11 एकादशस्कन्धः-अध्यायः 01-15

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

एकादशस्कन्धः

प्रथमोऽध्यायः

श्रीबादरायणिरुवाच

कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः ।

भुवोऽवतारयद्भारं जविष्ठं जनयन् कलिम् ॥ १॥

ये कोपिताः सुबहुपाण्डुसुताः सपत्नै-

र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान् ।

कृत्वा निमित्तमितरेतरतः समेतान्

हत्वा नृपान् निरहरत्क्षितिभारमीशः ॥ २॥

भूभारराजपृतना यदुभिर्निरस्य

गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः ।

मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं

यद्यादवं कुलमहो अविषह्यमास्ते ॥ ३॥

नैवान्यतः परिभवोऽस्य भवेत्कथञ्चि-

न्मत्संश्रयस्य विभवोन्नहनस्य नित्यम् ।

अन्तःकलिं यदुकुलस्य विधाय वेणु-

स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥ ४॥

एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वरः ।

शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥ ५॥

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।

गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ॥ ६॥

आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ ।

तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ॥ ७॥

राजोवाच

ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।

विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥ ८॥

यन्निमित्तः स वै शापो यादृशो द्विजसत्तम ।

कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥ ९॥

श्रीशुक उवाच

बिभ्रद्वपुः सकलसुन्दरसन्निवेशं

कर्माचरन् भुवि सुमङ्गलमाप्तकामः ।

आस्थाय धाम रममाण उदारकीर्तिः

संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥ १०॥

कर्माणि पुण्यनिवहानि सुमङ्गलानि

गायज्जगत्कलिमलापहराणि कृत्वा ।

कालात्मना निवसता यदुदेवगेहे

पिण्डारकं समगमन्मुनयो निसृष्टाः ॥ ११॥

विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः ।

कश्यपो वामदेवोऽत्रिर्वसिष्ठो नारदादयः ॥ १२॥

क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः ।

उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥ १३॥

ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।

एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा ॥ १४॥

प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः ।

प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति ॥ १५॥

एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप ।

जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥ १६॥

तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् ।

साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम् ॥ १७॥

किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः ।

इति विह्वलिता गेहानादाय मुसलं ययुः ॥ १८॥

तच्चोपनीय सदसि परिम्लानमुखश्रियः ।

राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ ॥ १९॥

श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुसलं नृप ।

विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥ २०॥

तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः ।

समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥ २१॥

कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः ।

उह्यमानानि वेलायां लग्नान्यासन् किलैरकाः ॥ २२॥

मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे ।

तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥ २३॥

भगवान् ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा ।

कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत ॥ २४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

श्रीशुक उवाच

गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।

अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १॥

को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् ।

न भजेत्सर्वतो मृत्युरुपास्यममरोत्तमैः ॥ २॥

तमेकदा तु देवर्षिं वसुदेवो गृहागतम् ।

अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३॥

वसुदेव उवाच

भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् ।

कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥ ४॥

भूतानां देवचरितं दुःखाय च सुखाय च ।

सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५॥

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।

छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६॥

ब्रह्मंस्तथापि पृच्छामो धर्मान् भागवतांस्तव ।

यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतोभयात् ॥ ७॥

अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् ।

अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८॥

यथा विचित्रव्यसनाद्भवद्भिर्विश्वतोभयात् ।

मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ९॥

श्रीशुक उवाच

राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता ।

प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः ॥ १०॥

नारद उवाच

सम्यगेतद्व्यवसितं भवता सात्वतर्षभ ।

यत्पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् ॥ ११॥

श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।

सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ १२॥

त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।

स्मारितो भगवानद्य देवो नारायणो मम ॥ १३॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४॥

प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः ।

तस्याग्नीध्रस्ततो नाभिरृषभस्तत्सुतः स्मृतः ॥ १५॥

तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया ।

अवतीर्णं सुतशतं तस्यासीद्ब्रह्मपारगम् ॥ १६॥

तेषां वै भरतो ज्येष्ठो नारायणपरायणः ।

विख्यातं वर्षमेतद्यन्नाम्ना भारतमद्भुतम् ॥ १७॥

स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् ।

उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥ १८॥

तेषां नव नवद्वीपपतयोऽस्य समन्ततः ।

कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ १९॥

नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः ।

श्रमणा वातरशना आत्मविद्याविशारदाः ॥ २०॥

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।

आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ २१॥

त एते भगवद्रूपं विश्वं सदसदात्मकम् ।

आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन्महीम् ॥ २२॥

अव्याहतेष्टगतयः सुरसिद्धसाध्य-

गन्धर्वयक्षनरकिन्नरनागलोकान् ।

मुक्ताश्चरन्ति मुनिचारणभूतनाथ-

विद्याधरद्विजगवां भुवनानि कामम् ॥ २३॥

त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया ।

वितायमानमृषिभिरजनाभे महात्मनः ॥ २४॥

तान् दृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप ।

यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ २५॥

विदेहस्तानभिप्रेत्य नारायणपरायणान् ।

प्रीतः सम्पूजयाञ्चक्रे आसनस्थान् यथार्हतः ॥ २६॥

तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव ।

पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ २७॥

विदेह उवाच

मन्ये भगवतः साक्षात्पार्षदान् वो मधुद्विषः ।

विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८॥

दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः ।

तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ २९॥

अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः ।

संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ३०॥

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।

यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः ॥ ३१॥

श्रीनारद उवाच

एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।

प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ३२॥

कविरुवाच

मन्येऽकुतश्चिद्भयमच्युतस्य

पादाम्बुजोपासनमत्र नित्यम् ।

उद्विग्नबुद्धेरसदात्मभावा-

द्विश्वात्मना यत्र निवर्तते भीः ॥ ३३॥

ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।

अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४॥

यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।

धावन् निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ३५॥

कायेन वाचा मनसेन्द्रियैर्वा

बुद्ध्यात्मना वानुसृतस्वभावात् ।

करोति यद्यत्सकलं परस्मै

नारायणायेति समर्पयेत्तत् ॥ ३६॥

भयं द्वितीयाभिनिवेशतः स्या-

दीशादपेतस्य विपर्ययोऽस्मृतिः ।

तन्माययातो बुध आभजेत्तं

भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७॥

अविद्यमानोऽप्यवभाति हि द्वयो

ध्यातुर्धिया स्वप्नमनोरथौ यथा ।

तत्कर्मसङ्कल्पविकल्पकं मनो

बुधो निरुन्ध्यादभयं ततः स्यात् ॥ ३८॥

श‍ृण्वन् सुभद्राणि रथाङ्गपाणे-

र्जन्मानि कर्माणि च यानि लोके ।

गीतानि नामानि तदर्थकानि

गायन् विलज्जो विचरेदसङ्गः ॥ ३९॥

एवंव्रतः स्वप्रियनामकीर्त्या

जातानुरागो द्रुतचित्त उच्चैः ।

हसत्यथो रोदिति रौति गाय-

त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ४०॥

खं वायुमग्निं सलिलं महीं च

ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।

सरित्समुद्रांश्च हरेः शरीरं

यत्किं च भूतं प्रणमेदनन्यः ॥ ४१॥

भक्तिः परेशानुभवो विरक्ति-

रन्यत्र चैष त्रिक एककालः ।

प्रपद्यमानस्य यथाश्नतः स्यु-

स्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२॥

इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या

भक्तिर्विरक्तिर्भगवत्प्रबोधः ।

भवन्ति वै भागवतस्य राजं-

स्ततः परां शान्तिमुपैति साक्षात् ॥ ४३॥

राजोवाच

अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् ।

यथाऽऽचरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ॥ ४४॥

हरिरुवाच

सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।

भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ ४५॥

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च ।

प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६॥

अर्चायामेव हरये पूजां यः श्रद्धयेहते ।

न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७॥

गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ।

विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ ४८॥

देहेन्द्रियप्राणमनोधियां यो

जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।

संसारधर्मैरविमुह्यमानः

स्मृत्या हरेर्भागवतप्रधानः ॥ ४९॥

न कामकर्मबीजानां यस्य चेतसि सम्भवः ।

वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५०॥

न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।

सज्जतेऽस्मिन्नहम्भावो देहे वै स हरेः प्रियः ॥ ५१॥

न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा ।

सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ५२॥

त्रिभुवनविभवहेतवेऽप्यकुण्ठ-

स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।

न चलति भगवत्पदारविन्दा-

ल्लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ५३॥

भगवत उरुविक्रमाङ्घ्रिशाखा-

नखमणिचन्द्रिकया निरस्ततापे ।

हृदि कथमुपसीदतां पुनः स

प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ५४॥

विसृजति हृदयं न यस्य साक्षा-

द्धरिरवशाभिहितोऽप्यघौघनाशः ।

प्रणयरशनया धृताङ्घ्रिपद्मः

स भवति भागवतप्रधान उक्तः ॥ ५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

