श्रीगुणरत्नकोशः व्याख्या Part 2

श्रीः

श्रीमते रामानुजाय नमः

पराशरभट्टैः विरचित

श्रीगुणरत्नकोशः Part 2

[वसुराश्यभिधाव्याख्यासहितः]

     इत्थम् लक्ष्म्या लीलाविभूत्युपयोगमुक्त्वा नित्यविभूतियोगमाह –
यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतम्
यत्कालादपचेलिमम् सुरपुरी यद्गच्छतो दुर्गतिः ।
सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहम् मद्गिराम्
तद्विष्णोः परमम् पदम् तव कृते मातः ! समाम्नासिषुः || २१ ||
     यदिति – हे मातः । यत् स्थानम् । मनसो दूरे स्मर्त्तुमशक्यमि-त्यर्थः । मनस इत्यसङ्कोचेनोक्तेः । ब्रह्मादीनामपि वाङ्मनसागोचरत्वम् विवक्षितम् । तदुक्तम् श्रीभाष्यकारैः – *ब्रह्मादीनाम् वाङ्मनसागोचरे श्रीमति वैकुण्ठे*(गद्यत्रय.वैकुण्ठे) इति । यत्तमस इति । यत्तमसः प्रकृति- मण्डलस्य पार एव परस्तादेव । एवकारेण रजस्तमोलवस्पर्शोऽपि नेति सूचितम् । यदेव तमसः पारे यत्पदमेव प्रकृतिमण्डलपारवर्ति ब्रह्मादीनाम् पदम् तु न तथेति विशेष्य सङ्गत एवायमेवकारः । *क्षयन्तमस्य रजसः पराके*(ऋ.वे.७-१००-५) इति श्रुतेः रजस्तमश्शब्दौ तत्तदगुणप्रधानप्रकृति-वाचिनौ यदत्यद्भुतम् अत्याश्चर्यावहम् यत्कालादपचेलिमम् यत्कालाद्धेतो-रपचेलिमम् अपरिपक्वम् । अकालकाल्यद्धेतो *न कालस्तत्र वै प्रभुः* (महा.भा.मो.३४-८०) इति स्मृतेः । प्रभुत्वम् परिपाकहेतुत्वम् ।
सुरपुरी सुराणाम् ब्रह्मादीनाम् पुरी, वैराजा अमरावत्यादिरूपा, यद्गच्छतः यत्स्थानम् गच्छतः पुम्सः, दुर्गतिः नरकः,*एते वै निरयास्तात स्थानस्य परमात्मनः*(महा.भा.श.प.१९६-६) इति स्मृतेः । सायुज्यस्य परमपुरुष- साम्यापत्तेः यदेव यत्स्थानमेव सूतिरुत्पादकम् न त्वितरदित्यर्थः । अथवा किमेतैर्लक्षणैः इदमेव तल्लक्षणमित्याह – यद्दुर्ग्रहमिति । मद्गिराम् मद्वाचाम् यद्दुर्ग्रहमगोचरम् विष्णोः परवासुदेवस्य तत्परमम् पदम् अत्युत्कृष्टस्थानम् तव कृते त्वदर्थ त्वन्नित्यवासार्थमित्यर्थः । समाम्नासिषुः अभ्यस्तवन्तः । वेदा इति शेषः । सम्पूर्वात् *म्ना अभ्यासे*(धा.पा.९२९) इत्यस्माद्धातोः *लुङि च्ले:*(पा.सू.३-१-४४) सिचि *यमरम*(पा.सू.७-२-७३) इत्यादिना इट्सकोः कृतयोः *आदेशप्रत्यययोः* (पा.सू.८-३-५९)इति षत्वे झेर्जुसि, समाम्नासिषुरिति रूपम् । *तद्विष्णोः परमम् पदम् सदा पश्यन्ति सूरयः*(ऋ.वे.१-२२-२०, तै.सं.१-३-६-२) इति श्रुतिरिह प्रमाणम् द्रष्टव्यम् || २१ ||
सेश्वरम् विभूतिद्वयम् तद्वर्तिवस्तुजातम् च लक्ष्मीपरिकरभूतमित्याह –

हेलायामखिलम् चराचरमिदम् भोगे विभूतिः परा
पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।
श्रीरङ्गेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयम्
शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे || २२ ||
      हेलायामिति – हे श्रीरङ्गेश्वरदेवि श्रीरङ्गराजप्रिये ! अखिलम् चरा-चरम् जङ्गमस्थावरात्मकमिदम् परिदृश्यमानम् जगत् तव हेलायाम् क्रीडायाम् विनियुक्तम्  *हरे! विहरसि क्रीडाकन्दुकैरिव जन्तुभिः*(वि.ध.) इत्युक्तेः । परा उत्कृष्टा परममहती वा *त्रिपादस्यामृतम् दिवि*(तै.आर. ३-१२-२) इति श्रुतेः । विभूतिः शुद्धसत्त्वरूपा तव भोगे विनियुक्ता भोग्य-भोगोपकरणभोगस्थानत्वेन विनियुक्तेत्यर्थः । त्वाम् त्वत्प्रियम् च ये सदा पश्यन्ति साक्षात्कुर्वन्ति । पुण्याः युष्मत्सदानुभवहेतुसुकृतशीलास्ते सूरयो विष्वक्सेनादयः ते तव परिचारकर्मणि विनियुक्ताः । वयम् बुभुक्षु- मुमुक्षुभेदभिन्नाः जीवाः तव केवलकृपानिर्वाह्यवर्गे त्वन्निर्हेतुककृपा- निर्वाहकर्मीकृतानाम् वर्गे सन्ततौ विनियुक्ताः । परमः पुमान् परमःपुरुषः । त्वत्प्रियः तव शेषित्वे विनियुक्तः । इत्येते पूर्वोक्ताः सर्वेपि तव स्फारणे व्याप्तौ त्वद्विभव इत्यर्थः । परिकरा हि उपकरणभूताः । खलु हि इत्याश्चर्ये || २२ ||
श्रीश्रीपत्योः परमव्योम्नि वैकुण्ठनगरीयोगमाह –

आज्ञानुग्रहभीमकोमलपुरीपाला फलम् भेजुषाम्
याऽयोध्येत्यपराजितेति विदिता नाकम् परेण स्थिता ।
भावैरद्भुतभोगभूमगहनैः सान्द्रा सुधास्यन्दिभिः
श्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्ताम् राजधानीम् विदुः || २३ ||
आज्ञेति – हे श्रीरङ्गेश्वरगेहलक्ष्मि ! श्रीरङ्गेश्वरदिव्यविमानालङ्क-
रणभूते! या पुरी आज्ञानुग्रहभीमकोमलपुरीपाला आज्ञया शासनेन अनु-ग्रहेण दयया यथाक्रमम् भीमाः भयङ्कराः कोमलाः सौम्याः पुरीपालाः नगररक्षकाः यस्याः सा तथोक्ता । भेजुषाम् भजताम् फलम् भक्तानाम्
प्रपन्नानाम् च स्वतः पुरुषार्थभूता अयोध्येत्यपराजितेति योद्धमशक्येति
परैरजितेति च हेतोर्या तत्तदाख्यया विदिताप्रसिद्धा श्रुताविति शेषः ।
*देवानाम् पूरयोध्या*(तै.आ.१-२७-३) इति *विशालापराजिता* इति च श्रुतेः ।
नाकम् परेण नाकस्य परमाकाशस्य परेण उपरिष्टात् परमव्योम्नी- त्यर्थः । स्थिता वर्तमाना *परेण नाकम् निहितम् गुहायाम्*(तै.आर.१०-१०-३) इति श्रुतेः । सुधास्यन्दिभिः अमृतस्राविभिः भोग्यतमैरित्यर्थः । अद्भुतभोगभूमगहनैः अद्भुतभोगानाम् आश्चर्यसुखानाम् अनुभवानाम् वा, भूम्ना बाहुल्येन, गहनैः सम्भृतैः पदार्थैः सान्द्रा निबिडा च भवति । ताम् युवयोः राजधानीम् प्रधाननगरीम् विदुः श्रुतयो मुनयो वेति शेषः । प्रधाननगरी राज्ञाम् राजधानीति कथ्यते* इत्यमरशेषः || २३ ||
तत्र स्थितमास्थानमनुसन्धत्ते –

तस्याम् च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशम्
सङ्कीर्णम् दास्यतृष्णाकलितपरिकरैः पुम्भिरानन्दनिघ्नैः ।
स्नेहादस्थानरक्षाव्यसनिभिरभयम् शार्ङ्गचक्रासिमुख्यैः
आनन्दैकार्णवम् श्रीर्भगवति युवयोराहुरास्थानरत्नम् || २४ ||
      तस्यामिति – भगवति! षाड्गुण्यपरिपूर्णे! हे श्रीः ! तस्याम्
त्वत्कृपावत् त्वद्दयेव निरवधिजनताविश्रमार्हावकाशम् निरवधेः ।
अवधिशून्यायाः असड्ख्यायाः, जनतायाः जनसमूहस्य, विश्रमार्ह:-
विश्रान्तियोग्यः, अवकाशः अन्तरम् यस्मिन् तत्तथोक्तम् । त्वत्कृपाया:-
सर्वविषयत्वात् तथात्वमविवादम् तद्वदिदमपीति भावः । दास्यतृष्णा-
कलितपरिकरैः दास्ये कैडर्यकरणे तृष्णया स्पृहया कलिताः गृहीताः
परिकरा: छत्रचामरपतद्गृहकलाचिकादयो यैस्तैः आनन्दनिघ्नैः आनन्द-विवशैः पुम्भिः मुक्तपुरुषैः सङ्कीर्णम् सम्भृतम् ।
स्नेहात् भगवद्दिव्यमङ्गलविग्रहप्रेम्णः अस्थानरक्षाव्यसनिभिः
अस्थाने अकाण्डे रक्षायाम् रक्षणे व्यसनिभिः व्याकुलैः, परमपदे भय-शङ्काया अनवकाशाद्रक्षाव्यसनस्यास्थानत्वम् । शार्ङ्ग चक्रासिमुख्यैः
चापसुदर्शनखड्गप्रभृतिभिः पञ्चायुधैः अभयम् भयरहितम् । आनन्दै-कार्णवम् आनन्दस्यानुकूलज्ञानस्य अर्णवम् समुद्रम् अपरिछिन्नानन्दा-वहमित्यर्थः । तथाभूतम् युवयोः श्रीः श्रीपत्योः आस्थानरत्नम् महामणि-मण्डपश्रेष्ठम् चाहुः । वेदान्ता इति शेषः । तस्याञ्च इत्यत्र चशब्दस्य आस्थानरत्नम् चाहुरित्युत्तरत्रान्वयः । *प्रजापतेस्सभाम् वेश्म प्रपद्यन्ते* (छां.उ.८-१४-१) इति श्रुतिरत्र प्रमाणतयाऽनुसन्धेया || २४ ||
तन्मण्डपे शेषसिम्हासने विश्वरक्षादीक्षितेन स्वामिना सह सर्वा- नन्दावहत्वमाह –

तत्र स्रक्स्पर्शगन्धम् स्फुरदुपरिफणारत्नरोचिर्वितानम्
विस्तीर्यानन्तभोगम् तदुपरि नयता विश्वमेकाधिपत्यम् ।
तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हतात्वामसङ्ख्यैः
अन्योन्याद्वैतनिष्ठाघनरसगहनान्देवि! बध्नासि भोगान् || २५ ||
तत्रेति – हे देवि! तत्र महामणिमण्डपे स्रकस्पर्शगन्धम् स्रजः
पुष्पमालिकायाः स्पर्शगन्धाविव स्पर्शगन्धौ यस्य तम् तथोक्तम् ।
स्फुरदुपरिफणारत्नरोचिर्वितानम् स्फुरतामुपरि फणारत्नानाम् उपरितन-
माणिक्यानाम् रोचीम्ष्येव वितानम् उल्लोचः यस्य तम् । अनन्तभोगम्
अनन्तस्य शेषस्य भोगम् कामम् विस्तीर्य विस्तृतम् कृत्वा तदुपरि
अनन्तभोगोपरि निविश्येति शेषः । विश्वम् विभूतिद्वयम् एकाधिपत्यम्
एकच्छत्राधिपत्यम् । नयता गमयता असङ्ख्यैः सङ्ख्यातीतैः तैः अवा- ङ्मनसगोचरैः शान्तोदितगुणविभवैः शान्तोदितस्य भगवच्छान्तोदित-दशायाः स्ववैश्वरूप्यानुभवरूपायाः गुणविभवैः गुणातिशयैः त्वामर्हता त्वदनुरूपेण कान्तेन प्रियेण हरिणा सह अन्योन्याद्वैतनिष्ठाघनरस-गहनान् अन्योऽन्यम् परस्परम्, अद्वैतनिष्ठया एकीभावेन परस्परगाढानु- रागेणेत्यर्थः । घनेन निबिडेन, रसेन आनन्देन, गहनान्निर्भरान् भोगान् अनुभवान्, बध्नासि घटयसि । युवयोः सेवकानाम् सूरिपरिषदाम् चेति भावः । *बन्ध बन्धने*(धा.पा.१५०९)इत्यस्माद्धातोः श्नाप्रत्यये लटस्सिपि बध्नासीति रूपम् || २५ ||
न केवलम् पत्युस्त्वमेवानन्दावहा त्वमिव पत्युस्तव च भोग्यभूताः
परस्सहस्रम् सपत्न्यः सन्तीत्याह –

भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समम्
निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।
देवि त्वामनु नीलया सह महीदेव्यस्सहस्रम् तथा
याभिस्त्वम् स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियम् श्लाघसे || २६ ||
     भोग्या इति – हे देवि ! वामपि भोग्यभूतयोर्युवयोरपि । पुष्पाङ्ग- रागैस्समम् स्रक्चन्दनादितुल्यम् अङ्गरागशब्देन अङ्गरचनाहेतुभूतघन-
सारकुङ्कुमकस्तूर्यादयोऽपि गृह्यन्ते । नान्तरीयकतया स्वभोग्यतोप-योगेन भोग्याः यथा पुष्पाङ्गरागादीनाम् प्रधानभूतस्वभोग्यतोपयोगेन भोग्यत्वम् तथा तासामपीति भावः ।
निर्वृत्तप्रणयातिवाहनविधौ निर्वृत्तस्य परिपूर्णस्य उद्वेलस्येत्यर्थः ।
प्रणयस्य प्रेमरसस्य, अतिवाहनिविधौ अतिप्रवाहणे परीवाहताम् निर्गम- प्रवाहताम् नीताः प्रापिताः । श्रीश्रीपत्योरुन्मस्तकः प्रेमरसस्सपत्नीमुखेन
प्रवहतीति भावः । यथा तटाकः परिपूर्णस्सन् निर्गमप्रवाहम् विना न
निर्वहति तथा श्रीश्रीशयोरत्युत्कटप्रेमरसो भूनीलादिसपत्नीमुखेन प्रवहणम्
विना न निर्वहतीति हृदयम् । नीलया नीलादेव्या सह मही भूदेवी त्वामनु त्वद्व्याप्यतयेत्यर्थः । नीलया सहेति नीलादेव्या भूम्यपेक्षया व्याप्यत्वम् स्फुटम् *सहयुक्तेऽप्रधाने*(पा.सू.२-३-१९) इत्यनुशासनात् । तथा भूनीले इव त्वामनुसृत्य सहस्रम् देव्यस्सन्तीति शेषः । त्वम् याभिः देवीभिः स्वाभिः स्वकाभिः स्तनबाहुदृष्टिभिरिव स्वावयवैरिव । प्रियम् प्रेयाम्सम् श्लाघसे सन्तोषयसि । *श्लाघृ कत्थने*(धा.पा.११५) इत्यस्माद्धातोः – लडात्मनेपदि मध्यमपुरुषैकवचनम् । स्तनबाहुदृष्टिभि-रित्यत्र महाविभाषया द्वन्द्वैकवद्भावविकल्पः । न केवलम् लक्ष्म्यास्ताभि-स्समम् सापत्न्यकलहाभावः परन्तु भगवतस्ताभिस्सह सम्श्लेषे स्वावयव-सम्श्लेष इव तस्या महतीप्रीतिर्वर्धत इति भावः || २६ ||
इत्थम् लक्ष्म्यास्सपत्नीसहस्रमुक्त्वा परिचारकवर्गमाह –

ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैः
भोगैर्वा निर्विशेषास्सवयस इव ये नित्यनिर्दोषगन्धाः ।
हे श्रीः! श्रीरङ्गभर्त्तुस्तव च पदपरीचारवृत्यै सदापि
प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः || २७ ||
        त इति – हे जननि श्रीः । साध्याः साध्यनामकाः देवाः द्योतमानाः
मोदमाना वा नित्यनिर्दोषगन्धाः नित्यम् कालत्रयेऽपि निर्दोषगन्धाः ।
निर्गतावद्यलेशाः । *लेशेऽपि गन्धः*(अ.को.) इत्यमरः | अस्पृष्टसम्सार- गन्धा इत्यर्थः । गुणवपुर्वेषवृत्तस्वरूपैः गुणैः अपहतपाप्मत्वादिभिः ज्ञान- शक्त्यादिभिश्च वपुर्भिः विग्रहैः वेषैः शङ्खचक्राद्यलङ्कारैः वृत्तैः निरङ्कुश-व्यापारैः, स्वरूपैः ज्ञानानन्दामलात्मस्वरूपैः भोगैः सविभूतिकभगवत् कल्याणगुणानुभवैर्वा वाशब्दश्चार्थः । भोगैश्चेत्यर्थः । निर्विशेषाः विशेष-रहिताः । तुल्या इत्यर्थः । युवाभ्याम् परस्परम् चेति शेषः ।
अत एव सवयस इव समानवयस्का इव सखाय इव वा । ये सन्ति ते सूरयः श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै श्रीपादकैङ्कर्यकरणाय सदापि सर्वदेशसर्वकालसर्वावस्थास्वपि प्रेमप्रद्राणभावाविलहृदयहठात्कार
कैङ्कर्यभोगाः प्रेम्णा प्रीत्या प्रद्राणेन द्रवीभूतेन भावेन अभिप्रायेण अवस्थाविशेषेण वा आविलेन कलिलेन हृदयेन मनसा हठात्कारो झटि-त्याचरणम् यस्य तत्तथोक्तम् । तथाभूतम् कैङ्कर्यम् परिचरणमेव भोगो भृतिः सुखम् वा येषान्ते तथोक्ताः । तथाभूता भवन्तीति शेषः । *भोग-स्सुखेस्त्र्यादिभृतौ* इत्यमरः (अ.को.३-३-२३) । यद्वा ये साध्याः साध्य-नामकाः इत्यादिपूर्वविशेषणविशिष्टाः प्रेमप्रद्राणभावाविलहृदयहठात्कार-कैङ्कर्यभोगास्ते सूरयः श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सन्तीत्य-न्वयः || २७ ||
अथ लक्ष्म्या भगवत्स्वरूपनिरूपकधर्मतामाह –

स्वरूपम् स्वातन्त्र्यम् भगवत इदम् चन्द्रवदने !
त्वदाश्लेषोत्कर्षाद्भवति खलु निष्कर्षसमये ।
त्वमासीर्मातः श्रीः कमितुरिदमित्थम् त्वविभवः
तदन्तर्भावात्त्वाम् न पृथगभिधत्ते श्रुतिरपि || २८ ||
        स्वरूपमिति – हे चन्द्रवदने ! आश्रितानन्दनमुखि! मातः! श्रीः! निष्कर्षसमये निर्णयवेलायाम् भगवतः श्रीमन्नारायणस्य इदम् स्वरूपम्
दिव्यात्मस्वरूपम् स्वातन्त्र्यम् निरङ्कुशस्वतन्त्रत्वम् च त्वदाश्लेषो-त्कर्षात् त्वन्नित्ययोगातिशयात् भवति खलु । तत्र हेतुमाह – त्वमासी-रिति । कमितुः प्रेयसः त्वमिदमित्थम्त्वविभवः आसीः अयमीश्वरः इती-दन्त्वविभवः ईदृश ईश्वर इतीत्थम्त्वविभवः उभयमपि त्वमेवाभवः । सन्तस्त्वाम् भगवति दृष्ट्वा त्वदाश्रयमीश्वरम् निश्चिन्वन्ति । त्वत्पति-तित्वमीश्वरलक्षणम् जानन्ति चेति भावः । श्रुतिस्त्वामपि तदन्तर्भावात् भगवत्स्वरूपनिरूपककोटावन्तर्भावात् । पृथक् भगवतः पृथक्कृत्य । नाभिधत्ते न वदति । अभिपूर्वात् *डुधाञ् धारणपोषणयोः*(धा.पा.१०९३) इत्यस्माद्धातोर्जौहोत्यादिकाच्छपः *श्लौ*(पा.सू.६-१-१०) इति द्वित्वे अभ्या-सह्रस्वत्वे, श्नाभ्यस्तयोरातः*(पा.सू.६-४-११२) इत्यालोपे *दधस्तथोश्च*
(पा.सू.८-२-३८) इति भष्भावे अभिधत्त इतिरूपम् || २८ ||
*मङ्गलम् भगवान्विष्णुर्मङ्गलम् मधुसूदनः । मङ्गलम् पुण्ड-रीकाक्षो मङ्गलम् गरुडध्वजः । पवित्राणाम् पवित्रम् यो मङ्गलानाम् च मङ्गलम्* । इति भगवति प्रयुज्यमानम् मङ्गलपदम् श्रीसम्बन्धायत्त-मित्याह –
तव स्पर्शादीशम् स्पृशति कमले मङ्गलपदम्
तवेदम् नोपाधेरुपनिपतितम् श्रीरसि यतः ।
प्रसूनम् पुष्यन्तीमपि परिमलद्धिम् जिगदिषुः
न चैवम्त्वादेवम् स्वदत इति कश्चित्कवयते || २९ ||
तवेति – हे कमले! ईशम् स्वामिनम् । तव स्पर्शात् त्वत्सम्ब-न्धात् मङ्गलपदम् मङ्गलशब्दः स्पृशति बोधयति इदम् एतन्मङ्गल-पदम् उपाधेः प्रयोजकान्तरात् तव नो निपतितम् न त्वद्वाचकत्वेन सम्बद्धम् किम् तु स्वत एव । तत्र हेतुमाह – यतः श्रीरसीति । यतो हेतोस्त्वम् श्रीर्मङ्गलमसि । तत्र दृष्टान्तमाह – प्रसूनमिति । प्रसूनम् – पुष्पम् पुष्यन्तीम् अतिशयितम् कुर्वतीम् परिमलर्द्धिमपि गन्धसम्पदमपि जिगदिषुः स्वाद्याम् गदितुमिच्छुः एवम्त्वात् एतादृशगुणयोगात् एवम् स्वदते इत्थम् हृद्या भवति इति कश्चित् कोऽपि पुमान् न च कवयते न कथयति हि । चो ह्यर्थः । पुष्पातिशयनिरूपणे परिमलापेक्षेव परिमलाति-शयनिरूपणे गुणान्तरापेक्षा यथा नास्ति तथा भगवन्मङ्गलत्वे श्रीसम्ब- न्धो नियामकः, न तु तस्यास्तत्वे नियामकान्तरापेक्षेति भावः || २९ ||
सर्वेश्वरस्य लोकपालानाम् च लक्ष्मीकटाक्षलब्धविभवत्वमुक्त्वा सर्वे-श्वरम् लोकपालाम्श्च प्रतिपादयन्वेदस्त्वामेव प्रतिपादयतीत्याह –

