101 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोत्तरशततमः सर्गः

रामरावणयोर्युद्धावसरे मध्येलब्धावकाशेनलक्ष्मणेन रावणंप्रतियोधनम् ॥ १ ॥ तत्रलक्ष्मणेन रावणस्यध्वजसारथिधनुवांछेदनम् ॥ २ ॥ विभीषणेन गदया रावणरथहयहननम् ॥ ३ ॥ लक्ष्मणेन रावणेनविभीषणजिघांसया क्षिप्तायाः शक्तेः शरैः शकलीकरणम् ॥ ४ ॥ ततो रावणक्षिप्तयामहत्याशक्त्या वक्षसिगाढाभिहतेनलक्ष्मणेन मूर्च्छयाभूमौपतनम् ॥ ५ ॥ ततः कोपाद्रामेणशरगणवर्षणे पुरस्स्थातुमशक्नुवतारावणेन पलायनम् ॥ ६ ॥

 

तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः ।

क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥

अथ लक्ष्मणस्य शक्त्या पतनं तस्मिन्नित्यादि । क्रोधाच्चास्त्रमनन्तरमित्यत्रापि चक्र इत्यनुषज्यते ॥ १ ॥

 

मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।

उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ २ ॥

किं तद्वमित्यपेक्षायामाह – मयेनेति ।। रौद्रं रुद्रदेवताकं ॥ २ ॥

 

ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।

कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥ ३ ॥

मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।

निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥

तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।

जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ ५ ॥

तस्मिन्मतिहतेऽस्त्रे तु राघवेण महात्मना ।

रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ॥ ६ ॥

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।

कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥

ततः शूलानीत्यादिश्लोकद्वयमेकान्वयं ॥ कूटपाशा: कपटपाशाः ॥ ३–७ ॥

 

तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः ।

पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥

तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः ।

आयुधानि च चित्राणि रावणस्य चमूमुखे ॥ ९ ॥

तदस्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।

विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ १० ॥

स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।

रावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥

ततो विव्याध गात्रेषु सर्वेषु समितिंजयः ।

राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ॥ १२ ॥

चन्द्रसूर्यग्रहैरिवेति । तत्समानाकारैरित्यर्थः ॥ ८-१२ ॥

 

एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।

लक्ष्मणः सायकान्सप्त जग्राह परवीरहा ॥ १३ ॥

एतस्मिन्नन्तर इति । एवं रावणं प्रहृत्य क्षणं रामे विश्राम्यति सतीत्यर्थः । लक्ष्मण: पूर्वं युद्धे प्रवृत्तो मध्ये रामेण युद्धकरणादवसरप्रतीक्ष इत्यर्थः । एवमव्याख्याने कथमन्येन युध्यमानमन्यो युध्येतेति महान्दोषः स्यात् ॥ १३ ॥

 

तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।

ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ १४ ॥

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।

जहार लक्ष्मणः श्रीमान्नैर्ऋतस्य महाबलः॥ १५ ॥

तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।

लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः॥ १६ ॥

गृहीतानां सप्तबाणानां विनियोगप्रकारमाह – तैः सायकरित्यादिश्लोकत्रयेण ॥ तैः सायकैरिति षष्ठ्यर्थेतृतीया । तेषां सायकानां मध्ये एकेन बाणेन ध्वजं, एकेन बाणेन सारथिशिरः । पञ्चभिर्धनुश्च चिच्छेदेत्यर्थः । निशितैः शरैरित्यत्र शरशब्द: काशदण्डविशेषमयत्वपरो बाणविशेषणं ।। १४ – १६ ॥

 

नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् ।

जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥

हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् ।

क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥ १८ ॥

ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव ।

विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥

अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः।

अथोदतिष्ठत्संनादो वानराणां तदा रणे ॥ २० ॥

सा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी ।

सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ २१ ॥

एवं धनुषि छिन्ने क्षणं तूष्णीं तिष्ठति रावणे विभीषणेन किंचित्कारमाह – नीलेति ॥ १७ – २१ ॥

 

ततः सम्भाविततरां कालेनापि दुरासदाम् ।

जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ २२ ॥

सा वेगिना बलवता रावणेन दुरासदा ।

जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥ २३ ॥

संभाविततरां चन्दनादिभिरर्चितां ॥ २२ – २३ ॥

 

एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्  ।

प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ २४ ॥

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।

रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ २५ ॥

अभ्यवपद्यत तमाच्छाद्य स्वयमतिष्ठदित्यर्थः ॥ २४-२५ ॥

 

कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।

न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ २६ ॥

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः।

लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥

विमुखीकृतविक्रम: विमुखीकृतविभीषणविषयपराक्रमः ॥ २६-२७ ।।

 

मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः ।

विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८  ॥

ते त्वया ॥ २८ ॥

 

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।

मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥

इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।

मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ३० ॥

लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।

रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ३१ ॥

सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।

शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥ ३२ ॥

लोहितलक्षणा रुधिरचिह्ना । अनेन पूर्वमपि बहवो रिपवोऽनया हता इति व्यज्यते । लोहितलक्षणा सती यास्यतीति वा ॥ २९ – ३२ ॥

 

तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।

स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३ ॥

राघव: लक्ष्मणाय स्वस्त्यस्तु । त्वं हतोद्यमा नष्टहननोद्योगा मोघा भवेति । तामनुव्याहरदित्यन्वयः ।। ३३ ।।

 

रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।

मुक्ताशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ।। ३४ ।।

न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि ।

जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३५ ।।

ततो रावणवेगेन सुदूरमवगाढया ।

शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३६ ।।

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।

भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३७ ।।

क्षणाद्भस्मीकरणक्षमा शक्तिः रामेण मोघीकृता सती केवलमपतदित्याह रावणेनेति ॥ मुक्तेति । आशु उरसि अभीतस्येति पदानि । लक्ष्मणस्योरसि ममज्जेति संबन्धः ।। ३४–३७ ।।

 

स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।

बभूव संरब्धतरो युगान्त इव पावकः ॥ ३८ ।।

अनुध्याय तत्कालकर्तव्यं चिन्तयित्वा ॥ ३८ ॥

 

न विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः।

चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ।

सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ।। ३९ ।।

न विषादस्येति सार्धश्लोकमेकं वाक्यं । लक्ष्मणं सन्निरीक्ष्य महता सर्वयत्नेन रावणस्य वधे धृतः अवहितः सुतुमुलं युद्धं चक्र इत्यन्वयः । न केवलं सीताहरणात् किंतु लक्ष्मणदर्शनादपीति चशब्दार्थः ॥ ३९ ॥

 

स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।

लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ४० ।।

कथं लक्ष्मणदर्शनं रावणवधकारणं भवतीत्यत्राह–स ददर्शेति ॥ तदानीं लक्ष्मणस्य तादृशशोच्यत्वदर्शनं रावणवधनिश्चयकारणं भवतीत्याशयः ॥ ४० ॥

 

तामपि प्रहितां शक्तिं रावणेन बलीयसा ।

यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।

अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥ ४१ ।।

तामपीति ॥ अपिशब्दस्य यत्नतोपीत्युत्तरत्रान्वयः । बाणार्दितत्वेन सुतरां न शेकुरित्याह- अर्दिताश्चेति ॥ ४१ ॥

 

सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम ।। ४२ ।।

तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।

बभञ्ज समरे क्रुद्धो बलवान्विचकर्ष च ॥ ४३ ।।

तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।

शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ४४ ।।

अचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् ।

अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः ।

लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥ ४५ ।।

कारणान्तरमाह – सौमित्रिमिति ॥ ४२ – ४५ ॥

 

पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः ।

पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः ।

काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् ॥ ४६ ॥

पराक्रमस्येत्यादिसार्धश्लोक एकान्वयः ॥ वध्यतामिति प्राप्तकाले लोट् । स्तोककस्य चातकस्य । स्तोककश्चातकः समाः इत्यमरः ॥ ४६ ॥

 

अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः ।

अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ॥ ४७  ॥

अस्मिन्मुहूर्ते तत्रापि न चिराद्द्रक्ष्यथेत्यन्वयः ॥ ४७ ॥

 

राज्यनाशं वने वासं दण्डके परिधावनम् ।

वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ॥ ४८ ॥

प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।

अद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे ॥ ४९ ॥

राज्यनाशमित्यादिश्लोकद्वयमेकान्वयं ॥ प्राप्तं पंपोपवनादौ । क्लेशं लक्ष्मणप्रहरणजन्यं ॥ ४८-४९ ॥

 

यदर्थं वानरं सैन्यं समानीतमिदं मया ।

सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥ ५० ॥

यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे  ।

सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥ ५१ ॥

चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।

दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥ ५२ ॥

स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः  ।

आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५३ ॥

यदर्थमित्यादिश्लोकत्रयमेकान्वयं ॥ दृष्टिं दृष्टिविषयं । दृष्टौ विषं यस्यासौ दृष्टिविषः तस्य । केचिद्धि सर्पा: दर्शनमात्रेण मनुष्यान्मारयन्तीति प्रसिद्धिः ॥ ५०-५३ ।।

 

अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।

त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ५४ ॥

रामत्वं जगदेकवीरत्वं । आचार्यास्तु रामावतारप्रयोजनमित्याहुः ॥ ५४ ॥

 

अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।

सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ।

समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ।। ५५ ।।

एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।

आजघान दशग्रीवं रणे रामः समाहितः ॥ ५६ ॥

अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।

अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥ ५७ ॥

रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।

शराणां च शराणां च बभूव तुमुलः स्वनः ॥ ५८ ॥

ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।

अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ५९ ॥

तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्  ।

त्रासनः सर्वभूतानां स बभूवाद्भुतोपमः ॥ ६० ॥

स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मतार्दितः ।

भयात्प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः ॥ ६१ ॥

अद्येत्यादिसार्धश्लोक एकान्वयः ॥ सदेवाः सचराचराः लोकाः जनाः । समागम्य संघीभूय । यथेदानीं युद्धं प्रवर्तितं तथा यावद्भूमिर्धरिष्यति तावत्कालं सदा नित्यशः । लोके यत्कर्म कथयिष्यन्ति तत्कर्माद्य करिष्यामीत्यन्वयः ॥ ५५-६१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोत्तरशततमः सर्गः ॥ १०१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.