109 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवोत्तरशततम: सर्ग:

जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: ।

उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ।। 2.109.1 ।।

अथ जाबालिमतनिरासपूर्वकं वैदिकमतस्थापनं नवोत्तरशततमे सर्गे–जाबालेरित्यादिना । सत्यात्मनां सत्यबुद्धीनां भक्त्या वैदिकधर्मश्रद्धया । अविपन्नया जाबालिवचनै: सांदृष्टिकैरप्यचलितया ।। 2.109.1 ।।

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।

अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ।। 2.109.2 ।।

भवानिति । प्रियकामार्थं प्रियविषयेच्छासिद्ध्यर्थं यद्वचनमुक्तवान् तत् कार्य्यसङ्काशं कार्यवत्प्रतीयमानम् । अकार्य्यं पथ्यसम्मितं पथ्यवदवभासमानम् । अपथ्यम्, दु:खोदर्कमिति यावत् । एवं वचनं दूषितम् ।। 2.109.2 ।।

निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: ।

मानं न लभते सत्सु भिन्नचारित्रदर्शन: ।। 2.109.3 ।।

अथ वक्तारं दूषयति–निर्मर्याद इत्यादिना । निर्मर्याद: मर्य्यादारहित: । अत एव पापाचारसमन्ति: । तत्र हेतु: भिन्नचारित्रदर्शन इति । दर्शनं मतं वेदविहितात् भिन्नाचारप्रतिपादकमतप्रवर्त्तक इत्यर्थ: । एवम्भूत: पुरुष: सत्सु मानं पूजां न लभते प्रत्युत निन्दामेव लभत इत्यर्थ: ।। 2.109.3 ।।

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।

चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ।। 2.109.4 ।।

पापाचारत्वे किं प्रमाणमित्याशङ्क्य तदुक्तिरेव प्रमाणमित्याह–कुलीनमित्यादिना । पुरुषमानिनम् अतिधीरमित्यर्थ: । चारित्रम् उक्तरूपाचार: ।। 2.109.4 ।।

अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: ।

लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ।। 2.109.5 ।।

अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।

अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ।। 2.109.6 ।।

कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: ।

बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ।। 2.109.7 ।।

एतादृशपुरुषोपदेशश्रवणे स्वस्यानर्थं दर्शयति श्लोकत्रयेण–अनार्य इत्यादिना । अनार्य एव सन्नार्यसङ्काश: । शौचाद्धीन एव सन् शुचिरिव । लक्षण्यवत् शिष्टलक्षणयुक्ततुल्य एव सन् अलक्षण्य: लक्षणहीन: ।

शीलवानिव सन् दु:शील: । अहं शुभं हित्वा शुभसाधनं वैदिकधर्मं हित्वा । लोकसङ्करं लोकसङ्करकारकम् । क्रियाविधिविवर्जितं वैदिकक्रियया वेदविधिना च वर्जितम् । इमं त्वदुक्तमधर्मं धर्मवेषेण धर्मत्वेनाभिपत्स्ये स्वीकरिष्यामि यदि दुर्वृत्तं मां चेतयान: ज्ञानवान् क: पुरुष: लोके बहुमंस्यति न कोपीत्यर्थ: ।। 2.109.57 ।।

कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।

अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ।। 2.109.8 ।।

न केवलं बहुमानहानि: परलोकहानिश्चेत्याह–कस्येत्यादिना । अहं हीनप्रतिज्ञया वनवासप्रतिज्ञारहितया अनया वृत्त्या परोक्षं पृष्ठत: कुर्विति त्वदुक्तया वृत्त्या वर्तमान: सन्, वृत्तं त्वदुक्ताचरणम् । कस्य धास्यामि आधास्यामि, उपदेक्ष्यामीत्यर्थ: । दास्यामीति पाठान्तरम् । केन वा साधनेन स्वर्गमाप्नुयामिति योजना ।। 2.109.8 ।।

कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते ।

यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ।। 2.109.9 ।।

त्वदुक्ताचरणे सर्वलोकस्यापि परलोकहानि: स्यादित्याह–कामवृत्त इत्यादिना ।। 2.109.9 ।।

सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।

तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ।। 2.109.10 ।।

सत्यप्रशंसापूर्वकं सत्यनिष्ठां दर्शयन् सत्यपरत्वरूपस्वमतं स्थापयति–सत्यमेवेत्यादिना । अनृशंसं भूतानुकम्पाप्रधानं सनातनं च राजवृत्तं सत्यमेव सत्यरूपमेव । तस्माद्राजवृत्तस्य सत्यरूपत्वात् । राज्यं राज्यस्थजनजातं सत्यात्मकं सत्यरूपम्, सत्यप्रधानमिति यावत् । लोक इति जात्येकवचनम् ।। 2.109.10 ।।

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।

सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ।। 2.109.11 ।।

ऋषय इति । मेनिरे उत्कृष्टमिति शेष: । परमं क्षयं परमं धाम “धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं च वास्तु क्षय:” इति वैजयन्ती ।। 2.109.11 ।।

उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: ।

धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ।। 2.109.12 ।।

उद्विजन्त इति । उद्विजन्ते जना इति शेष: ।। 2.109.12 ।।

सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।

सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।। 2.109.13 ।।

सत्यमिति । ईश्वर: नियन्ता, व्यवस्थापक इति यावत् ।। 2.109.13 ।।

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।

वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ।। 2.109.14 ।।

दत्तमिति । सत्यप्रतिष्ठाना: सत्याधारा: सत्यप्रतिष्ठानानीति विपरिणम्य पूर्वार्द्धेन योज्यम् ।। 2.109.14 ।।

एक: पालयते लोकमेक: पालयते कुलम् ।

मज्जत्येको हि निरय एक: स्वर्गे महीयते ।। 2.109.15 ।।

प्रस्तुतसत्यनिष्णातस्य ऐहिकामुष्मिकफलं तद्रहितस्य निरयप्राप्तिं च दर्शयति–एक इत्यादिना ।। 2.109.15 ।।

सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।

सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ।। 2.109.16 ।।

स इत्यादि । सत्यप्रतिश्रव: सत्यसन्ध: ।। 2.109.16 ।।

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: ।

सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ।। 2.109.17 ।।

नैवेति । लोभात् राज्यलोभात् । मोहात् विप्रलम्भवाक्यजनितचित्तविभ्रमात् । अज्ञानात् तमोन्वित: तमोगुणयुक्त: सत्यस्य “करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे” इत्यस्य सत्यवचनस्य । सेतुं मर्य्यादाम् ।। 2.109.17 ।।

असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: ।

नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ।। 2.109.18 ।।

असत्यसन्धस्येति । चलस्य चलस्वभावस्य । प्रतीच्छन्ति हव्यकव्यादिकमिति शेष: । न: अस्माभि: श्रुतम् ।। 2.109.18 ।।

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।

भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ।। 2.109.19 ।।

प्रत्यगात्ममिति । अहं सत्यं सत्यरूपमिमं धर्मं प्रत्यगात्मं स्वयं पश्यामि आत्मानं प्रत्यविनाभूतत्वेन प्रवृत्तं पश्यामीत्यर्थ: । सत्पुरुषाचीर्ण: सत्पुरुषैराचरित:, सम्पादित इति यावत् । भार: जटावल्कलादिभार: । तदर्थं सत्यरूपधर्मार्थम् । अभिमन्यते अभिमतो भवति ।। 2.109.19 ।।

क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।

क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ।। 2.109.20 ।।

कायेन कुरुते पापं मनसा सम्प्रधार्य च ।

अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ।। 2.109.21 ।।

पूर्वैराचरितं सत्यं परित्यज्य त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याह–क्षात्त्रमित्यादिना । अधर्मम् अधर्मप्रचुरम् । धर्मसंहितं धर्मलेशसहितम्, अधर्मप्रचुरधर्मलेशयुक्तक्षत्त्रियधर्ममहं त्यक्ष्य इत्यर्थ: ।। 2.109.2021 ।।

भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि ।

स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ।। 2.109.22 ।।

भूमिरिति । कीर्ति: वितरणजनिता प्रथा । यश: पौरुषनिबन्धनम् । पुरुषं करणत्रयेण सत्यनिष्णातम् अनुपश्यन्ति अनुसृत्य पश्यन्ति, अनुबध्नन्तीति यावत् ।। 2.109.22 ।।

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।

आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ।। 2.109.23 ।।

श्रेष्ठमिति । श्रेष्ठमित्यवधार्य्य निश्चित्य । इदं भद्रं कुरुष्वेति भवान् युक्तिकरैर्वाक्यै: यदाह तदनार्य्यमेव स्यात् ।। 2.109.23 ।।

