04 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

चतुर्थः सर्गः

दुःस्वप्नदर्श्नादभिषेकभयमाश्ङ्कमानो दशरथस्तदैव राममानाय्य भरतागमनात्प्रागेवाभिषेकः संपाद्य इति निवेद्य सीतया सममाचरितव्यां व्रतचर्यामादिदेश। दशरथाभ्यनुज्ञातो रामः कौसल्यान्तःपुरं प्रविश्य तदाशीर्भिरभिवर्धितः सन्पूर्वं तत्रागतया सीतया समं स्ववासं प्राप।

गतेष्वथ  नृपो  भूयः  पौरेषु सह  मन्त्रिभिः। मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्॥2.4.1॥

श्व एव पुष्यो भविता श्वेsभिषेच्यस्तु मे सुतः।रामो  राजीवपत्राक्षो  युवराज  इति  प्रभुः ॥2.4.2॥

एवं पूर्वविचारितमपि राममाहूयोक्तमपि रामाभिषेकं पुनर्मन्त्रिभिः कालविशेषनिर्णयपूर्वकं राममाहूय सविशेषमुपदिशति चतुर्थे—गत्वेष्वित्यादिना। श्लोकद्वयमेकान्वयम्। अभिषेच्य इति निश्चयं चक्र संबन्धः    ॥1,2॥

अथान्तर्गृहमाविश्य राजा दशरथस्तदा।सूतमामन्त्रयामास  रामं  पुनरिहानय॥2.4.3॥

अथेति । अन्तर्गृहमाविश्येत्यनेन मन्त्रिणामपि विसर्जनं सिद्धम् । आमन्त्रयामास नियोजयामा- सेत्यर्थः। आनयेत्यत्र इतिकरणं द्रष्टव्यम् ॥3॥

प्रतिगृह्य तु तद्वाक्यं सूतः पुनरुपाययौ। रामस्य भवनं  शीघ्रं राममानयितुं पुनः॥2.4.4॥

प्रतिगृह्येति । आनयितुम् आनेतुमित्यर्थः इडार्षः॥4॥

द्वाःस्थैरावेदितं  तस्य  रामायागमनं  पुनः। श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कांवितोभवत्॥2.4.5॥

द्वाःस्थैरिति । तस्य सुमन्त्रस्य पुनरागमनं रामाय द्वाःस्थैरावेदितं रामश्चापि प्राप्तमागतं सुमन्त्रं श्रुत्वैव शङ्कान्वितोsभवत्।किमभिषेकविघ्नः कश्चिदासीत् उतान्यः कश्चिदुपप्लवोsभूदिति शङ्का॥5॥

प्रवेश्य चैनं त्वरितो रामो वचनमब्रवीत्। यदागमनकृत्यं  ते भूयस्तद्ब्रूह्यशेषतः॥2.4.6॥

प्रवेश्येति । भूयः पुनः ते यदागमनकृत्यं तद्ब्रूहीति संबन्धः॥6॥

तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति।श्रुत्वा  प्रमाणं  तत्र  त्वं गमनायेतराय वा॥2.4.7॥

तमिति । सूतः श्रुत्वा रामवाक्यमिति शेषः। ततः रामवाक्यश्रवणानन्तरं राममुवाच कथमिति हे राम ! राजा त्वां द्रष्टुमिच्छति अत्र दशरथसमीपे गमनाय इतराय आगमनाय च त्वं प्रमाणं कर्ता शीघ्रं गच्छेत्यर्थः। इतरशब्दस्य सर्वनामकार्याभाव आर्षः॥7॥

इति सूतवचः श्रुत्वा रामोsपि त्वरयान्वितः।प्रययौ  राजभवनं  पुनर्द्रष्टुं  नरेश्वरम् ॥2.4.8॥

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः।प्रवेशयामास गृहं  विवक्षुः प्रियमुत्तमम्॥2.4.9॥

