[highlight_content]

नयमयूकमालिका – Adhyaya 3 Pada 3

नयमयूकमालिका

॥तृतीयस्याध्यायस्य तृतीयः पादः॥

एवं परब्रह्मणेस्सर्वज्ञत्वसर्वशक्तिमत्त्व निरतिशयदयाशालित्व सत्यसङ्कल्पत्वादिकेषु महावैभवमहावदान्यत्वपर्यंतेषूपास्यत्वोपयुक्तेषु कल्याणगुणेषु तत्तदधिकरणोदाहृतविषयवाक्यैश्शब्दतोर्थतश्च सिद्धेषु समुपजात तदुपासनाभिलाषस्य कथमुपासनं कार्यं किमेकस्योपासनस्य कस्यांचिच्छाखायां यावन्तोगुणा आम्नाताः तावदुप- संहारेणैव कार्यं उत शाखांतरगत तदुपासनाप्रकारणाम्नात गुणांतरोपसंहारेणेत्याकाङ्क्षायां तदुपसंहारेण कार्यमिति प्रदर्शयितुं शाखाभेदेपि चोदनाद्यविशेषेसति नोपासनं भिद्यत इति तदभेदनिरूपणमिह पादे क्रियते। तद्भेदनिरूपणं तदपवादत्वेन क्वचित् क्वचित् क्रियते। अतः फलतोगुणोपसंहारः पादार्थः। इहाधिकरणे सामान्यतः प्रतिशाखं वैश्वनराक्षरदहरादिविद्यानभिद्यन्त इति प्रसाध्यतेधिकरणम् तृतीयस्याध्यायस्य तृतीयः पादः ।

