॥श्री:॥
नयमयूकमालिका
॥तृतीयोध्याय:॥
॥तृतीयस्याध्ययायस्य प्रथम:पाद:॥
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्र्ननिरूपणाभ्याम् ॥1॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥2॥
प्राणगतेश्च ॥3॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥4॥
प्रथमेऽश्रवणादिति चेन्न ताएव ह्युपपत्तेः ॥5॥
अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः ॥6॥
भाक्तं वाऽनात्मवित्वात्तथाहि दर्शयति ॥7॥
सर्वेषां वेदान्तानां सर्वविधारिधनिराकरणेन ब्रह्मणि समन्वयोऽध्यायद्वयेन प्रतिपादितः। तृतीयाध्याये तत्प्राप्तिसाधनमुपासनं सोपायं चिंत्यते। तत्रोपासनाप्राप्यवस्तुव्यतिरिक्ताद्वैराग्यं तावदुपासनारम्भेऽभ्यर्हित उपायः। तत्सिध्यर्थमिह परत्र च सञ्चरतो जीवस्य दोषाः प्रदर्श्यन्ते। तत्र देहाद्देहान्तरं गच्छन् जीवो देहान्तरारम्भहेतुभिर्भूतसूक्ष्मैः वेष्टितो गच्छति, उत तदवेष्टित इति पञ्चाग्निविद्यागतप्रश्र्नप्रतिवचनयोर्भूतसूक्ष्मवेष्टनगमकत्वसम्भवासम्भावाभ्यां संशयः। तत्र पूर्वपक्षः– अवेष्टितो गच्छति। यत्र जीवो गच्छति, तत्र देहान्तरारम्भोऽस्ति चेदैहिकदेहारम्भकैकदेशानां भूतसूक्ष्माणां देहान्तरारम्भापर्याप्राप्तत्वेन तदारम्भाय अवश्यं भूतान्तरमेळनापेक्षा- वश्यंभावेनतैरेव पारत्रिकगदेहोत्पत्तिसम्भवात्, भोग्यजातवत्, परलोके एव देहान्तरारम्भपर्याप्तभूतानामपि लोभोपपत्तेः अणोर्जीवस्य स्वतोगमनसम्भवेन तदर्थमपि भूतवेष्टनानपेक्षणात्। न च पंचाग्निविद्यागतप्रश्र्नप्रतिवचनाभ्यां तद्वेष्टनसिद्धिः। तयोस्तदस्पर्शित्वात्। तथा हि- श्वेतकेतुमारुणेयं पांचालराजः प्रवाहणः ‘वेत्थयथा पंचम्यामाहुतावापः पुरुषवचसो भवंती’ति पृष्ट्वा तस्मिन्निमं प्रश्र्नं प्रतिवक्तुमजानति तस्य पितरिचाजानति तत्पित्रा समगत्य पृष्टः प्रवाहणः स्वयमेव प्रश्र्नविषयान् निरूपयन् कास्ताः पंचाहुतयः यासामुत्तमायामाहुतावापः पुरुषशब्दाभिलपनीयतां भजंत इत्याकांक्षायां ‘असौ वाव लोको गौतमाग्नि’ रित्यादिना द्युपर्जन्यपृथिवी पुरुषयोषितः पंचाग्नित्वेन रूपयित्वा तेषु श्रद्धासोमवृष्ट्यन्नरेतोद्रव्यकाः पंचाहुतीरुपदिश्य तदनंतरं ‘इति तु पंचम्यामाहुतावापः पुरुषवचसो भवंती’ ति स्वपृष्टार्थनिरूपणं कृतवान्। नात्र प्रश्र्ने प्रतिवचने वा भूतानां श्रवणमस्ति। दूरे तत्संपरतिष्वक्तस्य जीवस्य। भूतेषु अपां श्रवणमस्ति। न तु तासां द्युलोकपर्यंतं गमनस्य, ततो योषित्यपर्यन्तं प्रत्यागमनस्य वा श्रवणमस्ति। तस्मात् भूतसूक्ष्मवोष्टितस्य इह परत्र च संचार इत्यत्र नास्ति प्रमाणमिति। एवंप्राप्ते सिद्धान्तः— भूतसूक्ष्मैर्वेष्टित एव इह परत्र च संचरतीति प्रश्र्नप्रतिवचनाभ्यमवसीयते। प्रश्र्नप्रतिवचनयोरपां पुरुषशब्दाभिलपनीयत्व श्रवणं हि तासां पुरुषाधिष्ठानदेहारम्भकत्वेनैवोपपादनीयम्। देहारम्भश्च न केवलाभिरद्भिर्भवति। देहेस्नेहगन्धादिकार्यदर्शनेन तेजोबन्नस्य सर्गाद्यकाल एव त्रिवृत्कृतत्वेन च देहस्य त्र्यात्मकत्वात्। एवं त्र्यात्मकत्वेऽपि देहस्य लोहितादिभूयस्तया कार्यानुसारेण तदारम्भकभूतेष्वपां भूयस्त्वादप्छब्देनाभिधानम्। अपि च अस्ति जीवस्य गताविंद्रियाणामपि गमनम्। न च तेषां शरीरमनाश्रित्य गमनमवस्थानमात्रं वा संभवति। जीवद्दशायामदंर्शनात्। न च