प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः।ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः॥2.4.10॥

इतीति ॥8॥ तमिति ॥9॥  प्रविशन्निति । राघवः पितुर्भवनं प्रविशन्नेव दूरात्प्रणिपत्य कृताञ्जलिः सन् पितरं ददर्श दूरात्प्रणिपातो विनयातिशयात् ॥10॥

प्रणमन्तं तमुत्थाप्य सम्परिष्वज्य भूमिपः।प्रदिश्य चासनं चास्मै रामं च पुनरब्रवीत् ॥2.4.11॥

प्रणमन्तमिति । समीपे पुनः प्रणमन्तमित्यर्थः ॥11॥

राम वृद्धोस्मि दीर्घायुर्भुक्ता भोगा यथेप्सिताः।अन्नवद्भिः  क्रतुशतैर्यथेष्टं  भूरिदक्षिणैः ॥2.4.12॥

रामेति । वृद्धोस्मीत्यनन्तरं दीर्घायुरिति वृद्धत्वविवरणं, यद्वा ज्ञानवृद्धत्वव्यावृत्तये दीर्घायुरिति। ‘विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्राद्धाविरहितं यज्ञं तामसं परिचक्षते ’इत्यन्नादिहीनस्य यज्ञस्य निन्दनादन्नवद्भिरित्यादिविशेषणं क्रतुशतैः ज्योतिष्टोमाद्यश्वमेधपर्यन्तयागभेदैः इष्टं यजनं कृतम्॥12॥

जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि।दत्तमिष्ट्मधीतं  च मया  पुरुषसत्तम ॥2.4.13॥

जातमिति । इष्टमपत्यमभिमतमपत्यं इष्टं दत्तमभिमतं वस्तु दत्तम् ॥13॥

अनुभूतानि चेष्टानि मया वीरसुखान्यपि।देवर्षिपितृविप्राणामनृणोsस्मि तथात्मनः॥2.4.14॥

देवर्षीति। देवानामनृणः क्रतुशतैःऋषीणामनृणोsध्ययनेन पितृणामनृणोsपत्योत्पादनेन विप्राणामनृणो दत्तेन आत्मनोsनृणः सुखानुभवेन यद्यपि ब्रह्मचर्यादि ऋणत्रयं श्रुतिसिद्धम् “जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवाञ्जायतेब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति। तथापि ऋणपञ्चकमिति मतान्तरम्, यद्वा ऋणत्रयव्यपपदेशः प्राधान्यादितरयोरुपलक्ष– णत्वाद्वा।ननु देवादीनां पञ्चानां कथमुत्तमवर्णत्वं अत्राहुः।देवानामिन्द्रियाधिष्ठातृणां जितेन्द्रिय- ताकारकत्वेनोपकारकत्वात् ऋषीणां वागुपकारकत्वात् पितृणां तनूपकारकत्वात् विप्राणां कर्माधीन -सर्वसंस्कारसाधनेनाघनाशकत्वात् आत्मनः शरीरेन्द्रियसंघातरूपस्य ज्ञानप्रकाशहेतुत्वेनोपकार—कत्वाच्चतदप्रत्युपकारः पुरुषस्य ऋणमेव। अन्यत्र चोक्तम् ‘अनिषिद्धसुखत्यागीपशुरेव न संशयः’इति ॥14॥

न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात्।अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि॥2.4.15॥

न किञ्चिदिति ॥15॥

अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्।अतस्त्वां युवराजानमब्जिषेक्ष्यामि पुत्रक॥2.4.16॥

अद्येति । स्पष्टम्॥16॥

अपि चाद्याशुभान् राम  स्वप्नान्पश्यामि राघव। सनिर्घाता दिवोल्काश्च पतन्ति हि महास्वनाः॥2.4.17॥