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।

भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ।। 2.109.24 ।।

‘प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु’ इत्यन्तस्य जाबालिवाक्यजातस्योत्तरमभिधाय ‘राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित:’ इत्यस्याप्युत्तरमाह–कथमित्यादिना ।। 2.109.24 ।।

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।

प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ।। 2.109.25 ।।

स्थिरेति । प्रतिज्ञा, प्रतिज्ञाता कृतेत्यर्थ: ।। 2.109.25 ।।

वनवासं वसन्नेवं शुचिर्नियतभोजन: ।

मूलै: पुष्पै: फलै: पुण्यै: पितृ़न् देवांश्च तर्पयन् ।। 2.109.26 ।।

सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।

अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ।। 2.109.27 ।।

वनवासमित्यादिश्लोकद्वयमेकं वाक्यम् । वनवासं वसन् कुर्वन्नित्यर्थ: । नियतभोजन: नियतवन्याहार: । सन्तुष्टपञ्चवर्ग: परितुष्टपञ्चेन्द्रियवर्ग: । लोकयात्रां पितृवचनपरिपालनरूपलोकवर्त्तनम् । “गमने वर्तने यात्रा” इति वैजयन्ती । अकुह: अकृत्रिम: ।। 2.109.2627 ।।

कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।

अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ।। 2.109.28 ।।

अष्टकोदाहरणेन वैदिककर्मणां निष्फलत्वं यदुक्तं तत्र परिहारमाह–कर्मभूमिमित्यादिना । यत् शुभं कर्म तत् कर्त्तव्यम्, जनैरिति शेष: । तत्र फलवदनुष्ठानं दर्शयति अग्निरित्यादि । कर्मणां कर्मभूमिकृतस्वस्वकर्मणाम् । फलभागिन: अग्नित्वादिफलं प्राप्तवन्त: ।। 2.109.28 ।।

शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: ।

तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ।। 2.109.29 ।।

क्रतूनां शतम् आहृत्य कृत्वेत्यर्थ: । प्रवासिनं प्रति श्राद्धकरणविधेरभावात् विहितस्थले कुत्रापि न व्यभिचार इति भाव: ।। 2.109.29 ।।

अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।

अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ।। 2.109.30 ।।

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।

द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ।। 2.109.31 ।।

अमृष्यमाण इति । नास्तिकवाक्यहेतुं ‘यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात्प्रवसत: श्राद्धं न तत्पथ्यशनं भवेत् ।।’ इत्यादि नास्तिकवाक्यरूपतर्कं विगर्हमाण: मनसि विगर्हमाण: ।। 2.109.3031 ।।

तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: ।

धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ।। 2.109.32 ।।

तेनेति । तेन हेतुना । विप्रा: एवमर्थं यथावत् आज्ञाय ज्ञात्वा । एकोदयं सम्प्रतिपद्य ऐककण्ठ्यं प्राप्य सकलं धर्मं स्वस्ववर्णाश्रमोचितधर्मम् । अप्रमत्ता: सावधाना: यथावच्चरन्त: अनुतिष्ठन्त: लोकागमं स्वर्गादिलोकप्राप्तिं काङ्क्षन्तीति ।। 2.109.32 ।।

निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।

बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ।। 2.109.33 ।।

निन्दामीति । विषमस्थबुद्धिम् अवैदिकमार्गनिष्णातबुद्धिम् । अनया बुद्ध्या चरन्तं चार्वाकमतानुसारिणीं बुद्धिं परान् प्रत्युपदिश्याचरन्तमित्यर्थ: । सुनास्तिकं परलोको नास्तीति बुद्धियुक्तम् । सुशब्देन वैदिकवत् स्थित्वा चार्वाकमतप्रवर्त्तक इत्युच्यते । निन्दामि वैदिककर्मभ्यो बहिष्करोमि ।। 2.109.33 ।।

यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।

तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ।। 2.109.34 ।।

प्रत्यक्षैकप्रमाणवादी यदि कश्चिद्राज्ये स्यात् सोपि बहिष्करणीय इत्याह–यथेत्यादिना । चोरो यथा निराकरणीय: स: वेदबाह्यत्वेन प्रसिद्धोपि । तथाहि तथैव । अत्र अस्मिन् लोके । नास्तिकं चार्वाकं तथागतं बुद्धतुल्यं विद्धि तस्माद्य: प्रजानां शङ्क्यतम: अवैदिकत्वेन शङ्कनीय: । तेन नास्तिकेन बुधो ऽभिमुखो न स्यात् ।। 2.109.34 ।।