तेषां स्वस्वकार्येषु प्रवृत्यर्थमेव देहाश्रयणं गमनमवस्थानं च स्वोपादानाश्रयाणामेव संभवतीति वाच्यम्। मार्गे चंद्रसंवादादिश्रवणेन तत्र स्वस्वकार्येषु प्रवृत्तेरपि सत्वात्। ननु ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातंप्राणश्चक्षुरादित्य’ मित्यादिना मरणकाले प्राणानामग्न्यादिगतिश्रवणान्न तेषां जीवेन साकं गतिरिति चेन्न। तस्य भाक्तत्वात्। ‘ओषधीर्लोमानि वनस्पतीन् केशा’ इत्योषधिवनस्पतीनगच्छद्भिर्लोमादिभिस्सहपाठात्। अतोऽग्न्यादिश्रुतिरधिष्ठातृदेवतापक्रमप्यपरा। ननु अद्भिर्भूतान्तरसंसृष्टाभिः परिष्वक्तो जीवो गच्छतीति प्रश्र्नप्रतिवचनाभ्यामवगम्यत इत्येतन्नोपपद्यते। द्युलोकाग्निविषये प्रथमेहोमे ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वती’ ति श्रद्धाया एव देवशब्दोक्तम्रियमाणेंद्रिय- कर्तृकहोमविषयत्व श्रवणादिति चेन्न। यतस्तत्रापश्श्रद्धाशब्देनोच्यन्ते, तदभिधान एव प्रश्र्नप्रतिवचनयोरुपपत्तेः। श्रद्धाशब्दस्य ‘श्रद्धावा आपः’ इत्यादिश्रुत्यन्तरेष्वप्सु दृष्टप्रयोगत्वेन तल्लक्षकत्वोपपत्तेः। तथाऽपि, भूतपरिष्वक्तो जीवो गच्छतीत्ययुक्तम्। ‘श्रद्धां जुह्वती’ त्यादि वाक्येषु जीवस्याश्रुतत्वादिति चेन्न। इष्टादिकारिणां प्रतीतेः। ‘तस्मिन्नेतस्मिन्नग्नौ देवाश्श्रद्धां जुह्वती’ त्येतदनन्तरस्या आहुतेस्सोमो राजा संभवतीत्यनेनेष्टापूर्तदत्तकारिणां द्युलोकप्राप्यनन्तरं सोमराजभावश्रवणात्।तत्र सोमराज शब्दस्य द्युलोकभोगार्थलब्धदिव्यदेहेष्टादिकारिपरत्वस्य तत्रत्यवाक्यान्तरपर्यालोचनयाऽवगमात्। तत्र हि ‘अथ य अमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवंति धुमाद्रात्रि’ मित्यादिना ‘पितृलोकादाकाशमाकाशाच्चन्द्रमस’ मित्यन्तेनेष्टादिकारिणां धूमादिमार्गेण चन्द्रप्राप्त्युक्त्यनन्तरं ‘एव सोमो राजा तद्देवानामन्नं तं देवो भक्षयन्ती’ ति तेषां सोमराजभाव: श्रूयते। तेषु सोमराजशब्दस्त्वमृतमयदेहवत्वसादृश्यात् समनन्तरवाक्यप्रदर्शयिष्यमाणदेवभोग्यत्व- सादृश्याद्वा। ननु तत्र सोमराजशब्दः इष्टादिकारिजीवपरः ‘तं देवा भक्षयन्ती’ ति देवभक्ष्यत्वश्रवणादिति चेन्न। तस्य वचनस्यानात्मविदः केवलेष्टादिकारिणः स्वर्गं प्राप्यापि देवानां निदेशकारिणस्तदुपसर्जनभूता भवन्ति। देवाश्च तत्र तत्र तान्नियुञ्जानाः पीडयन्तीत्येतदभिप्रायतया भाक्तत्वात्। तस्मात् भूतसूक्ष्मैस्संपरिष्वक्त एव जीवो रंहति। तत्संपरिष्वङ्गस्य देहांतरारंभार्थत्वादिंद्रियगमनार्थत्वाच्च। एतद्देहत्यागमात्रेण न कृतार्थता। तेषामिह दृश्यमानदुःखानुभवस्य परत्राजानदेवभूतानां भृत्यत्त्वसातिशयत्वप्रयुक्तदुःखानुभवस्यचापरिहार्यत्वादिति सिद्धम्॥
संग्रहकारिके॥
सप्राणेन्द्रियभूतसूक्ष्मनिवहैस्सार्वत्रिकैर्भोग्यवत्
जीवस्य प्रयतस्स्वतो गतिमतो नापेक्षितं वेष्टनम्।
नापि श्रुत्यदितं श्रुता पुरुषता निर्देश्यतैवह्मपा
मग्न्याद्यप्ययवर्णनेन च हतं प्राणेद्रियैर्वेष्टनम्॥
प़ञ्चम्यामाहुतौ यत्पुरुषवचनतां वक्त्यपां त्र्यात्मकानां
तेन स्वर्गादिकेष्वप्यधिगमयति ताहोम्यजीवानुषक्ता:।
वागार्दीनां च भाक्तं श्रुतिरनलमुखेष्वप्ययं लोमनीत्या
तस्मादेतैस्समस्तैर्विगणय दृढमामुक्तिजीवस्य बंधम्॥
इति तदन्तरप्रतिपत्त्यधिकरणम् ॥1॥