अपि चेति अशुभान् अशुभसूचकान् दारुणान् भयङ्करान् नीलवर्णस्त्रीपरिष्वङ्गादीन् उल्का निर्गतज्वाला निर्घातः अमेघाशनिः॥17॥

अवष्टब्धंच मे राम नक्षत्रं दारुणग्रहैः।आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः॥2.4.18॥

अवष्टब्धमिति । नक्षत्रं जन्मनक्षत्रमवष्टब्धमाक्रान्तम् अत्रेतिकरणं द्रष्टव्यं दैवज्ञाः ज्योतिषिकाः ‘सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि’इत्यमरः।सूर्याङ्गारकराहुभिर्ग्रहैरवष्टब्धमित्यावेदयन्तीति सम्बन्धः॥18॥

प्रायेण च निमित्तानामीदृशानांसमुद्भवे।राजा हि मृत्युमाप्नोति घोरां चापदमृच्छति॥2.4.19॥

दुर्निमित्तफलमाह—प्रायेणेति । ऋच्छति ऋच्छति वेत्यर्थः ॥19॥

तद्यावदेव मे चेतो न विमुह्यति राघव।तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः॥2.4.20॥

तदिति । चेतः त्वामभिशेक्ष्यामीति बुद्धिः न विमुञ्चति मामिति शेषः । कुतो बुद्धिविमोचन– प्रसक्तिरित्यत्राहचला ह्रीति मात्रन्तरादिप्रार्थनादिभिरिति भावः ॥20॥

अद्य चन्द्रोsभ्युपगमत्पुष्यात्पूर्वं पुनर्वसुम्।श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः॥2.4.21॥

अद्येति । पुष्ययोगं पुष्येण चन्द्रस्य योगं नियतमभिषेकनियतं प्रशस्तमित्यर्थः। दैवचिन्तकाः ग्रहचारज्ञा वक्ष्यन्ते वदन्ति॥21॥

तत्र पुष्येभिषिञ्चस्व मनस्त्वरयतीव माम्।श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परन्तप॥2.4.22॥

तत्र इति । अभिषिञ्चस्व अभिषिक्तो भव । त्वरयतीवेतीवशब्द एवकारार्थः॥22॥

तस्मात्त्वयाद्यप्रभृति निशेयं नियतात्मना।सह वध्वोपवस्तव्यादर्भप्रस्तरशायिना॥2.4.23॥

तस्मादिति । अद्य प्रभृति एतदहरारभ्य निशा उपवस्तव्या “वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः” इति भोजननिवृत्त्यर्थस्य वसेरकर्मकत्वादत्र सकर्मकत्वमार्षं निशायामुपवस्तव्यमित्यर्थः।दर्भप्रस्तरो दर्भास्तरणम्॥23॥

सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः।भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि॥2.4.24॥

सुहृद इति । एवंविधानि अभिषेकादिमहाश्रेयोरूपाणि ॥24॥

विप्रोषितश्चभरतो यावदेव पुरादितः।तावदेवाभिषेकस्ते प्राप्तकालो मतो मम॥2.4.25॥

केकयराजाय राज्यशुल्कं दत्वा कैकेयीं विवाहं कृतवान् तं वृत्तान्तं हृदि कृत्वाह—विप्रोषित इति । अयं वृत्तान्तः सप्तोत्तरशततमे सर्गे ‘पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्। प्रातामहे समा -श्रौषीद्राज्यशुल्कमनुत्तमम्’इति स्पष्टी भविष्यति प्राप्तकाल इत्यत्रेतिकरणं द्रष्टव्यम्॥25॥

कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः।ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः॥2.4.26॥

काममिति । वृत्ते आचारे ॥26॥

किं नु चित्तं मनुष्याणामनित्यमिति मे मतम्।सतां च धर्मनित्यानां  कृतशोभि च राघव ॥2.4.27॥

