02 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वितीयः सर्गः

कृतातिथ्यो ऽथ रामस्तु सूर्यस्योदयनं प्रति ।

आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ।। 3.2.1 ।।

एवं प्रथमसर्गेण सिद्धसाधननिष्ठानां मुमुक्षूणां मुनीनां तदीयपर्यन्तं विशिष्टविषयकैङ्कर्यं प्रतिपाद्य खरवधार्थिंमुनिजनशरणागतिं वक्ष्यन् शरण्यत्वोपयोगिसामर्थ्यं विराधवधकथनमुखेन बोधयितुमुपक्रमते कृतातिथ्य इत्यादिना । अत एव सङ्क्षेपे “विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह” इत्यत्र विराधवधोपहारमुखेन शरभङ्गं दृष्टवानिति व्याख्यातम् । तुशब्देन अत्र्यादिकृतातिथ्याद्वैलक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं हि भगवतः परमभोग्यं पत्रं

पुष्ममित्यादि । अथशब्दः कृत्स्नवाची, कार्त्स्न्येन कृतातिथ्य इत्यर्थः । भक्तैर्यत् यत्किञ्चिद्दत्तमपि तत् सर्वातिथ्यत्वेन हि भगवान् स्वीकरोति । सूर्यस्योदयनं प्रतीति कर्मप्रवचनीययोगे द्वितीया । “लक्षणेत्थम्भूताख्यान” इत्यादिना प्रतेः कर्मप्रवचनीयत्वम् । उदयनं प्रति उदयकाले, प्रातःस्नानादि कर्मावसान इत्यर्थः । वनमेवान्वगाहत न च तत्र स्थातुमैच्छदित्यर्थः ।। 3.2.1 ।।

नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ।

ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ।। 3.2.2 ।।

निष्कूजनानाशकुनिझिल्लिकागणनादितम् ।

लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ।। 3.2.3 ।।

नानामृगगणेत्यादिश्लोकद्वयमेकान्वयम् । ध्वस्तवृक्षलतागुल्मं तुङ्गकठिनविराधदेहसम्पर्कादिति भावः । दुर्दर्शसलिलाशयमित्यत्राग्रेप्ययमेव हेतुः । निष्कूजनानाशकुनि निःशब्दनानाविधपक्षिकम्, सुदूरमुड्डीयमानोपि पक्षी तस्मात् भिया निःशब्दं लीयत इति भावः । झिल्लिकागणनादितं झिल्लिकाभिस्तु दुर्दर्शत्वात् सर्वदा शब्द्यत इत्यर्थः । नानेत्यादि सर्वे वनमध्यविशेषणम् ।। 3.2.2,3 ।।

सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते ।

ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ।। 3.2.4 ।।

सीतया सहेत्यादि सार्धश्लोकचतुष्टयमेकान्वयम् । घोरमृगास्तरक्ष्वादयः । पुरुषानत्ति भक्षयतीति पुरुषादः । पचाद्यच् । राक्षसमित्यर्थः । महास्वनं दृढकण्ठध्वनिकम् ।। 3.2.4 ।।

गम्भीराक्षं महावक्त्रं विकटं विषमोदरम् ।

बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ।। 3.2.5 ।।

गम्भीराक्षं निम्नाक्षम् । महावक्रं पृथुतरमुखम् । विकटं विशालम् । विषमोदरं निम्नोन्नतोदरम् । बीभत्सं मांसरुधिरालिप्तशरीरतया कुत्सितम् । विषमं न्यूनाधिकावयवम् । विकृतम् उक्तप्रकारेण विकृतवेषम् अत एव घोरदर्शनम् ।। 3.2.5 ।।

वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् ।

त्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ।। 3.2.6 ।।

वसा मांसं तया आर्द्रम् । रुधिरोक्षितं रक्तसिक्तम् । व्यादितास्यं व्यात्तास्यम् । आर्ष इट् ।। 3.2.6 ।।

त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश ।

सविषाणं वसादिग्धं गजस्य च शिरो महत् ।

अवसज्यायसे शूले विनदन्तं महास्वनम् ।। 3.2.7 ।।

त्रीनित्यादि । भक्षणार्थमिति शेषः । पृषतान् बिन्दुमृगान् । आयसे अयोमये शूले । अवसज्य प्रोतान् कृत्वा महास्वनं यथा तथा विनदन्तं विनादं कुर्वन्तम् ।। 3.2.7 ।।

