34 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुस्त्रिंशः सर्गः

तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।

दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।। 5.34.1।।

तस्या इत्यादि । दुःखात् दुःखाभिभूतायाः उत्तरोत्तरं दुःखं प्राप्तायाः ।। 5.34.1।।

अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।

वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।। 5.34.2।।

अहमिति । तव दुतः प्रति प्रेषितो दुतः ।। 5.34.2।।

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।

स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ।। 5.34.3।।

लक्ष्मणश्च महातेजा भर्तुस्ते ऽनुचरः प्रियः ।

कृतवाञ्छोकसन्तप्तः शिरसा ते ऽभिवादनम् ।। 5.34.4।।

य इति । वेद वेत्ति । वेदविदां वेदार्थज्ञानवताम् ।। 4.34.34।।

सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।

प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। 5.34.5।।

सेति । प्रीतिसंहृष्टसर्वाङ्गी प्रीत्या पुलकितसर्वाङ्गी ।। 5.34.5।।

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।

एति जीवन्तमानन्दो नरं वर्षशतादपि ।। 5.34.6।।

दुःखबाहुल्येपि रामदर्शनप्रत्याशया कृच्छ्रेण जीवन्त्याः देव्याः जीवनफलस्य लब्धत्वीत्तत्संवादिनीं गाथां स्तौति कल्याणीति । कल्याणी सत्यार्था । मा प्रतिभाति मां प्रतिभाति । वर्षशतादपीत्यन्ते इतिकरणं बोद्ध्यम् ।। 5.34.6।।

तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्भुता ।

परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ।। 5.34.7।।

तया सीतया तस्मिन् हनुमति विषये अद्भुता प्रीतिरुत्पादिता । परस्परेणेत्यादिकं वक्ष्यमाणस्य सर्गस्य संग्रहः ।। 5.34.7।।

तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।

सीतायाः शोकदीनायाः समीपमुपचक्रमे ।। 5.34.8।।

तस्या इति । उपचक्रमे, गन्तुमिति शेषः । प्रापेति वा ऽर्थः ।। 5.34.8।।

यथा यथा समीपं स हनुमानुपसर्पति ।

तथा तथा रावणं सा तं सीता परिशङ्कते ।। 5.34.9।।

यथा यथेति । रावणं परिशङ्कते रामकुशलकथनेन सञ्जातरावणमायास्मरणां पुनः शङ्कितवतीत्यर्थः ।। 5.34.9।।

अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे ।

रूपान्तरमुपागम्य स एवायं हि रावणः ।। 5.34.10।।

मे मया अस्य पुरतः यत्कथितं तत् दुष्कृतम् अनुचितं कृतम् । इदम् अनालोच्य कथनं धिक् । अहो इति खेदे । खेदहेतुमाह रूपान्तरमिति । वर्तत इति शेषः ।। 5.34.10।।

तामशोकस्य शाखां सा विमुक्ता शोककर्शिता ।

तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ।। 5.34.11।।

यद्यपि पूर्वं शिंशुपाशाखावलम्बनमुक्तं तथापि शिंशुपाशाखा अशोकसंवलितेति क्वचिच्छिंशुपेत्युच्यते क्वचिदशोक इति । अतो न कश्चिद्दोषः ।। 5.34.11।।

हमुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।

सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।। 5.34.12।।

तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।

अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ।।। 5.34.13।।

भयवित्रस्ता भयहेतुना वित्रस्ता ।। 5.34.1213।।

मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।

उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ।। 5.34.14।।

स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।

जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ।। 5.34.15।।

उपवासकृशां दीनां कामरूप निशाचर ।

सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम् ।। 5.34.16।।

मायावीस्वत एव मायावान् । “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । इदानीं मायां प्रविष्टः आश्रितः । स्वयं रावणस्सन् मम सन्तापसुत्पादयसीति यदि उत्पादयसीति यत् तत्सन्तापोत्पादनं ते न शोभनम् ।। तवाप्यभीष्टविरहसन्तापो भविष्यतीत्यर्थः ।। 5.34.1416।।

अथवा नैतदेवं हि यन्मया परिशङ्कितम् ।

मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ।। 5.34.17।।

यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ।

पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।

गुणान् रामस्य कथय प्रियस्य मम वानर ।। 5.34.18।।

चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।। 5.34.19।।

हनुमन्तं रावणमाशङ्क्य तज्जनितमनःप्रसादमालोच्य तां शङ्कां निराचष्टे अथवेति । मया यत् परिशङ्कितम् एतन्नैवं हि नैवमेव । कुत इत्यत आह मनस इति ।। 5.34.1719।।

अहो स्वप्नस्य सुखता या ऽहमेंव चिराहृता ।

प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।। 5.34.20।।

इह रामदूतागमनमत्यन्तासम्भावितमिति मत्वा पुनर्बहुधा शङ्कते अहो इत्यादिना ।। 5.34.20।।

स्वप्ने ऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।

पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी ।। 5.34.21।।

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ।

न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ।। 5.34.22।।

स्वप्ने ऽपीति । स्वप्ने ऽपि यद्यहं वीरम् । राक्षसीमध्यवासकृतं दुःखं स्वप्नदृष्टो ऽपि निवर्तयितुं क्षम इति वीर्यातिशयोक्तिः । राघवं सहलक्ष्मणम् । विश्लेषदशायामुभयोर्दर्शनात् स्वप्नदर्शने ऽप्युभयोर्दर्शनं भवेति । यद्वा तदानीमुभयोर्विश्लेषात्तौ किं परस्परं संयुक्तौ न वेति शङ्कते । पश्येयं नावसीदेयम् एवमुभयोस्स्वप्ने दर्शनेपि महत् दुःखं निवर्तेत, कथंजिद् जीवितं धारयेयम् । स्वप्नोपि मम मत्सरी । मद्दशां विज्ञाय राम इव स्वप्नोपि मयि मात्सर्यं करोति ।। 5.34.2122।।

