91 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकनवतितमः सर्गः

लक्ष्मणेनेन्द्रजिद्वधः ॥ १ ॥

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः ।

इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा ॥ १ ॥

अथेन्द्रजितद्वध:-स हताश्व इत्यादि ॥ १ ॥

 

तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् ।

विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥ २ ॥

विजयेनेति प्रयोजने तृतीया । विजयायेत्यर्थः । अभिनिष्क्रान्तौ बभूवतुरिति शेषः । गजवृषाविव गजश्रेष्ठाविव । यद्वा किंचिद्धीनबलत्वादिन्द्रजितो वृषभतुल्यत्वं ॥ २ ॥

 

निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः ।

भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः ॥ ३ ॥

संपतन्तः परितः संचरन्त इत्यर्थः ॥ ३ ॥

 

ततस्तान्राक्षसान्सर्वान्हर्षयन्रावणात्मजः ।

स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ॥ ४ ॥

तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः ।

नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ॥ ५ ॥

स्तुवानः स्तुवन् । आर्ष: शानच् ॥ ४-५ ॥

 

धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै ।

अहं तु रथमास्थाय आगमिष्यामि संयुगम् ॥ ६ ॥

तथा भवन्तः कुर्वन्तु यथेमे काननौकसः ।

न युध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ॥ ७ ॥

इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः ।

प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ॥ ८ ॥

मोहनाय मन्निर्गमनापरिज्ञानाय ॥ ६-८ ॥

 

स रथं भूषयित्वा तु रुचिरं हेमभूषितम् ।

प्रासासिशतसंपूर्णं युक्तं परमवाजिभिः ॥ ९ ॥

अधिष्ठितं हयज्ञेन स्रुतेनाप्तोपदेशिना ।

आरुरोह महातेजा रावणिः समितिंजयः ॥ १० ॥

स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः ।

निर्ययौ नगरात्तूर्णं कृतान्तबलचोदितः ॥ ११ ॥

सोभिनिष्क्रम्य नगरादिन्द्रजित्परवीरहा ।

अभ्ययाञ्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ॥ १२ ॥

स रथमित्यादिश्लोकद्वयमेकान्वयं भूषयित्वा स्वतेजसा भूषयित्वा । आप्तोपदेशिना हितोपदेशिना ।। ९-१२ ॥

 

ततो रथस्थमालोक्य सौमित्री रावणात्मजम् ।

वानराश्च महावीर्या राक्षसश्च विभीषणः ॥

विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः ॥ १३ ॥

रावणिश्चापि संक्रुद्धो रणे वानरयूथपान् ।

पातयामास बाणौघैः शतशोथ सहस्रशः ॥ १४ ॥

स मण्डलीकृतधनू रावणिः समितिंजयः ।

हरीनभ्यहनत्क्रुद्धः परं लाघवमास्थितः ॥ १५ ॥

ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः ।

सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः ॥ १६ ॥

ततः समरकोपेन ज्वलितो रघुनन्दनः ।

चिच्छेद कार्मुकं तस्य दर्शयन्पाणिलाघवम् ॥ १७ ॥

तत इत्यादिसार्धश्लोक एकान्वयः ॥ ततः तस्माद्युद्धप्रदेशात् ॥ १३-१७ ।।

 

सोन्यत्कार्मुकमादाय सज्यं चक्रे त्वरन्निव ।

तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ॥ १८ ॥

अथैनं छिन्नधन्वानमाशीविषविषोपमैः ।

विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ॥ १९ ॥

ते तस्य कायं निर्भिद्य महाकार्मुकनिस्सृताः ।

निपेतुर्धरणीं बाणा रक्ता इव महोरगाः ॥ २० ॥

स भिन्नवर्मा रुधिरं वमन्वक्रेण रावणिः ।

जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ।। २१ ।।

स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः ।

ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः ।। २२ ।।

मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः ।

अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम् ॥ २३ ॥

त्वरन्निवेति । इवशब्दो वाक्यालंकारे । निरकृन्तत अच्छिनत् ॥ १८-२३ ।।

 

