[highlight_content]

श्रीभाष्यम् 03-02-07 पराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये पराधिकरणम् ॥७॥

(अधिकरणार्थः – सर्वस्मात्परं परब्रह्मैव, न तु ततोऽपि परं किढ)

३४४. परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्य: ॥ ३–२–३० ॥

(अवान्तरसङ्गतिः)

इदानीमस्मात्परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्परब्रह्मण: परमपि किञ्चित्तत्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते, अस्योपास्यस्य निर्दोषत्वानवधिकातिशयासंख्येयकल्याणगुणाकरत्वस्थेम्ने।

(अधिकरणारम्भार्था शङ्का)

तत्रेयमाशङ्का यदिदं परं ब्रह्मोभयलिङ्गम्, एतस्मान्निखिलजगत्कारणात् परमपि किञ्चित्तत्वमस्ति । कथम्?  अथ य आत्मा स सेतुर्विधृति: (छा.८.४.१) इत्यस्य परस्य सेतुत्वव्यपदेशात्। सेतुशब्दस्य च लोके कूलान्तरप्राप्तिहेतौ प्रसिद्धेरितोऽन्यदनेन प्राप्तव्यमस्तीति गम्यते। तथा  एतं सेतुं तीर्त्वाऽन्धस्सन्ननन्धो भवति (छा.८.४.२) इति तरितव्यता चास्याभिधीयते, अतश्चान्यत्प्राप्यमस्ति। उन्मानव्यपदेशाच्च उन्मितं – परिमितं इदं परं ब्रह्म,  चतुष्पाद्ब्रह्म (छा.३.१८.२)  षोडशकलम् (प्रश्न.६.१) इत्युन्मानव्यपदेशात्। स चायमुन्मानव्यपदेशस्तेन सेतुना प्राप्यस्यानुन्मितस्यास्तितां द्योतयति। तथा सम्बन्धव्यपदेशश्च सेतुसेतुमतो: प्रापकत्वप्राप्यत्वलक्षणो दृश्यते,  अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् (श्वे.६.१९)  अमृतस्यैष सेतु: (मु.२.२.५) इति। अतश्च परात्परमस्ति । भेदेन च परात्परं व्यपदिश्यते,  परात्परं पुरुषमुपैति (मु.३.२.८)  परात्परं यन्महतो महान्तम् (तै.नारा.१.५) इति च । तथा तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.९)  ततो यदुत्तरतरं तदरूपमनामयम् (श्वे.३.१०) इति । अत एभ्यो हेतुभ्य: परस्माद्ब्रह्मण: परमपि किञ्चिदस्तीति गम्यत इति ॥३०॥

(सिद्धान्तारम्भः सेतुव्यपदेशोपपादनं च)

एवं प्राप्तेऽभिधीयते

३४५. सामान्यात्तु ॥ ३–२–३१ ॥

तुशब्द: पक्षं व्यावर्तयति; यत्तावदुक्तं सेतुव्यपदेशात्परात्परमस्तीति; तन्नोपपद्यते। न ह्ययमत्र किञ्चित्प्राप्यं प्रति सेतुरुच्यते,  एषां लोकानामसम्भेदाय (छा.८.४.१,२) इति सेतुसामान्येन सर्वलोकासङ्करकरत्वश्रुते: । सिनोति-बध्नाति स्वस्मिन्सर्वं  चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुः उच्यते। एतं सेतुं तीत्वा (छा.८.४.१,२) इति तरतिश्च प्राप्तिवचन: । यथा वेदान्तं तरति इति ॥३१॥

(उन्मानव्यपदेशस्य उपासनानुकूल्यार्थता)

३४६. बुद्ध्यर्थ: पादवत् ॥ ३–२–३२ ॥

योऽयं  चतुष्पाद्ब्रह्म (छा.३.१८.२)  षोडशकलम् (प्रश्न.६.१) पादोऽस्यविश्वा भूतानि (पु.सू) इत्युन्मानव्यपदेश:; स बुद्ध्यर्थ: – उपासनार्थ:,  सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिभिर्जगत्कारणस्य ब्रह्मणोऽपरिच्छिन्नत्वावगमात्स्वत उन्मितत्वासम्भवात् । जगत्कारणत्वं हि तस्यैव श्रूयते  तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत: (तै.आन.१.२) सोऽकामयत बहु स्यां प्रजायेयेति (तै.आन.६.२) इति। अतो यथा  वाक्पाद: प्राण: पाद: चक्षु: पादो मन: पाद: (छा.३.१८.२) इत्यादिना ब्रह्मणो वागादिपादव्यपदेश उपासनार्थ: एवमयमपि॥३२॥

(अनुन्मितस्य उन्मितत्वानुसन्धानसाङ्गत्यम्)

स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानसम्भव: – तत्राह

३४७. स्थानविशेषात्प्रकाशादिवत् ॥ ३–२–३३ ॥

प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात्तत्सम्बन्धितयोन्मितत्वानुसन्धानं सम्भवति; यथा प्रकाशाकाशादेर्विततस्य वातायनघटादिस्थानभेदै: परिच्छिद्यानुसन्धानसम्भव इत्यर्थ:॥३३॥