_________________________________________________________
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥8॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः ॥9॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥10॥
सुकृतदुष्कृत एवेतितु बादरिः ॥11॥
अनात्मविदां परलोके भृत्यत्वादिप्रयुक्तदुःखवत् तल्लोकभोगस्य क्षयिप्णुत्वप्रयुक्तमपि दुःखमस्तीत्युच्यत इति तेषां देहसम्बन्धवत् तद्धेतुकर्मसंबंधोऽप्यवर्जनीय इति चोच्यत इति सङ्गतिः। इष्टादिकारिणां परलोके कर्मफलं भुक्तवतां कर्मफलावसाने पुनरावृत्तिराम्नाता- ‘यावत्संपातमुषित्वाषऽथैतमेवाध्वानं पुननिवर्तत’ इति। ते सानुशयानिवर्तते उत निरनुशया इति ‘यावत्सम्पातमुषित्वे’ ति श्रवणात्, ‘रमणीयचरणा’ इत्यादिश्रवणाच्च, संशये पूर्वपक्षः—
अनुशयोह्युपभुक्तशिष्टं कर्म। तन्नसंभवति। ‘यावत्सम्पातमुषित्वे’ ति कृत्स्नकर्मफलोपभोगवचनात्। ‘संपतन्त्यनेन स्वर्गं लोक’ मितिहि संपातः कर्मोच्यते। ‘प्राप्यांतं कर्मणस्तस्य यत्किंचेह करोत्ययं। तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति श्रुत्यन्तरे निरवशेषभुक्तकर्मणः पुनरावृत्तिराम्नायत इति ततोऽपि निरनुशयत्वमवसीयते। न च कर्मविशेषाभावे पुनरावृत्तस्य कर्मानधीनब्राह्मणक्षत्रियादिजन्मानुपपत्तिः। चरणविशे- षेभ्यस्तदुपपत्तेः। ‘तद्य इह रमणीयचरणाः अभ्याशोहयत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा अथयइहकपूयचरणाः अभ्याशोह वत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चंडालयोनिं चे’ ति श्रवणात्। न च तत्र चरणशब्दः पुण्यपापरूपकर्मपरः। चरणशब्दस्य लौकिकैराचारशीलवृत्तपर्यायेषु संध्योपासनादिष्वेव व्यवह्रियमाणत्वात्। वेदेऽपि ‘यान्यनवद्यानि कर्माणि तानि सेवितव्यानि, यान्यस्माकं सुचरितानि तानि त्वयोपास्यानी’ ति यागादिकर्मणामाचाराणां च भेदेन निर्दिशाच्च। परलोकभोग्यं ‘यागादिकर्मफलं, इह ब्राह्मणादिजन्माचारफल’ मिति व्यवस्थित्यनंगीकारे संध्योपासनाद्याचाराणां वैयर्थ्यप्रसंगाच्चति। सानुशया एवावरोहंति ‘तद्यइहरमणीयचरणा’ इत्यादिश्रुत्या ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततश्शेषेण विशिष्टदेशजातिकुलरूपायुश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यंते विष्वंचोविपरीतानश्यंती’त्यादिस्मृत्याच तथावगमात्। ‘यावत्संपात’मिति ‘यत्किंचे’ तिचफलदानप्रवृत्तकर्मविशेषविषयं। अनादिजन्मप्रवाहसंचितानामभुक्तफलानामकृतप्रायश्चित्तानां च कर्मकोटीनां किचित्कर्मफलानुभवमात्रेण क्षयासंभवात्। एवं च चरणश्रुतिरपि कर्मोपलक्षणार्था, कर्मणामेवाभिधायिका वा। ‘पुण्यं कर्माचरति पापमाचरती’ति व्यवहारात्। पृथङ्निर्देशस्य च प्रत्यक्षश्रुतिसिद्धं कर्म आचारानुमितश्रुतिसिद्ध- आचार इति द्विविधकर्मविषयत्वेन तदुपपत्तेः। न च ब्राह्मणजन्मादीनामपि कर्मफलतायामाचारवैयर्थ्यम्। आचारस्य कर्माधिकारहेतुत्वेनाचारसहितानामेव कर्मणा फलवत्त्वात् ‘संध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु। यदन्यत्कुरुते कर्म न तस्य फलभाग्भवे’ दित्यादिस्मरणात्, तस्मात् सानुशयाएवावरोहन्ति। अतो बहुजन्म- परम्परानुभाव्यकर्मकोटीनामात्मज्ञामन्तरेण अनुभवमात्रेण कदाऽपि न क्षयः। अवरोहन्तश्च आरोहणप्रकारेण प्रकारान्तरेणचावरोहन्ति। आरोहणंहि धूमरात्र्यपरपक्षदक्षिणायनपितृलोकाकाशचंद्रक्रमेण, अवरोहणं तु चन्द्रस्थानादाकाशवायुधूमाभ्रमेधक्रमेणेति॥