स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ।

अभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः ।। 3.2.8 ।।

काले संहारकाले । प्रजा उद्दिश्य अन्तको यथा धावति तथा अभ्यधावत । 3.2.8 ।।

स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ।

अङ्केनादाय वैदेहीमपक्रम्य ततो ऽब्रवीत् ।। 3.2.9 ।।

अङ्केन काटिप्रदेशेन ।। 3.2.9 ।।

युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ।

प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ।। 3.2.10 ।।

सभार्याविति भार्याशब्दो योषिन्मात्रवाचीत्येके वदन्ति । अन्ये तु यथा “प्राणभृत उपदधाति” इत्यत्र प्राणभृच्छब्दः प्राणभृदप्राणभृत्साधारणः, यथा च “ऋतं पिबन्तौ” इत्यत्र पानकर्त्रकर्तृसाधारणो जीवेश्वरयोः पिबच्छब्दप्रयोगः तथा छत्त्रिन्याये नात्रापि सभार्यावित्युक्तमित्याहुः । तथापि ध्वनिदोषो ऽवर्जनीयः । वस्तुतस्तु द्वयोरेका भार्यास्तीति दुर्बुद्धिनैवमुक्तमिति सम्यक् । क्षीणजीवितौ मद्धस्ते पतनादिति भावः । यद्वा क्षीणजीवितौ प्रविष्टौ क्षीणजीवितत्वादेव प्रविष्टौ । अत्र प्रविष्टानां जीवितं दुर्लभमिति भावः ।। 3.2.10 ।।

कथं तापसयोर्वां च वासः प्रमदया सह ।

अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ।। 3.2.11 ।।

वस्तुतो विपरीताचारौ युवां मम वध्यावेवेत्याशयेनाह कथमिति । वां युवयोः सह वासश्च कथम्, विरुद्ध इत्यर्थः । “न चवाहा ” इति निषेधे ऽपि वामादेशः आर्षः । कथंशब्दोक्तं विवृणोति अधर्मेति । मुनिदूषकौ मुनिवेषविरुद्धशरचापासिधारणादिति भावः । अत एव पापौ ।। 3.2.11 ।।

अहं वनमिदं दुर्गं विराधो नाम राक्षसः ।

चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ।। 3.2.12 ।।

इयं नारी वरारोहा मम भार्या भविष्यति ।

युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ।। 3.2.13 ।।

मृधे युद्धे ।। 3.2.12,13 ।।

तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ।। 3.2.14 ।।

श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा ।

सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ।। 3.2.15 ।।

सगर्वितं सगर्वम् । भावे निष्ठा । उद्वेगात् भयात् ।। 3.2.14,15 ।।

तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ।

अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ।। 3.2.16 ।।

पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् ।

मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ।

अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ।। 3.2.17 ।।

परिशुष्यता शोकसङ्कुचितेन मुखेन उपलक्षितः ।। 3.2.16,17 ।।

यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ।

कैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण ।। 3.2.18 ।।

कैकेय्याः अस्मासु विषये यदभिप्रेतं यो ऽभिप्रायः । यच्च प्रियं वरवृतं वरव्याजेन वृतं तदद्यैव सुसम्पन्नं फलितम् ।। 3.2.18 ।।

