42 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विचत्वारिंश: सर्ग:

यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।

नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी ।। 2.42.1 ।।

यावत्त्वित्यादि । निर्यत: निर्गच्छत: । तस्य रामस्य सम्बन्धि रजोरूपं रजस्स्वरूपं यावददृश्यत तावन्न सञ्जहार न निवर्तितवान् ।। 2.42.1 ।।

यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।

तावद्व्यवर्द्धतेवास्य धरण्यां पुत्रदर्शने ।। 2.42.2 ।।

यावद्राजेति । पश्यति रजोद्वारेणेति शेष: । पुत्रदर्शने पुत्रदर्शननिमित्तम् । धरण्यां रजो व्यवर्द्धत मन्निमित्तकेन पुत्रदर्शनेन राजा कञ्चित्कालमाप्यायितो भवेदिति मत्वेव रजो व्यवर्द्धतेत्यर्थ: । अथवा अस्य देहो व्यवर्द्धत पुत्रदर्शनायोत्थाय स्थित इत्यर्थ: ।। 2.42.2 ।।

न पश्यति रजोप्यस्य यदा रामस्य भूमिप: ।

तदार्तश्च विषण्णश्च पपात धरणीतले ।। 2.42.3 ।।

न पश्यतीति । आर्त: पीडितशरीर: । विषण्ण: दु:खित: ।। 2.42.3 ।।

तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना ।

वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया ।। 2.42.4 ।।

तस्येति । बाहुमन्वागात् उद्धरणार्थमिति भाव: । भरतप्रिया प्रियभरता । पार्श्वमित्यनेन कौसल्यावत् बाहुं नालम्बितवतीति गम्यते ।। 2.42.4 ।।

तां नयेन च सम्पन्नो धर्मेण विनयेन च ।

उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रिय: ।। 2.42.5 ।।

तामिति । नयेन नीत्या । विनयेन सदाचारेण ।। 2.42.5 ।।

कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी ।

न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ।। 2.42.6 ।।

कैकेयीति । न भार्या न च बान्धवी, त्वमिति शेष: । न च बान्धवी पत्नीत्वसम्बन्धोपि नास्तीत्यर्थ: । अण्णन्तत्वात् ङीप् ।। 2.42.6 ।।

ये च त्वामनुजीवन्ति नाहं तेषां न ते मम ।

केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ।। 2.42.7 ।।

न केवलं त्वयि सम्बन्धाभाव:, त्वत्सम्बन्धिष्वपि मम सम्बन्धो नास्तीत्याह–ये चेति । नाहं तेषामिति, प्रभुरिति शेष: । न ते मम शेषभूता इत्यर्थ: ।। 2.42.7 ।।

अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् ।

अनुजानामि तत्सर्वमस्मिंल्लोके परत्र च ।। 2.42.8 ।।

अग्निसाक्षिकमूढा कथं न भार्या स्यामित्यमाह–अगृह्णामिति । पर्यणयं प्रदक्षिणमनयम् । अनुजानामि परित्यजामीत्यर्थ: । इह लोके परत्र च ऐहिकमामुष्मिकं च सर्वं त्वत्सम्बन्धेनागतं त्यजेयमित्यर्थ: ।। 2.42.8 ।।

भरतश्चेत् प्रतीत: स्याद्राज्यं प्राप्येदमव्ययम् ।

यन्मे स दद्यात्प्रीत्यर्थं मां मा तद्दत्तमागमत् ।। 2.42.9 ।।

भरत इति । प्रतीत: प्रमुदित इत्यर्थ: । पित्रर्थं यदुदकादिकं दद्यात् तद्दत्तं मां मागमत्, नोपतिष्ठेदित्यर्थ: ।। 2.42.9 ।।

अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् ।

न्यवर्त्तत तदा देवी कौसल्या शोककर्शिता ।। 2.42.10 ।।

अथेति । न्यवर्त्तत तेन सहेति शेष: ।। 2.42.10 ।।

हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना ।

अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम् ।। 2.42.11 ।।

हत्वेति । तापसं तापसवेषधारिणम् ।। 2.42.11 ।।

निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु ।

राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ।। 2.42.12 ।।

विललाप च दु:खार्त्त: प्रियं पुत्रमनुस्मरन् ।

नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ।। 2.42.13 ।।

वाहनानां च मुख्यानां वहतां त ममात्मजम् ।

पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ।। 2.42.14 ।।

निवृत्त्येति । ग्रस्तस्य राहुग्रस्तस्य ।। 2.42.1214 ।।

य: सुखेषूपधानेषु शेते चन्दनरूषित: ।

वीज्यमानो महार्हाभि: स्त्रीभिर्मम सुतोत्तम: ।। 2.42.15 ।।

स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रित: ।

काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ।। 2.42.16 ।।

य इति । वीज्यमान: चामरव्यजनादिभिरिति शेष: । स्त्रीभि: परिचारिकाभि: ।। 2.42.1516 ।।

उत्थास्यति च मेदिन्या: कृपण: पांसुकुण्ठित: ।

विनिश्वसन् प्रस्रवणात् करेणूनामिवर्षभ: ।। 2.42.17 ।।

उत्थास्यतीति । प्रस्रवणात् निर्झरात्, तत्समीपादित्यर्थ: । “उत्स: प्रस्रवणं पारिप्रवाहो निर्झरो झर:” इत्यमर: ।। 2.42.17 ।।

द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचरा: ।

राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ।। 2.42.18 ।।

द्रक्ष्यन्तीति । अनाथवत् गच्छन्तमित्यन्वय: ।। 2.42.18 ।।

सा नूनं जनकस्येष्टा सुता सुखसदोचिता ।

कण्टकाक्रमणाक्रान्ता वनमद्य गमिष्यति ।। 2.42.19 ।।

सेति । सुखसदोचिता सुखस्य सदोचिता । कण्टकेष्वाक्रमणं पद विक्षेप: ।। 2.42.19 ।।

अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।

श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ।। 2.42.20 ।।

सकामा भव कैकेयि विधवा राज्यमावस ।

न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ।। 2.42.21 ।।

अनभिज्ञेति । श्वापदानर्दितं श्वापदा: व्याघ्रादिहिंस्रपशव: तेषाम् आनर्दितं शब्दम् ।। 2.42.2021 ।।

इत्येवं विलपन् राजा जनौघेनाभिसंवृत: ।

अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ।। 2.42.22 ।।

इतीति । अपस्नात: मृतस्नात: । “अपस्नातो मृतस्नात:” इत्यमर: । अरिष्टमशुभम् “अरिष्टे तु शुभाशुभे” इत्यमर: । ननु राममनुगम्य पुन: पुरप्रवेशसमये अपस्नातोरिष्टमिति कथमश्लीलमुक्तम् ? सत्यम् दशरथो हि तदानीं नूनं भयमुपैष्यतीत्यादिना सीताविपत्तिं शङ्कमानस्तद्द्वारा रामविपत्तिं तन्मुखेन स्वस्यापि विनाशं शङ्कितवान् अत एव सीताद्वारा रामविपत्तिशङ्कया सकामा भव कैकेयीत्युक्तवान्, स्वविनाशाभिप्रायेण विधवा राज्यमावसेत्युपदर्शितवांश्च । तेनापस्नातइवेत्युक्ति: राजबुद्ध्यनुसारादुचितैव ।। 2.42.22 ।।

शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् ।

क्लान्तदुर्बलदु:खार्त्तां नात्याकीर्णमहापथाम् ।। 2.42.23 ।।

तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।

विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम् ।। 2.42.24 ।।

शून्येत्यादि । शून्यचत्वरवेश्मान्तां निर्जनचतुष्पथगृहद्वाराम् । संवृतापणदेवतां पिहितापणदेवतागृहद्वाराम् । क्लान्तदुर्बलदु:खार्तां चिन्तातिरेकेण क्लान्ता रामविरहेण निस्सत्त्वा: दु:खार्ताश्च जना: यस्यां तथा । अनेन सञ्चारक्षमा: सर्वे राममनुगता इति द्योत्यते । नात्याकीर्णमहापथां क्वचित्क्वचित् दृश्यमानजनयुक्तमहापथामित्यर्थ: । अवान्तरमार्गास्तु केवलं निर्जना इति भाव: ।। 2.42.2324 ।।

महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।

रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ।। 2.42.25 ।।

कीदृशं प्राविशदित्यपेक्षयामाह–महाह्रदमिति । अक्षोभ्यं सोरगतया । प्राविशदित्यनुषङ्ग: ।। 2.42.25 ।।

अथ गद्गदशब्दस्तु विलपन् मनुजाधिप: ।

उवाच मृदु मन्दार्थं वचनं दीनमस्वरम् ।। 2.42.26 ।।

अथेति । गद्गद: शब्दो यस्य स तथोक्त: । मृदु उपांशु । मन्दार्थमल्पार्थम्, शब्दप्रपञ्चवदित्यर्थ: । अस्वरं कण्ठस्वररहितम् ।। 2.42.26 ।।

कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ।

न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ।। 2.42.27 ।।

कौसल्याया इति । नयन्तु, द्वारदर्शिन इति शेष: । अन्यत्र तद्व्यतिरिक्तस्त्रीगृहे ।। 2.42.27 ।।

इति ब्रुवन्तं राजानमनयन् द्वारदर्शिन: ।

कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ।। 2.42.28 ।।

इतीति । द्वारदर्शिन: मार्गप्रदर्शका: द्वारपालका: । न्यवेश्यत निवेशित: विनीवत् विनीतार्हम् ।। 2.42.28 ।।

ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम् ।

अधिरुह्यापि शयनं बभूव लुलितं मन: ।। 2.42.29 ।।

तत इति । लुलितं कलुषितमिति यावत् ।। 2.42.29 ।।

पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम् ।

अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ।। 2.42.30 ।।

तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् ।

उच्चै: स्वरेण चुक्रोश हा राघव जहासि माम् ।। 2.42.31 ।।

पुत्रेति । नष्टचन्द्रमुपलक्षणमेतत्, चन्द्रनक्षत्रताराहीनमित्यर्थ: ।। 2.42.3031 ।।

सुखिता बत तं कालं जीविष्यन्ति नरोत्तमा: ।

परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ।। 2.42.32 ।।

सुखिता इति । तं कालं तस्मिन् काले तावत्कालमिति वा ।। 2.42.32 ।।

अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मन: ।

अर्द्धरात्रे दशरथ: कौसल्यामिदमब्रवीत् ।। 2.42.33 ।।

अथेति । कालरात्र्यां संहाररात्र्याम् । प्रपन्नायां प्राप्तायाम् ।। 2.42.33 ।।

रामं मे ऽनुगता दृष्टिरद्यापि न निवर्त्तते ।

न त्वा पश्यामि कौसल्ये साधु मा पाणिना स्पृश ।। 2.42.34 ।।

राममिति । राममनुगता दृष्टि:, समुद्रगृहीतं पुन: किं निवर्त्तते ? मे दृष्टि: षष्टिवर्षसहस्रं कृतोपवासादिकं निवर्तते अद्यापि न निवर्त्तते तद्दर्शनाभावेपि तन्मातृत्वद्दर्शनं कर्तुमुचिते कालेपि न निवर्तते । न त्वा पश्यामि कौसल्ये रामदर्शनं विना कैकेयीमुखदर्शनपापनिवृत्तये त्वन्मुखं द्रष्टुमुत्सुको ऽस्मि तदपि न लब्धम् । साधु मा पाणिना स्पृश नित्यानुमेयानीन्द्रियाणि कार्यकल्प्यानि । रूपग्रहणाभावात् चक्षुरिन्द्रियं गतमित्यवगतम् । त्वगिन्द्रियमस्ति नवेति सम्प्रति जानीहि, साधु कैकेय्या कृतसङ्केतो रामं निर्यापितवान् अद्य किं किंचिदभिनयं करोतीति न मन्येथा: अयमज्ञानादेवं कृतवानिति समनस्कतया स्पृश । यद्वा मां पाणिना स्पृश, राममातृत्वात् तव पाणिस्पर्शनं रामस्पर्शनमिति भाव: ।। 2.42.34 ।।

तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् ।

उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम् ।। 2.42.35 ।।

तमिति । उपोपविश्य शयनसमीपे उपविश्येत्यर्थ: ।। 2.42.35 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विचत्वारिंश: सर्ग: ।। 42 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विचत्वारिंश: सर्ग: ।। 42 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.