राजोवाच

परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् ।

मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ १॥

नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् ।

संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् ॥ २॥

अन्तरिक्ष उवाच

एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ।

ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ३॥

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः ।

एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४॥

गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।

मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५॥

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।

तत्तत्कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ ६॥

इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान् ।

आभूतसम्प्लवात्सर्गप्रलयावश्नुतेऽवशः ॥ ७॥

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।

अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ८॥

शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि ।

तत्कालोपचितोष्णार्को लोकांस्त्रीन् प्रतपिष्यति ॥ ९॥

पातालतलमारभ्य सङ्कर्षणमुखानलः ।

दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरितः ॥ १०॥

सांवर्तको मेघगणो वर्षति स्म शतं समाः ।

धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥ ११॥

ततो विराजमुत्सृज्य वैराजः पुरुषो नृप ।

अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२॥

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते ।

सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३॥

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।

हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४॥

कालात्मना हृतगुणं नभ आत्मनि लीयते ।

इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ।

प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि ॥ १५॥

एषा माया भगवतः सर्गस्थित्यन्तकारिणी ।

त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ १६॥

राजोवाच

यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः ।

तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १७॥

प्रबुद्ध उवाच

कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।

पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८॥

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।

गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ १९॥

एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।

सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २०॥

तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।

शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१॥

तत्र भागवतान् धर्मान् शिक्षेद्गुर्वात्मदैवतः ।

अमाययानुवृत्त्या यैस्तुष्येदात्माऽऽत्मदो हरिः ॥ २२॥

सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।

दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३॥

शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् ।

ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ २४॥

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् ।

विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५॥

श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।

मनो वाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६॥

श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।

जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७॥

इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् ।

दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८॥

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।

परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९॥

परस्परानुकथनं पावनं भगवद्यशः ।

मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः ॥ ३०॥

स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।

भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१॥

क्वचिद्रुदन्त्यच्युतचिन्तया क्वचि-

द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।

नृत्यन्ति गायन्त्यनुशीलयन्त्यजं

भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ३२॥

इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।

नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ ३३॥

राजोवाच

नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।

निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४॥

पिप्पलायन उवाच

स्थित्युद्भवप्रलयहेतुरहेतुरस्य

यत्स्वप्नजागरसुषुप्तिषु सद्बहिश्च ।

देहेन्द्रियासुहृदयानि चरन्ति येन

सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५॥

नैतन्मनो विशति वागुत चक्षुरात्मा

प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः ।

शब्दोऽपि बोधकनिषेधतयाऽऽत्ममूल-

मर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ३६॥

सत्त्वं रजस्तम इति त्रिवृदेकमादौ

सूत्रं महानहमिति प्रवदन्ति जीवम् ।

ज्ञानक्रियार्थफलरूपतयोरुशक्ति

ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ३७॥

नात्मा जजान न मरिष्यति नैधतेऽसौ

न क्षीयते सवनविद्व्यभिचारिणां हि ।

सर्वत्र शश्वदनपाय्युपलब्धिमात्रं

प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३८॥

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु

प्राणो हि जीवमुपधावति तत्र तत्र ।

सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते

कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ३९॥

यर्ह्यब्जनाभचरणैषणयोरुभक्त्या

चेतोमलानि विधमेद्गुणकर्मजानि ।

तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं

साक्षाद्यथामलदृशोः सवितृप्रकाशः ॥ ४०॥

राजोवाच

कर्मयोगं वदत नः पुरुषो येन संस्कृतः ।

विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१॥

एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके ।

नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ४२॥

आविर्होत्र उवाच

कर्माकर्मविकर्मेति वेदवादो न लौकिकः ।

वेदस्य चेश्वरात्मत्वात्तत्र मुह्यन्ति सूरयः ॥ ४३॥

परोक्षवादो वेदोऽयं बालानामनुशासनम् ।

कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४॥

नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।

विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४५॥

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।

नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६॥

य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः ।

विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् ॥ ४७॥

लब्धानुग्रह आचार्यात्तेन सन्दर्शितागमः ।

महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥ ४८॥

शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः ।

पिण्डं विशोध्य सन्न्यासकृतरक्षोऽर्चयेद्धरिम् ॥ ४९॥

अर्चादौ हृदये चापि यथा लब्धोपचारकैः ।

द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५०॥

पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः ।

हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ ५१॥

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।

पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ५२॥

गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः ।

साङ्गं सम्पूज्य विधिवत्स्तवैः स्तुत्वा नमेद्धरिम् ॥ ५३॥

आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरेः ।

शेषामाधाय शिरसि स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४॥

एवमग्न्यर्कतोयादावतिथौ हृदये च यः ।

यजतीश्वरमात्मानमचिरान्मुच्यते हि सः ॥ ५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे तृतीयोऽध्यायः

 