॥संग्रहकारिका॥
यावत्सम्पातशब्दात्रिदिवमुपगतः कर्म भुक्तवा समस्तं
संध्योपास्त्यादिरूपाद्भजति चरणतो विप्रजन्मादि भूयः।
मैवं कर्माधिकारः खलु चरणफलं कर्मणैवान्यदाप्यं
तस्मादिष्टान्यकर्मा व्रजति फलमुखं कर्म भुक्त्वा धरित्रीं॥
इति कृतात्ययाधिकरणम् ॥2॥
_________________________________________________________
अनिष्टादिकारिणामपि च श्रुतम् ॥12॥
संयमनेत्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥13॥
स्मरन्ति च ॥14॥
अपि सप्त ॥15॥
तत्रापि च तद्व्यापारदविरोधः ॥16॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥17॥
न तृतीये तथोपलब्धेः ॥18॥
स्मर्यतेऽपि च लोके ॥19॥
दर्शनाच्च ॥20॥
तृतीयशब्दावरोधस्संशोकजस्य ॥21॥
‘यावत्, यत्किञ्चे’ त्युक्तिवत् ‘चन्द्रमसमेवे’ त्यत्र सर्वश्रुतिर्नसंकोचनीयेति प्रत्यवस्थानात्त्संगतिः। किमनिष्टादिकारिणो विहितमकुर्वाणाः निषिद्धं कुर्वाणाश्च यमयातनामनुभूय पश्चाच्चंद्रमसं गत्वा निवर्तंते, उत चन्द्रमसं नगच्छंतीति संशये पूर्वपक्षः—
तेऽपि चन्द्रमसंगच्छन्ति। ‘ये वै केचास्मालोकात्प्रयंति चन्द्रमसमेव ते सर्वे गच्छन्ती’ त्यविशेषेण श्रवणात्। अन्यथा प्रथमाहुत्यभावे योषिदग्न्याहुतेः पंचमत्वाभावेन तेषां पंचमाहुत्यपेक्षदेहारंभाभावप्रसंगात्। एवं तर्हि सुकृतदुष्कृतकारिणोरविशिष्टैव गतिस्स्यादितिचेत् न। अनिष्टादिकारिणां यमयातनानुभवेन विशेषात् ‘अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ‘सर्वे चैते वशं यांति यमस्य भगवन्किले’ त्यादिश्रुतिस्मृतिदर्शनात् पापकर्मणां यातनानुभवार्थं पाताळानामधोभागे रौरवादिसप्तमहानरकस्मरणाच्च। ननु रौरवादीन् गच्छतां पापकर्मणां कथं ‘वैवस्वतं संगमनं जनानां यमं राजानं हविषादुवस्यते’ ति श्रुता यमसदनप्राप्तिः, कथं च लोकांतरेषु नरकानुभवस्य ‘पुनः पुनर्वशमापद्यते’ इति श्रुतं यमाधीनत्वमिति चेत् नायं विरोधः। पापकर्मणो यमसदनं गत्वा तन्नियोगादेव नरकान् प्राप्य यातनामनुभवंतीति कल्पनात्। तस्माद्यातनानुभवानंतरं चंद्रमसं गच्छंतीति तेषामपि चंद्रलोकप्राप्त्या कियदपि सुखं संभवतीति। एवं प्राप्ते सिद्धान्तः-
न पापिनश्चंद्रमसं गच्छंति। विद्याकर्मविधुरत्वात्। यथाहि तेषां विद्याविद्युरत्वात् ‘तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमभिसम्भवन्ती’ ति विद्यावतः प्रकृत्याम्नाता देवयानगतिर्नसम्भवति, एवं ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ती’ त्यादिनेष्टादिकारिणः प्रकृत्याम्नातापितृयाणगतिरपि न संभवतीति न तेषां चन्द्रप्राप्तिरुपपद्यते। मार्गद्वयपरिभ्रष्टानां तृतीयस्थानिनांतु न पंचमाहुत्यपेक्षाऽस्ति। पञ्चाग्निविद्यप्रकरण एव ‘वेत्थ यथा केनासो लोको न संपूर्यत’ इति प्रश्र्नप्रतिवचने ‘अथैतयोः पन्थार्नकतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौलोको न संपूर्यते तस्माज्जुगुप्सेते’ ति श्रवणात्। ये मार्गद्वयपरिभ्रष्टा स्तेऽत्रैव क्रिमिकीटादिरूपेण पुनः पुनर्जननमरणवन्तो भवन्ति। अतस्तृतीयस्थानिनां तेषामत्रैव परिवर्तनेन परलोकप्राप्त्यभावात् परलोको न संपूर्यत इत्यर्थः। ‘जायस्य म्रियस्वे’ ति क्रियासमभिहारे लोट्। मध्यमपुरुषश्च। ‘समुच्चयेऽन्यतरस्या’ मिति जननमरणरूपानेकक्रियासमुच्चयस्यापि विवक्षणान्नद्विर्भावः। तत्र वार्तिकानुशिष्टद्विर्भावानुवृत्त्यनिष्टेः। न च पुण्यकर्मणामपि सर्वेषां पञ्चमाहुत्यपेक्षानियमः। द्रौपदीधृष्टद्युम्नादीनां तदभावात्। श्रुतावपि केषांचित् प्राणिनां पञ्चमाहुत्यनपेक्षा दृश्यते। तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवंत्याडजं जीवजमुद्भिज्जमिति। अत्र उद्भिज्जस्य स्थावरस्य गुल्मलतादेर्नपंचमाहुत्यपेक्षाऽस्ति। ननु त्रीण्येवेत्यवधारणं कथम्, स्वेदजस्यापि युकालिक्षादेस्सत्वादिति चेत् सत्यम्। ऊष्मप्रभवत्वायोनिजत्वा विशेषेण तेषामप्युद्भिज्जशब्देन संग्रहः कल्प्यः। अन्यथाऽवधारणप्रामाण्यानुपपत्तेः। तस्मात् पापकर्मणां न चन्द्रप्राप्तिरिति स्थितम्॥
संग्रहकारिका।।
ये वै केचेति शब्दाद्वपुरधिगतये पञ्चमाहुत्यपेक्षा-
सत्त्वादिष्टादिहीनोऽप्ययति हिमकरं यातनावाप्तिपूर्वम्।
मैवं संपूर्त्यभावश्रवणनियमतस्संकुचेत्सर्वशब्दः
पाञ्चालीस्वेदजादिव्यभिचरणहता पञ्चमाहुत्यपेक्षा॥
इति अनिष्टादिकार्यधिकरणम् ॥3॥
__________________________________________________
तत्स्वाभाव्यपत्तिरुपपत्तेः ॥22॥
इतः परमापादपरिसमाप्तेरवरोहप्रकारविषया चिन्ता। ‘इष्टादिकारिणः चन्द्रलोकानुभाव्यभोगान् भुक्तवा सानुशयास्ततोऽवरोहन्ती’ त्युक्तं। अवरोहप्रकारस्त्वित्थमाम्नायते- ‘तस्मिन् यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तते यथैतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमोभवति धूमोभूत्वाऽभ्रं भवति अभ्रंभूत्वा मेघोभवति मेघोभूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते, ‘यो योह्यन्नमत्ति यो रेतस्सिंचति तद्भूय एव भवती’ ति। अत्र अवरोहतामाकाशादिभावश्श्रुतः। नत्वाकाशादिप्राप्तिमात्रम्। ‘आकाशाद्वायु’ मित्यत्र द्वितीयया वायुप्राप्तिमात्रं श्रुतिमिति प्रतीतावपि ‘वायुर्भूत्वे’ ति परमर्शेन वायुभावापत्त्यवगमात्। तथैवाकाशवाक्येऽपि अर्थग्रहणौचित्यात्। सा किमाकाशादिभावापत्तिः देवमनुष्यादिभावापत्तिवत् तच्छरीरकत्वापत्तिः, उत तत्तत्सादृश्यापत्तिरिति ‘वायुर्भूत्वेत्यादिसामानाधिकरण्यस्य मुख्यत्वापवादकाभावसद्भावाभ्यां संशये पूर्वपक्षः- श्रद्धावस्थस्य सोमराजभाववत् आकाशादिभाव एव विवक्षितः। न च अवरोहतां मार्गे सुखदुःखानुभावभावात् नाकाशादिभावोपपत्तिरिति वाच्यं। तदभावासिद्धेः। न हि वृक्षाग्रात्पतंत इव स्वर्गादवरोहन्तः संमुर्छितकरणग्रामाः पतंति। स्वर्गेकर्मफलं भुक्त्वा अवरोहतां मार्गेपि कर्मफलभोगोपपत्तेः ‘सः विज्ञानोभवति स विज्ञानमेवान्ववक्रामती’ ति श्रुत्यन्तरे गतागतयोः ज्ञानवत्त्वप्रतिपादनेन मूर्छितत्वकल्पनानुपपत्तेश्चेति। एवं प्राप्ते सिद्धान्तः–
अवरोहतां आकाशादिशरीरकत्वं आकाशादिदेवताभावेन वा स्यात् ततः पृथग्भावेन वा। नाद्यः। सर्गाद्यकालमारभ्य आप्रळयमाकशाद्यभिमानिदेवताः कॢप्तास्संतीति ततोऽन्येषां तथा भावानुपपत्तेः। न द्वितीयः। अभिमानिदेवताः प्रति भोगाश्रयाणामन्यान् प्रति भोगाश्रयत्वायोगात्। युगपदनेकभोक्तृसमावेशे तेषां परस्परविरुद्ध भोगार्थितायां शरीरोन्यमथनप्रसङ्गात्। तस्मादाकाशादिसादृश्यापत्तिरेव आकाशादिभावापत्तिर्वाच्या। स्वर्गार्थ- कर्मक्षयानन्तरममृतमयदेहे विलीने सूक्ष्मदेहमात्रेण अवरोहतामाकाशादिभ्यः पृथगभिधानानर्हत्वं तत्सादृश्यम्। अतस्तेषां वासनामूलस्वाप्नज्ञासदृशानभिव्यक्तज्ञानवत्त्वेऽपि पितृविर्ये प्रविष्टानामिव भोगरहितानां संश्लेषमात्रमिति स्थितम् ॥