(ब्रह्मण्येकस्मिन्नेव प्राप्यप्रापकभावोपपत्त्या अन्यस्य परात्परस्यासिद्धिः)

३४८. उपपत्तेश्च ॥ ३–२–३४ ॥

यदुक्तम् – अमृतस्यैष सेतु: (मु.२.२.५) इति प्राप्यप्रापकसम्बन्धव्यपदेशात् प्रापकात्परं प्राप्यमस्तीति; तन्न, प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वोपपत्ते:।  नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमैवेष वृणुते तेन लभ्य: तस्यैष आत्मा विवृणुते तनूं स्वाम् (मु.३.२.३) इत्यनन्योपायत्वश्रवणात्॥३५॥

(श्रुतित एव परस्यान्यस्य निषेधात् परान्तरासिद्धिः)

३४९. तथाऽन्यप्रतिषेधात् ॥ ३–२–३५ ॥

यत्पुनरुक्तं –  ततो यदुत्तरतरम् (श्वे.३.अ.१०)  परात्परं पुरुषम् (मु.३.२.८)  अक्षरात्परत: पर: (मु.२.१.२) इत्यादिभेदव्यपदेशात्परात्परमस्तीति – तन्नोपपद्यते, तत्रैव ततोऽन्यस्य परस्य प्रतिषेधात्,  यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् (श्वे.३.९) इति। यस्मादपरं परं नास्ति किञ्चित् – न केनापि प्रकारेण परमस्तीत्यर्थ: ।  तथाऽन्यत्रापि  न ह्येतस्मादिति नेत्यन्यत्परमस्ति (बृह.४.३.६) इति – इति नेति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यत्परं न ह्यस्तीत्यर्थ:। तथा  न तस्येशे कश्चन तस्य नाम महद्यश: (तै.नारा.१.९) इति। तद्धि जगदुपादानकारणतयाऽनन्तरमुक्तं  सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि (तै.नारा.१.८)  स आप: प्रदुघे उभे इमे (तै.ना.१.९) इत्यादिना।  अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ (तै.नारा.१.११) इति च जगत्कारणं पुरुषमेनं प्रत्यभिज्ञापयति।

(ततो यदुत्तरेति श्रुतिवाक्यस्य उचितार्थवर्णनाय शङ्का-तत्परिहारौ)

            ततो यदुत्तरतरम् (श्वे.३.१०) इति किमुच्यत इति चेत् – पूर्वत्र  वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था विद्यतेऽयनाय (श्वे.३.८.९) इति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम्, नान्योऽमृतत्वस्य पन्था इत्युपदिश्य तदुपपादनाय  यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्।  वृक्ष इव स्तब्घो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.८.९) इति पुरुषस्य परत्वं, तद्व्यतिरिक्तस्य परत्वासम्भवञ्च प्रतिपाद्य  ततो युदत्तरतरं तदरूपमनामयम्  य एतद्विदुरमृतास्ते भवन्त्यथेतरे दु:खमेवापियन्ति (श्वे.३.१०) इति पूर्वोक्तमर्थं हेतुतो निगमयति – यदुत्तरतरं पुरुषतत्त्वम्, तदेवारूपमनामयं यत:, ततो य एतत्पुरुषतत्त्वं विदु:, त एवामृता  भवन्ति, अथेतरे दु:खमेवापियन्ति इति। अन्यथोपक्रमविरोधोऽनन्तरोक्तिविरोधश्च।  परात्परं पुरुषमुपैति दिव्यम् (मु.३.२.८) इति पूर्वत्र  अक्षरात्परत:पर: (मु.२.१.२) इति अक्षरात् अव्याकृतात् य: पर: – समष्टिपुरुष:; तस्मात्परो योऽदृश्यत्वादिगुणकस्सर्वज्ञ: परमपुरुष:, स एवेहापि  परात्पर: इति समष्टिपुरुषात्परत्वेनोच्यते॥३५॥

(जगत्कारणात्परस्यान्यस्याभावे प्रमाणस्पष्टीकरणम्)

३५०. अनेन सर्वगतत्वमायामशब्दादिभ्य: ॥ ३–२–३६ ॥

अनेन – ब्रह्मणा, सर्वगतत्वम् – सर्वस्य जगतो व्यप्तत्वम्, आयामशब्दादिभ्य: सर्वव्याप्तिवाचिशब्देभ्योऽवगम्यमानमस्मात्परं नास्तीत्यवगमयति । आयामशब्दस्तावत्  तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.३.९)  यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा॥ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित: (पु.सू) नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोर्नि परिपश्यन्ति धीरा: (मु.१.१.६)। आदिशब्दात्  ब्रह्मैवेदं सर्वम् (बृ.४-५-१)  आत्मैवेदं सर्वम् (छां.८.२५.२) इत्यादयो गृह्यन्ते। अत इदं परं ब्रह्मैव सर्वस्मात्परम् ॥३६॥

इति श्रीशारीरकमीमांसाभाष्ये पराधिकरणम्॥ ७॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.