अत्यन्तधर्मिष्ठानामपि चेतस्चञ्चलत्वात् मित्रभेदादि नान्यथा भवतीत्याह—किंत्विति । किन्तु तथापीत्यर्थः।यद्यपि कामं खलु सतां वृत्त इत्याद्युक्तगुणविशिष्टतया स न शङ्कास्पदीभूतः तथापि मनुष्याणां मनुष्यत्वसाधारण्येन शङ्कितं चित्तमनित्यं चञ्व्हलमिति मे मतिः मम निश्चय इत्यर्थः। सामान्यप्रयुक्तदोषो विशेषे न सङ्क्रमत इत्याह—सतां त्विति । तुशब्दः पक्षव्यावृत्त्यर्थः धर्मनित्यानां धर्मैकनिरतानां कृतशोभि कृतेन परस्परोपकारेण शोभते न तु भेदं प्राप्नोति राघवः रघुवंशोत्पन्नस्त्वं स्ववंशप्रभावं न जानासि किम्। अन्ये त्वेवं व्याचक्षते धर्मनित्यानां धर्मनिरतानां चित्तं कृतशोभि कृतेन परकृतमित्रभेदादिना शोभित शीलमस्यास्तीति कृतशोभीति अपरे त्वाहुः सतां चित्तं कृतेन कार्येण शोभते न तु करिष्यमाणेन कृतं कार्यमनुमोदते न तु करिष्यमाणमिति भाव इति॥27॥

इत्युक्तः सोभ्यनुज्ञातः श्वो भाविन्यभिषेचने।   व्रजेति रामः पितरमभिभाष्याभ्ययाद्गृहम्॥2.4.28॥

इतीति । अभिषेचने विषये इत्युक्तः स रामः व्रजेत्यनुज्ञात इति सम्बन्धः ॥28॥

प्रविष्य चात्मनो वेश्म राज्ञादिष्टेsभिषेचने।तत्क्षणादेव निष्क्रम्य मातुरन्तःपुरं ययौ॥2.4.29॥

प्रविश्य चेति।राज्ञोद्दिष्टेsभिषेचनइति निमित्तसप्तमी राज्ञोद्दिष्टमभिषेकं कथयितुम्इत्यर्थः॥29॥

तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्। वाग्यतां देवतागारे ददर्शायाचतीं श्रियम्॥2.4.30॥                                 प्रवणां स्वासाधारणदेवतासक्तचित्तां क्षौमवसिनीं व्रतोपयुक्तक्षौमवस्त्रधरां वाग्यतां यतवाचं मौनवतीमित्यर्थः। श्रियं सम्पदमायाचतीं प्रार्थयन्तीं रामायेति शेषः॥30॥

प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा।सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्॥2.4.31॥

प्रागिति । प्राक् रामागमनात् पूर्वमेव सुमित्रा प्रियं रामाभिषेचनं श्रुत्वा आगता लक्ष्मणश्च तदा सुमित्रागमनकाले आगतः सीता तु परतन्त्रत्वात्स्वयं नागता किन्तु दासीभिरानायिता॥31॥

तस्मिन्कालेsपि कौसल्या तस्थावामीलितेक्षणा।सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च॥2.4.32॥

श्रुत्वा पुष्ये च पुत्रस्य यौवराज्येsभिषेचनम्।प्राणायामेन पुरुषं  ध्यायमाना  जनार्दनम्॥2.4.33॥

तस्मिन्निति । तस्मिन् रामागमनकाले पुत्रस्य पुष्येण यौवराज्याभिषेचनं श्रुत्वा सुमित्रादिभि– रन्वास्यमाना प्राणायामेन प्राणायामपूर्वकं पुरुषं पुरुषसूक्तप्रतिपाद्यपुरुषशब्दवाच्यं जनार्दनं नारायणंध्यायमाना ध्यायन्ती आमिलितेक्षणा तस्थौ॥32,33॥