नमो भगवते वासुदेवाय

चतुर्थोऽध्यायः

राजोवाच

यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः ।

चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ १॥

द्रुमिल उवाच

यो वा अनन्तस्य गुणाननन्ता-

ननुक्रमिष्यन् स तु बालबुद्धिः ।

रजांसि भूमेर्गणयेत्कथञ्चित्

कालेन नैवाखिलशक्तिधाम्नः ॥ २॥

भूतैर्यदा पञ्चभिरात्मसृष्टैः

पुरं विराजं विरचय्य तस्मिन् ।

स्वांशेन विष्टः पुरुषाभिधान-

मवाप नारायण आदिदेवः ॥ ३॥

यत्काय एष भुवनत्रयसन्निवेशो

यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ।

ज्ञानं स्वतः श्वसनतो बलमोज ईहा

सत्त्वादिभिः स्थितिलयोद्भव आदि कर्ता ॥ ४॥

आदावभूच्छतधृती रजसास्य सर्गे

विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः ।

रुद्रोऽप्ययाय तमसा पुरुषः स आद्य

इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५॥

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां

नारायणो नरऋषिप्रवरः प्रशान्तः ।

नैष्कर्म्यलक्षणमुवाच चचार कर्म

योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६॥

इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति

कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् ।

गत्वाप्सरोगणवसन्तसुमन्दवातैः

स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७॥

विज्ञाय शक्रकृतमक्रममादिदेवः

प्राह प्रहस्य गतविस्मय एजमानान् ।

मा भैष्ट भो मदन मारुत देववध्वो

गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८॥

इत्थं ब्रुवत्यभयदे नरदेव देवाः

सव्रीडनम्रशिरसः सघृणं तमूचुः ।

नैतद्विभो त्वयि परेऽविकृते विचित्रं

स्वारामधीरनिकरानतपादपद्मे ॥ ९॥

त्वां सेवतां सुरकृता बहवोऽन्तरायाः

स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।

नान्यस्य बर्हिषि बलीन् ददतः स्वभागान्

धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ १०॥

क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैश्ना-

नस्मानपारजलधीनतितीर्य केचित् ।

क्रोधस्य यान्ति विफलस्य वशं पदे गो-

र्मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११॥

इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः ।

दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥ १२॥

ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः ।

गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥ १३॥

तानाह देवदेवेशः प्रणतान् प्रहसन्निव ।

आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४॥

ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।

उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५॥

इन्द्रायानम्य सदसि श‍ृण्वतां त्रिदिवौकसाम् ।

ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः ॥ १६॥

हंसस्वरूप्यवददच्युत आत्मयोगं

दत्तः कुमार ऋषभो भगवान् पिता नः ।

विष्णुः शिवाय जगतां कलयावतिर्ण-

स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७॥

गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये

क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् ।

कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे

ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८॥

संस्तुन्वतोऽब्धिपतितान् श्रमणानृषींश्च

शक्रं च वृत्रवधतस्तमसि प्रविष्टम् ।

देवस्त्रियोऽसुरगृहे पिहिता अनाथा

जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९॥

देवासुरे युधि च दैत्यपतीन् सुरार्थे

हत्वान्तरेषु भुवनान्यदधात्कलाभिः ।

भूत्वाथ वामन इमामहरद्बलेः क्ष्मां

याच्ञाच्छलेन समदाददितेः सुतेभ्यः ॥ २०॥

निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो

रामस्तु हैहयकुलाप्ययभार्गवाग्निः ।

सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं

सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥ २१॥

भूमेर्भरावतरणाय यदुष्वजन्मा

जातः करिष्यति सुरैरपि दुष्कराणि ।

वादैर्विमोहयति यज्ञकृतोऽतदर्हान्

शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ २२॥

एवंविधानि कर्माणि जन्मानि च जगत्पतेः ।

भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

राजोवाच

भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।

तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥ १॥

चमस उवाच

मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।

चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २॥

य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।

न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ३॥

दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः ।

स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४॥

विप्रो राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम् ।

श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ५॥

कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।

वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६॥

रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः ।

दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७॥

वदन्ति तेऽन्योन्यमुपासितस्त्रियो

गृहेषु मैथुन्यपरेषु चाशिषः ।

यजन्त्यसृष्टान्नविधानदक्षिणं

वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८॥

श्रिया विभूत्याभिजनेन विद्यया

त्यागेन रूपेण बलेन कर्मणा ।

जातस्मयेनान्धधियः सहेश्वरान्

सतोऽवमन्यन्ति हरिप्रियान् खलाः ॥ ९॥

सर्वेषु शश्वत्तनुभृत्स्ववस्थितं

यथा खमात्मानमभीष्टमीश्वरम् ।

वेदोपगीतं च न श‍ृण्वतेऽबुधा

मनोरथानां प्रवदन्ति वार्तया ॥ १०॥

लोके व्यवायामिषमद्यसेवा

नित्यास्तु जन्तोर्न हि तत्र चोदना ।

व्यवस्थितिस्तेषु विवाहयज्ञ-

सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११॥

धनं च धर्मैकफलं यतो वै

ज्ञानं सविज्ञानमनुप्रशान्ति ।

गृहेषु युञ्जन्ति कलेवरस्य

मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२॥

यद्घ्राणभक्षो विहितः सुराया-

स्तथा पशोरालभनं न हिंसा ।

एवं व्यवायः प्रजया न रत्या

इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३॥

ये त्वनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः ।

पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४॥

द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।

मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५॥

ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् ।

त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६॥

एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः ।

सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७॥

हित्वात्यायासरचिता गृहापत्यसुहृच्छ्रियः ।

तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः ॥ १८॥

राजोवाच

कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः ।

नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९॥

करभाजन उवाच

कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।

नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २०॥

कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः ।

कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डकमण्डलू ॥ २१॥

मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।

यजन्ति तपसा देवं शमेन च दमेन च ॥ २२॥

हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।

ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३॥

त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।

हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥ २४॥

तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।

यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५॥

विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।

वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६॥

द्वापरे भगवाञ्श्यामः पीतवासा निजायुधः ।

श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७॥

तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।

यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८॥

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।

प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९॥

नारायणाय ऋषये पुरुषाय महात्मने ।

विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३०॥

इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।

नानातन्त्रविधानेन कलावपि यथा श‍ृणु ॥ ३१॥

कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।

यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ ३२॥

ध्येयं सदा परिभवघ्नमभीष्टदोहं

तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।

भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं

वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३॥

त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं

धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।

मायामृगं दयितयेप्सितमन्वधाव-

द्वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४॥

एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।

मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५॥

कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।

यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ३६॥

न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।

यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७॥

कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।

कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८॥

क्वचित्क्वचिन्महाराज द्रविडेषु च भूरिशः ।

ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९॥

कावेरी च महापुण्या प्रतीची च महानदी ।

ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।

प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४०॥

देवर्षिभूताप्तनृणां पितॄणां

न किङ्करो नायमृणी च राजन् ।

सर्वात्मना यः शरणं शरण्यं

गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१॥

स्वपादमूलं भजतः प्रियस्य

त्यक्तान्यभावस्य हरिः परेशः ।

विकर्म यच्चोत्पतितं कथञ्चि-

द्धुनोति सर्वं हृदि सन्निविष्टः ॥ ४२॥

नारद उवाच

धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः ।

जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४३॥

ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।

राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् ॥ ४४॥

त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् ।

आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४५॥

युवयोः खलु दम्पत्योर्यशसा पूरितं जगत् ।

पुत्रतामगमद्यद्वां भगवानीश्वरो हरिः ॥ ४६॥

दर्शनालिङ्गनालापैः शयनासनभोजनैः ।

आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४७॥

वैरेण यं नृपतयः शिशुपालपौण्ड्र-

शाल्वादयो गतिविलासविलोकनाद्यैः ।

ध्यायन्त आकृतधियः शयनासनादौ

तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ४८॥

मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे ।

मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९॥

भूभारासुरराजन्यहन्तवे गुप्तये सताम् ।

अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५०॥

श्रीशुक उवाच

एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः ।

देवकी च महाभागा जहतुर्मोहमात्मनः ॥ ५१॥

इतिहासमिमं पुण्यं धारयेद्यः समाहितः ।

स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

श्रीशुक उवाच

अथ ब्रह्माऽऽत्मजैर्देवैः प्रजेशैरावृतोऽभ्यगात् ।

भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः ॥ १॥

इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ ।

ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः ॥ २॥

गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः ।

ऋषयः पितरश्चैव सविद्याधरकिन्नराः ॥ ३॥

द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः ।

वपुषा येन भगवान्नरलोकमनोरमः ।

यशो वितेने लोकेषु सर्वलोकमलापहम् ॥ ४॥

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः ।

व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् ॥ ५॥

स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो युदूत्तमम् ।

गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥ ६॥

देवा ऊचुः

नताः स्म ते नाथ पदारविन्दं

बुद्धीन्द्रियप्राणमनोवचोभिः ।

यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तै-

र्मुमुक्षुभिः कर्ममयोरुपाशात् ॥ ७॥

त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं

व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः ।

नैतैर्भवानजित कर्मभिरज्यते वै

यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८॥

शुद्धिर्नृणां न तु तथेड्य दुराशयानां

विद्याश्रुताध्ययनदानतपःक्रियाभिः ।

सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध-

सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९॥

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः

क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः ।

यः सात्वतैः समविभूतय आत्मवद्भि-

र्व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ॥ १०॥

यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ

त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा ।

अध्यात्मयोग उत योगिभिरात्ममायां

जिज्ञासुभिः परमभागवतैः परीष्टः ॥ ११॥

पर्युष्टया तव विभो वनमालयेयं

संस्पर्धिनी भगवती प्रतिपत्निवच्छ्रीः ।

यः सुप्रणीतममुयार्हणमाददन्नो

भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः ॥ १२॥

केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको

यस्ते भयाभयकरोऽसुरदेवचम्वोः ।

स्वर्गाय साधुषु खलेष्वितराय भूमन्

पादः पुनातु भगवन् भजतामघं नः ॥ १३॥

नस्योतगाव इव यस्य वशे भवन्ति

ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः ।

कालस्य ते प्रकृतिपूरुषयोः परस्य

शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४॥

अस्यासि हेतुरुदयस्थितिसंयमाना-

मव्यक्तजीवमहतामपि कालमाहुः ।

सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः

कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५॥

त्वत्तः पुमान् समधिगम्य यया स्ववीर्यं

धत्ते महान्तमिव गर्भममोघवीर्यः ।

सोऽयं तयानुगत आत्मन आण्डकोशं

हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६॥

तत्तस्थुषश्च जगतश्च भवानधीशो

यन्माययोत्थगुणविक्रिययोपनीतान् ।

अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो

येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म ॥ १७॥

स्मायावलोकलवदर्शितभावहारि-

भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।

पत्न्यस्तु षोडशसहस्रमनङ्गबाणै-

र्यस्येन्द्रियं विमथितुं करणैर्न विभ्व्यः ॥ १८॥

विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः

पादावनेजसरितः शमलानि हन्तुम् ।

आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै-

स्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥ १९॥

बादरायणिरुवाच

इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम् ।

अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः ॥ २०॥

ब्रह्मोवाच

भूमेर्भारावताराय पुरा विज्ञापितः प्रभो ।

त्वमस्माभिरशेषात्मंस्तत्तथैवोपपादितम् ॥ २१॥

धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया ।

कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ २२॥

अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम् ।

कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः ॥ २३॥

यानि ते चरितानीश मनुष्याः साधवः कलौ ।

श‍ृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः ॥ २४॥

यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।

शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५॥

नाधुना तेऽखिलाधार देवकार्यावशेषितम् ।

कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥ २६॥

ततः स्वधाम परमं विशस्व यदि मन्यसे ।

सलोकाँल्लोकपालान्नः पाहि वैकुण्ठकिङ्करान् ॥ २७॥

श्रीभगवानुवाच

अवधारितमेतन्मे यदात्थ विबुधेश्वर ।

कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः ॥ २८॥

तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।

लोकं जिघृक्षद्रुद्धं मे वेलयेव महार्णवः ॥ २९॥

यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।

गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति ॥ ३०॥

इदानीं नाश आरब्धः कुलस्य द्विजशापजः ।

यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ॥ ३१॥

श्रीशुक उवाच

इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् ।

सह देवगणैर्देवः स्वधाम समपद्यत ॥ ३२॥

अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।

विलोक्य भगवानाह यदुवृद्धान् समागतान् ॥ ३३॥

श्रीभगवानुवाच

एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः ।

शापश्च नः कुलस्यासीद्ब्राह्मणेभ्यो दुरत्ययः ॥ ३४॥

न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः ।

प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ॥ ३५॥

यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोडुराट् ।

विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् ॥ ३६॥

वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन् सुरान् ।

भोजयित्वोशिजो विप्रान् नानागुणवतान्धसा ॥ ३७॥

तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै ।

वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ॥ ३८॥

श्रीशुक उवाच

एवं भगवताऽऽदिष्टा यादवाः कुलनन्दन ।

गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९॥

तन्निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् ।

दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ॥ ४०॥

विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम् ।

प्रणम्य शिरिसा पादौ प्राञ्जलिस्तमभाषत ॥ ४१॥

उद्धव उवाच

देवदेवेश योगेश पुण्यश्रवणकीर्तन ।

संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ।

विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः ॥ ४२॥

नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव ।

त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥ ४३॥

तव विक्रीडितं कृष्ण नृणां परममङ्गलम् ।

कर्णपीयूषमास्वाद्य त्यजन्त्यन्यस्पृहां जनाः ॥ ४४॥

शय्यासनाटनस्थानस्नानक्रीडाशनादिषु ।

कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहि ॥ ४५॥

त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः ।

उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ ४६॥

वातरशना य ऋषयः श्रमणा ऊर्ध्वमन्थिनः ।

ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥ ४७॥

वयं त्विह महायोगिन् भ्रमन्तः कर्मवर्त्मसु ।

त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ ४८॥

स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च ।

गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् ॥ ४९॥

श्रीशुक उवाच

एवं विज्ञापितो राजन् भगवान् देवकीसुतः ।

एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

श्रीभगवानुवाच

यदात्थ मां महाभाग तच्चिकीर्षितमेव मे ।

ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः ॥ १॥

मया निष्पादितं ह्यत्र देवकार्यमशेषतः ।

यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः ॥ २॥

कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् ।

समुद्रः सप्तमेऽह्न्येतां पुरीं च प्लावयिष्यति ॥ ३॥

यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः ।

भविष्यत्यचिरात्साधो कलिनापि निराकृतः ॥ ४॥

न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले ।

जनोऽधर्मरुचिर्भद्र भविष्यति कलौ युगे ॥ ५॥

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु ।

मय्यावेश्य मनः संयक् समदृग्विचरस्व गाम् ॥ ६॥

यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।

नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ ७॥

पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक् ।

कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८॥

तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत् ।

आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९॥

ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् ।

आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे ॥ १०॥

दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते ।

गुणबुद्ध्या च विहितं न करोति यथार्भकः ॥ ११॥

सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः ।

पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२॥

श्रीशुक उवाच

इत्यादिष्टो भगवता महाभागवतो नृप ।

उद्धवः प्रणिपत्याह तत्त्वजिज्ञासुरच्युतम् ॥ १३॥

उद्धव उवाच

योगेश योगविन्यास योगात्मन् योगसम्भव ।

निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः ॥ १४॥

त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः ।

सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः ॥ १५॥

सोऽहं ममाहमिति मूढमतिर्विगाढः

त्वन्मायया विरचितात्मनि सानुबन्धे ।

तत्त्वञ्जसा निगदितं भवता यथाहं

संसाधयामि भगवन्ननुशाधि भृत्यम् ॥ १६॥

सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं

वक्तारमीश विबुधेष्वपि नानुचक्षे ।

सर्वे विमोहितधियस्तव माययेमे

ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७॥

तस्माद्भवन्तमनवद्यमनन्तपारं

सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् ।

निर्विण्णधीरहमु ह वृजिनाभितप्तो

नारायणं नरसखं शरणं प्रपद्ये ॥ १८॥

श्रीभगवानुवाच

प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः ।

समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९॥

आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः ।

यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ॥ २०॥

पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः ।

आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् ॥ २१॥

एकद्वित्रिचतुष्पादो बहुपादस्तथापदः ।

बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया ॥ २२॥

अत्र मां मार्गयन्त्यद्धा युक्ता हेतुभिरीश्वरम् ।

गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः ॥ २३॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

अवधूतस्य संवादं यदोरमिततेजसः ॥ २४॥

अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् ।

कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ २५॥

यदुरुवाच

कुतो बुद्धिरियं ब्रह्मन्नकर्तुः सुविशारदा ।

यामासाद्य भवाँल्लोकं विद्वांश्चरति बालवत् ॥ २६॥

प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः ।

हेतुनैव समीहन्ते आयुषो यशसः श्रियः ॥ २७॥

त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः ।

न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् ॥ २८॥

जनेषु दह्यमानेषु कामलोभदवाग्निना ।

न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः ॥ २९॥

त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् ।

ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३०॥

श्रीभगवानुवाच

यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा ।

पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥ ३१॥

ब्राह्मण उवाच

सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिताः ।

यतो बुद्धिमुपादाय मुक्तोऽटामीह तान् श‍ृणु ॥ ३२॥

पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रविः ।

कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः ॥ ३३॥

मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः ।

कुमारी शरकृत्सर्प ऊर्णनाभिः सुपेशकृत् ॥ ३४॥

एते मे गुरवो राजन् चतुर्विंशतिराश्रिताः ।

शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ॥ ३५॥

यतो यदनुशिक्षामि यथा वा नाहुषात्मज ।

तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६॥

भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः ।

तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ॥ ३७॥

शश्वत्परार्थसर्वेहः परार्थैकान्तसम्भवः ।

साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ॥ ३८॥

प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः ।

ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥ ३९॥

विषयेष्वाविशन् योगी नानाधर्मेषु सर्वतः ।

गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ॥ ४०॥

पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः ।

गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ॥ ४१॥

अन्तर्हितश्च स्थिरजङ्गमेषु

ब्रह्मात्मभावेन समन्वयेन ।

व्याप्त्याव्यवच्छेदमसङ्गमात्मनो

मुनिर्नभस्त्वं विततस्य भावयेत् ॥ ४२॥

तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः ।

न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणैः पुमान् ॥ ४३॥

स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् ।

मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः ॥ ४४॥

तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः ।

सर्वभक्षोऽपि युक्तात्मा नादत्ते मलमग्निवत् ॥ ४५॥

क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम् ।

भुङ्क्ते सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६॥

स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः ।

प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥ ४७॥

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।

कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥ ४८॥

कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ ।

नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ॥ ४९॥

गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति ।

न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ॥ ५०॥

बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः ।

लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् ॥ ५१॥

नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् ।

कुर्वन् विन्देत सन्तापं कपोत इव दीनधीः ॥ ५२॥

कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ ।

कपोत्या भार्यया सार्धमुवास कतिचित्समाः ॥ ५३॥

कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।

दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ ५४॥

शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् ।

मिथुनीभूय विश्रब्धौ चेरतुर्वनराजिषु ॥ ५५॥

यं यं वाञ्छति सा राजन् तर्पयन्त्यनुकम्पिता ।

तं तं समनयत्कामं कृच्छ्रेणाप्यजितेन्द्रियः ॥ ५६॥

कपोती प्रथमं गर्भं गृह्णती काल आगते ।

अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सती ॥ ५७॥

तेषु काले व्यजायन्त रचितावयवा हरेः ।

शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥ ५८॥

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ ।

श‍ृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ ५९॥

तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः ।

प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ॥ ६०॥

स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया ।

विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ ६१॥

एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ ।

परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ॥ ६२॥

दृष्ट्वा तान् लुब्धकः कश्चिद्यदृच्छातो वनेचरः ।

जगृहे जालमातत्य चरतः स्वालयान्तिके ॥ ६३॥

कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ ।

गतौ पोषणमादाय स्वनीडमुपजग्मतुः ॥ ६४॥

कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् ।

तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता ॥ ६५॥

सासकृत्स्नेहगुणिता दीनचित्ताजमायया ।

स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्यपस्मृतिः ॥ ६६॥

कपोतश्चात्मजान् बद्धानात्मनोऽप्यधिकान् प्रियान् ।

भार्यां चात्मसमां दीनो विललापातिदुःखितः ॥ ६७॥

अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः ।

अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः ॥ ६८॥

अनुरूपानुकूला च यस्य मे पतिदेवता ।

शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ॥ ६९॥

सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः ।

जिजीविषे किमर्थं वा विधुरो दुःखजीवितः ॥ ७०॥

तांस्तथैवावृतान् शिग्भिर्मृत्युग्रस्तान् विचेष्टतः ।

स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ॥ ७१॥

तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।

कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ ७२॥

एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत् ।

पुष्णन् कुटुम्बं कृपणः सानुबन्धोऽवसीदति ॥ ७३॥

यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् ।

गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः ॥ ७४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्यायः