किन्नु स्याच्चित्तमोहो ऽयं भवेद्वातगतिस्त्वियम् ।

उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ।। 5.34.23।।

एवं यथार्थस्वप्रपक्षौ निरस्य पुनश्चतुरो विभ्रमपक्षानुत्प्रेक्षते किन्नु स्यादिति । चित्तमोहः रामक्षेमवार्ताश्रवणकुतूहलकन्दलितनिरन्तरचिन्तासन्ततिपरिणतिवेशेषरूपः कोपि मनसो विभ्रम इत्यर्थः । असत्यश्चित्तसङ्कल्पो वा । वातगतिः उपवासादिप्रयुक्तधातुक्षोभजो वातविकाररूपो भ्रमः । तदध्यारोपो वा यथा त्वरूपस्य वायोः पांसुपुञ्जरूपविशेषो ऽध्यारोपः । उन्मादजो विकारो वा । उन्मादो नाम विरहिणां कश्चिदवस्थाविशेषः, तज्जो विकारो भ्रमः । मृगतृष्णिका अन्यस्यान्यरूपेणावभासः । चित्तमोहोन्मादावप्रकृतिस्थप्रतिभासविशेषौ । वातगतिमृगतृष्णिके तु प्रकृतिस्थस्य ।। 5.34.23।।

अथवा नायमुन्मादो मोहो ऽप्युन्मादलक्षणः ।

संबुद्ध्ये चाहमात्मानमिमं चापि वनौकसम् ।। 5.34.24।।

अनन्तरोक्तचतुष्टयं निराकरोति अथवेत्यादिना । अथवा अयं वानरतद्भाषणादिप्रतिभासः उन्मादो न । मोहोप्युन्मादलक्षणः उन्मादस्य लक्षणमिव लक्षणं यस्य स तथोक्तः । अतः उन्मादनिराकरणेनैव सोपि निराकृत इत्यर्थः । अनयोर्निराकरणमितरपक्षद्वयनिराकरणस्योपलक्षणं कुत इत्यत आह संबुध्य इति । अहम्. आत्मानमिमं वनौकसं चापि संबुध्ये सम्यके जानामि ।। 5.34.24।।

इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ।

रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।। 5.34.25।।

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ।

न प्रतिव्याजहाराथ वानरं जनकात्मजा ।। 5.34.26।।

इत्येवमिति । बलाबलं मोहत्वादीनामबलत्वं रावणत्वस्य बलवत्त्वं च ।। 5.34.2526।।

सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ।

श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ।। 5.34.27।।

सीताया इति । संप्रहर्षयत् संप्राहर्षयत् ।। 5.34.27।।

आदित्य इव तेजस्वी लोककान्तः शशी यथा ।

राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ।। 5.34.28।।

सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।

रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ।। 5.34.29।।

आदित्य इत्यादि । राजेति कुबेरस्य सर्वलोकराजत्वमुक्तम् “राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे” इति । सत्यमधुरावाक्त्वं बृहस्पतेर्वाचस्पतित्वादेव । रूपवान् सौन्दर्यवान् । सुभगः रमणीयः । श्रीमान् कान्तिमान् ।। 5.34.2829।।

सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।

रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ।। 5.34.29।।.

स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ।। 5.34.30।।

स्थाने क्रोधस्थाने क्रोधः यस्यासौ स्थानक्रोधः । प्रहर्ता क्रोधविषये प्रहर्ता । आदित्य इवेत्यादिना उक्तैर्विशेषणैर्विशिष्टो राम इति योज्यम् ।। 5.34.30।।

बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ।। 5.34.31।।

अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।

शून्ये येनापनीता ऽसि तस्य द्क्ष्यसि यत्फलम् ।। 5.34.32।।

नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।

रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ।। 5.34.33।।

तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।

त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ।। 5.34.34।।

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।

अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ।। 5.34.35।।

रामस्य च सखा देवि सुग्रीवो नाम वानरः ।

राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ।। 5.34.36।।

नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।

दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ।। 5.34.37।।

नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।

मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ।। 5.34.38।।

अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।

प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ।। 5.34.39।।

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।

त्वां द्रष्टुमुपयातो ऽहं समाश्रित्य पराक्रमम् ।। 5.34.40।।

बहुच्छायामित्यादि । लोकः महात्मनो यस्य बाहुच्छायाम् अवष्टव्यः आश्रितः । तं मृगरूपेण प्रशस्तमृगेण हेतुना आश्रमपदादपकृष्य शून्ये येनापनीतासि तस्य रावणस्य यत्फलं मरणरूपं तत् द्रक्ष्यसीति योजना । यद्वा बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः असावादित्य इव तेजस्वीत्येवं योजना ।। 5.34.3140।।

नाहमस्मि तथा देवि यथा मामवगच्छसि ।

विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ।। 5.34.41।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ।। 5.34।।

नाहमिति । वञ्चनार्थं परिगृहीतवेष इति मां यथा ऽवगच्छिसि तथा नास्मीत्यर्थः ।। 5.34.41।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ।। 5.34।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.