दर्शयामास च तदा रावणि रघुनन्दनः ।

असंभ्रान्तो महातेजास्तदद्भुतमिवाभवत् ॥ २४ ॥

दर्शयामास पराक्रममिति शेषः ।। २४ ।।

 

ततस्तान्राक्षसान्सर्वांस्त्रिभिरेकैकमाहवे ।

अविध्यत्परमक्रुद्धः शीघ्रास्त्रं संप्रदर्शयन् ॥

राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ॥ २५ ॥

ततस्तानित्यादिसार्धश्लोक एकान्वयः ॥ शीघ्रास्त्रं शीघ्रमन्त्रं ॥ २५ ॥

 

सोतिविद्धो बलवता शत्रुणा शेत्रुधातिना ।

असक्तं प्रेषयामास लक्ष्मणाय बहूञ्शरान् ॥ २६ ॥

असतं अव्यासङ्गं अविलम्बितं वा ॥ २६ ॥

 

तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद रघुनन्दनः ।

सारथेरस्य च रणे रथिनो रथसत्तमः ।

शिरो जहार धर्मात्मा भल्लेनानतपर्वणा ॥ २७ ॥

तानप्राप्तानित्यादिसार्धश्लोक एकान्वयः ॥ रथिनोस्य रावणे: सारथेरित्यन्वयः ।। २७ ।।

 

असूतास्ते हयास्तत्र रथमूहुरविक्लबाः ।

मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् ॥ २८ ॥

अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः ।

प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयन्रणे ॥ २९ ॥

अमृष्यमाणस्तत्कर्म रावणस्य सुतो बली ।

विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् ॥ ३० ॥

अविक्लबा: अनाकुला: । शिक्षापाटवातिशयादिति मन्तव्यं ॥ २८-३० ॥

 

ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः ।

विलयं जग्मुराहत्य कवचं काञ्चनप्रभम् ॥ ३१ ॥

विलयं नाशं ॥ ३१ ॥

 

अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः ।

ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् ।

अविध्यत्परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ॥ ३२ ॥

अभेद्येत्यादिसार्धश्लोकः ॥ अभेद्यकवचमित्यनेन पूर्वकवचस्यत भग्नत्वात् कवचान्तरं धृतमिति गम्यते । शीघ्रास्त्रं च प्रदर्शयन् । आत्मनः शीघ्रास्त्रत्वं प्रदर्शयन्नित्यर्थः ॥ ३२ ॥

 

तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः ।

रणाग्रे समरश्लाघी त्रिशुङ्ग इव पर्वतः ॥ ३३ ॥

समरं श्लाघत इति समरश्लाधी । समरप्रिय इत्यर्थः । पृषत्कैः बाणैः ॥ ३३ ॥

 

स तथा ह्यार्दितो बाणै राक्षसेन महामृधे ।

तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः ॥

विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ॥ ३४ ॥

स तथेत्यादिसार्धश्लोकएकान्वयः ॥ विकृष्य धनुराकृष्य ॥ ३४ ॥

 

लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ ।

अन्योन्यं जघ्नुर्बाणैर्विशिखैर्भीमविक्रमौ ॥ ३५ ॥

ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ ।

रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ॥ ३६ ॥

लक्ष्मणेन्द्रजिताविति । विशिखै: विविधशिखैः । करवीरपत्राद्याकाराग्रैरित्यर्थः ॥ ३५–३६ ॥

 

तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ ।

घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ॥ ३७ ॥

ततः समरकोपेन संयुक्तो रावणात्मजः ।

विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ॥ ३८ ॥

अयोमुखैस्त्रिभिर्विद्धा राक्षसेन्द्रं विभीषणम् ।

एकैकेनाभिविव्याध तान्सर्वान्हरियूथपान् ॥ ३९ ॥

तस्मै दृढतरं क्रुद्धो जघान गदया हयान् ।

विभीषणो महातेजा रावणेः स दुरात्मनः ॥ ४० ॥

जये कृतभावावित्यन्वयः ॥ ३७–४० ॥

 