ब्राह्मण उवाच

सुखमैन्द्रियकं राजन् स्वर्गे नरक एव च ।

देहिनां यद्यथा दुःखं तस्मान्नेच्छेत तद्बुधः ॥ १॥

ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा ।

यदृच्छयैवापतितं ग्रसेदाजगरोऽक्रियः ॥ २॥

शयीताहानि भूरीणि निराहारोऽनुपक्रमः ।

यदि नोपनमेद्ग्रासो महाहिरिव दिष्टभुक् ॥ ३॥

ओजः सहो बलयुतं बिभ्रद्देहमकर्मकम् ।

शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४॥

मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः ।

अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५॥

समृद्धकामो हीनो वा नारायणपरो मुनिः ।

नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः ॥ ६॥

दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः ।

प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७॥

योषिद्धिरण्याभरणाम्बरादि-

द्रव्येषु मायारचितेषु मूढः ।

प्रलोभितात्मा ह्युपभोगबुद्ध्या

पतङ्गवन्नश्यति नष्टदृष्टिः ॥ ८॥

स्तोकं स्तोकं ग्रसेद्ग्रासं देहो वर्तेत यावता ।

गृहानहिंसन्नातिष्ठेद्वृत्तिं माधुकरीं मुनिः ॥ ९॥

अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।

सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥ १०॥

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।

पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११॥

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।

मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२॥

पदापि युवतीं भिक्षुर्न स्पृशेद्दारवीमपि ।

स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३॥

नाधिगच्छेत्स्त्रियं प्राज्ञः कर्हिचिन्मृत्युमात्मनः ।

बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥ १४॥

न देयं नोपभोग्यं च लुब्धैर्यद्दुःखसञ्चितम् ।

भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५॥

सुदुःखोपार्जितैर्वित्तैराशासानां गृहाशिषः ।

मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६॥

ग्राम्यगीतं न श‍ृणुयाद्यतिर्वनचरः क्वचित् ।

शिक्षेत हरिणाद्बद्धान्मृगयोर्गीतमोहितात् ॥ १७॥

नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।

आसां क्रीडनको वश्य ऋष्यश‍ृङ्गो मृगीसुतः ॥ १८॥

जिह्वयातिप्रमाथिन्या जनो रसविमोहितः ।

मृत्युमृच्छत्यसद्बुद्धिर्मीनस्तु बडिशैर्यथा ॥ १९॥

इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।

वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २०॥

तावज्जितेन्द्रियो न स्याद्विजितान्येन्द्रियः पुमान् ।

न जयेद्रसनं यावज्जितं सर्वं जिते रसे ॥ २१॥

पिङ्गला नाम वेश्याऽऽसीद्विदेहनगरे पुरा ।

तस्या मे शिक्षितं किञ्चिन्निबोध नृपनन्दन ॥ २२॥

सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।

अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३॥

मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ।

तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका ॥ २४॥

आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।

अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः ॥ २५॥

एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।

निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६॥

तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।

निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७॥

तस्या निर्विण्णचित्ताया गीतं श‍ृणु यथा मम ।

निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८॥

न ह्यङ्गाजातनिर्वेदो देहबन्धं जिहासति ।

यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९॥

पिङ्गलोवाच

अहो मे मोहविततिं पश्यताविजितात्मनः ।

या कान्तादसतः कामं कामये येन बालिशा ॥ ३०॥

सन्तं समीपे रमणं रतिप्रदं

वित्तप्रदं नित्यमिमं विहाय ।

अकामदं दुःखभयाधिशोक-

मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१॥

अहो मयाऽऽत्मा परितापितो वृथा

साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया ।

स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात्

क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२॥

यदस्थिभिर्निर्मितवंशवंश्य-

स्थूणं त्वचा रोमनखैः पिनद्धम् ।

क्षरन्नवद्वारमगारमेत-

द्विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३॥

विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।

यान्यमिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥ ३४॥

सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।

तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५॥

कियत्प्रियं ते व्यभजन् कामा ये कामदा नराः ।

आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६॥

नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा ।

निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥ ३७॥

मैवं स्युर्मन्दभाग्यायाः क्लेशा निर्वेदहेतवः ।

येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥ ३८॥

तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः ।

त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥ ३९॥

सन्तुष्टा श्रद्दधत्येतद्यथा लाभेन जीवती ।

विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ४०॥

संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।

ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१॥

आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् ।

अप्रमत्त इदं पश्येद्ग्रस्तं कालाहिना जगत् ॥ ४२॥

ब्राह्मण उवाच

एवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् ।

छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३॥

आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।

यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे अष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

