श्रीविष्णुपुराणम् Amsa 03 Ady 08

श्रीविष्णुपुराणम्

अष्टमोऽध्यायः

मैत्रेयः-

भगवन्भगवान्देवः संसारविजिगीषुभिः। समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥१॥

आराधिताच्च गोविन्दादाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥२॥

श्रीपराशर:-

यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतश्शृणु ॥३॥

सगरः प्रणिपत्यैनमौर्वं पप्रच्छ भार्गवम् । विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ४ ॥

फलं चाराधिते विष्णौ यत्पुंसामभिजायते । स चाह पृष्टो यत्तेन तस्मै तन्मेऽखिलं शृणु ॥ ५॥

और्व:-

भौमं मनोरथं स्वर्गं स्वर्गिवन्द्यं च यत्पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥६॥

यद्यदिच्छति यावच्च फलमाराधितेऽच्युते । तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥७॥

यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः । तदहं सकलं तुभ्यं कथयामि निवोध मे ॥८॥

            पूर्वं भगवदाज्ञारूपश्रुतिस्मृत्युक्तवर्णाश्रमधर्मानुष्ठानं भक्तिलक्षणमुक्तम् । इदानीं तदेव चतुर्वर्गसाधनमित्युच्यते भगवन्नित्यध्यायनवकेन ॥ १-८ ॥

वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ९ ॥

वर्णाश्रमेति ॥ आचारवतेत्यत्राचारग्रहणं यज्ञादेः कर्मणोऽप्युपलक्षणम् ॥९॥

यजन्यज्ञान्यजत्येनं जपत्येनं जपन्नृप । निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ १० ॥

तस्मात्सदाचारवता पुरुषेण जनार्दनः । आराध्यते स्ववर्णोक्तधर्मानुष्ठानकारिणा ॥ ११ ॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च पृथिवीपते । स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ १२ ॥

परापवादं पैशुन्यमनृतं च न भाषते । अन्योद्वेगकरं वाऽपि तोष्यते तेन केशवः ॥ १३ ॥

परदारपरद्रव्यपरहिंसासु यो रतिम् । न करोति पुमान्भूप तोष्यते तेन केशवः ॥ १४ ॥

न ताडयति नो हन्ति प्राणिनो नासदीहते । यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ १५ ॥

देवद्विजगुरूणां यः शुश्रूषासु सदोद्यतः । तोष्यते तेन गोविन्दः पुरुषेण नरेश्वर ॥ १६ ॥

यथात्मनि च पुत्रे च सर्वभूतेषु यस्तथा। हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ १७ ॥

यस्य रागादिदोषेण न दुष्टं नृप मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ १८ ॥

            ननु वर्णाश्रमधर्मो यदि देवताविषयः कथमस्य भगवदाराधनत्वमित्यत्राह–यजन्निति ॥ सर्वभूतः-सर्वात्मभूत: *ये यजन्ति पितृन् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥ इति स्मृतेः । * येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ इति, * गावो हि द्विजमुख्याश्च * इत्यादि च ॥ १०-१८ ॥

वर्णाश्रमेषु ये धर्माश्शास्त्रोक्ता नृपसत्तम । तेषु तिष्ठन्नरो विष्णुमाराधयति नान्यथा ॥ १९ ॥

     सगरः –

तदहं श्रोतुमिच्छामि वर्णधर्मानशेषतः । तथैवाश्रधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ २० ॥

     और्व:-

ब्राह्मणक्षत्रियविशां शुद्राणां च यथाक्रमम् । त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान् ॥ २१ ॥

          वर्णाश्रमेष्विति ॥ तेषु तिष्ठन्-ताननुतिष्ठन् ॥ १९-२१ ॥

दानं दद्याद्यजेद्देवान्यज्ञैस्स्वाध्यायतत्परः । नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ २२ ॥

         दानमिति ॥ नित्योदकी-(नित्योदकं) स्नानतर्पणादिकृत् । अग्निपरिग्रहं—स्मार्तस्यौपासनाग्नेः, श्रौताग्निप्रयस्य च परिग्रहम् ॥ २२ ॥

वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा । कुर्यात्प्रतिग्रहादानं शुक्लार्थान्न्यायतो द्विजः ॥ २३ ॥

सर्वभूतहितं कुर्यान्नाहितं कस्यचिद्द्विजः । मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ २४ ॥

          वृत्त्यर्थमिति ॥ प्रतिग्रहः–प्रतिग्राह्यो गवादि । शुक्लार्थात्— न्यायार्जितशुक्लधनात्। विप्रादे– -स्ववृत्त्युपात्तं सर्वेषामेव शुक्लम् । *क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया । अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ॥ इति । विष्णुः। *श्रुतशौर्यतपःकन्यायाज्यशिष्यान्वयागतम्। धनं सप्तविधं शुक्लम्* इति नारदः । न्यायत:–कालपुरुषदानादिनिषिद्धप्रतिग्रहादिवृत्तिं विना । आपदि  शुद्धाद्राजादेर्ग्राह्यम् *राजांतेवासियाज्येभ्यः सीदन्निच्छेद्धनं -धा * इति ॥ *न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः* इति स्मृतेश्च ॥ २३, २४ ॥

ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद्द्विजः । ऋतावभिगमः पत्न्यां शस्यते चास्य पार्थिव ॥२५॥

दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोऽपि हि । यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिव ॥ २६ ॥

             ग्राव्णीति ॥ ऋतावभिगम:—चतुर्थीप्रभृत्याषोडशमित्यादि । * षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाद्याश्चतस्रस्तु विवर्जयेत् ॥ इति च ॥ २५, २६ ॥

शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तत्रापि प्रथमः कल्पः पृथिवीपरिपालनम् ॥ २७ ॥

         शस्त्राजीव इति ॥ तत्रापि-वृत्तिद्वयेऽपि, पृथिवीपालनं प्रथमः कल्पः–मुख्यत्वेन प्रवृत्त इति शेषः ॥२७॥

धरित्रीपालनेनैव कृतकृत्या नराधिपाः । भवन्ति नृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ २८ ॥

दृष्टानां शासनाद्राजा शिष्टानां परिपालनात् । प्राप्नोत्यभिमताँल्लोकान्वर्णसंस्थां करोति यः ॥२९॥

पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ३० ॥

तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते । नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ ३१ ॥

       धरित्रीति ॥ अंशाः-षष्ठतुरीयार्थत्रिपादाख्याः। तत्र राज्ञा देशस्थितैः कृतस्य षष्ठांशस्स्यात् । अहं त्वां रक्षामीत्यभयप्रदाने पादः। तद्रक्षार्थमन्नदानेऽर्द्धम्। सत्कृत्यान्नदाने त्रिपादम् । *धर्मषष्ठांशभागी स्यात्प्रजा धर्मेण पालयन्* इति भारते । यथा चतुर्थं  धर्मस्य रक्षिता लभते फलम् । पापस्यापि तथा मूढो  भागं प्राप्नोत्यरक्षिता ॥ रक्षिष्यामीति चोक्तं ते न च शक्नोषि रक्षितुम् ॥ इति  हरिवंशे अर्जुनं प्रति ब्राह्मणवचनम् ॥ * यस्यान्नपानपुष्टांगः कुरुते  धर्मसंचयम् । अन्नप्रदातुस्तस्यार्द्धं  कर्तुश्चार्द्धं  न संशयः ॥ इति, * अन्नदातुस्त्रयः पादाः कर्ता पादेन लिप्यते* इति च वचनान्तरम् ॥ २८-३१॥

द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् । क्रयविक्रयजैर्वापि धनैः कारूद्भवेन वा ॥ ३२ ॥

         द्विजातीति ॥ शूद्रस्य कर्म द्विजातिसंश्रितं तच्छुश्रूषारूपं, तादर्थ्यं-तच्छेषत्वं च, तेन तद्द्विजशुश्रूषादिजन्यधनेनात्मपोषणं मुख्यम् । आपदि तु वाणिज्येन कारूद्भवेन-तक्षादिकारु–       -वृत्योत्पन्नधनेन वा, *शूद्रस्य द्विजशुश्रूषा तयाऽजीवन् वणिग्भवेत् * इत्यादिस्मृतेः ॥ ३२ ॥

शूद्रस्य सन्नतिश्शैचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं तत्संगो विप्ररक्षणम् ॥ ३३ ॥

        दानमिति ॥ पाकयज्ञैः-अल्पयज्ञैः * पाकोऽल्पेऽपि शिशावपि * इति वैजयन्ती । वैश्वदेवाद्यैः नमस्करैकमन्त्रैः लौकिकानां पाकयज्ञशब्द इत्यापस्तंबः । *नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत्* इति याज्ञवल्क्यः ॥ ३३ ॥

दानं च दद्याच्छूद्रोऽपि पाकयज्ञैर्यजेत च । पित्र्यादिकं च तत्सर्वं शूद्रः कुर्वीत तेन वै ॥ ३४ ॥

भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः । ऋतुकालेऽभिगमनं स्वदारेषु महीपते ॥ ३५ ॥

दया समस्तभूतेषु तितिक्षा नातिमानिता । सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ ३६ ॥

मैत्र्यस्पृहा तथा तद्वदकार्पण्यं नरेश्वर । अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ ३७॥

          भृत्यादीति ॥ परिग्रहः—अन्यैरस्वीकृतानां  तृणकाष्ठादीनां स्वीकारः, स तु सर्वेषां वर्णानां साधारणः ॥३४-३७॥

आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । गुणांस्तथावद्धर्मांश्च विप्रादीनामिमाञ्छृणु ॥ ३८ ॥

               आश्रमाणामिति ॥ सर्वेषां वर्णानां साधारणाः ॥ ३८ ॥

क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथाऽऽपदि । राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ ३९ ॥

         क्षात्रमिति ॥ आपदि तु  ब्राह्मणस्य  क्षात्रं कर्मोक्तम् । राजन्यस्य  वैश्यं  कर्म । शूद्रकर्म वैश्योक्तं–वैश्यस्योक्तम् । एतयो:–ब्राह्मणराजन्ययोः न चोक्तम् ॥ ३९ ॥

सामर्थ्ये सति तत्याज्यमुभाभ्यामपि पार्थिव । तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ ४०॥

इत्येते कथिता राजन्वर्णधर्मा मया तव । धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ ४१ ॥

    सामर्थ्य इति ॥ उभाभ्यां-बाह्मणराजन्याभ्यां, सामर्थ्ये सति-शक्तौ सत्यां, तत्-आपत्कर्म, त्याज्यम्। शक्तस्य अनुकल्पाश्रयः, अशक्तस्य मुख्यकल्पनिबन्धश्च कर्मसंकरः, वृत्योर्व्यतिकरो वा ॥ ४०, ४१ ॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयांशे अष्टमोऽध्यायः ॥ ८॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते विष्णुपुराणव्याख्याने  श्रीविष्णुचित्तीये तृतीयांशे अष्टमोऽध्यायः ॥ ८॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.