त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: ।

जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ।। 2.109.35 ।।

धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: ।

अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ।। 2.109.36 ।।

ऐहिकामुष्मिकफलसाधने धर्मशिष्टाचारं प्रमाणयति त्वत्त इत्यादिना । त्वत्त: पूर्वतरे पुरातनाश्च वराश्च ज्ञानत: श्रेष्ठाश्च जना: बहूनि शुभानि कर्माणि चक्रु: । ते इमं परं च लोकं जित्वा सदा वर्त्तन्त इति शेष: ।

सदावर्तमानत्वं च ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात् । “सुकृतां वा एतानि ज्योतिंषि यन्नक्षत्राणि” इति श्रुते: । तस्मात् कर्मानुष्ठानस्यैहिकामुष्मिकसकलफलसाधनत्वात् । द्विजा: स्वस्ति मङ्गलात्मकं कर्म हुतं यज्ञादिकृतं च तपोदानादिकं च कुर्वन्तीति शेष: । एवं प्रत्यक्षमेव न प्रमाणं तदतिरिक्तानां वेदानामपि प्रमाणत्वात् । तत्त्वं च तेषां महाजनपरिग्रहात् । स चापौरुषेयत्वेन तच्चाविच्छिन्नसम्प्रदायत्वे पथिकाशनत्वाभावस्तु अदर्शनादविहितत्वाच्चेत्युक्तम् ।। 2.109.3536 ।।

इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।

उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ।। 2.109.37 ।।

इतीति । तथ्यं यथार्थम् । सत्यं सद्भ्यो हितम् ।। 2.109.37 ।।

न नास्तिकानां वचनं ब्रवीम्यहं न चास्तिको ऽहं न च नास्ति किञ्चन ।

समीक्ष्य कालं पुनरास्तिको ऽभवं भवेय काले पुनरेव नास्तिक: ।। 2.109.38 ।।

धर्मसङ्कटे प्राप्ते सर्वमतज्ञेन विदुषा यत्किञ्चिन्मतमवलम्ब्यापि तस्य परिहरणीयत्वात् महतो राज्यस्यानायकत्वरूपसङ्कटपरिहाराय त्वां निवर्त्तयितुं मया नास्तिकमतमुपन्यस्तम्, न त्वहं वस्तुतो नास्तिक इत्याह–नेत्यादिना । किञ्चन परलोकादिकं नास्तीति न, अस्त्येव । समीक्ष्य कालं पुनरास्तिको ऽभवं यदा वादिनान्येन नास्तिकमतमवलम्ब्यते तं कालं समीक्ष्य अहं पुनरास्तिकमतावलम्ब्यभवम् । अन्यैर्वादिभिर्नास्तिकमतमवलम्ब्य कुतर्कोद्घाटने तदानीमहमेव त्वदुक्तरीत्या शतशस्तत्खण्डनमकार्षमित्यर्थ: । तर्हीदनीं नास्तिकमतं कुतो ऽवलम्बितवानसीत्यत्राह–भवेय काले पुनरेव नास्तिक इति । तादृशो ऽहमेव पुन: काले धर्मसङ्कटकाले नास्तिको भवेय, धर्मसङ्कटकालप्रयुक्तो ऽयं मम नास्तिकवाद इत्यर्थ: । भवेयेत्यनेन इत:परमपि कस्मिंश्चिद्धर्मसङ्कटकाले नास्तिकमतमवलम्बनीयमेव नच तावता वस्तुतो नास्तिकत्वं मम भवेदिति भाव: ।। 2.109.38 ।।

स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता ।

निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ।। 2.109.39 ।।

तादृशधर्मसङ्कटकाल एवायमित्याह–स चापोति । एवमपि परमवैदिकस्य तव न युक्तमेतादृशं वचनमित्याशङ्क्याह–निवर्त्तनार्थमित्यादिना । निवर्त्तनार्थं तव निवृत्तिज्ञापनार्थं तव वेदमार्गादविचाल्यत्वस्य लोकानां प्रकटीकरणार्थमित्यर्थ: । कारणात् भरतकारणात् भरतमुखोल्लासाय तव प्रसादनार्थं चेत्यर्थ: ।। 2.109.39 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवोत्तरशततम: सर्ग: ।। 109 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने नवोत्तरशततम: सर्ग: ।। 109 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.