76 Sarga अयोध्याकाण्डम्

श्रीरामायणे आदिकाव्ये श्रीमदयोध्याकाण्डे षट्सप्ततितम: सर्ग:

तमेवं शोकसन्तप्तं भरतं कैकयीसुतम् ।

उवाच वदतां श्रेष्ठो वसिष्ठ: श्रेष्ठवागृषि: ।। 2.76.1 ।।

तमिति । कैकयीसुतमित्यत्र “केकयमित्रयुप्रलयानां यादेरिय:” इति विहितस्येयादेशस्याभाव: ।। 2.76.1 ।।

अलं शोकेन भद्रं ते राजपुत्र महायश: ।

प्राप्तकालं नरपते: कुरु संयानमुत्तमम् ।। 2.76.2 ।।

अलमिति । संयानं सम्यग् यानम्, स्वर्गप्रापकक्रियाजातमित्यर्थ: ।। 2.76.2 ।।

वसिष्ठस्य वच: श्रुत्वा भरतो धारणां गत: ।

प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ।। 2.76.3 ।।

वसिष्ठस्येति । धारणां गत: धैर्यं प्राप्त: “मर्यादा धारणा स्थिति:” इत्यमर: । स्वस्थान्त:करण इत्यर्थ: । कारयामासेति संक्षेपोक्ति: ।। 2.76.3 ।।

उद्धृतं तैलसंरोधात् स तु भूमौ निवेशितम् ।

आपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ।। 2.76.4 ।।

संवेश्म शयने चाग्र्ये नानारत्नपरिष्कृते ।

ततो दशरथं पुत्रो विललाप सुदु:खित: ।। 2.76.5 ।।

उद्धृतमित्यादिश्लोकद्वयमेकान्वयम् । तत: स पुत्र: तैलसंरोधात् तैलद्रोण्याः उद्धृतं ततस्तैलापमार्जनाय भूमौ निवेशितम् चिरं तैले स्थापनादापीतवर्णवदनम् अवयवशैथिल्याभावात् प्रसुप्तमिव स्थितं दशरथं भूपतिम् । उक्तविशेषणे शयने संवेश्य शाययित्वा सुदु:खित: सन् विललाप ।। 2.76.45 ।।

किं ते व्यवसितं राजन् प्रोषिते मय्यनागते ।

विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ।। 2.76.6 ।।

क्व यास्यसि महाराज हित्वेमं दु:खितं जनम् ।

हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ।। 2.76.7 ।।

किमिति । किं ते व्यवसितं त्वया किमद्य व्यवसितम्, स्वर्गगमनायेति शेष: ।। 2.76.67 ।।

योगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे ।

त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ।। 2.76.8 ।।

विधवा पृथिवी राजंस्त्वया हीना न राजते ।

हीनचन्द्रेव रजनी नगरी प्रतिभाति मा ।। 2.76.9 ।।

एवं विलपमानं तं भरतं दीनमानसम् ।

अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनि: ।। 2.76.10 ।।

योगक्षेममिति । ते पुरे अयोध्यायां क: जन: योगक्षेमं स्वकीयपुरयोगक्षेमं कल्पयिता करिष्यति । स्व: स्वर्गम् ।। 2.76.810 ।।

प्रेतकार्याणि यान्यस्य कर्त्तव्यानि विशांपते: ।

तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ।। 2.76.11 ।।

प्रेतकार्याणीति । विशांपते: प्रजानां पत्यु: ।। 2.76.11 ।।

तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् ।

ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वश: ।। 2.76.12 ।।

तथेतीति । ऋत्विक्पुरोहिताचार्यान् ऋत्विजो यज्ञकर्मणि वृता: । पुरोहिता: पुरोहितपरत्वेन शान्तिकपौष्टिकादिक्रियाप्रर्वत्तका: । आचार्या: वसिष्ठवामदेवादय: । “त्रय्यां च धर्मकृत्ये च शान्तिकर्मणि पौष्टिके । अध्वरे यश्च कुशल: स स्याद्राजपुरोहित: ।। उपनीय वदेद्वेदमाचार्य: स उदाहृत: ।” इति लक्षणम् ।। 2.76.12 ।।

ये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद्बहिष्कृता: ।

ऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि ।। 2.76.13 ।।

शिबिकायामथारोप्य राजानं गतचेतसम् ।

वाष्पकण्ठा विमनसस्तमूहु: परिचारका: ।। 2.76.14 ।।

य इति । अग्न्यगारात् अग्निगृहात् । बहिष्कृता: अन्त:शववत्त्वात् बहि: प्रतिष्ठापिता: । अग्नयो गार्हपत्यादय: । याजकै: उपद्रष्ट्टभि: ऋत्विग्भिश्च । आह्रियन्त आनीयन्त ।। 2.76.1314 ।।

हिरण्यं च सुवर्णं च वासांसि विविधानि च ।

प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययु: ।। 2.76.15 ।।

हिरण्यमिति । हिरण्यं च सुवर्णं च रजतं च सुवर्णं च, तत्कृतपुष्पाणीत्यर्थ: ।। 2.76.15 ।।