संग्रहकारिका॥
प्रथमचारमाहुत्योर्देवत्वमानुषतादिवत्
गगनपवनादित्वं तत्तच्छरीरकतोति चेत्।
अनुचितमिदं मध्ये भोगो हि नास्त्यवरोहतां
तदपृथगभिव्याहारर्हस्थितिस्तदितीप्यताम्॥
इति तत्स्वाभाव्यपत्त्यधिकरणम् ॥4॥
_________________________________________________
नातिचिरेण विशेषात् ॥23॥
अवरोहन्तः किमाकाशादिषु नातिचिरं तिष्ठति उतानियम इति संशये नियमहेत्वाभावादनियम इति पूर्वः पक्षः। ननु ‘अतो वै खलु दुर्निष्प्रपतरमि’ ति व्रीहियवादिषु अतिचिरमवस्थानमुक्तम्। दुनिंष्प्रपतरमिति छान्दसस्तशब्दलोपः। दुर्निष्प्रपतरं कृच्छ्रनिष्क्रमतरमित्यर्थ। एवं व्रीह्यादिषु विशेषोक्तेराकाशादिषु मेघांतेषु नातिचिरमवस्थानमिति गम्यत इति चेत्, मैवं। व्रीह्यादिषु चिरावस्थाननियमप्रतिपादनसामर्थ्यादाकाशादिभ्यः चिरावस्थाननियम एव हि व्यावर्तते नत्वनियतचिरावस्थानमपि। ‘यथा वैखानसं पूर्वेऽहन्साम भवति षोडश्युत्तर’ इति विशिष्यांगिरसां द्विरात्रस्योत्तरेऽहनि षोडशिग्रहनियमविधानसामर्थ्यात् ‘उत्तरऽहन्द्विरात्रस्य गृह्यत’ इति सद्विरात्राणामुत्तरेऽहनि नियमविधायकेन सामान्यवचनेन प्राप्तः षोडशिग्रहनियम एव द्विरात्रांतरेभ्यो व्यावर्तते। न तु प्रकृत्यतिरात्रानियतप्राप्तः षोडशिग्रहोऽपि। तस्मादाकाशादिषु चिरमचिरं वावस्थानमित्यनियम इति। एवं प्राप्ते सिद्धान्तः–
दुर्निष्प्रपतरमित्यातिशायिनिकस्य तरप्रत्ययस्यास्ति तावत् प्रतियोग्याकांक्षा। तत्र च वाक्ये प्रतियोगी नोपात्तः। स्ववाक्ये प्रतियोग्यनुपादाने च बुद्धिस्थः प्रतियोगी भवति। बौद्धप्रतियोग्यपेक्षायामप्यातिशायिका इति वामनोक्तः। एवञ्चाकाशादयः प्रागनुक्रान्ताबुद्धिसन्निधानात् तत्प्रतियोगिनोभवंति। तथा च व्रीह्यादिष्वाकाशाद्यपेक्ष्या चिरावस्थानोक्ताचाकाशादिष्ववस्थानस्य तदपेक्षयाऽल्पकालत्वावश्यंभावात् आकाशादिषु नातिचिरमेवतिष्ठंति। व्रीह्यादिभ्यो दुर्निष्प्रपतरत्वोक्तिसामर्थ्यादाकाशादिभ्योऽपि दुर्निष्प्रपतत्वमात्रमस्तीति तेष्वपि चिरावस्थानमवगम्यते। अतो नातिचिरं तिष्ठंतीति विशेषितम्॥
संग्रहकारिकाः॥
स्थितिरनियतकाला व्यामोमुख्येषु तेषां
न हि चिरमचिरं वेत्यामनामो विशेषम्।
अचिरमिति विशेषो गम्यते व्रीहितादे
रतिचिरमनुवृत्ते रग्रतो वर्णनेन॥
इति नातिचिराधिकरणम् ॥5॥
_________________________________________________________
अन्याधिष्ठिते पूर्ववदभिलापात् ॥24॥
अशुद्धमितिचेन्न शब्दात् ॥25॥
रेतस्सिग्योगोऽथ ॥26॥
योनेश्शरीरं ॥27॥
आकाशादिमेघांतेष्विव तदन्नतरपठितेषु व्रीह्यादिष्वपि संश्लेषमात्रमिति समर्थनात् संगतिः। व्रीह्यादिभावः किमवरोहतां व्रीह्यादिशरीरतापत्तिः उत तत्संश्लेषमात्र मिति जायन्त इति श्रवणात् व्रीह्यादिभावनिमित्तकर्मानुपन्यासाच्च संशये जननश्रवणात् व्रीह्यादिभाव इति पूर्वपक्षः। ‘न तु मेघोभूत्वाप्रवर्षती’ ति वृष्टिकर्तृत्वश्रवणेपि यथान मेघभावः तथाजायन्त इति श्रवणेपि न व्रीह्यादिभाव इति किं नस्यादिति चेत् उच्यते- प्रवर्षतीत्येतदाचारार्थक्विबंतं