ब्राह्मण उवाच

परिग्रहो हि दुःखाय यद्यत्प्रियतमं नृणाम् ।

अनन्तं सुखमाप्नोति तद्विद्वान्यस्त्वकिञ्चनः ॥ १॥

सामिषं कुररं जघ्नुर्बलिनो ये निरामिषाः ।

तदामिषं परित्यज्य स सुखं समविन्दत ॥ २॥

न मे मानावमानौ स्तो न चिन्ता गेहपुत्रिणाम् ।

आत्मक्रीड आत्मरतिर्विचरामीह बालवत् ॥ ३॥

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।

यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ ४॥

क्वचित्कुमारी त्वात्मानं वृणानान् गृहमागतान् ।

स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु ॥ ५॥

तेषामभ्यवहारार्थं शालीन् रहसि पार्थिव ।

अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् ॥ ६॥

सा तज्जुगुप्सितं मत्वा महती वृडिता ततः ।

बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७॥

उभयोरप्यभूद्घोषो ह्यवघ्नन्त्याः स्म शङ्खयोः ।

तत्राप्येकं निरभिददेकस्मान्नाभवद्ध्वनिः ॥ ८॥

अन्वशिक्षमिमं तस्या उपदेशमरिन्दम ।

लोकाननुचरन्नेतान् लोकतत्त्वविवित्सया ॥ ९॥

वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि ।

एक एव चरेत्तस्मात्कुमार्या इव कङ्कणः ॥ १०॥

मन एकत्र संयुञ्ज्याज्जितश्वासो जितासनः ।

वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥ ११॥

यस्मिन् मनो लब्धपदं यदेत-

च्छनैः शनैर्मुञ्चति कर्मरेणून् ।

सत्त्वेन वृद्धेन रजस्तमश्च

विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२॥

तदैवमात्मन्यवरुद्धचित्तो

न वेद किञ्चिद्बहिरन्तरं वा ।

यथेषुकारो नृपतिं व्रजन्त-

मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३॥

एकचार्यनिकेतः स्यादप्रमत्तो गुहाशयः ।

अलक्ष्यमाण आचारैर्मुनिरेकोऽल्पभाषणः ॥ १४॥

गृहारम्भोऽति दुःखाय विफलश्चाध्रुवात्मनः ।

सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५॥

एको नारायणो देवः पूर्वसृष्टं स्वमायया ।

संहृत्य कालकलया कल्पान्त इदमीश्वरः ।

एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ॥ १६॥

कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।

सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥ १७॥

परावराणां परम आस्ते कैवल्यसंज्ञितः ।

केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ १८॥

केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।

सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ १९॥

तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।

यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् ॥ २०॥

यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रतः ।

तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ २१॥

यत्र यत्र मनो देही धारयेत्सकलं धिया ।

स्नेहाद्द्वेषाद्भयाद्वापि याति तत्तत्स्वरूपताम् ॥ २२॥

कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।

याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥ २३॥

एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।

स्वात्मोपशिक्षितां बुद्धिं श‍ृणु मे वदतः प्रभो ॥ २४॥

देहो गुरुर्मम विरक्तिविवेकहेतुः

बिभ्रत्स्म सत्त्वनिधनं सततार्त्युदर्कम् ।

तत्त्वान्यनेन विमृशामि यथा तथापि

पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५॥

जायाऽऽत्मजार्थपशुभृत्यगृहाप्तवर्गान्

पुष्णाति यत्प्रियचिकीर्षया वितन्वन् ।

स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः

सृष्ट्वास्य बीजमवसीदति वृक्षधर्मः ॥ २६॥

जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा

शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।

घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः

बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ २७॥

सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या

वृक्षान् सरीसृपपशून् खगदंशमत्स्यान् ।

तैस्तैरतुष्टहृदयः पुरुषं विधाय

ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८॥

लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते

मानुष्यमर्थदमनित्यमपीह धीरः ।

तूर्णं यतेत न पतेदनुमृत्यु याव-

न्निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९॥

एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि ।

विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥ ३०॥

न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात्सुपुष्कलम् ।

ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१॥

श्रीभगवानुवाच

इत्युक्त्वा स यदुं विप्रस्तमामन्त्र्य गभीरधीः ।

वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२॥

अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः ।

सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे नवमोऽध्यायः

 

नमो भगवते वासुदेवाय

दशमोऽध्यायः१०

श्रीभगवानुवाच

मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः ।

वर्णाश्रमकुलाचारमकामात्मा समाचरेत् ॥ १॥

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।

गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २॥

सुप्तस्य विषयालोको ध्यायतो वा मनोरथः ।

नानात्मकत्वाद्विफलस्तथा भेदात्मधीर्गुणैः ॥ ३॥

निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् ।

जिज्ञासायां सम्प्रवृत्तो नाद्रियेत्कर्मचोदनाम् ॥ ४॥

यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।

मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५॥

अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः ।

असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ ६॥

जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु ।

उदासीनः समं पश्यन् सर्वेष्वर्थमिवात्मनः ॥ ७॥

विलक्षणः स्थूलसूक्ष्माद्देहादात्मेक्षिता स्वदृक् ।

यथाग्निर्दारुणो दाह्याद्दाहकोऽन्यः प्रकाशकः ॥ ८॥

निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् ।

अन्तः प्रविष्ट आधत्त एवं देहगुणान् परः ॥ ९॥

योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि ।

संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मनः ॥ १०॥

तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम् ।

सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११॥

आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः ।

तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः ॥ १२॥

वैशारदी सातिविशुद्धबुद्धि-

र्धुनोति मायां गुणसम्प्रसूताम् ।

गुणांश्च सन्दह्य यदात्ममेतत्

स्वयं च शाम्यत्यसमिद्यथाग्निः ॥ १३॥

अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।

नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४॥

मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा ।

तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥ १५॥

एवमप्यङ्ग सर्वेषां देहिनां देहयोगतः ।

कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥ १६॥

अत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते ।

भोक्तुश्च दुःखसुखयोः को न्वर्थो विवशं भजेत् ॥ १७॥

न देहिनां सुखं किञ्चिद्विद्यते विदुषामपि ।

तथा च दुःखं मूढानां वृथाहङ्करणं परम् ॥ १८॥

यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।

तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद्यथा ॥ १९॥

को न्वर्थः सुखयत्येनं कामो वा मृत्युरन्तिके ।

आघातं नीयमानस्य वध्यस्येव न तुष्टिदः ॥ २०॥

श्रुतं च दृष्टवद्दुष्टं स्पर्धासूयात्ययव्ययैः ।

बह्वन्तरायकामत्वात्कृषिवच्चापि निष्फलम् ॥ २१॥

अन्तरायैरविहतो यदि धर्मः स्वनुष्ठितः ।

तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु ॥ २२॥

इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः ।

भुञ्जीत देववत्तत्र भोगान् दिव्यान् निजार्जितान् ॥ २३॥

स्वपुण्योपचिते शुभ्रे विमान उपगीयते ।

गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ २४॥

स्त्रीभिः कामगयानेन किङ्किणीजालमालिना ।

क्रीडन् नवेदात्मपातं सुराक्रीडेषु निर्वृतः ॥ २५॥

तावत्प्रमोदते स्वर्गे यावत्पुण्यं समाप्यते ।

क्षीणपुण्यः पतत्यर्वागनिच्छन् कालचालितः ॥ २६॥

यद्यधर्मरतः सङ्गादसतां वाजितेन्द्रियः ।

कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः ॥ २७॥

पशूनविधिनाऽऽलभ्य प्रेतभूतगणान् यजन् ।

नरकानवशो जन्तुर्गत्वा यात्युल्बणं तमः ॥ २८॥

कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः ।

देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ २९॥

लोकानां लोकपालानां मद्भयं कल्पजीविनाम् ।

ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः ॥ ३०॥

गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् ।

जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१॥

यावत्स्याद्गुणवैषम्यं तावन्नानात्वमात्मनः ।

नानात्वमात्मनो यावत्पारतन्त्र्यं तदैव हि ॥ ३२॥

यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् ।

य एतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिताः ॥ ३३॥

काल आत्मागमो लोकः स्वभावो धर्म एव च ।

इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ॥ ३४॥

उद्धव उवाच

गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः ।

गुणैर्न बध्यते देही बध्यते वा कथं विभो ॥ ३५॥

कथं वर्तेत विहरेत्कैर्वा ज्ञायेत लक्षणैः ।

किं भुञ्जीतोऽत विसृजेच्छयीतासीत याति वा ॥ ३६॥

एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर ।

नित्यमुक्तो नित्यबद्धः एक एवेति मे भ्रमः ॥ ३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोऽध्यायः११