चन्दनागरुनिर्यासान् सरलं पद्मकं तथा ।

देवदारूणि चाहृत्य क्षेपयन्ति तथा परे ।। 2.76.16 ।।

चन्दनागरुनिर्यासानिति । चन्दनागरुनिर्यासान् । निर्यासो गुग्गुलु: । “गुग्गुलु: कालनिर्यासौ” इति निघण्टु: । चन्दनागरुजनितधूपद्रव्याणीति यावत् । सरलं धूपसरलम् । पद्मकं सुरभिकाष्ठविशेषम् । क्षेपयन्ति पुरत: पार्श्वतश्च ध्रियमाणसौवर्णराजताङ्गारधानीषु धूपार्थमिति शेष: । चन्दनादीनि गन्धान्तानि चिताकाष्ठद्रव्याणीत्येव तु युक्तम् । तदा क्षेपयन्ति दहनार्थं चितामकुर्वन्नित्यर्थ: ।। 2.76.16 ।।

गन्धानुच्चावचांश्चान्यान् तत्र गत्वाथ भूमिपम् ।

तत: संवेशयामासुश्चितामध्ये तमृत्विज: ।। 2.76.17 ।।

तत्र गत्वाथ भूमिपमित्युत्तरशेष: । अथ चिताकल्पनानन्तरम् । तत्र चितासमीपे गत्वा तं भूमिपं चितामध्ये तत: शिबिकाया:, उद्धृत्येति शेष: । संवेशयामासु: शाययामासु: ।। 2.76.17 ।।

तथा हुताशनं दत्त्वा जेपुस्तस्य तमृत्विज: ।

जगुश्च ते यथाशास्त्रं तत्र सामानि सामगा: ।। 2.76.18 ।।

तथेति । हुताशनं दत्त्वा भरतेन दापयित्वा । जेपु: पैतृमेधिकमन्त्राविशेषानिति शेष: । तस्य, परमगत्यर्थमिति शेष: । तमिति हुताशनविशेषणम् । हुतं प्रेताग्निमित्यर्थ: । ते उद्गातृप्रभतय: ऋत्विज: ।। 2.76.18 ।।

शिबिकाभिश्च यानैश्च यथार्हं तस्य योषित: ।

नगरान्निर्ययुस्तत्र वृद्धै: परिवृतास्तदा ।। 2.76.19 ।।

शिबिकाभिरिति । यानैरश्वादिभि: । वृद्धै: परिचारकै: ।। 2.76.19 ।।

प्रसव्यं चापि तं चक्रुर्ऋत्विजो ऽग्निचितं नृपम् ।

स्त्रियश्च शोकसन्तप्ता: कौसल्याप्रमुखास्तदा ।। 2.76.20 ।।

क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे ।

आर्तानां करुणं काले क्रोशन्तीनां सहस्रश: ।। 2.76.21 ।।

ततो रुदन्त्यो विवशा विलप्य च पुन:पुन: ।

यानेभ्य: सरयूतीरमवतेरुर्वराङ्गना: ।। 2.76.22 ।।

प्रसव्यमिति । अग्निचितम् अग्निचयनं कृतवन्तं तं नृपम् । ऋत्विज: स्त्रियश्च प्रसव्यं सव्यापसव्यं प्रदक्षिणमप्रदक्षिणं च चक्रु: । (पाठभेद: । प्रसव्यम् अप्रदक्षिणम् इदं प्रदक्षिणस्याप्युपलक्षणम्) भरतश्चेत्यर्थसिद्धम् । इदं चाग्निदानात्पूर्वं शिबिकास्थे प्रेते क्रमस्याविवक्षितत्वादत्रोक्तं देशविशेषाचारो ऽयं वा ।। 2.76.2022 ।।

कृत्वोदकं त भरतेन सार्द्धं नृपाङ्गना मन्त्रिपुरोहिताश्च ।

पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दु:खम् ।। 2.76.23 ।।

कृत्वेति । ताश्च ते च ते । “पुमान् स्त्रिया” इत्येकशेष: । दशाहं “कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । भूमौ शयाना इति शेष: । “कियल्लब्धाशना भूमौ स्वपेयुस्ते पृथक् पृथक्” इत्याशौचिनां पृथक्शयनं हि विहितम् । दु:खमाशौचं व्यनयन्त अगमयन् । ननु षोडशाहेन (द्वादशाहेन) भूपाला इति क्षत्ित्रयस्य (द्वादशाहा) षोडशाहाशौचसद्भावात् कथं दशाहमित्युच्यत इतिचेत् ? सत्यम् “क्षत्ित्रयस्तु दशाहेन स्वकर्मनिरत: शुचि:” इत्यादिविशेषशास्त्रानुसारेणोक्तमिति न दोष: । अत्र स्त्रीणां प्रेतप्रदक्षिणमुदकदानं न सूत्रान्तरोक्तं ज्ञेयम् । तथा चितास्थस्य प्रदक्षिणं च । अत एवाह बोधायन: “प्रदक्षिणमपि बान्धवा: कुर्वन्ति एवं मार्गेपि चितामारोप्य चितायामेवेत्येके” इति । अत्र प्रेतेन सहाग्न्यानयनं चितारोपणं समन्त्रकमग्निदानं प्रदक्षिणीकरणमुदकदानं दशाहमाशौचेन भूमौ शयनमित्येतावन्मात्रं देशकुलसूत्रभेदेन और्ध्वदैहिकविशेष उक्त इति वा प्रधानोक्ति: सर्वग्रहणार्थमिति वा ज्ञेयम् ।। 2.76.23 ।।

इत्यार्षे श्रीरामायणे आदिकाव्ये श्रीमदयोध्याकाण्डे षट्सप्ततितम: सर्ग: ।। 76 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्सप्ततितम: सर्ग: ।। 76 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.