श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चोत्तरशततमः सर्गः
रामेणरावणंप्रति सीताहरणरूपकुकर्मानुव्याहरणेनगर्हणपूर्वकं बाणगणाभिवर्षणम् ॥ १ ॥ रामबाणगणाभिघातनिर्विण्णतया कर्तव्यमूढेसतिरावणे तत्सारथिना रणाङ्गणादन्यतोरथाप -वाहनम् ॥ २ ॥
स तेन तु तथा क्रोधात्काकुत्स्थेनार्दितो रणे ।
रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १ ॥
स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।
अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे ॥ २ ॥
अथ श्रान्तस्य रावणस्य सूतेन रथापवाहनं पञ्चशततमे – स तु तेनेत्यादि ॥ १-२ ॥
बाणधारासहस्रैस्तैः सतोयद इवाम्बरात् ।
राघवं रावणो बाणैस्तटाकमिव पूरयत् ॥ ३ ॥
पूरितः शरजालेन धनुर्मुक्तेन संयुगे ।
महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ॥ ४ ॥
स शरैः शरजालानि वारयन्समरे स्थितः ।
गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥ ५ ॥
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।
निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥ ६ ॥
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः ।
दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः ॥ ७ ॥
शराभिघातसंरब्धः सोपि जग्राह सायकान् ।
काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ॥ ८ ।।
बाणधारासहस्त्रैः हेतुभिः तोयद इव रावणः तैः धाराभूतैः बाणैः तटाकमिव रामं पूरयत् अपूरयत् ।। ३ – ८ ॥
ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ ।
शरान्धकारे समरे नोपालक्षयतां तदा ॥ ९ ॥
ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।
उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ १० ॥
अन्योन्यं नोपालक्षयतामित्यन्वयः ।। ९-१० ।।
मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।
हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥ ११ ॥
मया विरहितां दीनां वर्तमानां महावने ।
वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ।। १२ ।।
मम अज्ञानात् ममादर्शनात् त्वदविवेकादिति वा । ते त्वया ॥ ११-१२ ॥
स्त्रीषु शूर विनाथासु परदाराभिमर्शक ।
कृत्वा कापुरुषं कर्म शूरोहमिति मन्यसे ।। १३ ।।
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।
दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥ १४ ॥
कापुरुष कापुरुषसंबन्धि ॥ १३–१४ ॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च ।
श्लाघनीयं यशस्यं च कृतं कर्म महत्वया ॥ १५ ॥
शूरेणेत्यादि सोपहासोक्तिः ॥ १५ ॥
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।
कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् ॥ १६ ॥
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ।
नैव लज्जाऽस्ति ते सीतां चोरवद्व्यपकर्षतः ॥ १७ ॥
यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् ।
भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥ १८ ॥
दिष्ट्याऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।
अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ १९ ॥
उत्सेकेन गर्वेण ।। १६–१९ ।।
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।
क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥ २० ॥
शिरो ज्वलितकुण्डलमित्यनेन तदानीमन्तकाले रावण एकशिरस्क स्थित इति गम्यते ॥ २० ॥
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।
पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ॥ २१ ॥
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।
कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥ २२ ॥
[ दुष्टोसि महतः कालाद्दिष्ट्या दृष्टिपथं गतः ।
अद्य क्रोधं विमोक्ष्यामि सीताहरणसंभवम् ] ॥ २३ ॥
इत्येवं संवदन्वीरो रामः शत्रुनिबर्हणः ।
राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ २४ ॥
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।
रामस्यास्रवलं चैव शत्रोर्निधनकाङ्क्षिणः ॥ २५ ॥
प्रादुर्बभूवरखाणि सर्वाणि विदितात्मनः ।
प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ॥ २६ ॥
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।
भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ २७ ॥
तर्षः पिपासा । शरशल्यान्तरोत्थितं शरशल्यक्षतविवरादुत्थितमित्यर्थः ।। २१ – २७ ॥
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।
हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥ २८ ॥
राघवात् राघवस्य । विभक्तिव्यत्यय आर्षः । विघूर्णहृदयः भ्रान्तहृदयः ॥ २८ ॥
यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।
नास्य प्रत्यकरोद्वीर्यं विक्लबेनान्तरात्मना ॥ २९ ॥
क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।
न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ॥ ३० ॥
सूतस्तु रथनेताऽस्य तदवस्थं समीक्ष्य तम् ।
शनैर्युद्धादसंभ्रान्तो रथं तस्यापवाहयत् ॥ ३१ ॥
[ रामबाणविभिन्नाङ्गो रावणो राक्षसेश्वरः ।
निरस्तविक्रमस्सङ्ख्ये रणे श्रान्तः पपात सः ॥ ३२ ॥
सुतस्तु व्यथितं बाणैः स्यन्दनस्थं निरीक्ष्य तम् ।
तस्माद्रणादथोवाह रावणं हतपौरुषम् ॥ ३३ ॥
रथं च तस्याथ जवेन सारथिर्निवार्य भीमं जलदस्वनं तदा ।
जगाम भीत्या समरान्महीपतिं निरस्तवीर्यं पतितं समीक्ष्य ॥ ३४ ॥ ]
यदा चेत्यादिश्लोकत्रयमेकान्वयं । यदा शस्त्रं नारेभे शस्त्रं न प्रयुक्तवान् । शरासनं च न व्यकर्षत् । यदा च विक्लबेन विवशेन । अन्तरात्मना मनसा हेतुना । अस्य रामस्य वीर्यं स्ववीर्यं च न प्रत्यकरोत् न प्रतिजघान । तेन रावणेन क्षिप्ताः शरा अपि विविधानि शस्त्राणि च न रणार्थाय वर्तन्ते । छेदनभेदनादिरणप्रयोजनं कर्तुं यदा नाशक्नुवन् । तदा मृत्युकाले अभिवर्ततः अभिवर्तमानस्य अस्य रावणस्य । रथनेता सूतः असंभ्रान्तः सत् तदवस्थं पूर्वोक्तावस्थं रावणं समीक्ष्य तस्य रथं युद्धान् युद्धस्थलात् शनैः । अपवाहयत् अपावाहयत् । अन्यत्रानयदिति योजना ॥ २९ – ३४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पभ्वोत्तरशततमः सर्गः ॥ १०५ ॥