स हताश्वादवप्लुत्य रथान्निहतसारथेः ।

रथशक्तिं महातेजाः पितृव्याय मुमोच ह ॥ ४१ ॥

तामापतन्तीं संप्रेक्ष्य सुमित्रानन्दवर्धनः ।

चिच्छेद निशितैर्बाणैर्दशधा साऽपतद्भुवि ॥ ४२ ॥

रथशक्तिं रथेऽवस्थितां शक्तिं ॥ ४१-४२ ॥

 

तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः ।

वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान् ॥ ४३ ॥

दृढधनु: दृढधन्वा । समासान्तविधेरनित्यत्वात्साधुः ॥ ४३ ॥

 

ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः ।

बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ॥ ४४ ॥

निमित्तगाः लक्ष्यगाः । वेध्यं लक्ष्यं शरव्यं च निमित्तं च समं विदुः इति निघण्टुः ॥ ४४ ॥

 

स पितृव्याय संक्रुद्ध इन्द्रजिच्छरमाददे ।

उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥ ४५ ॥

रक्षसां मध्ये आदद इत्यन्वयः ।। ४५ ॥

 

तं समीक्ष्य महातेजा महेषुं तेन संहितम् ।

लक्ष्मणोप्याददे बाणमन्यं भीमपराक्रमः ॥ ४६ ॥

कुबेरण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना ।

दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ॥ ४७ ॥

तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः ।

विकृष्यमाणे बलवत्क्रौञ्चाविव चुकूजतुः ॥ ४८ ॥

ताभ्यां तौ धनुषी श्रेष्ठे संहितौ सायकोत्तमौ ।

विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥ ४९ ॥

तं समीक्ष्येत्यादिश्लोकद्वयमेकान्वयं ॥ महात्मना अप्रमेयबुद्धिना । भाविवृत्तान्तज्ञेनेति यावत् ।। ४६-४९ ।।

 

तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ ।

मुखेन मुखमाहत्य संनिपेततुरोजसा ॥ ५० ॥

सन्निपेततुः संघर्षं प्राप्तौ ॥ ५० ॥

 

सन्निपातस्तयोरासीच्छरयोर्घोररूपयोः ।

सधूमविस्फुलिङ्गश्च तज्जोग्निर्दारुणोऽभवत् ॥ ५१ ॥

तौ महाग्रहसंकाशावन्योन्यं सन्निपत्य च ।

संग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः ॥ ५२ ॥

शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि ।

व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ॥ ५३ ॥

सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ॥ ५४ ॥

रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्युधि निष्ठितः ।

तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम् ॥ ५५ ॥

तज्जः सन्निपातज: ।। ५१-५५ ।।

 

ततः क्रुद्धो महातेजा इन्द्रजित्समितिंजयः ।

आग्नेयं संदधे दीप्तं स लोकं संक्षिपन्निव ॥ ५६ ॥

संक्षिपन् संहरन् ।। ५६ ॥

 

सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत् ।। ५७ ।।

अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः ।

आसुरं शत्रुनाशाय घोरमस्त्रं समाददे ॥ ५८ ॥

सौरेण सूर्यदेवताकेन । सूर्यतिष्यागस्त्य इत्यादिना यलोपः ।। ५७-५८ ।।

 

तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः ।

शूलानि च भुशुण्ड्यश्च गदाः खड़ाः परश्वधाः ।। ५९ ।।

तस्मादिति । असुरास्त्रप्रयोगाद्धेतोः । चापात् इन्द्रजिद्धनुषोपादानात् । कूटमुद्गरादयो विनिष्पेतुरित्यन्वयः । भुशुण्ड्यः मुसलविशेषाः ॥ ५९ ॥

 

तद्दृष्ट्वा लक्ष्मणः सख्ये घोरैमस्रमथासुरम् ।

अवार्यं सर्वभूतानां सर्वशत्रुविनाशनम् ॥

माहेश्वरेण द्युतिमांस्तदस्रं प्रत्यवारयत् ।। ६० ।।

तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम् ।

गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥ ६१ ॥

तदृष्ट्वेत्यादिसार्धश्लोक एकान्वयः ॥ क्रियाद्वयार्थं तदस्त्रमिति द्विरुक्तिः ।। ६०-६१ ॥