श्रीभगवानुवाच

बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः ।

गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ॥ १॥

शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया ।

स्वप्नो यथाऽऽत्मनः ख्यातिः संसृतिर्न तु वास्तवी ॥ २॥

विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् ।

मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३॥

एकस्यैव ममांशस्य जीवस्यैव महामते ।

बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः ॥ ४॥

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।

विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५॥

सुपर्णावेतौ सदृशौ सखायौ

यदृच्छयैतौ कृतनीडौ च वृक्षे ।

एकस्तयोः खादति पिप्पलान्न-

मन्यो निरन्नोऽपि बलेन भूयान् ॥ ६॥

आत्मानमन्यं च स वेद विद्वा-

नपिप्पलादो न तु पिप्पलादः ।

योऽविद्यया युक् स तु नित्यबद्धो

विद्यामयो यः स तु नित्यमुक्तः ॥ ७॥

देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद्यथोत्थितः ।

अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग्यथा ॥ ८॥

इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च ।

गृह्यमाणेष्वहं कुर्यान्न विद्वान् यस्त्वविक्रियः ॥ ९॥

दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा ।

वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते ॥ १०॥

एवं विरक्तः शयन आसनाटनमज्जने ।

दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥ ११॥

न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ।

प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः ॥ १२॥

वैशारद्येक्षयासङ्गशितया छिन्नसंशयः ।

प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते ॥ १३॥

यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।

वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः ॥ १४॥

यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद्यदृच्छया ।

अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः ॥ १५॥

न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा ।

वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः ॥ १६॥

न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा ।

आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ १७॥

शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि ।

श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः ॥ १८॥

गां दुग्धदोहामसतीं च भार्यां

देहं पराधीनमसत्प्रजां च ।

वित्तं त्वतीर्थीकृतमङ्ग वाचं

हीनां मया रक्षति दुःखदुःखी ॥ १९॥

यस्यां न मे पावनमङ्ग कर्म

स्थित्युद्भवप्राणनिरोधमस्य ।

लीलावतारेप्सितजन्म वा स्या-

द्वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ २०॥

एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि ।

उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१॥

यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।

मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ २२॥

श्रद्धालुर्मे कथाः श‍ृण्वन् सुभद्रा लोकपावनीः ।

गायन्ननुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥ २३॥

मदर्थे धर्मकामार्थानाचरन् मदपाश्रयः ।

लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥ २४॥

सत्सङ्गलब्धया भक्त्या मयि मां य उपासिता ।

स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् ॥ २५॥

उद्धव उवाच

साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो ।

भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भिरादृता ॥ २६॥

एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो ।

प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७॥

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।

अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ २८॥

श्रीभगवानुवाच

कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।

सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥ २९॥

कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।

अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ॥ ३०॥

अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः ।

अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ॥ ३१॥

आज्ञायैवं गुणान् दोषान् मयाऽऽदिष्टानपि स्वकान् ।

धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स सत्तमः ॥ ३२॥

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः ।

भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ ३३॥

मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् ।

परिचर्या स्तुतिः प्रह्वगुणकर्मानुकीर्तनम् ॥ ३४॥

मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव ।

सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥ ३५॥

मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।

गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सवः ॥ ३६॥

यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।

वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७॥

ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः ।

उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि ॥ ३८॥

सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः ।

गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ ३९॥

अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् ।

अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥ ४०॥

यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।

तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ४१॥

सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम् ।

भूरात्मा सर्वभूतानि भद्रपूजापदानि मे ॥ ४२॥

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।

आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना ॥ ४३॥

वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।

वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥ ४४॥

स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।

क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५॥

धिष्ण्येष्वेष्विति मद्रूपं शङ्खचक्रगदाम्बुजैः ।

युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः ॥ ४६॥

इष्टापूर्तेन मामेवं यो यजेत समाहितः ।

लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ ४७॥

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव ।

नोपायो विद्यते सध्र्यङ् प्रायणं हि सतामहम् ॥ ४८॥

अथैतत्परमं गुह्यं श‍ृण्वतो यदुनन्दन ।

सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा ॥ ४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे एकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः१२

 

श्रीभगवानुवाच

न रोधयति मां योगो न साङ्ख्यं धर्म एव च ।

न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ १॥

व्रतानि यज्ञश्छान्दांसि तीर्थानि नियमा यमाः ।

यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥ २॥

सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।

गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ ३॥

विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।

रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥ ४॥

बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः ।

वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ॥ ५॥

सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः ।

व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ॥ ६॥

ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ।

अव्रताऽतप्ततपसः सत्सङ्गान्मामुपागताः ॥ ७॥

केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।

येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥ ८॥

यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः ।

व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि ॥ ९॥

रामेण सार्धं मथुरां प्रणीते

श्वाफल्किना मय्यनुरक्तचित्ताः ।

विगाढभावेन न मे वियोग-

तीव्राधयोऽन्यं ददृशुः सुखाय ॥ १०॥

तास्ताः क्षपाः प्रेष्ठतमेन नीता

मयैव वृन्दावनगोचरेण ।

क्षणार्धवत्ताः पुनरङ्ग तासां

हीना मया कल्पसमा बभूवुः ॥ ११॥

ता नाविदन् मय्यनुषङ्गबद्ध-

धियः स्वमात्मानमदस्तथेदम् ।

यथा समाधौ मुनयोऽब्धितोये

नद्यः प्रविष्टा इव नामरूपे ॥ १२॥

मत्कामा रमणं जारमस्वरूपविदोऽबलाः ।

ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ॥ १३॥

तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।

प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥ १४॥

मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।

याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ॥ १५॥

उद्धव उवाच

संशयः श‍ृण्वतो वाचं तव योगेश्वरेश्वर ।

न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ॥ १६॥

श्रीभगवानुवाच

स एष जीवो विवरप्रसूतिः

प्राणेन घोषेण गुहां प्रविष्टः ।

मनोमयं सूक्ष्ममुपेत्य रूपं

मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ १७॥

यथानलः खेऽनिलबन्धुरूष्मा

बलेन दारुण्यधिमथ्यमानः ।

अणुः प्रजातो हविषा समिध्यते

तथैव मे व्यक्तिरियं हि वाणी ॥ १८॥

एवं गदिः कर्मगतिर्विसर्गो

घ्राणो रसो दृक्स्पर्शः श्रुतिश्च ।

सङ्कल्पविज्ञानमथाभिमानः

सूत्रं रजःसत्त्वतमोविकारः ॥ १९॥

अयं हि जीवस्त्रिवृदब्जयोनि-

रव्यक्त एको वयसा स आद्यः ।

विश्लिष्टशक्तिर्बहुधेव भाति

बीजानि योनिं प्रतिपद्य यद्वत् ॥ २०॥

यस्मिन्निदं प्रोतमशेषमोतं

पटो यथा तन्तुवितानसंस्थः ।

य एष संसारतरुः पुराणः

कर्मात्मकः पुष्पफले प्रसूते ॥ २१॥

द्वे अस्य बीजे शतमूलस्त्रिनालः

पञ्चस्कन्धः पञ्चरसप्रसूतिः ।

दशैकशाखो द्विसुपर्णनीड-

स्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः ॥ २२॥

अदन्ति चैकं फलमस्य गृध्रा

ग्रामेचरा एकमरण्यवासाः ।

हंसा य एकं बहुरूपमिज्यै-

र्मायामयं वेद स वेद वेदम् ॥ २३॥

एवं गुरूपासनयैकभक्त्या

विद्याकुठारेण शितेन धीरः

विवृश्च्य जीवाशयमप्रमत्तः

सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यादशोयः१३

श्रीभगवानुवाच

सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः ।

सत्त्वेनान्यतमौ हन्यात्सत्त्वं सत्त्वेन चैव हि ॥ १॥

सत्त्वाद्धर्मो भवेद्वृद्धात्पुंसो मद्भक्तिलक्षणः ।

सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ २॥

धर्मो रजस्तमो हन्यात्सत्त्ववृद्धिरनुत्तमः ।

आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ ३॥

आगमोऽपः प्रजा देशः कालः कर्म च जन्म च ।

ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः ॥ ४॥

तत्तत्सात्त्विकमेवैषां यद्यद्वृद्धाः प्रचक्षते ।

निन्दन्ति तामसं तत्तद्राजसं तदुपेक्षितम् ॥ ५॥

सात्त्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये ।

ततो धर्मस्ततो ज्ञानं यावत्स्मृतिरपोहनम् ॥ ६॥

वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।

एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥ ७॥

उद्धव उवाच

विदन्ति मर्त्याः प्रायेण विषयान् पदमापदाम् ।

तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ ८॥

श्रीभगवानुवाच

अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि ।

उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ ९॥

रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।

ततः कामो गुणध्यानाद्दुःसहः स्याद्धि दुर्मतेः ॥ १०॥

करोति कामवशगः कर्माण्यविजितेन्द्रियः ।

दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ ११॥

रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः ।

अतन्द्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते ॥ १२॥

अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयञ्छनैः ।

अनिर्विण्णो यथा कालं जितश्वासो जितासनः ॥ १३॥

एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः ।

सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा ॥ १४॥

उद्धव उवाच

यदा त्वं सनकादिभ्यो येन रूपेण केशव ।

योगमादिष्टवानेतद्रूपमिच्छामि वेदितुम् ॥ १५॥

श्रीभगवानुवाच

पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।

पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १६॥

सनकादय ऊचुः

गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।

कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षोः ॥ १७॥

श्रीभगवानुवाच

एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः ।

ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८॥

स मामचिन्तयद्देवः प्रश्नपारतितीर्षया ।

तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १९॥

दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।

ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति ॥ २०॥

इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा ।

यदवोचमहं तेभ्यस्तदुद्धव निबोध मे ॥ २१॥

वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः ।

कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ २२॥

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।

को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ २३॥

मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः ।

अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥ २४॥

गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः ।

जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५॥

गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया ।

गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६॥

जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः ।

तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ २७॥

यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदः ।

मयि तुर्ये स्थितो जह्यात्त्यागस्तद्गुणचेतसाम् ॥ २८॥

अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् ।

विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ॥ २९॥

यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः ।

जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ ३०॥

असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा ।

गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१॥

यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्

भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान् ।

स्वप्ने सुषुप्त उपसंहरते स एकः

स्मृत्यन्वयात्त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२॥

एवं विमृश्य गुणतो मनसस्त्र्यवस्था

मन्मायया मयि कृता इति निश्चितार्थाः ।

सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण-

ज्ञानासिना भजत माखिलसंशयाधिम् ॥ ३३॥

ईक्षेत विभ्रममिदं मनसो विलासं

दृष्टं विनष्टमतिलोलमलातचक्रम् ।

विज्ञानमेकमुरुधेव विभाति माया

स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः ॥ ३४॥

दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्ण-

स्तूष्णीं भवेन्निजसुखानुभवो निरीहः ।

सन्दृश्यते क्व च यदीदमवस्तुबुद्ध्या

त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् ॥ ३५॥

देहं च नश्वरमवस्थितमुत्थितं वा

सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् ।

दैवादपेतमुत दैववशादुपेतं

वासो यथा परिकृतं मदिरामदान्धः ॥ ३६॥

देहोऽपि दैववशगः खलु कर्म यावत्

स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं स प्रपञ्चमधिरूढसमाधियोगः

स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३७॥

मयैतदुक्तं वो विप्रा गुह्यं यत्साङ्ख्ययोगयोः ।

जानीत माऽऽगतं यज्ञं युष्मद्धर्मविवक्षया ॥ ३८॥

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।

परायणं द्विजश्रेष्ठाः श्रियःकीर्तेर्दमस्य च ॥ ३९॥

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।

सुहृदं प्रियमात्मानं साम्यासङ्गादयोगुणाः ॥ ४०॥

इति मे छिन्नसन्देहा मुनयः सनकादयः ।

सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ ४१॥

तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः ।

प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे त्रयोदशोऽध्यायः १३

 