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥1॥

भेदान्नेतिचेदेकस्यामपि ॥2॥

स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च

सववच्च तन्नियमः ॥3॥

दर्शयति च  ॥4॥

उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥5॥

वैश्वानरादिविद्याः प्रतिशाखं भिद्यन्ते नवेति प्रत्यभिज्ञाविच्छेदकसद्भावासद्भावभ्यां संशये अभ्यासप्रकरण भेदाभ्यां भिद्यत एव। शाखांतरे तर्योर्भेदावश्यंभावात्। न च तयोस्तत्तच्छाखाध्यायिरूपप्रतिपत्तृभेदेन साफल्योपपत्तेः शाखांतराधिकरणसिद्धान्तः सूत्रदर्शितचोदनाद्यविशेषप्रयुक्तप्रत्यभिज्ञानेन शाखाभेदेऽपि कर्मैक्यवद्विद्यैक्यं स्यादिवाच्यम्। मुण्डकेऽक्षरविद्यायां ‘तेषामेवैतां ब्रह्मविद्यांवदेत शिरोव्रतंविधिवद्यैस्तुचीर्ण’ मिति तस्याश्शाखांतराम्नाताक्षरविद्यातो भेदलिंगदर्शनात्। शिरोव्रतं शिरस्यंगारपात्रधारणरूपं आथर्वणिकानामेव नियतम्।अतस्तेषामेव तद्विद्योपदेशनियम: तस्याश्शाखांतराम्नाताक्षरविद्यातो भेदलिंगं। विद्यैक्येहि तदङ्गस्य शिरोव्रतस्य शाखांतराध्यायिभिरप्यनुष्ठेयत्वा दाथर्वणिकानामेव शिरोव्रतमित्ययं नियमो नोपपद्यते। नन्वध्ययनांगमिदं शिरोव्रतं ‘नैतदचीर्णव्रतोधीत’ इति तत्रैव ‘तेषामेवैतां ब्रह्मविद्यांवदेते’ त्यस्य प्रथमश्रुततया तदनुसारेण तस्यान्यथानयनोपपत्तेः श्रवणात्। अतस्तदनुसारेण तेषामेवेति वचनमाथर्वणिकानामेवेति ब्रह्मविद्याप्रतिपादकमुपनिषद्ग्रंथ मध्यापयेदित्यर्थः कल्प्यत इति वाच्यम्। चरमश्रुतानुसारेण प्रथमावाक्यगत ब्रह्मविद्याशब्दस्य लक्षणाकल्पनायोगात्। तेषामेवैतामित्येनेनापि अध्ययनांगत्वस्यैव बोधने पौनरुक्त्यापत्तेश्च। तस्मादाथर्वणिकनियतशिरोव्रताङ्गकत्वलिंगेनाक्षरविद्यानां चोदनाद्यविशेषप्रयुक्तप्रत्यभिज्ञाविच्छेदात् भेदावश्यंभावेन  तथैव वैश्वानरविद्या अपि प्रतिशाखं भिद्येरन् अभ्यासप्रकरणान्तराविशेषात्। ननु तर्ह्याथर्वाणिकमात्राधिकारिकशिरोव्रताङ्गकत्वानुरोधेन नानाशाखाम्नाताप्यक्षरवि- द्याऽऽथर्वणिकमात्राधिकारिकेत्यधिकारसङ्कोचोऽस्तु। द्दश्यतेह्यंगानुरोधेनाधिकारसंकोचः। यथा ‘ऋद्धिकामास्सत्रमासीर’ न्नित्यविशेषश्रवणेऽपि सत्रे ‘ये यजमानास्त ऋत्विज’ इति ब्राह्मणैककर्तृकेषु ऋत्विक्कर्मसु यजमानानां कर्तृत्वविध्यनुरोधेन ब्राह्मणानामेवाधिकार इति संकोच इति चेत् मैवम्। मुण्डकाक्षरविद्याया: शाखान्तरोत्काक्षरविद्यातो भेदेनाभ्यासप्रकरणभेदोपष्टब्धेनाधिकारासंकोचोपपत्तौ प्रधानवाक्यावगताधिकारसंकोचनायोगात्। नचाभ्यासप्रकरणान्तरयोः प्रतिपत्तृभेदेन साफल्योक्तिरपि युक्ता। तथाऽपि कृतस्वशाखाध्ययनस्य पुनश्शाखान्तराध्यनस्य तत्तच्छाखाध्यायिभ्यः तत्तद्वाक्यश्रवणस्य च संभवेन तं प्रति तस्य वाक्यस्यानुवादकत्वं स्वशाखाध्यायिनं प्रति प्रमापकत्वमिति वैरूप्यानिवारणात्। तस्मादभ्यासप्रकरणभेदाभ्यां चादनाद्यविशेषप्राप्तप्रत्यभिज्ञाविच्छेदकाक्षरविद्याम्नातविद्याभेदलिंगोपष्टब्वाभ्यां प्रतिशाखं विद्याभिद्यत एवेति। एवं प्राप्ते सिद्धान्तः। प्रतिशाखं विद्यानभिद्यते। चोदनाद्यविशेषात्। तथा हि छान्दोग्यवाजसनेयकयोर्वैश्वानरविद्यायां ‘वैश्वानरमुपासत’ इति चोदना तावदेकरूपा।यागस्य द्रव्यदेवतावत् उपस्तेर्विद्यरूपमिति। इह वैश्वानराख्यं वेद्यं रूपमप्यविशिष्टम्।