 

भैरवाभिरुते भीमे युद्धे वानररक्षसाम् ।

भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ।। ६२ ।।

ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः ।

शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ।। ६२ ॥

अथान्यं मार्गणश्रेष्ठं संदधे राघवानुजः ।

हुताशनसमस्पर्शं रावणारत्मजदारणम् ।। ६४ ।।

भैरवाभिरुते भयंकरशब्दे ररक्षुः । जय जयेत्याद्युक्तिभिरित्यर्थः ॥ ६२-६४ ॥

 

सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् ।

सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ।। ६५ ।।

दुरावारं दुर्विषह्यं राक्षसानां भयावहम् ।

आशीविषविषप्रख्यं देवसङ्घैः समर्चितम् ।। ६६ ।।

येन शक्रो महातेजा दनवानजयत्प्रभुः ।

पुरा दैवासुरे युद्धे वीर्यवान्हरिवाहनः ॥ ६७ ।।

तदैन्द्रमस्रं सौमित्रिः संयुगेष्वपराजितम् ।

शरश्रेष्ठं धनुःश्रेष्ठे नरश्रेष्ठोऽभिसंदघे ॥ ६८ ॥

सुपत्रमित्यादिचतुःश्लोक्येकान्वया ॥ अनुवृत्ताङ्गं वर्तुलस्वरूपं । सुसंस्थितं सुसंस्थानं । सुवर्णविकृतं सुवर्णविचित्रितं । हरिवाहनः हरितवर्णाश्वः । ऐन्द्रमस्त्रं ऐन्द्रास्त्रमन्त्रयोजितं ॥ ६५-६८ ।।

 

संधायामित्रदलनं विचकर्ष शरासनम् ।

सज्यमायम्य दुर्धर्षं कालो लोकक्षये यथा ॥ ६९ ॥

संधाय धनुषि श्रेष्ठे विकर्दन्निदमब्रवीत् ।

लक्ष्मीवाँलक्ष्मणो वाक्यमर्थसाधकमात्मनः ॥ ७० ॥

धर्मात्मा सत्यसंघश्च रामो दाशरथिर्यदि ।

पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ।। ७१ ॥

अमित्रदलनं शत्रुनाशनं । कालः यमः ॥ ६९-७१ ।।

 

इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्नगम् ।

लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ।

ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा ॥ ७२ ।।

इत्युक्त्वेत्यादिसार्धश्लोक एकान्वयः ॥ बाणमैन्द्रास्त्रमन्त्रेण समायोज्य ससर्जेत्यन्वयः । एको लक्ष्मणशब्दो लक्ष्मीयुक्तवचनः । लक्ष्मीवॉल्लक्ष्मण: श्रीलः श्रीमान् इत्यमरः ॥ ७२ ॥

 

स शिरः सशिरस्त्राणं श्रीमज्वलितकुण्डलम् ।

प्रमथ्येन्द्रजितः कायात्पातयामास भूतले ॥ ७३ ॥

तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् ।

तपनीयनिमं भूमौ ददृशे रुधिरोक्षितम् ॥ ७४ ।।

सः बाणः ॥ ७३-७४ ॥

 

हतस्तु निपपाताशु घरण्यां रावणात्मजः ।

कवची सशिरस्त्राणो विध्वस्तः सशरासनः ।। ७५ ।।

चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः ।

हृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा ।। ७६ ।।

अथान्तरिक्षे देवानामृषीणां च महात्मनाम् ।

अभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ।। ७७ ।।

पतितं तमभिज्ञाय राक्षसी सा महाचमूः ।

वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥ ७८ ॥

वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः ।

लङ्कामभिमुखाः सस्रुर्नष्टसंज्ञाः प्रधाविताः ।। ७९ ।।

दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः ।

त्यक्त्वा प्रहरणान्सर्वे पट्टिशासिपरश्वधान् ॥ ८० ॥

केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः ।

समुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः ॥ ८१ ॥

इतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ ।

राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत ॥ ८२ ॥

यथास्तंगत आदित्ये नावतिष्ठन्ति रश्मयः ।

तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ॥ ८३ ॥

कवचीति । कवचादिभिः सह विध्वस्तः इतः धरण्यां निपपातेत्यन्वयः ॥ ७५-८३ ॥

 