अपाङ्गा भूयाम्सो यदुपरि परम् ब्रह्म तदभूत्
अमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् ।
अतः श्रीराम्नायस्तदुभयमुशम्स्त्वाम् प्रणिजगौ
प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् || ३० ||
       अपाङ्गा इति – हे श्रीः । तव भूयाम्सः बहुसङ्ख्याः अपाङ्गाः
कटाक्षा: यदुपरि यस्य वस्तुन उपरि प्रसृता इति शेषः । तत् – वस्तु परम् ब्रह्माभूत् । तव भूयः कटाक्षविषयीभूतम् वस्तु परब्रह्मत्वमगमदि-त्यर्थः । अमी अपाङ्गाः यत्र वस्तुनि द्वित्रा द्वौ वा त्रयो वा मानम् येषाम् ते द्वित्राः ते प्रसृताः स च तदधरात् ततः परब्रह्मणः अधरात् अर्वाचीनः
शतमखादिरभूत् । इदमुपलक्षणम् विधिशिवयोरपि तदवरत्वम् बोध्यम्
*नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते*(ना.उ.१) *क इति ब्रह्मणो
नाम ईशोऽहम् सर्वदेहिनाम् । आवाम् तवाङ्गे सम्भूतौ तस्मात्केशव-नामवान्* । (ह.वं.१३-४८) इति ब्रह्मरुद्रयोरपि भगवत उत्पन्नतया श्रुति-स्मृत्यवगतत्वात्, स चेति शतमखाद्यपेक्षया पुल्लिङ्गनिर्देशः । अतस्त्व-त्कटाक्षलब्धविभवत्वात्तदुभयम् परब्रह्मविधिशिवशतमखादिरूपम् । उशन्
कामयमानः वदन्नित्यर्थः । आम्नायो वेदः । त्वाम् प्रणिजगौ प्रव्यक्तम्
गदितवान् । प्रणि-पूर्वात् *गैशब्दे*(धा.पा.९१७) इत्यस्माद्धातोर्लिट्परस्मै-
पदप्रथमपुरुषैकवचनम् । तथाहि पुरीकोशकथनम् पुर्या राजधान्याः
कोशस्य धनसञ्चयादेश्च कथनम् अतिशयेन वर्णनम् क्रियत इति यत् जनैरिति शेषः । सा राज्ञः तत्परिपालकस्य प्रभोः । प्रशस्तिः प्रसिद्धिः अत्र पुरीकोशकथनम् राज्ञः प्रशस्तिरिति सामान्यनिर्देशेन परब्रह्मादिपरा-
म्नायकृतलक्ष्मीप्रशस्तिकथन विशेषस्य समर्थनात् सामान्येन विशेषसम- र्थनरूपार्थान्तरन्यासालङ्कारः || ३० ||
भगवत्स्वरूपम् स्वातन्त्र्यम् त्वदाश्लेषादिति प्रागुक्तम् सिम्हावलोक-नेन निरीक्ष्य तथात्वे पराधीनत्वमन्याहितातिशयित्वम् विगुणत्वम् च
प्रसजेदित्याशङ्काम् हेतुविशेषेण दृष्टान्तबलेन च परिहरति –

स्वतः श्रीस्त्वम् विष्णोः स्वमसि तत एवैष भगवान्
त्वदायत्तद्धित्वेऽप्यभवदपराधीनविभवः ।
स्वया दीप्त्या रत्नम् भवदपि महार्घम् न विगुणम्
न कुण्ठस्वातन्त्र्यम् भवति च न चान्याहितगुणम् || ३१ ||
स्वत इति – हे श्रीः ! त्वम् विष्णोः स्वतः स्वभावात् निरुपाधिकात्म- स्वरूपस्वभावादित्यर्थः । स्वमसि शेषभूतासि *स्वत्वमात्मनि सञ्जातम् स्वामित्वम् ब्रह्मणि स्थितम् । आत्मदास्यम् हरेस्स्वाम्यम् स्वभावम् च
सदा स्मर*|| (वि.त.) इत्याद्यनेकप्रमाणप्रसिद्धेः । तत एव स्वत्वादेव एष भगवान् श्रीरङ्गराजः त्वदायत्तद्धित्वेऽपि अपराधीनविभवोऽभवत् ।
तथाहि – रत्नम् माणिक्यम् स्वया दीप्त्या स्वकान्त्या महार्घम् निरवधि-कमूल्यम् भवदपि विगुणम् गुणहीनम् न कुण्ठस्वातन्त्र्यम् प्रतिहत- स्वोत्कर्षम् च न ।

अन्याहितगुणम् पराधीनातिशयम् च न भवति । तद्वत्त्वत्प्रियोऽपि त्वद- धीनसम्पत्त्वेऽपि न विगुणो न कुण्ठस्वातन्त्र्यो नान्याहितातिशयश्च भव- तीति भावः || ३१ ||
इत्थम् लक्ष्मीस्वरूपमनुसन्धाय स्वरूपाश्रितान् दिव्यमङ्गलविग्रहा-श्रिताम्श्च कल्याणगुणान्विवक्षुः प्रथमम् श्रीश्रीशयोस्साधारणगुणाननु-सन्धत्ते –

प्रशकनबलज्योतिर्ज्ञानैश्वरीविजयप्रथा-
प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः ।
अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे
तव भगवतश्चैते साधारणा गुणराशयः || ३२ ||
     प्रशकनेति – हे इन्दिरे ! परमैश्वर्यप्रदे! श्रीः ! प्रशकनम् प्रकृष्टा शक्तिः, बलम् सर्वजगद्भरणसामर्थ्य ज्योतिः तेजः, ज्ञानम् सर्वदा सर्ववस्तुसाक्षा- त्कारः, ऐश्वरी ईश्वरत्वम् विजयप्रथा जयशीलत्वप्रशस्तिः, प्रणतवरणम् आश्रितवशीकारः, प्रेम आश्रितविषयप्रीतिः, क्षेमङ्करत्वम् आश्रितेष्ट-प्रापकत्वम् तदनिष्टनिवर्तकत्वम् च पुरस्सराः प्रधानानि येषाम् ते
तथोक्ताः । एते दिव्यात्मस्वरूपगुणाः । अथ दिव्यमङ्गलविग्रहगुणा-नाहम् – अपीति । अपि अपिचेत्यर्थः । न केवलमात्मगुणा एव साधारणा: विग्रहगुणा अपि चेत्यपिशब्दार्थः । परिमलः सौगन्ध्यम्, कान्तिः सौन्दर्यम् सा चावयवशोभा, लावण्यम् समुदायशोभा, अर्चिः औज्वल्यम् परप्रकाशकत्वमिति यावत् । इत्येते द्विविधा अपि स्वरूप-विग्रहाश्रितगणराशयो गुणसमूहाः तव भगवतश्च साधारणासमाना इत्यर्थः । अत्र भगवतो विजयप्रथा श्रीरामायणे *शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः*(रा.यु.कां.१०४-६) इति रावणवचनादभिव्यक्ता । सीतायास्तु वासिष्ठरामायणे शतकन्धरसम्हारे विजयप्रथा सुव्यक्ता । भगवतः क्षेमङ्करत्वमुभयविधमपि साक्षादेव । लक्ष्म्यास्त्विष्टप्रापणम् साक्षात्परम्परया वापि सम्भवति । अनिष्टनिवर्त्तकत्वम् तु भगवद्द्वारेति बोध्यम् || ३२ ||
पुनस्साधारणगुणाननुसन्धत्ते –

अन्येऽपि यौवनमुखा युवयोस्समानाः
श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति ।
तस्मिन्स्तव त्वयि च तस्य परस्परेण
सम्स्तीर्य दर्पण इव प्रचुरम् स्वदन्ते || ३३ ||
     अन्येऽपीति – हे श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति ! श्रीरङ्गोत्सव
प्रकाशनोद्यतकेतो! श्रीरङ्गोत्सववृद्धिकरीत्यर्थः । अन्ये उक्तगुणव्यतिरिक्ता
यौवनमुखाः यौवनादयः मुखशब्देन सौकुमार्यादयो गृह्यन्ते । युवयोः
भगवतस्तव च समानाः साधारणास्सन्तः तव गुणाः तस्मिन् तस्य
गुणाः त्वयि च दर्पण इव सम्स्तीर्य अभिव्याप्य, परस्परेण अन्योऽन्यम्
प्रचुरम् प्रकामम् स्वदन्ते रस्या भवन्ति *स्वद आस्वादने*(धा.पा.१८)
इत्यस्माद्धातोर्लडात्मनेपदप्रथमपुरुषबहुवचनम् । भगवान् लक्ष्म्याम्
प्रशकनबलादीनवलोक्य स्वकीया एवैते गुणा इत्यानन्दमनुभवति । एवम् लक्ष्मीरपि भगवति तानुपलक्ष्य स्वकीया एवैत इति सम्मोदम् भजत इति वक्त्रभिप्रायः || ३३ ||
ननु उभयोस्स्वरूपरूपगुणसाधारण्ये सेवकानाम् श्रीश्रीशपृथगनुभवः
कथम् घटत इत्यत्राह –

युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमन-
स्थिरत्वादीन्कृत्वा भगवति गुणान्पुम्स्त्वसुलभान् ।
त्वयि स्त्रीत्वैकान्तान्म्रदिमपतिपारार्थ्यकरुणा-
क्षमादीन्वा भोक्तुम् भवति युवयोरात्मनि भिदा ॥ ३४ ॥
युवत्वादाविति – हे श्रीः ! युवत्वादौ यौवनादौ तुल्येऽपि युवयोरिति शेषः । भगवति हरौ । पुम्स्त्वसुलभान् पुरुषैकनिष्ठान् अपरवशताशत्रु-शमनस्थिरत्वादीन् अपरवशता स्वातन्त्र्यम्, शत्रुशमनम् विरोधिनिवर्त्त- कत्वम्, स्थिरत्वम् अप्रकम्प्यत्वम् आदिर्येषाम् तान् गुणान् कृत्वा भेदकाननुसन्धाय त्वयि भवत्याम् स्त्रीत्वैकान्तान् स्त्रीस्वभावान्तरङ्गान् । म्रदिमपतिपारार्थ्यकरुणाक्षमादीन्वा म्रदिमा मृदुहृदयत्वम्, पतिपारार्थ्य भर्तृपारतन्त्र्यम्, करुणा परदुःखासहिष्णुत्वम्, क्षमा अपराधसहत्वम् आदिर्येषाम् तान् । वा शब्दश्चार्थः । क्षमादीश्चेत्यर्थः । कृत्वा भेदकान-नुसन्धाय भोक्तुम् अनुभवितुम् युवयोरात्मनि स्वरूपे विग्रहे च भिदा भवति भेदस्सिद्ध्यति । अनुभवितृणामिति शेषः । यद्यपि म्रदिमकरुणा-क्षमा भगवतोऽपि समानाः तथापि स्वातन्त्र्यासमवहितास्ता इह विवक्षिताः । भगवतो म्रदिमाद्यास्तु न तथाविधा इति भावः || ३४ ||
श्रीश्रीपत्योः स्वरूपभेदकगुणाननुसन्धाय रूपभेदकगुणाननुसन्धत्ते –

घनकनकद्युती युवदशामपि मुग्धदशाम्
युवतरुणत्वयोरुचितमाभरणादि परम् ।
ध्रुवमसमानदेशविनिवेशि विभज्य हरौ
त्वयि च कुशेशयोदरविहारिणि निर्विशसि || ३५ ||
     घनेति – कुशे उदके शेत इति कुशेशयम् पद्मम् *जीवनीयम् कुशम्
विषम्*(अ.को.१-११-२६६) इत्यमरः । तस्योदरे गर्भे विहरतीति कुशेशयो- दरविहारिणि! कमलनिलये, घनकनकद्युती घनस्य नीलमेधस्य कनकस्य सुवर्णस्य द्युती इव द्युती, युवदशाम् युवत्वम् । मुग्धदशाम् तारुण्यमपि । युवतरुणत्वयोः युवत्वतारुण्ययोः उचितम् योग्यम् परम् उत्कृष्टम् पर-स्परविलक्षणम् वा अत एवासमानदेशविनिवेशि असमानदेशे परस्पर-भिन्नदेशे धर्मिणि, विनिवेश: सम्वेशनम् यस्य तत्तथोक्तम् । आभरणादि भूषणादि, आदिशब्देनश्मश्रुपीताम्बरोर्ध्वपुण्ड्रयज्ञोपवीतादिस्तनवस-नाञ्जनहरिद्राकाश्मीरकमरिकापत्रादि च गृह्यन्ते, हरौ त्वयि च विभज्य विभाजकम् कृत्वा । निर्विशसि अनुभवसि, हरिम् त्वाम् चेति शेषः । ध्रुवम् एतत्सत्यम् । एवम् विभाजकधर्माननुसन्धाने युवयोर्भेदग्रहो युवयोरेव न भवेदिति भावः । निरित्युपसर्गात् *विश प्रवेशने*(धा.पा. १४२५) इत्यस्माद्धातोर्लण्मध्यमपुरुषैकवचने निर्विशसीति रूपम् || ३५ ||
क्षीराब्धिसारसमष्टितया लक्ष्मीविग्रहम् वर्णयित्वा कल्पलतादेस्तदृजी-षतामुत्प्रेक्ष्य तथा वर्णनम् पयोधेराविर्भूतस्य अप्राकृतस्य लक्ष्मीदिव्य-
मङ्गलविग्रहस्य च युक्तमित्याह –