वैश्वानरविद्येत्याख्याप्यविशिष्टा। ब्रह्मप्राप्तिरूपः फलसंयोगोऽप्यविशिष्टः। अत एव हि प्रत्यभिज्ञानात् शाखान्तरेऽपि विद्यैक्यम्। नचाभ्यासप्रकरणभेदाभ्यां तद्भेदशंकनीय:। विद्यानर्थत्यप्रसंगरूपन्यायमूलौहितौ। ‘समिधो यजती’ त्यादौ विशेषणसंक्रान्तिरहितया विधिश्रुत्या कर्मविधिसिद्धौ विहितस्य कर्मणो विधानमनर्थकमित्यानर्थक्यन्यायमूलोऽभ्यासेन कर्मभेदः। एवमग्निहोत्रप्रकरणे विहितस्य नित्याग्निहोत्रस्य कुण्डपायिनामयनप्रकरणे पुनर्विधानमनर्थकमित्यानर्थक्यन्यायमूल एव प्रकरणान्तरेणापि कर्मभेदः। नचेहानर्थक्यमस्ति। तत्तच्छाखाध्यायिरूपप्रतिपत्तृभेदेनसाफल्यात्। न च प्रमापकत्वानुबादकत्वरूपवैरू- प्यापत्तिदोषः। वाक्यान्तरेण  प्राप्तिमपेक्ष्यार्थज्ञानजनकत्वं ह्युनुवादकत्वं न ज्ञातज्ञापकत्वमात्रं, स्वशाखागतवाक्यस्यापि पुनश्श्रवणे अनुवादकत्वेन वैरूप्यापत्ते:। न च नानाशाखागतेष्वग्निहोत्रादिवाक्येषु किंचिदपि वाक्यं शाखान्तरवाक्यतः प्राप्तिमपेक्ष्य स्वार्थं बोधयति। अतो नानुवादकृतवैरूप्यापत्तिः। नाप्यक्षरविद्यायां पूर्वपक्षोक्तं भेदलिंगमस्ति। शिरोव्रतस्य विद्यांगत्वाभावात्। स्वाध्यायसंस्कारार्थो हि शिरोव्रतनियमः। ‘नैतदचीर्णव्रतोऽधीत’ इत्यध्ययनसंयोगात् अध्ययनशरीरानुपकारकस्य शिरोव्रतस्य अध्ययन- संस्कार्योपनिषदंगत्वापर्यवसानात् आथर्वणिकानां समाचाराख्ये ग्रंथे ‘इदमपि वेदव्रतेन व्याख्यात’ मिति शिरोव्रते पुष्कलोपदेशं कृत्वा व्रतान्तरं प्रस्तुत्य तत्र शिरोव्रतधर्मातिदेशाच्च। तथा च यथा सप्तसूर्याख्यहोमप्रभृतिश्शतौ- दनाख्यहोमपर्यन्तः तेषामेवाथर्वणिकानां सवहोमगणतदीयैकाग्निसम्बन्धात् तत्रैव भवति, न त्रेताग्निषु, एवं शिरोव्रतमपि तदीयाध्ययनसम्बन्धात्तदध्ययनसंस्कार्यायां तस्यामेवोपदिष्टं भवति। एवं चाथर्वणिकनियतशिरोव्रतांगकत्वानुरोधेन सैवोपनिषदक्षरविद्याप्रतिपादकोपनिषदन्तराद्भिद्येत। नत्वक्षरविद्या। तस्या एवोपनिषद आथर्वणिकमात्राधिकारिकशिरोव्रतांगत्वानुरोधेन तन्मात्राध्येयत्वं सिध्यति। नत्वक्षरविद्यामात्रस्याथर्वणिकैकाधिकारित्वं। तस्माच्छाखांतराध्यायिनां अक्षरविद्या शाखांतराध्ययनेन मुण्डकाध्यायित्वचनेन च लब्धा फलं प्रयच्छतीति न कश्चिद्दोषः। न च ब्रह्मविद्याशब्दस्य मुण्डकोपनिषदि लज्ञणादोषः। तदुपक्रमे ‘द्वेविद्येवेदितव्ये’ इति हस्म यद्ब्रह्म विदावदंति पराचैवापराच। तत्रापरायदृग्वेदो यजुर्वेदस्सामवेदोथर्ववेदश्शिक्षाकल्पोव्याकरणं निरुक्तंछन्दोज्योतिषमितिहास पुराणन्यायमीमांसाधर्मशास्राणीत्यथ पराययातदक्षरमधिगम्यत’ इति विद्याशब्दस्य विद्यास्थानपरत्वस्यावगततयोपसंहारेपि तस्य तादर्थ्योपपत्ते:। न चैवं सति नैतदचीर्ण इत्यग्रिमवाक्यमपि तदध्ययनसंस्कार्योपनिषदं गत्वप्रतिपादकामितिपौनरुक्त्यम्। अग्रिमवाक्य मचीर्णव्रतस्याध्ययननिषेधपरं, पूर्ववाक्यं अचीर्णव्रतं प्रत्यध्यापननिषेधपरमिति शूद्रविषयाध्ययनाध्यापननिषेधवाक्ययोरिव विषयभेदसत्त्वात् तस्माद्विद्याभेदलिंगासिद्धेश्शाखाभेदेपि चोदनाद्यविशेषात् विद्यैक्यमितिस्थितम्। तदिदं विद्यैक्यं छांदोग्ये दहरविद्यायां विहितमपहतपाप्मत्वादिगुणाष्टकं सिद्धं कृत्वा तैत्तिरीयके केवलं तस्मिन्यदन्तस्तदुपासिदव्यमित्युपासनामात्रविधानलिंगमपि द्योतयति। अपेक्षितं हि तैत्तिरीयके छांदोग्योक्तपाप्मजरामरणाद्यभावसंकीर्तनं सहस्रशीर्षे देवमित्यादिना भगवतो विग्रहविधानेन पाप्मजरामरणादिप्रसक्तिसत्वात्। एवं सर्वेषु वेदांतेषु समाने सत्युपासने वेदांतराम्नात्तगुणानामुपसंहारः कार्यः स्ववेदोक्तगुणानामिव वेदांतरोक्तगुणानामपि तदुपकारकत्वाविशेषात्॥

