश्रुतेरपि शते पञ्चाशन्न्यायेन मुक्तानन्दे सर्वानन्दान्तर्भावपरत्वेन तारतम्यपरत्वाभावात् । तच्छ्रुतावानन्दपदम् अनुकूलत्वेन ज्ञायमानविषयपरम्, न तु तादृशज्ञानपरम्; तथा सति तादृशज्ञानस्य पुरुषभेदेन भिन्नतया मानुषानन्दे मनुष्यगन्धर्वसम्बन्धित्वोत्कीर्तनासङ्गतेः *ते ये शतम् मानुषा आनन्दास्स एकः* इत्यस्य मनुष्यानन्दशतसजातीय एको मनुष्यगन्धर्वानन्द इत्यर्थाङ्गीकारे त्वानन्दपदम् तादृशज्ञानपरमेव । समानविषयकत्वेन साजात्यस्य विवक्षितत्वेन मानुषशतज्ञानविषयविषयकत्वस्य मनुष्यगन्धर्वगतैकज्ञाने लाभात्तादृशमनुष्यगन्धर्वगतविभिन्न विषयकशतज्ञान विषयविषयकत्वस्य च देवगतैकज्ञाने लाभान्नानुपपत्तिः; मुक्तानाम् सर्वविशेष्यकानुकूलत्वप्रकारकसाक्षात्कारवत्तया मानुषशतज्ञान विषयविषयकत्वस्य मनुष्यगन्धर्वादिगतशतज्ञान विषयविषयकत्वस्य च सत्त्वात्प्रतिपर्यायम् श्रोत्रियस्य चाकामहतस्य इत्यस्योपपत्तिरित्यन्यत्र विस्तरः ॥

इत्यनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने जीवनिरूपणम् नाम द्वितीयः परिच्छेदः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.