अङ्गम् ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्फतः
क्षीराब्धेः किमृजीषतामुपगता मन्ये महार्घास्ततः ।
इन्दुः कल्पलता सुधामधुमुखा इत्याविलाम् वर्णनाम्
श्रीरङ्गेश्वरि! शान्तकृत्रिमकथम् दिव्यम् वपुर्नार्हति || ३६ ||
अङ्गमिति – हे श्रीरङ्गेश्वरि ! ते तव अङ्गम् वपुः अङ्गशब्देना-
वयववाचिना तत्समुदायरूपना वपुर्लक्ष्यते । मृदुशीतमुग्धमधुरोदारैः
मृदुत्वशीतत्वमुग्धत्वमधुरत्वोदारत्वैः, भावप्रधानोऽयम् निर्देशः ।  गुणै- र्विग्रहगुणैः सारभूतैरिति शेषः । गुम्फतो ग्रथयतः, क्षीराब्धेः त्वत्पितुः
इन्दुः चन्द्रः, कल्पलता सुधामधुमुखाः कल्पलतासुधे प्रसिद्धे, मधु सुरा,
कल्पलतासुधामधूनि मुखमादिर्येषाम् ते तथोक्ताः । ते ऋजीषताम् असारताम् उपगताः किमुत्त्प्रेक्षा । किम् शब्दः सम्भावनायाम् । ततस्त्व-दवयवऋजीषत्वान्महार्घा अमूल्याः भवन्तीति शेषः । मन्ये इत्युत्प्रेक्षा-व्यञ्जनम् । इति पूर्वोक्तप्रकारेण आविलाम् -कलुषाम् वर्णनाम् उत्प्रेक्षाम् प्रति शान्तकृत्रिमकथम् अपगतकृत्रिमप्रशसम्, दिव्यम् अप्राकृतम्, वपुः
विग्रह: नार्हति नोचितम् भवति । अकृत्रिमस्य लक्ष्मीविग्रहस्य कृत्रिम-वस्तुसारत्वोत्प्रेक्षणमयुक्तमिति भावः || ३६ ||
पुनर्विग्रहमेव वागगोचरम् वर्णयति –

प्रणमदनुविधित्सावासनानम्रमग्रे
प्रणयिपरिचिचीषाकुञ्चितम् पार्श्वकेन ।
कनकनिकषञ्चञ्चम्पकस्रक्समान-
प्रवरमिदमुदारम् वर्ष्म वाचामभूमिः || ३७ ||
प्रणमदिति – अत्र श्रीस्तवेति पदद्वयमध्याहार्यम् । हे श्रीः ! अग्रे
उत्तमाङ्गे प्रणमदनुविधित्सावासनानम्रम् प्रणमताम् सेवकानाम् अनु-विधित्साया अनुविधानेच्छायाः, वासनया परिचयेन नम्रम् ईषद्विनतम् । पार्श्वकेन पार्श्वभागेन प्रणयिपरिचिचीषा कुञ्चितम् प्रणयिनः प्रियस्य, परिचिचीषया परिचर्येच्छया, कुञ्चितम् भयभक्तिभ्याम् हेतुभ्याम् सङ्कु-चितम् कनकनिकषचञ्चञ्चम्पकस्त्रक्समानप्रवरम् कनकनिकषस्य छायायास्सुवर्णरेखायाश्चञ्चत्याः स्फुरन्याः चम्पकस्रजः चम्पकमालि-कायाश्च, समानस्तुल्यः, प्रवरो गोत्रम् यस्य तत्तथोक्तम् तयोः सदृश-मित्यर्थः । अनेनौज्वल्यसौगन्ध्ये सूचिते । उदारम् ऊर्जितम् सर्वा-भीष्टप्रदम् वा इदम् एतत् अप्राकृतम् तव वर्ष्म वपुः वाचामभूमिः अपदम् वागगोचरमित्यर्थः || ३७ ||
आश्रितरक्षानुकूलाधिराज्यसूचकासिकाविशेषविशिष्टाम् श्रियमनुसन्धत्ते –

एकम् न्यञ्च्यम् नतिक्षमम् मम परम् चाकुञ्च्य पादाम्बुजम्
मध्येविष्टरपुण्डरीकमभयम् विन्यस्य हस्ताम्बुजम् ।
त्वाम् पश्येम निषेदुषीम् प्रतिकलम् कारुण्यकूलङ्कष-
स्फारापाङ्गत्तरङ्गमम्ब! मधुरम् मुग्धम् मुखम् बिभ्रतीम् || ३८ ||
     एकमिति – अम्ब हे श्रीः! मम दासभूतस्य नतिक्षमम् प्रणामयोग्यम् । एकम् पादाम्बुजम् दक्षिणम् न्यञ्च्य सिम्हासनादधः प्रसार्य परम् इतरत् वाम पादाम्बुजम् आकुञ्च्य तिर्यगिति शेषः । अभयम् अभय-सूचकम्, अभयदायि वा हस्ताम्बुजम् मध्येविष्टरपुण्डरीकम् आसनपद्म-मध्ये विन्यस्य निषेदुषीम् आसीनाम् कारुण्यकूलङ्कषस्फारापाङ्ग-तरङ्गम् कारुण्येन दयया कूलङ्कषौ उत्कूलौ स्फारौ विशालौ अपाङ्गौ तरङ्गाविव यस्य तत्तथोक्तम् । मधुरम् प्रियम् भोग्यम् वा । *स्वादु प्रियौ तु मधुरौ* इत्यमरः (अ.को.३-३-१९१) । मुग्धम् सुन्दरम् । *मुग्धः सुन्दरमूढयोः* इत्यमरः । मुखम् आननम् बिभ्रतीम् त्वाम् प्रतिकलम् सर्वकालम् पश्येम सेवेमहि । विश्वरक्षणोपयुक्तसिम्हासनावस्थितिविशेष एव ते सन्ततसेवनीयः सम्श्रितानामिति भावः ॥ ३८ ॥
इत्थम् श्रियम् सम्सेव्य सेवाजनितप्रीत्या तत्पादौ शरणमुप-गच्छति –

सुरभितनिगमान्तम् वन्दिषीयेन्दिरायाः
तव कमलपलाशप्रक्रियम् पादयुग्मम् ।
वहति यदुपमर्देर्वैजयन्ती हिमाम्भः
प्लुतिभिरिव नवत्वम् कान्तवाहान्तराले ॥ ३९ ॥
सुरभितेति – इन्दिरायाः परमैश्वर्यप्रदायास्तव कमलपलाशप्रक्रियम् कमलपलाशानाम् प्रक्रिया रीतिर्यस्य तत् कमलदलसदृशाम्गुलीत्यर्थः । *पलाशः किम्शुके पत्रे* इति विश्वः । सुरभितनिगमान्तम् वासित-वेदान्तम् । वेदान्तवेद्यमिति यावत् । पादयुग्मम् वन्दिषीये अभिवादयेय स्तुवीय वा *वदि अभिवादनस्तुत्योः*(धा.पा.११) इत्यस्माद्धातोर्लिङात्मने- पदोत्तमपुरुषे *इदितो नुम्*(पा.सू.७-३-५८) इति नुमागमे *लिङः सीयुट्* (पा.सू.३-४-१०२) इति सीयुडागमे तस्य इडागमे षत्वे *इटोत्*(पा.सू.३-४-१०६) इति इटः अदादेशे वन्दिषीयेति रूपम् ।
उत्तरार्धेन पादयुग्ममेव विशिनष्टि – वहतीति । वैजयन्ती वनमाला
कान्तवाहान्तराले प्रियवक्षसि यदुपमर्दैः यस्य पादयुगस्य उपमर्दैः सङ्घर्षैः हिमाम्भ: प्लुतिभिरिव हिमसलिलसेचनैरिव । नवत्वम्  नूतनत्वम् वहति । अमृतस्यन्दिसुकुमारश्रीपादसम्स्पर्शेन शोभातिशयम् धत्त इति भावः || ३९ ||
लक्ष्मीकटाक्षविग्रहवैलक्षण्यमनुसन्धत्ते –

त्वत्स्वीकारकलावलेपकलुषा राज्ञाम् दृशो दुर्वचा
नित्यम् त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्याम् पतिम् ।
दृग्भ्यामेव हि पुण्डरीकनयनम् वेदो विदामास ते
साक्षाल्लक्ष्मि! तवावलोकविभवः काक्का कया वर्ण्यते || ४० ||
त्वदिति – हे लक्ष्मि! राज्ञाम् लोकपालप्रभृत्याधुनिकपर्यन्तानाम्
प्रभूणाम् दृशो दृष्टयः त्वत्स्वीकारकलावलेपकलुषाः त्वत्स्वीकारकला
त्वत्कटाक्षलेशः स्वीकारशब्देन सदयदृष्टिर्लक्ष्यते । कलाशब्देनावयववा-चिना लेशो लक्ष्यते, तेन जातेनावलेपेन गर्वेण, कलुषाः आविलास्सत्य:
दुर्वचाः वर्णयितुमशक्याः भवन्ति, कवीनामिति शेषः । त्वत्कटाक्षलेश-
प्रसरणगर्वेण शोभाविशेषजुष्टाः प्रभुदृष्टयः कविवागगोचरा भवन्तीत्यभि-
प्रायः । किमुत लोकपालानाम् ?

पत्युस्तव पुण्डरीकनयनत्वम् च त्वद्विग्रहानुभवसमयसक्तविग्रहरक्ति-
मायत्तमित्याह – नित्यमिति । नित्यम् सर्वकालम् त्वन्मधुपानमत्तमधु-पश्रीनिर्भराभ्याम् त्वन्मधुपाने त्वद्रूपमकरन्दपाने मत्तमधुपयोः दृप्तषट्प-दयोः श्रिया सम्पदा निर्भराभ्याम् पूर्णाभ्यामेव यथा मधुपाने मत्तमधुपो
नैश्चल्यम् रक्तताम् चानुभवति तथा मधुरूपत्वदनुभवे मधुपतुल्यनैश्चल्य-रागसम्पूर्णाभ्यामेवेत्यर्थः । दृग्भ्याम् लोचनाभ्याम् हेतुभूताभ्याम् ते तव पतिम् प्रियम् वेदः *तस्य यथा कप्यासम् पुण्डरीकमेवमक्षणी*(छां.उ.१-६-७) इति छान्दोग्योपनिषद्रूपः पुण्डरीकनयनम् पुष्कराक्षम् विदामास
विज्ञातवान्खलु । *विदज्ञाने*(धा.पा.१०६४) इत्यस्माद्धातोः *उषविद*
(धा.पा.३-१-३८) इत्यादिना आम्प्रत्यये *कृञ्चानुप्रयुज्यते लिटि*(पा. सू.३-१-४०) इति अस्तेरनुप्रयोगे विदामासेति रूपम् । एवम् सकल-लोचनातिशयस्य त्वदवलोकनाधीनत्वे त्वदवलोकसौन्दर्यवर्णनातीत-मित्याह साक्षादिति । तव साक्षादवलोकविभवः कटाक्षसौन्दर्य कया काक्वा कीदृश्या भङ्गया वर्ण्यते न कयापीत्यर्थः || ४० ||
पुनर्लक्ष्मीकटाक्षानेव वर्णयन् तैः स्वरक्षणम् प्रार्थयति –

आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-

प्रेमार्द्रैरपि कूलमुद्वहकृपासम्प्लावितास्मादृशैः ।
पद्मे ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैः
ऐश्वर्योद्गमगद्गदैरशरणम् माम् पालयालोकितैः || ४१ ||
      आनन्देति – हे पद्मे ! तव अत्र यद्यपि *युष्मदस्मदोरामन्त्रितम्
पूर्वमविद्यमानवत्* इत्यामन्त्रितस्य अविद्यमानवद्भावेन त इत्यादेशो न
सम्भवति । तथाप्यविद्यमानवद्भावस्यानित्यत्वम् काशिकायामुक्तम्
*विद्यमानवच्चेति वक्तव्यम्* इति वार्तिकात् । युक्तम् च तत् अत एव
*भिक्षो ! ते दयितास्ति किम् ! न हि नहि प्राणप्रिया कुण्डिका* इति
महाकविप्रयोगः । अत एव च शुभकार्यारम्भे *लक्ष्मीपते ! तेऽङ्घ्रियुगम्
स्मरामि* इति सर्ववैदिकप्रयोगः ।
यद्वा पद्मे ते पद्मम् कमलम् इते प्राप्ते ! कमलवासिनीत्यर्थः । पद्मे
लीलारविन्दे इता हस्ताभ्याम् प्राप्ता पद्मेता तस्यास्सम्बुद्धिर्वा । आनन्दा त्मभिः आनन्द एवात्मा स्वरूपम् येषाम् तैरानन्दरूपैरित्यर्थः । ईश-मज्जनमदक्षीबालसैः ईशस्य हरेः मज्जनेन स्वेष्ववगाहनेन यो मदस्तेन क्षीबैर्मत्तैः अलसैः मन्दरैः आगलप्रेमार्द्रेः आगलम् आकण्ठम्, प्रेम्णा प्रीत्या आर्द्रेः शिशिरैरपि । अपिश्चार्थः । कूलमुद्वहकृपासम्प्लावितास्मा-दृशैः कूलमुद्वहया तीररोधिन्या उद्वेलयेत्यर्थः । कृपया सम्प्लाविताः स्ना-पिताः अस्मादृशा अकिञ्चना यैस्तैः ।
प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैः प्रतिबिन्दु प्रतिकटाक्षलेशम्
बद्धकलिकाः ममायम् कटाक्षलेशोऽस्तु ममायमिति बद्धकलहाः ब्रह्मादय एव विष्कम्भका निर्वाहका येषाम् तैः । विष्कम्भशब्दो नगररक्षार्थार्गल-दण्डवाची तत्सादृश्यात्रिर्वाहकसामान्ये गौणः । *तद्विष्क-म्भोऽर्गलम् न ना*(अ.को.२-२-१७) इत्यमरः । ऐश्वर्योद्गमगद्गदैः ऐश्वर्यस्य सम्पदः उद्गमेन उत्पादनेन गद्गदैः विलासातिशयेन स्खलितगतिभिः । आलोकितैः कटाक्षैः । भावे क्तः । अशरणम् रक्षकान्तरशून्यम् माम् पालय *पा रक्षणे*(धा.पा.१०५६) इत्यस्माद्धातोः *हेतुमति च*(पा.सू.३-१-२६) इति णिचि *पातेर्णौ लुगागमो वक्तव्यः*(वार्तिकम्.४५२०) इति लुगागमे पालयेति लोण्मध्यमपुरुषैकवचनम् || ४१ ||
लक्ष्म्याः सौकुमार्यमनुसन्धत्ते –

पादारुन्तुदमेव पङ्कजरजश्चेटीभृशालोकितैः
अङ्गम्लानिरथाम्ब साहसविधौ लीलारविन्दग्रहः ।
दोला ते वनमालया हरिभुजे हाकष्टशब्दास्पदम्
केन श्रीरतिकोमला तनुरियम् वाचाम् विमर्दक्षमा || ४२ ||
     पादेति – हे अम्ब श्रीः । पङ्कजरजः पद्मरेणुः ते पादारुन्तुदमेव
पादयोः पादतलयोः पादशब्देन पादतले लक्ष्येते । अरुन्तुदम् कण्टक
इव मर्मस्पृक् *अरुन्तुदन्तु मर्मस्पृक्*(अ.को.३-१-८१) इत्यमरः ।
चेटीभृशालोकितैः चेटीनाम् सन्ततसहवासपरिचारिकाणाम् भृशालोकितैः
अधिकवीक्षणैः अङ्गम्लानिः गात्रतान्तिः भवतीति शेषः । अथेति
वाक्यान्तरारम्भे, *मङ्गलानन्तरारम्भप्रश्नकार्त्स्त्रेष्वथो अथ* इत्यमरः
(अ.को.३-३-२४७) । ते तव लीलारविन्दग्रहः लीलाकमलधारणम्
साहसविधौ साहसकर्मविधाने भवतीति सर्वत्रानुषज्यते । ते तव हरिभुजे
प्रियवक्षसि भुजशब्देन तन्मध्यम् लक्ष्यते । वनमालया वैजयन्त्या दोला दोलाविहरणम् हाकष्टशब्दास्पदम् हेति कष्टमिति च शब्दौ आस्पदम् यस्य तत्कर्म भवति । अतिकोमला अतिसुकुमारा इयम् अप्राकृता तनु-र्विग्रहः केन केन हेतुना वाचाम् स्तुतिवचसाम् विमर्दक्षमा विमर्दस्य प्रतिपाद्यतया सङ्घर्षस्य क्षमा योग्या भवति । न केनापीत्यर्थः । अति-सुकुमारस्य श्रीवपुषः पुरुषवचस्तवनमयुक्तमिति भावः || ४२ ||
अथ श्रियस्तारुण्यम् वर्णयति –

आमर्यादमकण्टकम् स्तनयुगम् नाद्यापि नालोकित-
भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वायशः ।
सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभम्
भोगस्त्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः || ४३ ||
आमर्यादमिति – हे श्रीः । ते तव । स्तनयुगम् आमर्यादम् यावत्परि- माणमर्यादम् अद्यापि अकण्टकम् न किन्तु सकण्टकम् सप्रतिबन्धमेव
स्तनपरिमाणपूर्तिरद्यापि न जातेति भावः । पूर्णयौवन एव परिमाणपूर्तिः
स्यादिति हृदयम् । आलोकितभ्रूभेदस्मितवभ्रमाः आलोकितस्य वीक्षणस्य
भ्रूभेदस्य भ्रूभङ्गस्य स्मितस्य मन्दहासस्य विभ्रमा विलासा वा । वा- शब्दश्चार्थः । नैसर्गिकत्वायशः स्वभावसिद्धत्वापयशः न जहति न मुञ्चन्ति । तारुण्यप्रयुक्तनेत्रादिलीलास्त्वतिचञ्चलाः सत्यः स्वभाव-प्रयुक्तत्वशङ्कामेवापादयन्ति न तु यौवनप्रयुक्तामिति भावः । भोग-स्रोतसि क्रीडाप्रवाहे । कान्तदेशिककरग्राहेण कान्तः प्रिय एव देशिकः परिज्ञाता तस्य करग्राहेण हस्तावलम्बेन । कान्तहस्तम् गृहीत्वेति यावत् । गाहे अवगाहने क्षमो योग्यः मौग्ध्यातिशयात् एवम् भोगः कार्य इति कान्तोपदेशसापेक्ष इत्यर्थः । शैशवयौवनव्यतिकरः शैशवस्य बाल्यस्य यौवनस्य युवत्वस्य च व्यतिकरः सन्धिः तारुण्यमित्यर्थः । ते तव गात्रेषु अवयवेषु सौरभम् निरतिशयसौगन्ध्यम् सूते जनयति तारुण्योदयात् कुचोदञ्चननेत्रविलासगात्रसौरभाणि सञ्जातानीति भावः || ४३ ||
श्रियो दिव्यमङ्गलविग्रहम् पुष्पदामत्वेन र्वणयित्वा तस्य हरिवक्षः
परिष्कारतामापाद्यसुकुमारतमम् वपुस्तथावर्णयन्तम् स्वात्मानमुपालभते –
आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्
सौन्दर्यामृतसेकशीतलमिदम् लावण्यसूत्रार्पितम् ।
श्रीरङ्गेश्वरि! कोमलाङ्गसुमन:सन्दर्भणम् देवि ! ते
कान्तोरःप्रतियत्नमर्हति कवि धिङ्मामकाण्डाकुलम् || ४४ ||
आमोदेति – हे देवि ! आमोदाद्भुतशालि आमोदाद्भुतेन अद्भुतसौगन्ध्येन । शालत इति शालि । *आमोदो गन्धहर्षयोः*(अ.को.१-४-२४) इत्यमरः ।यौवनदशाव्याकोचम् यौवनदशया तारुण्येन व्याकोचम् विकासि, इत्थम् भावे तृतीया, तारुण्याभिन्नविकासमित्यर्थः । अम्लानिमत् अतान्तम्
सौन्दर्यामृतसेकशीतलम् सौन्दर्यम् अवयवशोभैव अमृतम् तस्य सेकेन
व्याप्त्येत्यर्थः । शीतलम् शिशिरम्, लावण्यसूत्रार्पितम् लावण्यम् समुदाय-शोभैव सूत्रम् गुणः तस्मिन्नर्पितम् ग्रथितम् लावण्यस्य सर्वावयवानुस्यू-तत्वात् सूत्रत्वरूपणम् ते तव कोमलाङ्गसुमनःसन्दर्भणम् सुकुमारावयव-पुष्पमालिका कान्तोरःप्रतियत्नम् कान्तस्य हरेः उरसो वक्षसः प्रतियत्नम् परिष्कारम् अर्हति । हरिवक्षोऽलङ्करणार्ह भवतीत्यर्थः । अकाण्डाकुलम् अकाण्डे अनवसरे आकुलम् विवशम् कविम् माम् धिक् निन्दनीयम् ।
पुष्पापेक्षयानिरतिशयसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययुक्तलक्ष्मीवपुषः
पुष्पदामत्वरूपणम् तस्य दनुजवृषविषाणोल्लिखितकठिनहरिवक्षः परि- ष्करणत्वकल्पनम् चायुक्तमिति स्वस्याकाण्डाकुलत्वम् ततो निन्द्यत्वम्
चेति बोध्यम्। कठिनतमेऽपि हरिवक्षस्याश्रितरक्षणचापल्यात् सुकुमाराया
अपि श्रियः स्थितिरुपपन्नैवेति मन्तव्यम् ॥ ४४ ॥
श्रियो भगवता सह सम्भोगशृङ्गारम् वर्णयति –

मर्मस्पृशो रसशिराः व्यतिविध्य वृत्तैः
कान्तोपभोगललितैर्लुलिताङ्गयष्टिः 
पुष्पावलीव रसिकभ्रमरोपभुक्ता
त्वम् देवि ! नित्यमभिनन्दयसे मुकुन्दम् ॥ ४५ ॥
मर्मेति – हे देवि ! मर्मस्पृशो मर्मस्पर्शिनीः रसशिराः रसनाडीः व्यति- विध्य वेधिताः कृत्वा वृत्तैः उद्भूतैः कान्तोपभोगललितैः सम्भोगविलासैः लुलिताङ्गयष्टिः मृदितगात्रयष्टिः सती रसिकभ्रमरोपभुक्ता रसिकभ्रमरेण रसास्वादनचतुरचञ्चरीकेण उपभुक्ता । निपीतरसा पुष्पावलीव स्थिता त्वम् मुकुन्दम् प्रेयाम्सम् अभिनन्दयसे आनन्दयसि । नयनहृदयानन्द- कन्दलितम् करोषीत्यर्थः || ४५ ||
श्रियो दिव्याभरणगणयोगकृतकान्तिविशेषमनुसन्धत्ते –

कनकरशनामुक्ताताटङ्कहारललाटिका
मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके ।
प्रकृतिमधुरम् गात्रम् जागर्ति मुग्धविभूषणैः
वलयशकलैर्दुग्धम् पुष्पैश्च कल्पलता यथा || ४६ ||
    कनकेति – हे जनार्दनजीविके ! श्रीरङ्गराजजीवनौषधि ! कनकरशना स्वर्णमेखला स्वर्णसूत्रम् वा मुक्ताताटङ्के मौक्तिककर्णपत्रे हारो मुक्ताहारः ललाटिका कनकमयम् माणिक्यमयम् वा तिलकम् ललन्ती वा मणि-सराः मणिमालिकाः तुलाकोटी मणिमञ्जीरौ एते प्रायाः प्रधानानि
येषाम् तैः । मुग्धविभूषणैः सुन्दराभरणैः प्रकृतिमधुरम् स्वभावरम्यम् ते
गात्रम् वलयशकलैः शर्कराखण्डैः दुग्धम् यथा क्षीरमिव, पुष्पैः कल्पलता
यथा कल्पवल्लीव च जागर्ति विशेषेण प्रकाशते || ४६ ||
*रूपाकारविभूतिभिश्च सदृशीम्* इत्युक्तरीत्या भगवतः परमसाम्या- पन्नायाः श्रियः कौस्तुभवैजयन्तीपञ्चायुधधारणस्य साधारण्येऽपि
तेषाम् भगवदेकधारणे हेतुमुत्प्रेक्षते –