संग्रहकगारिकाः॥

अभ्यासात्प्रकरणभेदतस्च विद्यभिद्यन्ते प्रतिनिगमांतमित्ययुक्तम्।

रूपाख्याफलविधि चोदनाविशेषादभ्यासादिक मवबोध्यभेदतस्स्यात्।

विद्यांगंयदिहि शिरोव्रतंमितं स्यात्तास्स्युस्तत्प्रतिनियत्तवतोविभिन्नाः। तद्वेदाध्ययनविधेः प्रसिद्धमङ्गं यद्वेदव्रतमिति तत्समामनंति ॥

तस्माच्छाखाभेदेऽप्यस्त्यन्योन्यं गुणोपसंहारः।

संज्ञाफलाद्यभेदे विद्यानामुपकृतेः सिध्यैः॥

इति सर्ववेदान्प्रत्ययाधिकरणम् ॥1॥

अन्यथात्वं शब्दादितिचेन्नाविशेषात् ॥6॥

न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥7॥

संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥8॥

व्याप्तेश्च सम्ञ्जसम् ॥9॥

चोदनाद्यविश्षाद्विद्यैक्ये सति गुणोपसंहार इति निरूपितम्। विद्यैक्यस्य क्वचिदपवादः क्रियत इति सङ्गतिः। अस्त्युद्गीथविद्या वाजिनां छन्दोगानां च। वाजिनां तावत् ‘द्वयाहप्राजापत्याः देवाश्चासुराश्चे’ त्यारम्य ‘तेह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामे’ ति तेषां प्रतिज्ञामभिधायोद्गीथेवागादिमनः पर्यन्तदृष्टावसुरैरभिभवमुक्त्वा ‘अथ हेममासन्यं प्राणमूचु’ रित्यादिना आस्यभवमुख्यप्राणद्दष्ट्या असुरपराभवमुक्त्वा ‘भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेदे’ ति शत्रुपराभवफलाय प्राणदृष्ट्योपासनं विहितम्। एवं छन्दोगानामपि ‘देवासुरा हवै यत्र संयेतिर’ इत्यारभ्य ‘तद्धदेवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम’ इति उद्गीथेनासुरपराभवप्रतिज्ञामुक्त्वा उद्गीथे वागादिदृष्टौ तद्वदेव तोषमभिधाय ‘अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिर’ इत्यादिनोद्गीथे प्राणदृष्ट्यैवासुरपराभवमुक्त्वा ‘य थाऽश्मानमाखणमृत्त्वा विध्वंसेतैवं हैवसपाप्मना विध्वंसते य एवंविदिपापं कर्म कामयत’ इति शत्रुपरा भवफलायोद्गीथे प्राणदृष्ट्योपासनं विहितं। आखन्यते अनेनेत्याखनः। करणार्थे घ प्रत्ययः। छान्दसं णत्वम्। आखणमित्येतदश्मविशेषणं। खनित्रादिवत् खननसाधनत्वेन दृढमश्मानं प्राप्येत्यर्थः। अर्थाल्लोष्टादिकमिति प्राप्तिकर्तृलाभः।’यथाऽश्मानमृत्वा लोष्टो विध्वंसेते’ति समानप्रकरणे श्रवणात्। इहाप्यग्रिमवाक्ये ‘एषोऽश्माखण’ इत्याखणशब्दस्याश्मविशेषणत्वाच्च। अत्र विद्यैक्यमुत विद्याभेद इति प्रत्यभिज्ञासद्भावासद्भावाभ्यां संशये पूर्वपक्षः। एकैवविद्याप्रत्यभिज्ञासद्भावात्देवासुरसंग्रामप्रवृत्तिः देवानामुद्गीथेनासुरेपराभवाभिप्रायः तत्पराभवार्थं देवानां वाग्घ्राणचक्षुश्श्रोत्रमनस्समाश्रयणं तेषामसुरैरभिभवे कृते मुख्यप्राणसमाश्रयणं तद्वीर्यादश्मलोष्टदर्शनेनासुरविध्वंसनमित्येतस्य सर्वस्य प्रत्यभिज्ञापकस्यसत्वात्। ननु वाजिनां ‘अथहेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तेभ्य एषप्राणउदगाय’ दित्यादिनोद्गानकर्तरि प्राणदृष्टिविधानं’ छंदोगानांतु ‘तमृद्गीथमुपासां चक्रिरे’ इत्यादिनोद्गीथे प्राणदृष्टिविधानमिति रूपभेदाद्विद्याभेदस्स्यादिति चेन्मैवम्। सारूप्यबाहुल्येनाल्पवैषम्यलक्षणस्यभेदकत्वाभावात्। देवासुरसंग्रामप्रवृत्तिः देवानामुद्गीथेनासुरपराभवाभिप्रायः असुरपराभवार्थं देवानां वाग्घ्राणचक्षुश्श्रोत्रमनस्समाश्रयणं वागादीनामसुरकृताभिभव: ततोमुख्यप्राणस्याश्रयणं तद्वीर्यादश्मलोष्टनिदंर्शनेनासुरविध्वंसनमित्येतत्सर्वमुभयत्रापि समानमिति। अतस्तदनुसारेण वाजसनेयिनामप्युद्गीथोपक्रमाविशेषात्  तदनुसारेण च वाजिनामुद्गानकर्मण्येन सौकर्यातिशयविवक्षया तत्कर्तृत्वव्यपदेशः। यथा स्वयमेवासिश्छिनत्तीति सौकर्यातिशयविवक्षया छिदिकरणे तत्कर्तृत्वव्यपदेश इति नेयं। तस्मादुभयत्रापि विद्यैक्यमिति। एवं प्राप्ते सिद्धान्तः। न विद्यैक्यं। एकत्रोद्गीथे प्राणदृष्टिरन्यत्रोद्गानकर्तरीति रूपभेदात् वेद्यतया प्रधानरूपभेदे अर्थवादसाम्यमात्रस्य विद्यैक्यहेतुत्वाभावात् वाजिनामुद्गीथोपक्रमस्य उद्गानकृतुर्द्गातकर्मकगानकर्तरि प्राणदृष्टिविधानेऽप्युपक्रान्तोद्गीथापरित्यागेनविरोधाभावात्। न ह्युपक्रमाधिकरणेऽप्युपक्रमानवगतउपसंहारावगतो विशेषस्त्याज्य इत्युक्तम्। किंतूपक्रमावगतस्यत्यागो न कार्य इति। ततश्च रूपभेदादुद्गीथे हिरण्मयपुरुषदृष्टिविधानतः परोवरीयस्त्वादिगुणकाकाशदृष्टिविधानवदुद्गीथेऽवयवे प्राणदृष्टिविधानात् उद्गातरि प्राणदृष्टिविधानं भिद्यत इति न विद्यैक्यं रूपभेदेसत्युद्गीथाविद्येति संज्ञैक्यस्यानुवादोदाहृतहिरण्मयपुरुषादिदृष्टिविधानयोरपि दर्शनेन तस्य विद्यैक्याप्रयोजकत्वात्। किं च छन्दोगानामिहोद्गीथशब्द उद्गीथावयवप्रणवपरः। ओंमित्येतदक्षरमुद्गीथमुपासीते’ त्युद्गीथावयवप्रणवोपक्रमस्य प्रथमप्रपाठकसमाप्तिपर्यन्तव्याप्तेः। वाजसनेयिनान्तु स कृत्स्नोद्गीथपरः। तत्र तदयवपरत्वकल्पकप्रमाणभावदित्यतोऽपि विद्याभेदादिति सिद्धम्॥