योजयितुं शक्यं। अस्ति च वृष्टिसंश्लिष्टेजीवे वर्षशब्दप्रयोगः। ‘तस्या आहुतेर्वर्षं संभवती’ ति। जायन्त इति तु व्रीह्याद्यात्मनाजनन मेवाभिधत्त इत्यस्ति वैषम्यं। न च स्वर्गादवरोहतां ‘शरीरजैः कर्मदोषैर्याति- स्थावरतां नर’ इति स्मृतपापफलस्थावरजन्मानुपपत्तिः। श्वसूकरादिजन्मवत्तदुपपत्ते:। न च स्थावरजन्मनिमित्तकर्माश्रवणात् जायन्त इत्येतदन्यथा नेयं। यत्र जन्माभिमतं तत्र तद्धेतुकर्मसंकीर्तननियमस्य रमणीयचरणादिवाक्ययोरवधारणादिति वाच्यं। उक्तनियमस्याप्रयोजकत्वात्। श्रुतजन्मोपपत्त्यर्थ मश्रुततद्धेतुकर्मकल्पनौचित्यात्। स्वर्गे फलदानप्रवृत्तस्य यागादिकर्मणोहिंसारूपपापमिश्रितस्यपापांशरूपशेषानुवृत्त्यास्थावरजन्मोपपत्तेश्च। ‘यावत्संपात’ मित्यस्य ‘संपतन्त्यनेनस्वर्गं लोक’ मितिव्युत्पत्त्या यागादिपुण्यांशपरत्वात्। न च वैधहिंसा पापमेव न भवति।‘आहवनीये जुहोती’ ति सामान्यशास्रस्य ‘पदे जुहोती’ ति विहितपदहोमातिरिक्तहोमविषयत्ववत् ‘न हिंस्यात्सर्वाभूतानीति सामान्यनिषेधस्य’, ‘अग्नीषोमीयं पशुमालभेते’ ति विशेषविहित वैधहिंसाव्यतिरिक्तहिंसाविषयत्वस्योत्सर्गापवादन्या- यप्राप्तत्वादिति वाच्यं। विषयभेदेनात्र विरोधाभावात्। पशुहिंसाविधिर्हि हिंसायां क्रतूपकारकत्वं बोधयति। ‘न हिंस्यादिति निषेधस्तु प्रत्यवायजनकत्वं। नचैकस्येष्टानिष्टोभयजनकत्वं न संभवति। येनाविरोधाय हिंसानिषेधशास्रं वैधहिंस्याव्यतिरिक्तविषयमिति व्यवस्था कल्प्येत। दृश्यते हि क्षीरपानस्य पुष्ट्यादिरूपेष्टहेतुत्वं मेहादिरूपानिष्टहेतुत्वं च। अथोच्येत–रागप्राप्त हिंसाविषयो निषेधो न वेधहिंसामास्कंदति। तत्र विधितः प्रवृत्तेरिति। नैतद्युक्तं। वैधहिंसायामपि रागत एव प्रवृत्ते:। न हि विधिसहस्रमपीष्टसाधनताबोधजननद्वारा रागमनुत्पाद्य पुरुषं प्रवर्तयितुमीष्टे। जैमिनिना च तृतीयाध्याये- सौमिकीमहावेदिः केवलप्रधानार्था ‘इयतिशक्ष्यामह’ इति तद्वाक्यशेषे एतावति भूभागे कर्तुं शक्ष्यामहइत्यर्थके तुमुन्प्रत्ययार्थाचिकीर्षासंयोगात्। नत्वंगवधानाथी। अंगानां फलसाधनत्वाभावेनाचिकिर्षितत्वादिति पूर्वपक्षं कृत्वा ‘तद्युक्तेषु फलश्रुतिस्तस्मात्सर्वचिकीर्षास्या’ दिति सूत्रेण सकलांगयुक्ते फलश्रुतेस्सर्वत्रप्रधानेऽङ्गकलापे च चिकीर्षास्तीत्यगानामपि चिकीर्षितत्वाविशेषात् अंगप्रधानार्था महोवोदिरिति सिद्धान्तयताऽङ्गेष्वपि रागत एव प्रवृत्तिः स्थापिता। तस्मात् पापरूपहिंसामिश्रितयागादिकर्मविशेषतस्स्थावरजन्मसंभवतीति एवमेव सांख्यानां मत मिति चेन्मैवं। वैधसंज्ञपनस्य पशुस्वर्गप्राप्ति हेतुतया हिंसात्वाभावस्य शब्दत एव प्रतिपन्नत्वात्। श्रूयते हि- ‘पशुं प्रकृत्य हिरण्यशरीरऊर्ध्वं स्वर्गं लोकमेती’ ति, मंत्रवर्णश्च ‘न वा उएतान्म्रियसे नरिष्यसि देवानिदेषि पथिभिस्शुगेभिः। यत्र यं तिसुकृतोनापि दुष्कृतः तत्रत्वादेवस्सवितादधात्वि’ ति। नारष्यसि- न हिंस्यइत्यर्थः। चिकित्सकं च तादात्विकव्रणदाहच्छेदाद्यल्पदुःखकारिणमपि रक्षकमेव वदन्ति। एवं ‘स्वधिते मैनं हिंसी’ रिति यूपच्छेतनस्य तद्धिसात्वाभावश्रवणं ‘घ्नन्ति वा एतं पशुं यत्संज्ञपयन्ती’ त्येतदपि वैधपशुसंज्ञपनं हिंसात्वारोपेण दोषतामापादयत् तस्य वस्तुतो हिंसात्वाभावमवगमयति। अन्यथा प्राणवियोजनार्थव्यापारवाचिसंज्ञपनशब्दपर्यायत्वे ‘यत्संज्ञपयन्ती’ त्यनेनैव दोषोद्धाटनस्य सिद्धात्वात् घ्नतिवेत्यनेन दोषरूपं न वक्तव्यं स्यात्। यद्यपि ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्य’ इति श्रुत्यन्तरे हिंसानिषेधे वैधसज्ञपनपर्युदाससामर्थ्यात् तस्य हिंसारूपत्वं प्रतीयते। गौपमस्मृतौ ‘नदोषोहिंसायामाहव’ इति आहवाभिमुखहननस्य हंतव्यवीरस्वर्गप्रापकस्यापि हिंसारूपत्व मुच्यते। मरणोद्देश्यकमरणानुकूलव्यापारोहिंसेति प्रसिद्धलक्षणानुसारेणापि तस्य हिंसात्वमायाति। न च तत्र उदर्कमहाफलापर्यवसायित्वमपि लक्षणे विशेषणं। गौरवात्। व्रणदाहच्छेदयोः दाहच्छेदरूपत्वेपि व्रणिरक्षकत्ववत् वैधपशुमारणस्य हिंसात्वेपि अग्रिममहाफलप्रापणेन तद्रक्षकत्वोपपत्तेः। तथापि ‘न वा उवेत’ दिति मन्त्रार्थवाददृष्ट्या यज्ञार्थस्य परप्राणवियोजनस्याहिंसात्मपि प्रतीयत इत्येतावदवलंब्य प्रौढ्यर्थं परिहारो भाष्ये दर्शितः। वस्तुतस्तु नहिंस्यादिति वाक्ये पुरुषार्थैव हिंसा धातुना अनूद्यते। न क्रत्वर्थापि।कर्तुराख्यातवाच्यत्वपक्षे तद्वाच्यसंख्याद्याक्षेप्यत्वपक्षे च तस्या: कर्तृत्वरूपपुरुषशेषत्वप्रतीतेः। ततश्च धातुनाऽनूदितायाः पुरुषार्थहिंसाया एव निषेध इति क्रत्वर्थसंज्ञपनस्य हिंसात्वेऽपि न निषेधस्पर्शः। पुरुषस्येव क्रतोस्तस्मिन्वाक्ये अनुपादानात् अहिंसावाक्यस्य अनारभ्याधीतत्वेन क्रतोः प्राकरणिकविपरिवृत्त्यभावाच्चेति भाष्यकाराशयस्थो मुख्यपरिहारोऽनुसंधेयः। तस्माद्यागस्य पापमिश्रयत्वाभावात् श्वसूकरादिजन्मनीव पापान्तरसङ्कीर्तनाभावच्च न पापफलतया इष्टादिकारिणां व्रीह्यादिशरीरकं जन्मेत्येतदुपपद्यते। किं तु तेषामाकाशादिष्विवव व्रीह्यादिष्वपि संश्लेषमात्रम्। कथं तर्हि जायन्त इत्युक्तिः? ‘योयोह्यन्नमत्ति योरेतस्सिञ्चति तद्भूयएव भवती’ ति पितृभावोक्तिवदिति ब्रूमः। न हि पूर्वसिद्धपितृभावेन जननं कथमपि संभवति। अतस्तत्र अद्यमानान्नद्वारा पित्रनुप्रवेशेन तत्संश्लेषमात्रं पितृभावरूपतया व्यपदिश्यत इति वक्तव्यम्। इयमेव Page-242 व्रीह्यादिभावोक्तिरपीति युक्तं। अतो योनिप्राप्त्यनन्तरमेव ब्राह्मणादिशरीरप्राप्तिः। ततः प्रागाकाशादिपित्रन्तेषु संश्लेषमात्रमिति सिद्धम्॥
संग्रहकारिका॥
वृष्टेः पश्चादनुशयवतां व्रीहिमाषादिभावः
तत्तद्रूपैर्भवतु जननं कर्मणोकीर्तनेऽपि।
हिंसायोगात्क्रतुपरिषदां पापमिश्रत्वभाजां
पापांशैस्स्यात् स्वरनुभवतोऽनन्तरं स्थावरत्वम् ॥1॥
नात्रोत्सर्गापवदननयचश्शास्रयुग्मानुसारा
दिष्टानिष्टोभयविधफलं युज्यते सा हि हिंसा।
क्षीरं पित्तं हरति कुरुते मेहमित्यादिरूपा
दायुर्वेदप्रथितवचनात्तस्य किन्नो तथात्वम् ॥2॥
वैधीरागाधीनहिंसानिषेधस्वीकारेऽपि
स्यान्निषिद्धेव हिंसा।
तत्तत्साध्येष्वन्तरेणैव रागं कोवा
कर्म क्लेशसाध्यं विदध्यात् ॥3॥
मैवं हिंसैव नैषा भवुति मखपशोस्स्वर्गतिप्रापकत्वात्
क्षुद्रं दुःखं प्रभूतं फलमपि च यतो रक्षणं तन्नहिंसा।
द्दष्टं ह्येतद्व्रणादेरुपशमनविधौ मंत्रवर्णाच्च लब्धं
तस्माव्द्योमानिलादिष्विव सुकृतकृतान्तेषु संश्लेषमात्रम् ॥4॥
इति अन्याधिष्ठिताधिकरणम् ॥१॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्ग- राजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये – द्वितीयपरिच्छेदे तृतीयस्याध्यायस्य प्रथमः पादः॥