सामान्यभोग्यमपि कौस्तुभवैजयन्ती-
पञ्चायुधादि रमणः स्वयमेव बिभ्रत् ।
तद्भारखेदमिव ते परिहर्तुकामः
श्रीरङ्गधाममणिमञ्जरि गाहते त्वाम् || ४७ ||
सामान्येति – हे श्रीरङ्गधाममणिमञ्जरि ! श्रीरङ्गधाम्नः हरेः दिव्य- विमानस्य वा मणिमञ्जरी रत्नगुच्छिका रत्नदीपिका वा तस्याः सम्बुद्धिः । सामान्यभोग्यमपि युवयोरिति शेषः । सामान्येन साधारण्येन भोग्य- मपि भूषणतया प्रहरणतया च धार्यमपि कौस्तुभवैजयन्ती पञ्चायुधादि
कर्म आदिशब्देन परशुपरिघादि गृह्यते तद्भारखेदम् तद्वहनायासम् ते तव
परिहर्तुकाम इवेत्युत्प्रेक्षा। स्वयमेव बिभ्रत्सन् त्वाम् गाहते सम्श्लिष्यति
दिव्याभरणदिव्यायुधगणम् वहन् प्रियस्त्वामनुसरतीति भावः || ४७ ||
*राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु
विष्णोरेषानपायिनी*(वि.पु.१-९-१४४) इत्युक्तरीत्या भगवतः तत्तदवतारा-नुगुणम् श्रियोऽनवतारे भगवते लीला न रोचत इत्याह –

यदि मनुजतिरश्चाम् लीलया तुल्यवृत्तेः
अनुजनुरनुरूपा देवि ! नावातरिष्यः ।
असरसमभविष्यत्रर्म नाथस्य मातः !
दरदलदरविन्दोदन्तकान्तायताक्षि || ४८ ||
      यदीति – दरदलदरविन्दस्य ईषद्विकसितपुण्डरीकस्य उदन्तो वृत्तान्तः तेन गर्भपत्रम् लक्ष्यते तत्कान्ते शोभमाने आयते विशाले अक्षिणी यस्यास्तस्याः सम्बुद्धिः । मातः जननि ! लीलया स्वेच्छया न तु कर्मणा, मनुजतिरश्चाम् मनुष्यतिर्यस्जन्तूनाम् इदमुपलक्षणम् सुरनर- तिर्यक्स्थावरशरीरचतुर्विधात्मनामपि तुल्यवृत्तेः रामकृष्णमत्स्यकूर्म-
कुब्जाम्रादिरूपेण समानशीलस्य नाथस्य श्रीरङ्गराजस्य अनुजनुः
प्रत्यवतारम् अनुरूपा रुक्मिण्यादिरूपेणानुरूपाकारा नावातरिष्यो यदि
नावतरसि चेत् नाथस्य तस्य नर्म *क्रीडा खेला च नर्म च*(अ.को.१-७-३२) इत्यमरः । असरसम् विरसम् अभविष्यत् । तदवतारानुरूपमवतीर्य त्वदभिनन्दने सत्येव तस्य तन्नर्म प्रीत्यै भवेत् न चेन्नेतिन् भावः || ४८ ||
सम्श्रितार्थ समुद्रमथनायासम् भजतो भगवतः श्रमापनयनाय समुद्रा- दाविर्भूतासीत्याह –

स्खलितकटकमाल्यैर्दोर्भिरर्ब्धि मुरारे:
भगवति दधिमाथम् मथतः श्रान्तिशान्त्यै ।
भ्रमदमृततरङ्गावर्ततः प्रादुरासीः
स्मितनयनसुधाभिः सिञ्चती चन्द्रिकेव || ४९ ||
स्खलितेति – हे भगवति षड्गुणैश्वर्यसम्पन्ने । स्खलितानि प्रति- हतानि कटकानि वलयानि माल्यानि मालिका येषु तैर्दोर्भिः बाहुभिः
अब्धिम् क्षीरार्णवम् दधिमाथम् दधीव उपमानार्थे णमुल्प्रत्ययः । मध्नतो मथनम् कुर्वतः अमृतार्थमितिभावः । मुरारे: माधवस्य श्रान्ति-शान्त्यै श्रमापनयनाय स्मितनयनसुधाभिः स्मितम् मन्दहासः नयनान्य-वलोकनानि नयनशब्देन अवलोकितानि लक्ष्यन्ते । तान्येव सुधाः ताभिः सिञ्चती सती चन्द्रिकेव भ्रमदमृततरङ्गावर्ततः भ्रमताम् उल्लोलानाम् अमृततरङ्गाणाम् सुधावीचीनाम् आवर्ततो वलयात् तत्सारतयेति भावः । तदुक्तम् श्रीवत्साङ्कमिश्रैः – *उदधिगमन्दराद्रिमणिमन्थन लब्धपयोमधुर-रसेन्दिराह्वसुधसुन्दरदो: परिघम्*(सुं.बा.स्त.४) इति । प्रादुरासीः आवि-र्भूतासि । यथा – जगत् सुधाभिः सिञ्चती चन्द्रिका पयोधेराविर्भवति तथा भगवन्तम् स्मितनयनसुधाभिः सिञ्चती पयः – पयोध्युल्लुठत्सुधा- तरङ्गावर्तात् त्वमाविर्भूतासीति भावः || ४९ ||
अथ भगवत्क्षमाया अपि लक्ष्मीक्षमामतिशयितामुदाहृत्य महापराधि- नोऽस्मानानन्दयत्वित्याशास्ते –

मातर्मैथिलि ! राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया
रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता ।
काकम् तम् च विभीषणम् शरणमित्युक्तिक्षमौ रक्षतः
सा नः सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी || ५० ||
मातरिति – हे मातः निरुपाधिकजननि मैथिलि ! कृपैकमूर्तितया
सीतावतारम् कुर्वाणे ! श्रीरङ्गेश्वरि ! त्वयि त्वद्विषये, तदैव हनूमदागम- नाव्यवहितपूर्वसमय एव, रावणस्य तदानीमेव नाशादिति भावः । तथै-वेति पाठे तथैव रामराहित्येनेत्यर्थः । रावणजीवनदशायाम् यथा तथैव तन्नाशदशायामपीति वार्थः । आर्द्रापराधाः रावणनाशापरिज्ञानाद्धनूम-दागमनपर्यन्तमविरतापराधाः । राक्षसीः एकाक्ष्यादिकाः । पवनात्मजात् तिर्यगुद्भूतात्स्वतो मर्कटात्, रक्षन्त्या पालयन्त्या एतेन बुद्धिशून्यत्वम् दुस्साधत्वम् च व्यञ्जितम् ।
काकम् काकासुरम्, तम् *विभीषणस्तु धर्मात्मा न तु राक्षस-चेष्टितः*(रा.आर.कां.१७-२३) इति प्रसिद्धविभीषणम् च । शरणमि-त्युक्तिक्षमौ *त्रीन्लोकान् सम्परिक्रम्य तमेव शरणम् गतः*(रा.सुं.कां.३८-३२) *त्यक्त्वा पुत्राम्श्च दाराम्श्च राघवम् शरणम् गतः*(रा.कि.कां.५३-१६) इति शरणवरणोक्तिक्षमौ । रक्षतः पालयतः, उभयोः शरणवरणम् रक्षणनिमित्तम् सूचितम् । *वध्यम् प्रपन्नम् न प्रतिप्रयच्छन्ति* इति श्रुतेः । रामस्य त्वत्प्रियस्य गोष्ठी परिषत्, लघुतरा लघीयसी कृता । रामो लघूकृत इति वक्तव्ये गोष्ठ्याम् तदुक्तिरपचारभिया रामस्य गुण-परिषद्वा । मन्दबुद्धेर्दुस्साध्यान्निर्निमित्तमार्दापराधरक्षणशीलया त्वया-निमित्तमपेक्ष्यरक्षतो रामस्य गुणगोष्ठीलघूकरणम् युक्तमिति तात्पर्यम् । सा आर्द्रापराधसहत्वरूपेण प्रसिद्धा । आकस्मिकी निर्हेतुका तव क्षान्तिः सान्द्रमहागसः निरन्तरमहापराधानस्मान् सुखयतु सुखिनः करोतु । सा क्षमैवास्माकमाश्वासहेतुरिति भावः । अत्र केचित् – *प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा*(रा.सु.कां.२७-४६, ५८-९०) इति श्रीरामायणवचनेन लक्ष्मीक्षमाया अपि प्रणिपातहेतुकत्वप्रतितेराकस्मिकत्वम् नास्तीति वदन्ति । तदापातप्रतीतिविलसितम्, तथा हि – कल्याणस्वप्नदर्शिन्या त्रिजटया मैथिल्याः श्रेयःकालः समागतस्तदेनाम् मा पीडयत प्रत्युत शरणम् गच्छत रावणे हतेपि युष्मानियम् रक्षिष्यतीत्युक्त्वा महापराध- कारिणीरस्मान्कथम् रक्षिष्यतीति तदाशङ्काम् *प्रणिपातप्रसन्ना हि
मैथिली*(रा.सुं.कां.२७-४६, ५८-९०) इत्यौचित्यात्स्वबुद्ध्यैव परिहृतवती । नतु प्रणिपातप्रसन्नता मैथिलीधर्मः । अत एव रावणवधानन्तरमपि
तद्वधापरिज्ञानेन हिम्समाना राक्षसीर्हनूमतो रक्षितवती । अत एव स्व-विषये महापराधम् काकासुरम् विमुखपतितम् भगवत्पादारविन्दयोर्जि-तवती, अतस्साधूक्तमेव क्षान्तिस्तवाकस्मिकीति । एतच्छङ्कापरिहारा-वस्मदुक्तश्रीगुणसुधासारलहरीस्तोत्रे प्रदर्शितौ – *तव क्षान्तिम् भट्टारक-गुरुरवादीत्तव नुतावकस्मादुद्भूतामिह जननि केचिज्जडधियः । प्रसन्ना हीत्युक्तेः प्रणिपतनतो मैथिलसुता सहेतुस्सापि स्यादिति जगदुरापात-मतितः । स्वबुद्ध्यैव प्रोक्तम् प्रणतसुमुखीति त्रिजटया न चैतद्धर्मस्ते नलिनदलनेत्रप्रियतमे । यदेकाक्षीप्रख्यायतबहुलहिम्सानवधिकप्रवृद्धार्द्रा गस्काः पवनतनयाद्रक्षितवति* || इति || ५० ||
अस्माकम् भगवदुद्देश्यत्वम् त्वत्सम्बन्धनिबन्धनम् । अतस्तद्दर्शन-तदाश्रयणतत्कैर्ङ्यकरणतज्जनितानन्दबाष्पादीन्यस्माकमुपपद्यन्त इत्याह –

मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयम्
त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।
जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिम्
पश्येम प्रतियाम याम च परीचारान्प्रहृष्येम च || ५१ ||
मातरिति – हे मातः जननि ! ते तव मैथिलजनः यथा स्वीय इति शेषः । तेनाध्वना मार्गेण तद्वदित्यर्थः । वयमपि स्वीया इत्यर्थः । ततः किमित्यत्राह – त्वदिति । त्वद्दास्यैकरसाभिमानसुभगैः त्वद्दास्ये
त्वत्कैर्ङ्ये एकरसो मुख्यप्रीतिः त्वदभिमानेन भगवत्कैर्ङ्येऽपि त्वत्कै-र्ङ्यबुद्धेत्यर्थः । सुभगैः शोभनैः भावैः अभिप्रायैः । जामातेति जनकश्री-विष्णुचित्तयोरिति शेषः । मैथिलजनाभिप्रायेण जनकोक्तिः । अस्मदभि- प्रायेण श्रीविष्णुचित्तोक्तिः । तव दयित इति । भवती सम्बन्धदृष्ट्या भवत्यास्सम्बन्धज्ञानेन, *भूसत्तायाम्*(धा.पा.१) इति धातोः *लटः शतृ-शानचौ*(पा.सू.३-२-१२४) इति शत्रादेशे, *उगितश्च*(पा.सू.४-१-६) इति ङीपि भवतीति रूपम् । हरिम् श्रीरामम् श्रीरङ्गनायकम् च । इहामुत्र च लीलाविभूतौ नित्यविभूतौ च पश्येम सदा दर्शिनो भवेम । प्रतियाम शरणम् गच्छेम परीचारान् किङ्करवृत्ती: याम भजेम च प्रहृष्येम प्रकृष्टा-नन्दभावा भवेम, मैथिलजनः स्वप्रभुजनकजामातेति तव प्रिय इति च श्रीरामम् यथोपचरन्ति तथा प्रपन्नजनकूटस्थत्वत्पितृविष्णुचित्तजामा-तेति त्वत्प्रिय इति च श्रीरङ्गराजम् वयमुपचराम इति भावः || ५१ ||
*चन्द्रमा मनसो जातः*(ऋ.वे.८-४-१९) इत्युक्तरीत्या शीताशयेपि
भगवति यावत्कालमविच्छिन्नमहापराधान् अस्मानवलोक्य मनाङ्नि- ग्रहाभिमुखम् मनः कुर्वति सति तदनुचितमिति तम् ततः कर्मणो
निवर्त्त्य वात्सल्यातिशयात् त्वमस्मान् स्वजनयसीत्याह –