 संग्रहकारिकाः।

उद्गीथविद्योरैक्यं प्राणदृष्टिविशिष्टयोः।

चोदानाद्यविशेषात्स्यान्मैवं रूपविभेदतः॥

एकत्र रूपमुद्गानकर्ता समुपवर्णितः।

अन्यत्रोद्गीथ इत्येवं रूपभेदो हि द्दश्यते॥

एकत्रोपक्रान्तो यद्यपि फलवानुपास्य उद्गीथः।

न ततोपि स घटतेऽस्मिन्नुपसंहारश्रुताधिकावापः॥

अन्यत्रोद्गीथांशः प्रकृतः प्रागेव न समाप्तः।

तदुपरितनविद्यास्वपि तस्य व्याप्तेरुपास्यतया॥

इति अन्यथात्वाधिकरणम् ॥2॥

सर्वाभेदादन्यत्रेमे ॥10॥

पूर्वत्र दृष्टिविशेषतया प्राणः प्रस्तुतः। तत्प्रसङ्गात्तद्विषयस्वतंत्रोपासनविचारः क्रियत इति सङ्गतिः। ‘यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद ज्येष्ठश्च ह वै श्रेष्ठेश्च भवति प्राणोवाव ज्येष्ठश्च श्रेष्ठश्चे’ ति छन्दोगा वाजिनश्च ज्येष्ठत्वादिगुणकं प्राणमुपास्यमधीयते। ‘ज्येष्ठश्च श्रेष्ठश्च स्वानां भवती’ ति वाजसनेयिपाठ इति विशेषः। तथैव कौषीतकिनश्चाधीयते त्रिभिरपि वागादिकरणग्रामस्थितेस्तत्कार्यस्य प्राणहेतुकत्वेनैकेनैव रूपेण प्राणस्य श्रैठ्यमुपपादितम्। छन्दोगवाजसनेयिनां वाक्चक्षुश्श्रोत्रमनस्सु वसिष्ठत्वप्रतिष्ठात्वसम्पत्त्यायतनत्वाख्य- गुणान्प्रतिपाद्य तेषां प्राणे समर्पणमप्युक्तम्। ‘अथ हैनं वागुवाच यदहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति अथहैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति अथहैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीति अथहैनं मन उवाच यदहमायतनमस्ति त्वं तदायतनमसी’ ति। कौषीतकिनां तु वागादीनां वसिष्ठत्वादिकं तेषां प्राणे समर्पणंचेत्युभयमपि नोक्तम्। तत्र छन्दोगावाजसनेयिनां प्राणविद्यैक्ये नास्ति संदेहः। कौषीतकिनां प्राणविद्या ततो भिद्यते नवेति संशये पूर्वपक्षः। भिद्यत एव। प्राणस्य वसिष्ठत्वादिगुणकत्वाभावेन रूपभेदात्। नचान्यतस्तदुपसंहारः। स्वप्रकरणाम्नातगुणैर्नैराकाङ्क्ष्यात्। ननु प्रकरणाम्नातगुणैर्नैराकाङ्क्ष्ये शाखाद्वयोक्तगुणानामन्योन्यमुपसंहारः क्वचिदपि नस्यादिति चेत् सत्यम्। अस्तीह नैराकाङ्क्ष्यहेतुः प्रकरणाम्नातगुणविरोधस्तदुपपादनीयाभावश्चेति नैराकाङ्क्ष्यमुक्तवतां प्राचीनानामभिप्रायः। कौषीतकिनामुपनिषदि दशमाध्याये छान्दोग्यवाजसनेयकरीत्या प्रवृत्तानां प्राणविद्यायां वागादीनां वसिष्ठत्वादिगुणमात्रमोवोक्तं न तु तेषां प्राणे समर्पणमपि। अतस्तद्वत्त्वेन वागाद्यनुसन्धानमेव ततो लभ्यते। न तु प्राणस्य वागादिसमर्पितवसिष्ठत्वादि- मत्तयानुसन्धानम्। छान्दोग्यवाजसनेयकतस्तदुपसंहारे यथा श्रुतवागादिषु तदनुसन्धानमपहाय प्राणे तदनुसन्धानं कार्यं स्यादिति यथाश्रुतिलभ्यं विरुध्येतेति। तस्मात्प्राणगतवसिष्ठत्वादिरूपसत्त्वाभ्यां छान्दोग्यवाजसनेयकाम्नातप्राणविद्यातः कौषीतकीशाखाम्नाता साभिद्यत इति। एवं प्राप्ते ब्रूमः। न साभिद्यते। तस्यामपि वसिष्ठत्वादिगुणानामुपास्यत्वात्। तत्र प्रतिज्ञातप्राणश्रेष्ठ्योपपादनप्रकारस्य सर्वस्याप्यभेदात्। तथा हि छान्दोग्ये प्राणविद्यायां ‘अहं श्रेयसे व्यूदिर’ इत्युपक्रम्य वाजसनेयके- ‘एताहवैदेवता अहं श्रेयसे विवदमाना’ इत्युपक्रम्य उभयत्रापि वागाद्येकैकात्क्रमणे अन्येषां प्राणानाम शरीरस्य स्थितिं तत्तत्कार्यंचाविकलं प्रतिपाद्य मुख्यप्राणोत्क्रमणे सर्वेषां विशरणकार्यकस्त्वं चाभिधाय सर्वेषां मुख्यप्राणाधीनस्थितित्वतदधीनकार्यत्वाभ्यां तस्य श्रेष्ट्यमुपपादितम्। एव मुपपादितं वागादिकार्यस्य प्राणाधीनत्वम् ‘अथैहनंवागुवाच यदहं वसिष्टास्मित्वं तद्वसिष्ठोसी’ त्यादिना वागादिभिरनूद्यते। कौषीतकिशाखायामपि प्राणश्रैष्ट्यप्रतिपादनाय वागादिषु वसिष्ठत्वादिय उक्ताः। वागादिभिः प्राणवागादयश्च देहश्च प्राणधीना इति प्राणस्य श्रैष्ट्यमप्युपपादितं। वागादिभिः स्वस्वगुणानां प्राणे समर्पणोक्तिभंग्या तेषां प्राणाधीनत्वानुवादमात्रं न कृतं। नैतावतारूपभेदः। वागादीनां स्वस्वगुणान्वितानां प्राणधीनकार्यत्वोक्त्यैव प्राणस्य वागादिगुणहेतुत्वसिद्धेः। तदेव प्राणस्य वसिष्ठत्वादिमत्वं यत्प्राणादिगतवसिष्ठत्वादिहेतुत्वं। वाचि वसिष्टत्वं हि वागधीनसव्द्यवहारजननेन वसुमत्त्वसम्पादकत्वम्। चक्षुषः प्रतिष्ठात्वञ्च चक्षुष्मतस्समविषमभूतलादिप्रदर्शनेन प्रतिष्ठासम्पादकत्वम्। श्रोत्रस्यसम्पत्त्वं वेदशास्रतदर्थश्रवणादि सम्पादनेन सम्पत्करत्वम्। मनस आयतनत्वं सन्निहतस्रक्चन्दनादिविषयज्ञानरूपभोगायतनत्वम्। छान्दोग्यवाजसनेयकगतवसिष्ठत्वादिवेदनफलकीर्तनेन तथैव विवरणात्। सर्वमिदं वागादिकार्यं प्रामधीनमिति स्फुटमेव अतः। कौषीतकीशाखायामपि वसिष्ठत्वादिगुणकप्राणः प्रतिपन्न इति नास्ति विद्याभेदः॥