तथा सनियमामेव सोभिगम्याभिवाद्य च। उवाच वचनं रामोहर्षयंस्तामिदंवरम्॥2.4.34॥

तथेति । तथा पूर्वोक्तरीत्या सन्नियमां समीचीननियमाम्॥34॥

अम्ब पित्रा नियुक्तोस्मि प्रजापालनकर्मणि। भविता श्वोभिषेको मे यथा मे शासनं पितुः॥2.4.35॥

अम्बेति । मे पितुः शासनं यथा तथाभिषेकः श्वो भवितेति सम्बन्धः॥35॥

सीतयाप्युपवस्तव्या रजनीयं मया सह। एवमुक्तमुपाध्यायैः स हि मामुक्तवान्पिता॥2.4.36॥

सीतयेति । सीतया मयापि सह तुल्यतया इयं रजनी एतद्दिनरात्रिः उपवस्तव्या अस्यां रजन्यामुपवस्तव्यमित्यर्थः । किं त्वयैवोच्यते नेत्याह- एवमिति॥36॥

यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने। तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय॥2.4.37॥

यानीति । मङ्गलानि मङ्गलकर्माणि ॥37॥

एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम्। हर्षबाष्पाकुलं वाक्यमिदं राममभाषत ॥2.4.38॥

एतदिति । हर्षबाष्पकलं वाक्यं हर्षबाष्पेण कलमव्यक्तमधुरं वाक्यमीषद्वाक्यम्॥38॥

वत्स राम चिरं जीव हतास्ते परिपन्थिनः। ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय॥2.4.39॥

वत्सेति । हताः भवन्त्विति शेषः । ज्ञातीन् बन्धून्॥39॥

कल्याणे बत नक्षत्रे मया जातोsसि पुत्रक। येन त्वया दशरथो गुणैराराधितः पिता॥2.4.40॥

कल्याण इति । कल्याणे अतिशोभने नक्षत्रे मयि जातोsसि बतेति सन्तोषे ‘खेदानुक्म्पासन्तोष- विस्मयामन्त्रणे बत’इत्यमरः।‘मया’इति पाठे मया हेतुनेत्यर्थः। येने येने कारणेन ॥40॥

अमोघं बत मे क्षान्तं पुरुषेपुष्करेक्षणे। येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति॥2.4.41॥

अमोघमिति । पुष्करेक्षणे पुण्डरीकाक्षे पुरुषे नारायणे विषये मे क्षान्तं व्रतोपवासादिक्लेशसहन- ममोघं सफलम्। साफल्ये हेतुमाह—येयमिति । सा संश्रयिष्यतीति शेषः॥41॥

इत्येवमुक्तो मात्रा तु रामो भ्रातरमब्रवीत्। प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव॥2.4.42॥

इतीति । स्मयन्निव समन्दस्मित इत्यर्थः सन्तोषातिशयेनाब्रवीदिति भावः॥42॥

लक्ष्मणेमां मया सार्धं प्र्शाधि त्वं वसुन्धराम्। द्वितीयं मेsन्तरात्मानंत्वामियं श्रीरुपस्थिता॥2.4.43॥

लक्ष्मणेति । द्वितीयमन्तरात्मानं द्वितीयं प्राणम्॥43॥

सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्ठान्राज्यफलानि च। जीवितं चापि राज्यं च त्वदर्थमभिकामये॥2.4.44॥

सौमित्र इति । भोगान्भोग्यपदार्थान् इष्टान् अभिमतान् राज्यफलानि अनर्घ्यरत्न–वस्त्राभरणादीनि॥44॥

इत्ययुक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च। अभ्यनुज्ञाप्य सीतां च ययौ स्वं च निवेशनम्॥2.4.45॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे चतुर्थः सर्गः ॥ 4 ॥

इतीति । सीतां चाभ्यनुज्ञाप्य मातृभ्यामिति शेषः॥45॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्यानेsयोध्याकाण्डव्याख्याने चतुर्थः सर्गः॥2.4.45॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.