पितेव त्वत्प्रेयाञ्जननि परिपूर्णागसि जने
हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः ।
किमेतन्निर्दोषः क इह जगतीति त्वमुचितैः
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः || ५२ ||
पितेति – हे जननि श्रीः ! त्वत्प्रेयान् तव प्रियः श्रीरङ्गराजः परि- पूर्णागसि सम्पूर्णापराधे जने चेतनवर्गे पितेव पुत्र इति शेषः । हितस्रोतो- वृत्त्या तत्कालाप्रियम् पथ्यपर्यवसायि च हितम् तदेव स्रोतः प्रवाहः तत्र वृत्त्या वर्तनेन हितैकपरत्वादित्यर्थः । *याचितोपि सदा भक्तैर्नाहितम् कारयेद्धरिः* इत्युक्तेः । कदाचित् कदापि सन्ततमनुकूल एव सन् महा-पराधदर्शनेन कदापि समये कलुषधीः कुपितमनाः भवति च भवत्यपि न तु कुपितमनस्त्वम् तस्य नैजमिति भावः । तद्दर्शिन्याः श्रियो व्यापार-माह – किमेतदिति । एतत् इदम् कालुष्यम् किम् किम् निबन्धनम्
अनुचितमित्यर्थः । अनुचितत्वमुपपादयति – निर्दोष इति । इह दोषै-काश्रये जगति लीलाविभूतौ निर्दोषः कः? न कोपीत्यर्थः । एतद्विभूति-सम्बन्धेन हेयप्रतिभटस्य तवापि दोषः प्रसज्येदिति भावः । अतो दोष-दर्शनेन तव मनःकालुष्यम् न युक्तमित्येवम् प्रकारेण उचितैः अपराध-क्षमापणयोग्यैः उपायैः आलोकालाप नीवीश्लथनादिभिः विस्मार्य तस्य दोषादर्शित्वमापाद्य नः अस्मान् स्वजनयसि भगवतस्स्वत्वाभिमान-गोचरान्करोषि । तत् तस्मात्कारणात् प्रियैकपरतयेत्यर्थः । त्वम् मातासि पितुर्हितपरत्वम् मातुः प्रियपरत्वम् च सुप्रसिद्धम् युवयोर्दृष्टमिति भावः || ५२ ||
*परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्मसम्स्थापनार्थाय
सम्भवामि युगे युगे*(भ.गी.४-८) । *अन्येषु चावतारेषु विष्णोरेषान- पायिनी*(वि.पु.१-९-१४४) इति प्रमाणद्वयोक्तप्रकारेण सम्श्रितरक्षणाय श्रीश्रीशौ कृपास्वातन्त्र्याभ्याम् हेतुभ्याम् लीलाविभूताववतीर्य सुकुमार- वपुर्ग्लपनविरहक्लेशादिकमनुभूतवन्तावत एतत्कृपास्वातन्त्र्ये धिगिति
तद्विग्रहप्रेमपारवश्यादाह –

नेतुर्नित्यसहायिनी जननि नस्त्रातुम् त्वमत्रागता
लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दम् बहु ।
क्लिष्टम् ग्रावसु मालतीमृदुपदम् विश्लिष्य वासो वने
जातो धिक्करुणाम् धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् || ५३ ||
नेतुरिति – हे जननि ! श्रीः नेतुर्नायकस्य नित्यसहायिनी त्वम्,
नः अस्मान् अकिञ्चनात् त्वत्स्थलासन्निहितान् वा त्रातुम् रक्षितुम्
त्वन्महिमावबोधबधिरे त्वद्वैभवज्ञानशून्ये अत्र लोके लीलाविभूतौ आगता समवतीर्णा सती बहु अधिकम् विमर्दम् आयासम् प्राप्ता गतवती ।
आयासप्राप्तिमुपपादयति – क्लिष्टमिति । मालतीमृदु जातिकुसुम-
सुकुमारम् पदम् पदद्वयम् । ग्रावसु पाषाणेषु क्लिष्टम् क्लेशम् प्राप्तवत् । वने विश्लिष्य विरहम् प्राप्य वासो जातः वर्तनम् जातम् नित्यानपायिनोः युवयोः पृथग्वर्तनम् जातम् । अत्यङ्कुशाम् अमर्यादाम् विग्रहसौकुमार्य-विरोधिनीम् युवयोः करुणाम् प्रति धिगस्तु निन्दा भवतु । अत्यङ्कुशम् स्वातन्त्र्यम् च प्रतिधिगस्तु निन्दा भवतु तदुभयप्रयुक्तत्वादुभयोरेतादृश-क्लेशस्येतिभावः । सुकुमारभगवद्दिव्यमङ्गलविग्रहप्रेमपारवश्यात् धिक् करुणाम् धिक्स्वातन्त्र्यमिति स्तोतुस्तदुभयनिन्दा युक्तैवेति मन्तव्यम् || ५३ ||
सम्श्रितरक्षणोपयुक्तम् श्रियः स्वाधीनपतिकात्वमाह –

अधिशयितवानब्धिम् नाथो ममन्थ बबन्ध तम्
हरधनुरसौ वल्लीभञ्जम् बभञ्ज च मैथिलि ! |
अपि दशमुखीम् (खम्) लूत्वा रक्षःकबन्धमनर्तयत्
किमिव न पतिः कर्ता त्वञ्चाटुचुञ्चुमनोरथः || ५४ ||
अधीति – हे मैथिलि ! सीतावतारभेदानुसन्धानेन श्रीरङ्गनायक्या
मैथिलीति सम्बोधनम् । असौ नाथः त्वत्प्रियः त्वञ्चाटुचुञ्चुमनोरथः सन् त्वच्चादुना त्वत्प्रियाचरणेन वित्तः सम्पन्नो मनोरथो यस्य स तथोक्तस्सन् । *तेन वित्तश्चञ्चुप्चणपौ*(पा.सू.५-२-२६)इति चुञ्चुप्प्रत्ययः । अब्धिमधि अब्धौ, *अधिशीङ्स्थासाम् कर्म*(पा.सू.१-४-४६) इति सप्त-म्यर्थे द्वितीया । शयितवान् शयनम् कृतवान् त्वज्जननभवनप्रीत्येति भावः । तम् अब्धिम् ममन्थ मथितवान् । बबन्ध च सेतुना बद्धवाश्च । हरधनुः शिवकोदण्डम् वल्लीभञ्जम् वल्लीमिव, उपमानार्थे णमुल्प्रत्ययः । बभञ्ज च भङ्गम् कृतवाम्श्च । दशमुखीम् (खम्) दशानाम् मुखानाम् समाहारम् दशापि मुखानीत्यर्थः । लूत्वा रक्षःकबन्धम् रावणशरीरम् अनर्त्तयदपि नर्त्तितवाम्श्च, अपिश्चार्थः । रणरङ्ग इति शेषः । सर्वत्र त्वल्लाभायेति योज्यम् ।
अब्धिशयन-तन्मथन-हरधनुर्भजन-अब्धिबन्धन-रक्षःकबन्ध-नर्त्त- नानाम् क्रमेण वक्तव्यत्वेपि *अत्यन्तभक्तियुक्तानाम् शास्त्रम् न च क्रमः* इति प्रमाणानुसारेण भक्त्यतिशयादत्र क्रमो नानुसम्हितः। न परमिदमेव किन्त्वशक्यमपि कुर्यादित्याह – किमिवेति । पतिस्त्वत्प्रियः किमिव न कर्त्ता किम् वा न कुर्यात् इवशब्दो वार्थः । अघटितम् सर्वमपि कुर्यादे-वेत्यर्थः । अत एवोक्तम् हनूमता *यदिरामस्समुद्रान्ताम् मेदिनीम्
परिवर्त्तयेत् । अस्या हेतोर्विशालाक्ष्या युक्तमित्येव मे मतिः*(रा.यु.कां.१६-१३) इति । कर्तेति *डुकृञ् करणे*(धा.पा.१४७३) इति धातोः कर्तरि
लुट् || ५४ ||
भगवतस्सर्वप्रकारविभवोऽपि लक्ष्मीविलासलवानुभवे न पर्याप्त इत्याह –

दशशतपाणिपादवदनाक्षिमुखैरखिलैः
अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।
अवतरणैरतैश्च रसयन्कमिता कमले
क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते || ५५ ||
दशशतेति – हे कमले! ते तव कमिता नायको हरिः *सहस्रशीर्षा
पुरुषः*(पु.सू-१) *अनन्तबाहूदरवकत्रनेत्रम्*(भ.गी.११-१६) इति श्रुतिस्मृत्यु-क्तप्रकारेण दशशतानि सहस्रसङ्ख्याः पाणयो हस्ताः पादाश्चरणाः वदनानि मुखानि अक्षीणि नयनानि मुखानि आदीनि येषाम् तैस्तथोक्तैः अनुरूप- गुणैः त्वद्गुणानुरूपैः अखिलैः अन्यूनैः निजवैश्वरूप्यविभवैः निजम्
स्वकीयम् नित्यम् वा *निजम् नित्ये स्वके त्रिषु* इत्यमरः (अ.को.३-३-३२) । विश्वरूपमेव वैश्वरूप्यम् विश्वरूपसम्बन्धि वा तस्य विभवैः अति-शयैरपि, अपिश्चार्थः । अतैः तद्भिन्नैः – वैश्वरूप्यविभवभिन्नैरित्यर्थः । अवतरणैः वासुदेवादिचातुर्व्यूहविरिञ्चिगिरीशमध्यवर्तिविष्णूपेन्द्रमत्स्य-कूर्मादिरूपैश्च रसयन् अनुभवन् त्वद्विभ्रममिति शेषः । क्वचन च क्वापि
समुद्रे तुषारवदेकदेश इत्यर्थः । विभ्रमभ्रमिमुखे विलासावर्तगह्वरे विनिम-ज्जति निमग्नो भवति । न त्वेकदेशमपि प्रयातीत्यर्थः । विनिपूर्वात् *टुमस्जो शुद्धौ*(धा.पा.११७७) इत्यस्माद्धातोः सस्य जश्त्वेन दत्वे श्चुत्वे
विनिमज्जतीति रूपम् || ५५ ||
श्रियो दुग्धार्णवपरमपदश्रीरङ्गेषु नित्यवासे हेतुमाह –

जननभवनप्रीत्या दुग्धार्णवम् बहुमन्यसे
जननि दयितप्रेम्णा पुष्णासि तत्परमम् पदम् ।
उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण-
क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे || ५६ ||
       जननेति – हे जननि श्रीरङ्गेश्वरि ! जननभवनप्रीत्या जन्मगृह- प्रणयेन दुग्धार्णवम् क्षीराब्धिम् बहुमन्यसे मानयसि, तत्र वासम्
विधत्स इत्यर्थः । बहुपूर्वाद्दिवादिपठितात् *मन ज्ञाने*(धा.पा.११७६)
इत्यस्माद्धातोः *दिवादिभ्यः श्यन्*(पा.सू.३-१-६९) इति श्यन्प्रत्यये
बहुमन्यसे इति लण्मध्यमपुरुषैकवचनम् । तत् प्रसिद्धम् *तद्विष्णोः
परमम् पदम्*(ऋ.वे.१-२-७) इति वेदान्तविदितम् परमम् पदम् परम-व्योम दयितप्रेम्णा प्रियप्रीत्या प्रियगृहप्रीत्येत्यर्थः । पुष्णासि पोषयसि तत्र सान्निध्यम् कुरुष इत्यर्थः । *पुष पुष्टौ*(धा.पा.१५३०) इति धातोः
परस्मैपदपठितात् श्नाप्रत्यये पुष्णासीति रूपम् । उदधिपरमव्योम्नोः
दुग्धार्णवपरमपदयोः विस्मृत्य विस्मरणम् कृत्वा तत्रस्थानाम् नित्यम्
सन्निहितेयमिति बुद्धिमुत्पाद्येत्यर्थः । *अधीगर्थदयेशाम् कर्मणि*(पा.सू. २-५-५२) इति कर्मणि षष्ठी । मादृशरक्षणक्षममिति घिया मादृशा- किञ्चिनपालनयोग्यमिति बुद्ध्या भूयः पुनरतिशयेन वा श्रीरङ्गधामनि श्रीरङ्गनगरे दिव्यविमाने वा मोदसे मोदम् भजसि । अत्र दुग्धार्णवम् बहुमन्यसे परमपदम् पुष्णासीत्युक्त्या श्रीरङ्गराजधामनि मोदसे इत्या-नन्दभजनोक्त्या सम्श्रितरक्षणोपयुक्तत्वेन श्रीरङ्गधाम्नस्तदुभयतोप्या-नन्दावहत्वव्यतिरेको व्यज्यत इति व्यतिरेकालङ्कारध्वनिः वाक्यगतो द्रष्टव्यः || ५६ ||
*अर्चावतारविषये मयाप्युद्देशतस्तव । उक्ता गुणा न शक्यन्ते वक्तुम् वर्षशतैरपि’ । (विष्व.सं.) इत्युक्तप्रकारेण सर्वावतारापेक्षया श्रियः श्रीरङ्ग- धामन्यर्चावतारे सर्वगुणानामतिशयितत्वमाह –