या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ।। 3.2.19 ।।

ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ।

अद्येदानीं सकामा सा या माता मम मध्यमा ।। 3.2.20 ।।

अभिप्रेतशब्दोक्तं सूक्ष्मेक्षिकया विवृणोति या न तुष्यतीति । दीर्घदर्शिन्या कैकैय्या अस्मद्व्यसनं पूर्वमेव यदि न चिन्तितं स्यात्तर्हि पुत्रार्थे राज्यमेव, न तु मत्प्रवासनम् । मत्प्रवासनवरणादेव गम्यते अयं वनं गतश्चेत् सीतापि गच्छेत् सा च राक्षसादिभिरपह्रियेत, तेन रामोपि व्यसनं महत्प्राप्नुयात्, ततश्च मत्पुत्रस्य राज्यं निष्कण्टकं स्यादिति कैकेयी नूनममन्यतेति भावः । पुत्रार्थे पुत्रप्रयोजननिमित्तम् । माता मम मध्यमेति । यद्यपि पूर्वं मम माता कनीयसीत्युक्तम्, तथापि महिषीत्रयापेक्षया कनीयसीत्वं सर्वदशरथपत्न्यपेक्षया मध्यमात्वम्, त्रिशतं पञ्चाशच्च दशरथपत्न्यः सन्तीति पूर्वमेवोक्तम् । अद्य अस्मिन् दिवसे । इदानीम् अस्मिन् क्षणे ।। 3.2.19,20 ।।

परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे ।

पितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ।। 3.2.21 ।।

किं ते तादृशं व्यसनं तत्राह परस्पर्शादिति । वैदेह्याः परस्पर्शाद्यथा दुःखतरम् अतिदुःखं पितृवियोगाद्राज्यहरणाच्च तथा दुःखं नास्तीति योजना ।। 3.2.21 ।।

इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते ।

अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ।। 3.2.22 ।।

इतीति । रुद्धः मन्त्रगणेनिरुद्धः । नागः सर्पः । श्वसन् रामशोकदर्शनादिति भावः ।। 3.2.22 ।।

अनाथ इव भूतानां नाथस्त्वं वासवोपमः ।

मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ।। 3.2.23 ।।

वासवोपमो भूतानां नाथः सन् अनाथ इव नाथसापेक्षो नर इव । विशिष्य मया प्रेष्येण सहितोपि किमर्थं परितप्यसे । वास्तवार्थस्तुभूतानां सर्वलोकानां नाथः वासव उपमीयते ऽनेनेति वासवोपमः त्वम् अनाथ इव नाथभिन्न इव किमर्थं परितप्यसे । एवमेव तत्त्वं जगुः । यथा विश्वामित्रः “अहं वेद्मि महात्मानम् ” इति । यथा च परशुरामः “त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः” इति । एवमृषयोपि ।। 3.2.23 ।।

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।

विराधस्य गतासोर्हि मही पास्यति शोणितम् ।। 3.2.24 ।।

प्रेष्येणे त्वया किं क्रियत इत्यत्राह शरेणेति ।। 3.2.24 ।।

राज्यकामे मम क्रोधो भरते यो बभूव ह ।

तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ।। 3.2.25 ।।

कैकैय्याः भरतार्थं राज्यकाङ्क्षित्वात् भरतस्यापि राज्यकामत्वम् । तं विराधे विमोक्ष्यामीति शरणागते भरते दुर्विमोचत्वादिति भावः । ननु भरतकैकेयीभ्यामज्ञानात् प्रवासनं कारितं पुनरागन्तव्यमिति क्षमापणस्य कृतत्वात् कुतः पुनः रामलक्ष्मणाभ्यां तत्र राज्यापहारित्वमनुस्मर्यते? उच्यते अनन्तरं तथानुष्ठाने ऽपि पूर्वं कैकेय्या तथा चिन्तितत्वात्तस्य चावश्यकर्तव्यत्वाद्दुःखकाले तच्चिन्तनम् । तथापि व्यसनकाले ऽपि परदोषोद्धाटनं सत्पुरुषानुचितं रामप्रकृतिविरुद्धं च सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन दोषदर्शनमेव रामस्य हार्दं तदुपेक्षकत्वं त्वभिनयमात्रमिति स्यात् । अत्रोच्यते व्यसनकाले लोको वाच्यमवाच्यं च न जानातीत्यमुमर्थं व्यञ्जयितुमेवमुक्तमिति ।। 3.2.25 ।।

मम भुजबलवेगवेगितः पततु शरो ऽस्य महान् महोरसि ।

व्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ।। 3.2.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वितीयः सर्गः ।। 2 ।।

ममेति । भुजबलवेगेन धनुराकर्षणवेगेन वेगितः आनीतवेगः । इतजन्तो वा । विघूर्णितः सञ्जातभ्रमणः ।। 3.2.26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वितीयः सर्गः ।। 2 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.