संग्रहकारिका

ज्यैठ्यश्रैठ्यादिसाम्येपि वासिठ्याद्यधिकं क्वचित्।

तेन रूपविभेदेन प्राणविद्या विभिद्यते ॥

मैवं वागादिषुहितत्प्राणाधीनं निरूपितम्।

तेनार्थसिद्धं प्राणेतदिति नैषा विभिद्यते ॥

इति सर्वाभेदाधिकरणम् 3

________________________________________________

आनन्दादयः प्रधानस्य 11

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौहिभेदे 12

इतरेत्वर्थसामान्यात् 13

आध्यानाय प्रयोजनाभावात् 4

आत्मशब्दाच्च 15

आत्मगृहीतिरितरवदुत्तरात् 16

अन्वयादितिचेत्स्यादवधारणात् 17

यथा प्राणस्य वसिष्ठत्वाद्यनुसन्धानेन विना ज्यैष्ठ्यश्रैष्ठ्यानुसन्धानानुपपत्तेरनुक्तानामपि वसिष्ठत्वादीनां कौषीतकिप्राणविद्यायां प्राप्तिस्तथा ब्रह्मस्वरूपानुसन्धानं यैर्गुणैर्विना न सिध्यति ते ब्रह्मविद्यासु सर्वास्वनुसन्धेया इत्यर्थः प्रतिपाद्यते। किमानन्दादयो गुणा यासु विद्यासु श्रूयन्ते तास्वेव प्रियशिरस्त्वैश्वर्यादिवव्द्यवतिष्ठन्ते उत सर्वासु विद्यासु उपसंहर्तव्या इति संशये पूर्वःपक्षः। व्यवतिष्ठन्त एव। उपसंहारे प्रमाणाभावात्। ब्रह्मगुणत्वेनोपसंहारे प्रियशिरस्त्वादीनामैश्वर्यौदार्यकारुण्यादिगुणानां चोपसंहार्यत्वप्रसङ्गादिति। सिद्धान्तस्तु। आनन्दादयस्सर्वासु विद्यासूपसंहर्तव्याः सत्यत्वज्ञानत्वानन्दत्वामलत्वानन्तत्वानां ‘सत्यंज्ञानमनन्तं ब्रह्मे’ त्यादि ब्रह्मस्वरूपधर्मत्वेन  प्रतिपादितानां तत्प्रतीत्यनुबन्धित्वात्। नचैषां सर्वविद्यासु प्राप्तावुच्यमानायां प्रियशिरस्त्वादिनां प्राप्तिर्भवति। तेषां ब्रह्मगुणत्वाभावात्। अन्यथा ब्रह्मण आनन्दादिरूपत्ववत् प्रियादिरूपत्वस्यांगीकारे कालभेदेन वृद्धिह्रासभाजां प्रियादीनामनित्यत्वेन तस्याप्यनित्यत्वप्रसङ्गात्। ऐश्वर्यौदार्यादयो यद्यपि ब्रह्मगुणाः तदपृथक्सिद्धा भवंति तथाऽपि ते प्रतीत्यनुबंधित्वाभावाद्ये यत्र श्रुतास्ते तत्रैव व्यवतिष्ठन्ते। प्रियादीनां ब्रह्मगुणत्वाभावेऽपि निरतिशयानन्दरूपतया ब्रह्मस्वरूपस्योपासनोपयोगिबुध्यारोहार्थमानन्दमयसब्देन निरतिशयानन्दरूपतया प्रतिपन्नस्य तस्य लोकप्रसिद्धाः प्रियाद्यानन्दास्तदेकदेशत्वज्ञापनाय शिरस्त्वादिनां रूपिताः। आनन्दमयश्च परमेव ब्रह्म नत्वन्नमयादिवदब्रह्मेत्येवमादिकं सर्वमानन्दमयाधिकरण एव प्रपञ्चितमिह सूत्र भाष्यादिषु स्मारितम्॥

संग्रहकारिका ॥

आनन्दाद्या न तत्तत्प्रकरण पठितास्सर्वविद्यासु चिंत्या-

श्चिंत्याश्चेत्सर्व एव प्रकरणविमुखाः किं न पारिप्लवास्स्युः।

मैवं ब्रह्मप्रतीतावुपकरणतया तत्र ये सानुबन्धा-

स्तेषामेषा गुणानामनुगतिरितरे नातियंति व्यवस्थाम् ॥

इति आनंदाधिकरणम् ॥4॥

_____________________________________________________

कार्याख्यानादपूर्वम् ॥18॥

द्दष्टन्तसङ्गत्या प्राप्तमानन्दादिगुणोपसंहारं विचिंत्य पूर्वप्रस्तुतप्राणविद्याशेषश्चिंत्यत इति सङ्गतिः। छान्दोग्ये प्राणविद्यायां ‘त्वं नः श्रेष्ठोऽसी’ ति वागादिभिः प्राणस्य श्रैस्ठ्ये निर्धारिते ‘किं मेऽन्नं भविशष्यती’ ति वागादीन् पृष्टवते प्राणाय ‘यदिदं किं चिदाश्वभ्य आशकुनिभ्य’ इति श्वादिपर्यंत प्राणिजातमन्नमुक्तम्। तत्र तावत् दृष्टिविधिरसन्दिग्धः। सर्वप्राण्यदनस्याशक्यत्वात्। ‘नहवा एवं विदि किञ्चनानन्नं भवति न हवा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदन्नस्यान्नं वेदे’ ति फलार्थवादश्रवणाच्च। तदनंतरं ‘किंमेवास’ इति प्रश्नांतरस्योत्तरे अपांप्राणवासस्त्वमुक्त्वाऽऽम्नातं ‘तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भि: परिदधती’ ति वाजसनेयिषु। काण्वा अप्येतावदेवामनंति । माध्यन्तिनास्तु अपां प्राणवासस्त्वमुक्त्वा ‘तस्मादेवविदशिप्यन्नाचामे तशित्वाचाचामेदेतदेवतदशनमनग्नं कुरुत’ इत्याधिकमामनंति। किमत्राचमनं विधेयं उताचमनीयास्वप्सुप्राणत्वाचिन्तनमिति। आचमेनविधिश्रवणात् प्राणवासस्त्वेउपक्रमादिसद्भावाच्च संशये पूर्व: पक्ष:। विधिश्रुत्योपक्रमादिसमभिव्याहाररूपवाक्यप्रमाणात् बलीयस्याऽऽचमनमेव विधीयते। न च तस्य स्मृत्याचारप्राप्तत्वाद्विध्यसम्भवः, प्रणयनाधिकरणन्यायेनाचमनांतरविधिसंभवात्। चातुर्मास्येषु ‘द्वयो- प्रणयन्ती’ ति द्वयोर्वरुणप्रधाससाकमेधपर्वणोरग्निप्रणयनविधानस्य प्रकृतिप्राप्ताग्निप्रणयनव्यतिरेकेण प्रणयनांतरविषयत्वस्य विधिसार्थकत्वाय कौमारिलैरभ्युपगतत्वात्। अनग्नतादिसङ्कीर्तनं त्वाचमनस्यैवाचमनीयानामपां स्तुतिद्वारा स्तुत्यर्थम्। यथा पूर्ववाक्ये ‘नहवा अस्यानन्नं जग्धं भवती’ त्यादिकं प्राणस्य सर्वान्नत्वदृष्टिविधेः स्तुत्यर्थमिति। एवं प्राप्ते सिद्धान्तः। आचमनीयानामपां प्राणवास्त्वानुसंधान मेवेहविधीयते। विधेरप्राप्तपक्षपातित्वात्। छांदोग्ये ‘लंभुकोहवासो भवत्यनग्नोभवती’ ति, यद्यप्येतत् श्रुष्कायस्थाणवे ब्रूयाज्जायेरन्नेवास्मिन् शाखाः प्ररोहेयुः पलाशानी’ तिच तद्वेदनफलार्थवादश्रवणाच्च। विधिस्तुत्योस्समानविषयत्वनियमेव यत्र स्तुतिस्तत्र विध्यवश्यं भावात्। सर्वान्नत्वदृष्टिविधिसाहचर्याच्च ‘किंमेवासः आपोवासः’  इत्युपक्रमोपसंहाराभ्यामप्सु प्राणवास्त्वदृष्टिविधिपरत्वप्रतीतेश्च। तस्मादामनेच श्रुतस्यविधेः दध्नाजुहोतीति विधेरिव विशेषणसङ्क्रामो युक्त इति नास्त्याचमनेविधिः। अत एव छंदोगानां काण्वानांच न तथा भूतविधिश्रवणमस्तिं॥