नमो भगवते वासुदेवाय

चतुर्दशोऽध्यायः१४

उद्धव उवाच

वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।

तेषां विकल्पप्राधान्यमुताहो एकमुख्यता ॥ १॥

भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।

निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ २॥

श्रीभगवानुवाच

कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।

मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ॥ ३॥

तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।

ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥ ४॥

तेभ्यः पितृभ्यस्तत्पुत्रा देवदानवगुह्यकाः ।

मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५॥

किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः ।

बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥ ६॥

याभिर्भूतानि भिद्यन्ते भूतानां पतयस्तथा ।

यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ ७॥

एवं प्रकृतिवैचित्र्याद्भिद्यन्ते मतयो नृणाम् ।

पारम्पर्येण केषाञ्चित्पाखण्डमतयोऽपरे ॥ ८॥

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।

श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९॥

धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।

अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ।

केचिद्यज्ञतपो दानं व्रतानि नियमान् यमान् ॥ १०॥

आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः ।

दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११॥

मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ।

मयाऽऽत्मना सुखं यत्तत्कुतः स्याद्विषयात्मनाम् ॥ १२॥

अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।

मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३॥

न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं

न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा

मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ १४॥

न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।

न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ १५॥

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।

अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥ १६॥

निष्किञ्चना मय्यनुरक्तचेतसः

शान्ता महान्तोऽखिलजीववत्सलाः ।

कामैरनालब्धधियो जुषन्ति यत्

तन्नैरपेक्ष्यं न विदुः सुखं मम ॥ १७॥

बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः ।

प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८॥

यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् ।

तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ १९॥

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।

न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २०॥

भक्त्याहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् ।

भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात् ॥ २१॥

धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ।

मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२॥

कथं विना रोमहर्षं द्रवता चेतसा विना ।

विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाऽऽशयः ॥ २३॥

वाग्गद्गदा द्रवते यस्य चित्तं

रुदत्यभीक्ष्णं हसति क्वचिच्च ।

विलज्ज उद्गायति नृत्यते च

मद्भक्तियुक्तो भुवनं पुनाति ॥ २४॥

यथाग्निना हेम मलं जहाति

ध्मातं पुनः स्वं भजते च रूपम् ।

आत्मा च कर्मानुशयं विधूय

मद्भक्तियोगेन भजत्यथो माम् ॥ २५॥

यथा यथाऽऽत्मा परिमृज्यतेऽसौ

मत्पुण्यगाथाश्रवणाभिधानैः ।

तथा तथा पश्यति वस्तु सूक्ष्मं

चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥ २६॥

विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते ।

मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७॥

तस्मादसदभिध्यानं यथा स्वप्नमनोरथम् ।

हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ २८॥

स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।

क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ २९॥

न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः ।

योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३०॥

उद्धव उवाच

यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम् ।

ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१॥

श्रीभगवानुवाच

सम आसन आसीनः समकायो यथासुखम् ।

हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ ३२॥

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।

विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः ॥ ३३॥

हृद्यविच्छिन्नमोङ्कारं घण्टानादं बिसोर्णवत् ।

प्राणेनोदीर्य तत्राथ पुनः संवेशयेत्स्वरम् ॥ ३४॥

एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् ।

दशकृत्वस्त्रिषवणं मासादर्वाग्जितानिलः ॥ ३५॥

हृत्पुण्डरीकमन्तःस्थमूर्ध्वनालमधोमुखम् ।

ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम् ॥ ३६॥

कर्णिकायां न्यसेत्सूर्यसोमाग्नीनुत्तरोत्तरम् ।

वह्निमध्ये स्मरेद्रूपं ममैतद्ध्यानमङ्गलम् ॥ ३७॥

समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।

सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८॥

समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ।

हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥ ३९॥

शङ्खचक्रगदापद्मवनमालाविभूषितम् ।

नूपुरैर्विलसत्पादं कौस्तुभप्रभया युतम् ॥ ४०॥

द्युमत्किरीटकटककटिसूत्राङ्गदायुतम् ।

सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षणम् ॥ ४१॥

सुकुमारमभिध्यायेत्सर्वाङ्गेषु मनो दधत् ।

इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनः ।

बुद्ध्या सारथिना धीरः प्रणयेन्मयि सर्वतः ॥ ४२॥

तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् ।

नान्यानि चिन्तयेद्भूयः सुस्मितं भावयेन्मुखम् ॥ ४३॥

तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत् ।

तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४॥

एवं समाहितमतिर्मामेवात्मानमात्मनि ।

विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५॥

ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः ।

संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ्रमः ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे चतुर्दशोऽध्यायः १४

 

नमो भगवते वासुदेवाय

पञ्चदशोऽध्यायः१५

श्रीभगवानुवाच

जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः ।

मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः ॥ १॥

उद्धव उवाच

कया धारणया का स्वित्कथं वा सिद्धिरच्युत ।

कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् ॥ २॥

श्रीभगवानुवाच

सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः ।

तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ॥ ३॥

अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः ।

प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता ॥ ४॥

गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति ।

एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः ॥ ५॥

अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् ।

मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६॥

स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् ।

यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहतागतिः ॥ ७॥

त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता ।

अग्न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजयः ॥ ८॥

एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः ।

यया धारणया या स्याद्यथा वा स्यान्निबोध मे ॥ ९॥

भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः ।

अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १०॥

महत्यात्मन्मयि परे यथासंस्थं मनो दधत् ।

महिमानमवाप्नोति भूतानां च पृथक् पृथक् ॥ ११॥

परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।

कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् ॥ १२॥

धारयन् मय्यहं तत्त्वे मनो वैकारिकेऽखिलम् ।

सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३॥

महत्यात्मनि यः सूत्रे धारयेन्मयि मानसम् ।

प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥ १४॥

विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे ।

स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् ॥ १५॥

नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते ।

मनो मय्यादधद्योगी मद्धर्मा वशितामियात् ॥ १६॥

निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।

परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ १७॥

श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि ।

धारयञ्छ्वेततां याति षडूर्मिरहितो नरः ॥ १८॥

मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् ।

तत्रोपलब्धा भूतानां हंसो वाचः श‍ृणोत्यसौ ॥ १९॥

चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि ।

मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ २०॥

मनो मयि सुसंयोज्य देहं तदनुवायुना ।

मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ २१॥

यदा मन उपादाय यद्यद्रूपं बुभूषति ।

तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः ॥ २२॥

परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।

पिण्डं हित्वा विशेत्प्राणो वायुभूतः षडङ्घ्रिवत् ॥ २३॥

पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु ।

आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् ॥ २४॥

विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् ।

विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ २५॥

यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परः पुमान् ।

मयि सत्ये मनो युञ्जंस्तथा तत्समुपाश्नुते ॥ २६॥

यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् ।

कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम ॥ २७॥

मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः ।

तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥ २८॥

अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः ।

मद्योगश्रान्तचित्तस्य यादसामुदकं यथा ॥ २९॥

मद्विभूतीरभिध्यायन् श्रीवत्सास्त्रविभूषिताः ।

ध्वजातपत्रव्यजनैः स भवेदपराजितः ॥ ३०॥

उपासकस्य मामेवं योगधारणया मुनेः ।

सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥ ३१॥

जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः ।

मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ ३२॥

अन्तरायान् वदन्त्येता युञ्जतो योगमुत्तमम् ।

मया सम्पद्यमानस्य कालक्षपणहेतवः ॥ ३३॥

जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः ।

योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ॥ ३४॥

सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः ।

अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ ३५॥

अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम् ।

यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे पञ्चदशोऽध्यायः १५

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.