शान्तरश्मिरिवादित्यो निर्वाण इव पावकः ।

स बभूव महातेजा व्यपास्तगतजीवितः ।। ८४ ।।

व्यपास्तगतजीवितः व्यपास्तो विक्षिप्ताङ्गो गतजीवितश्च, सः शान्तरश्मिरादित्य इव । निर्वाणः शान्तः । पावक इव च बभूव । निस्तेजस्कोऽभूदित्यर्थः ॥ ८४ ।।

 

प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान् ।

बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥ ८५ ॥

हर्षं च शक्रो भगवान्सह सर्वैः सुरर्षभैः ।

जगाम निहते तस्मिन्राक्षसे पापकर्मणि ॥ ८६ ॥

प्रशान्तेति । इदमारभ्य लोकविशेषणं । प्रशान्तपीडाबहुलः प्रशान्तबहुलपीड: । प्रतापवान् सूर्यप्रकाशवान् । पूर्वं भयेन मन्दसूर्यत्वात् ॥ ८५-८६ ॥

 

आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः ।

नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ॥ ८७ ॥

अप्सरोभिर्गन्धर्वैश्च कृतनर्तनगानजन्यस्वनः शुश्रुव इत्यर्थः । नृत्यद्भिरित्यत्र ङीबभावः आर्षः ॥ ८७ ॥

 

ववृषुः पुष्पवर्षाणि तदद्भुतमभूत्तदा ।

प्रशशंसुर्हते तस्मिन्राक्षसे क्रूरकर्मणि ।।

शुद्धा आपो दिशश्चैव जहृषुर्दैत्यदानवाः ॥ ८८ ॥

ववृषुरिति । अत्रापि देवाः कर्तारः । ववृषुः प्रशशंसुश्च ॥ ८८ ।।

 

आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे ।

ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः ।

विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥ ८९ ॥

ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः ।

तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम् ॥ ९० ॥

विभीषणो हनूमांच जाम्बवांश्चर्क्षयूथपः ।

विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥ ९१ ॥

क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ।

लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे  ९२ ॥

आजग्मुरित्यादिसार्धश्लोक एकान्वयः ।। देवगन्धर्वदानवाः आजग्मुः विचरन्त्वित्यूचु -श्चेति संबन्धः ।। ८९-९२ ।।

 

लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ।

लक्ष्मणो जयतीत्येवं वाक्यं विभावयंस्तदा ॥ ९३ ॥

अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः ।

चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ॥ ९४ ॥

विश्रावयन् व्यश्रावयन् ॥ ९३-९४ ॥

 

तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म ।

परममुपलभन्मनःप्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः ॥ ९५ ॥

असुकरं दुष्करं । सर्वेषां प्राणप्रतिष्ठापकमिति वा । प्रियसुहृदः सर्वप्रियसुहृदः । उपलभन्नित्यत्र अडात्मनेपदाभावावार्षौ । देवाः इन्द्रंरिपुं विनिहतं निशम्य परमं मनःप्रहर्ष उपलभन् उपालभन्त । अथ असुकरं तत् इन्द्रजिद्धननं । प्रियसुहृदः लक्ष्मणस्य । कर्म कृतिविषयभूतं । अभिवीक्ष्य हृष्टाः विस्मिताः । आसन्निति शेषः । विस्मितप्रति घातयोश्चेति वक्तव्यं इति हृषे: पाक्षिक इडभाव: । देवाश्चारणादिमुखेन प्रथम मिन्द्रजिद्धननं संतुष्टाः सन्तः पश्चात्तस्यात्यन्ताशक्यत्वादतथ्यं मन्वाना युद्धभूमिमागत्य तत्प्रत्यक्षीकृत्य विस्मिता आसन्निति भावः ॥ ९५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने काण्डव्याख्याने एकनवतितमः सर्गः ॥ ९१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.