संग्रहकारिका॥

उचितं प्राणविद्याङ्गे विधिराचमनांतरे।

अनग्नताकीर्तनंतु स्तुतिस्तस्येतियुज्यते॥

अपूर्वत्वादुपक्रांतिसमाप्त्योरपि कीर्तनात्।

शाखाद्वयानुयायित्वाद्युक्तो वासस्त्वधीविधिः॥

इति कार्याख्यानाधिकरणम् ॥5॥

___________________________________________

समानएवंचाऽभेदात् ॥19॥

पूर्वाधिकरणे प्राणविद्याशेषत्वेन प्रसक्तं चिंतितम्। तत्पूर्वाधिकरणे स्वरूपप्रतीत्यन्तर्भूतगुणानामुपहसंहार्यत्वमुक्तम्। तथैव सत्यसङ्कल्पत्वान्तर्भूतवशित्वादिगुणानामप्युपसंहार्यकत्वमुच्यत इति सङ्गतिः। वाजिनामग्निरहस्येशाण्डिल्यविद्याम्नाता ‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपंसत्यसङ्कल्पमाकाशात्मानं कामरूपिणं मनोजवसं सत्यसङ्कल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वादिशोऽनुप्रभूतं सर्वमिदमभ्यात्तमवाक्यनादरं यथा व्रीहिर्वायवोवे’ त्यादिना। तदनन्तरं बृहदारण्यके पुनरपि साऽऽम्नाता ‘मनोमयोऽयं पुरुषो भास्सत्यस्तस्मिन्नन्तहृदये यथा व्रीहिर्वा यवोवा स एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति यदिदं किंचे’ ति। किमनयोर्विद्या भिद्यते नवेति रूपभेदसत्त्वासत्त्वाभ्यां संशये बृहदारण्यकाम्नातवशित्वादिगुणात्मकरूपभेदाद्विद्याभेद इति पूर्वः पक्षः। ननु वशित्वादीनामग्निरहस्येऽप्युपसंहारसम्भवात् कथं रूपभेद उच्यते। एकस्यां शाखायामेकस्याविद्याया उभयत्र विधेः शाखाद्वयाम्नातैकविद्याविधिवत्तत्तच्छाखाध्यायिरूपप्रतिपत्तृभेदेन साफल्याभावदभ्यासाधिकरणन्यायमूलानर्थक्यप्रसक्तिसत्त्वेनाविशेषपुनश्श्रवणाभावेऽप्यभ्यसाधिकरणन्यायसाम्यात् तत्र विद्याभेदोऽवश्याभ्युपगन्तव्य इत्यमुमर्थं सिद्धं कृत्वा तदुपजीवनेनाग्निरहस्यानाम्नातवशित्वादिगुणाम्नातमुपन्यस्तमतोऽत्र विद्याभेद इति। सिद्धान्तस्तु। विधिद्वयश्रवणं तावदसिद्धम्। यत्र भूयांसो गुणास्तत्राग्निरहस्ये विद्याविधि: अन्यत्र गुणविधिरत्युपपत्तेः। एकत्र गुणभूयस्त्वस्य विनिगमकस्य सत्त्वात्। लोकेऽपि यत्र रथगजतुरगादिबाहुल्यं तत्र राजाऽन्यत्रामात्यादिस्तद्गुण इत्यवधार्यते। अयं न्याय: पूर्वतन्त्रेऽपि ‘भूयस्त्वेनोभयश्रुती’त्यधिकरणे समाश्रित:। तथाग्निरहस्ये वशित्वाद्यनधिगतिरप्यसिद्धा। ‘सत्यसङ्कल्प’ मित्यनेन तेषामपि संग्रहात्। मनोमयत्वादिसाम्येन गुणिप्रत्यभिज्ञया सत्यसंकल्पत्वं शाखान्तराम्नातानि स्वकार्याणि वशित्वादीन्यप्यवगमयति। अयं न्यायोऽग्निरहस्याम्नातकामरूपित्वादिना बृहदारण्यक उपसंहारेऽपि द्रष्टव्यः। तत्र भूतवशित्वादिना तत्कार्यकामरूपित्वाद्यवगमनोपपत्तेः। तस्मादभ्यासन्यायस्य रूपभेदस्य च भावान्नविद्याभेद इति। यद्यपि मनोमयत्वादिबहुगुणसाम्येन विद्यैक्यसिद्धा- वन्योन्यगुणोपसंहारस्सर्ववेदान्तप्रत्ययाधिकरणन्यायत एव सिध्यति तथाऽप्याम्नातगुणैस्स्वकार्यतयाऽन्यत्राम्नातगुणानां स्माररणमिति कश्चित्तदुपसंहारोपाय इति न्यायान्तरप्रदर्शनमत्र कृतम्। यद्यपि छान्दोग्येऽपि शाण्डिल्यविद्याम्नाता, तथाऽप्येकशाखागतयोरेव वाक्ययोर्भाष्यादिषूदाहरणमभ्यासन्यायमूलोऽत्र पूर्वपक्ष इति विभावयितुं। तेनैव विभावितत्वात् तस्य न्यायस्येह कण्ठतोऽनुपन्यासः॥