औदार्यकारुणिकताश्रितवत्सलत्व-
पूर्वेषु सर्वमतिशायितमत्र मातः ।
श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति
सीतावतारमुखमेतदमुष्य योग्या || ५७ ||
औदार्येति – हे मातः ! श्रीरङ्गेश्वरि ! औदार्यकारुणिकताश्रित-
वत्सलत्वपूर्वेषु औदार्य स्वार्थनैरपेक्ष्येण परेष्टप्रापकत्वम्, कारुणिकता परदुःखासहिष्णुत्वम्, आश्रितवत्सलत्वम् आश्रितदोषभोग्यत्वम्, तानि पूर्वाणि प्रधानानि येषाम् तेषु गुणेष्विति शेषः । सर्वम् गुणजातम् श्रीरङ्गधाम्नि श्रीरङ्गनगरे दिव्यविमाने वा, अत्र त्वदीयार्चावतारे अति-शायितम् अतिशयम् प्राप्तम् । मातर्मैथिलीत्यादिना सीतावतारे क्षमादया-द्यतिशयवर्णनादत्र कथम् ततोप्यतिशय इत्यत्राह – यदुतेत्यादिना । अन्यत् अर्चावतारादितरत् सीतावतारमुखम् सीतावतारप्रभृत्यवतारम् अतिशयितगुणमुदाहरन्तीति यदेतत् अमुष्यार्चावतारस्य योग्यम् अभ्यासः । सर्वावतारेषु कारुण्यादिगुणव्यसनेन सर्वगुणातिशयवान्
अयमर्चावतारः परिणत इति भावः || ५७ ||
श्रियो वाङ्मनसागोचरमौदार्यम् वर्णयति –

ऐश्वर्यमक्षरगतिम् परमम् पदम् वा
कस्मैचिदञ्जलिभरम् वहते वितीर्य ।
अस्मै न किञ्चिदुचितम् कृतमित्यथाम्ब
त्वम् लज्जसे कथय कोयमुदारभावः || ५८ ||
      ऐश्वर्यमिति – हे अम्ब श्रीरङ्गेश्वरि ! अञ्जलिभरम् अञ्जलिमेव
करतलयुगलयोजनमेव भरम् त्वदभिप्रायेण गुरुतरभारम् वहते, न तु
तदधिकतया किञ्चिदस्तीतिभावः । कस्मैचित् कुलगोत्रवृत्तिशून्याय
जन्तवे ऐश्वर्यम् ऐहलौकिकम् पारलौकिकम् च अक्षरगतिम् कैवल्यम् परमम् पदम् परमपुरुषार्थलक्षणभगवत्कैङ्कर्यम् वा, वा शब्दश्चार्थः कैङ्कर्यम् चेत्यर्थः । अथ कार्त्स्न्येन वितीर्य दत्त्वा अस्मै अञ्जलिभर-वाहिने उचितम् तद्भारवहनानुगुणम् किञ्चित् किमपि न कृतमिति नोपकृतमिति त्वम् लज्जसे व्रीडाविनम्रवदनासि । *ओलजी व्रीडायाम्* (धा.पा.११४०) इति धातोर्लडात्मनेपदमध्यमपुरुषैकवचनम् । अयमुदार-भावः कः लोकविलक्षणो वाचामगोचरवैभवश्चेत्यर्थः ॥ ५८ ॥
इतः परम् श्लोकद्वयेन स्वनैच्यमनुसन्धत्ते-

ज्ञानक्रियाभजनसम्पदकिञ्चनोह-
मिच्छाधिकारशकनानुशयानभिज्ञः ।
आगाम्सि देवि युवयोरपि दुस्सहानि
बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥ ५९ ॥
ज्ञानेति – हे देवि! *अर्थे समर्थो विद्वान्* इत्युक्तेः इच्छाधिकार-
शकनानुशयानभिज्ञः इच्छा पुरुषार्थस्पृहा, अधिकारो नियोज्यत्वम्,
शकनम् कर्मानुष्ठानसामर्थ्यम्, अनुशयो विहिताकरणकृतानुतापः तेषाम्
अनभिज्ञः, अत एव ज्ञानक्रियाभजनसम्पदकिञ्चनः ज्ञानम् ज्ञानयोगः,
क्रिया कर्मयोगः, भजने भक्तिप्रपत्ती ता एव सम्पदैश्वर्य तेनाकिञ्चनो
दरिद्रोऽहम् युवयोरपि अपराधैकोपहारयोर्भवतोरपि दुःसहानिसोढुम-शक्यानि आगाम्सि भगवदपचार- भागवतापचार- असह्यापचाररूपाणि बध्नामि समूहरूपेण सञ्चिनोमि, न केवलम् त्वद्विषयानुकूल्याभावः प्रातिकूल्यपरिपूर्णश्चास्मीत्याशयः । ततः किमित्यत्राह – मूर्खेति । मूर्खचरितो बालिशव्यापारः, इदम् हेतुगर्भविशेषणम् । मूर्खचरितत्वादहम् वात्सल्यातिशयभाजोपि तव दुर्भरोऽस्मि सोढुमशक्यो भवामि । रक्षण-विषयो नास्मीत्यर्थः || ५९ ||
उक्तम् नैच्यमपि पूर्वाचार्यनैच्यानुकरणमात्रम् न मनःपूर्वकम् ततो
निर्हेतुककृपयैव त्वम् शरणमसीत्याह –

इत्युक्तिकैतवशतेन विडम्बयामि
तानम्ब सत्यवचसः पुरुषान्पुराणान् ।
यद्वा न मे भुजबलम् तव पादपद्म-
लाभे त्वमेव शरणम् विधितः कृतासि || ६० ||
इत्युक्तीति – हे अम्ब श्रीरङ्गेश्वरि ! इति पूर्वोक्तप्रकारेण एतत्स- जातीयतया वा उक्तिकैतवशतेन कपटनैच्यवचनसहस्रेण तान् भगव- न्निर्हेतुककटाक्षैकलब्धविशदतमज्ञानतया प्रसिद्धान् सत्यवचसो यथार्थ- वाचः, प्रामाणिकानित्यर्थः । पुराणान् पूर्वाचार्यान् पराङ्कुशपरकालयामुन- यतिवरादीन् विडम्बयामि अनुकरोमि *न धर्मनिष्ठोऽस्मि*(स्तो.र.२२) ‘*मनोवाक्कायैः*(वै.स्त.८८) *सत्कर्म नैव किल किञ्चन सञ्चिनोमि* (श.ग.१०) इत्यादि तत्तन्नैच्यानुसन्धानवदहमपि नैच्यानुसन्धानम्
करोमीत्यर्थः । पराङ्कुशादिनैच्यानुसन्धानम् भाषान्तरत्वान्न सूचितम् । तन्नैच्यानुकरणमात्रेण मद्रक्षणम् कार्यमित्याशयः । रक्षणे हेत्वन्तर-माह – यद्वेति । यद्वा नो चेत् तव पादपद्मलाभे त्वञ्चरणारविन्दसम्प्राप्तौ मे भुजबलम् न मत्सामर्थ्यसाध्यम् किञ्चिदपि नास्ति । किन्तु विधितः
त्वन्निर्हेतुककृपया *ईशेशितव्यसम्बन्धादनिदम् प्रथमादपि*(ल.तं.१७-७०) इत्युक्तनिरुपाधिकेशेशितव्यसम्बन्धनियतेर्वा त्वमेव शरणम् उपायः
कृतासि । विधितः कुतोपीति पाठे निर्हेतुकादित्यर्थः । तदा शरणमित्य- नन्तरमिति शेषः । विधिशब्दः कृपावाचित्वेन श्रीपराङ्कुशैः द्रविडोपनिष- त्पञ्चमशतकाद्यगाथातृतीयचरणे प्रयुक्तः व्याख्यातश्च तथा कलिमथन- देशिकैः || ६० ||
दृष्टादृष्टे उभे अपि श्रीमुखतः प्रार्थयन् स्तोत्रम् परिसमापयति –

श्रीरङ्गे शरदः शतम् सह सुहृद्वर्गेण निष्कण्टकम्
निर्दुःखम् सुसुखम् च दास्यरसिकाम् भुक्त्वा समृद्धिम् पराम् ।
युष्मत्पादसरोरुहान्तररजस्स्याम त्वमम्बा पिता
सर्वम् च धर्ममपि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् || ६१ ||
श्रीरङ्ग इति – हे श्रीरङ्गेश्वरि ! श्रीरङ्गे दिव्यनगरे शतम् शरदः
*शतायुः पुरुषः*(कठ.उ.१-२३) इति श्रुत्युक्तप्रकारेण शतमपि वत्सरान्
*कालाध्वनोरत्यन्तसम्योगे द्वितीया* । (पा.सू.२-३-५) सुहृद्वर्गेण सह पुत्रपौत्रबन्धुशिष्यप्रशिष्यादिभिः समम् निष्कण्टकम् निरुपद्रवम् निर्दुःखम् दुःखासम्स्पर्श सुसुखम् सुतराम् सौख्यम् च यथा भवति तथा दास्यरसिकाम् त्वत्कैङ्कर्यरसज्ञाम् पराम् सर्वोत्कृष्टाम् समृद्धिम् श्रीरङ्ग-श्रियम् भुक्त्वा अनुभूय, एवम् दृष्टमुक्त्वा अदृष्टमाशास्ते – युष्मदिति । युष्मत्पादसरोरुहान्तररजः युवयोः पादपद्मगर्भरेणुः स्याम भवेम, युष्मञ्च-रणकमल-कैङ्कर्यैकभोगा भवेमेत्यर्थः । एवम् श्रियो दृष्टादृष्टप्रदाने हेतु-माह – त्वमित्यादिना । त्वमम्बा त्वमेव माता, त्वमेव पिता, त्वमेव जनकः, अब्भक्षो वायुभक्ष इतिवत् त्वमित्यवधारणगर्भः, त्वमेव भव इत्युपरितन एवकारो वानुकृष्यते । सर्वविधोपि बन्धुस्त्वमेवेत्यर्थः । ननु मम सर्वबन्धुत्वेपि मत्प्राप्त्युपायाननुष्ठाने तव कथम् मत्प्राप्तिसिद्धिरित्यत आह – सर्वमिति । त्वमेव नः अस्माकम् सर्वमपि धर्ममलौकिकश्रेयः- साधनम् कर्मज्ञानभक्तिप्रपत्त्यादिकम् भव । *स्याद्धर्ममस्त्रियाम् पुण्यम्* इत्यमरः (अ.को.१-४-२४) । सर्वधर्मस्थाने पुरुषकारतया त्वमेव स्थित्वा सिद्धोपायेन भगवता मदिष्टम् प्रापयेत्याशयः । त्वयि गुणलेशाभावे कथम् मम तथा भाव इत्यत आह – स्वीकुर्विति । अकस्मात्कृपाम्
निर्हेतुकदयाम् स्वीकुरु अङ्गीकुरुष्व । मद्गुणलवनिरीक्षणे कृपाया निर्हेतुकता न सिध्येदिति तदनपेक्षमेव माम् रक्षेति भावः || ६१ ||

|| इति श्रीवत्सकुलतिलकस्य वीरराघवाचार्यस्य कृतिषु
श्रीगुणरत्नकोशव्याख्यानम् ||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.