संग्रहकारिका ॥

स्थानद्वंद्वे वाजिनां रूपभेदादन्यान्येवाभाति शाण्डिल्यविद्या।

एकत्रासौ सत्यसङ्कल्पयुक्ताह्यन्तत्रोक्तैषा वशित्वाद्युपेता॥

अन्तर्भूतं सत्यसङ्कल्पतायामन्यत्रोक्तं यद्वशित्वाद्यशेषम्।

तत्तत्क्षिप्तव्यस्तरूपे किमस्मिन्युक्तिद्वैधे रूपभेदस्य चोद्यम्॥

इति समानाधिकरणम् 6

_________________________________________________

सम्बन्धादेवमन्यत्रापि 20

नवाविशेषात् 21

दर्शयति च 22

यथा मनोमयत्वादिगुणकस्यैवोपास्यत्वाद्विद्यैक्यम्। एवमक्ष्यादित्यस्थस्य व्याहृतिशरीरकस्यैवोपास्यत्वाद्विद्यैक्यमिति शङ्क्या सङ्गतिः। बृहदारण्यके ‘सत्यं ब्रह्मे’ त्युपक्रम्य ‘तद्यत्सत्यमसौ स आदित्यो य एतस्मिन्मण्डले पुरुषो यश्चायंदक्षिणेऽक्ष’ न्नित्यक्ष्यादित्ययोरुपास्यं पुरुषमुपदिश्य तस्य भूर्भुवस्सुवरिति व्याहृतित्रयं शिरोबाहुद्वयपादद्वयरूपं शरीरमिति व्याहृतिशरीरत्वमक्ष्यादित्यस्थानयोः प्रत्येकमुपदिश्य द्वे रहस्यनामनी व्यवस्थिते ‘तस्योपनिषदह’ रित्यादित्यस्थस्याम्नातं ‘तस्योपनिषदह’ मित्यक्षिस्थस्य। ते एते नामनी किं यथाश्रुतस्थानविशेषनियतत्वेन व्यवस्थिते उतोभयत्रोभे अनियमेनानुसन्धेये इति विद्यैक्यतद्भेदाभ्यां संशये पूर्वपक्षः। विद्या तावदेका। उभयत्र व्याहृतिशरीरस्य सत्यस्य ब्रह्मण उपास्यस्य स्वरूपस्याभेदात् नामि च सत्यं ब्रह्मैकमेव। अतो विद्याया नामिनश्रैक्यादनियमेनानुसन्धेये नामनी इति प्राप्ते सिद्धान्त:। नास्ति विद्यैक्यम्। उपास्यरूपभेदात्। यद्यप्युपास्यं सत्यं ब्रह्मैकं, तथाऽपि तदेकत्रादित्यमण्डलस्थतयोपास्यमन्यत्राक्ष्याधारतयेत्यास्तिस्थानसम्बन्धित्व रूप विशेषणभेदाद्रूपभेदः अतस्तद्भेदाद्विद्याभेदः। शाण्डिल्यविद्यायां तु उपास्यं हृदयस्थानमेकमेवेति वैषम्यम्। अतो विद्याभेदान्नामिभेदाच्च व्यवस्थिते नामनी। दर्शयतिचान्यत्र स्थानभेदेन विद्याभेदं विद्याभेदाद्गुणानुपसंहारंच श्रुतिः ‘यथा तस्यैतस्य तदेव रूपं यदमुष्यरूप’ मिति। अत्रह्यादित्यपुरुषस्यैकस्यैवोपास्यत्वेऽप्यक्ष्यादित्यस्थानभेदेन विद्याभेदादनुपसंहारप्राप्तावयमतिदेशः॥

 संग्रहकारिके॥

सत्यं व्याहृतिदेहं ब्रह्मोपास्यं विकर्तनेक्षिणि च।

तदभेदात्तन्नाम्नोरहरहमोर्न व्यवस्थितिर्युक्ता॥

स्थानाभेदस्तत्तथा रूपसिध्द्यै तद्भेदेस्यान्नो कथं रूपभेद:।

तस्माद्विद्याभेदतस्तव्द्यवस्थानोचेन्नस्यात्स्थानभेदेऽतिदेशः॥

इति सम्बन्धाधिकरणम् ॥7॥

_________________________________________________

सम्भृतिद्युव्याप्त्यपिचातः ॥23॥

पूर्वाधिकरणे नाम्नोस्स्थानभेदाव्द्यवस्था कृता। तथाऽनारभ्याधीतस्य संभृत्यादिकस्यापि स्थानभेदाव्द्यवस्थोच्यत इति सङ्गतिः। अनारभ्य श्रूयते ‘ब्रह्मज्येष्ठा वीर्यासंभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान। ब्रह्म भूतानां प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं क’ इति राणवनीयानां खिलेष्वयं पाठः। तैत्तिरीयाणां तु ‘ऋतस्य ब्रह्म प्रथमोत जज्ञ’ इति तृतीयपादपाठः। तत्र ब्रह्मणा ज्येष्ठानि प्राचीनानि बीर्याणि देवासुरसङ्ग्रामादिषु पराक्रमरूपाणि संभृतानीति ‘या संभृतिरुक्ता या च द्वितीयपादेन द्युव्याप्तिरुक्ता तदिदं संभृतिद्युव्याप्ति ब्रह्मद्वारा विद्यान्वयि। यथा जुहूद्वारा पर्णता ऋत्वन्यिनी। अव्यभिचरितविद्यासम्बन्धित्वात् ब्रह्मणः। न च जुहूवत् प्रकृतौ वा अद्विरुक्तात्वादिति न्यायेनानारभ्यश्रुतत्वेऽपि प्रकृतिगामित्वं वक्तुं शक्यम्। विद्यासु प्रकृतिविकृतिभावाभावादिति स्थिते किं सर्वार्थः प्रकरणादिति तदधिकरणपूर्वपक्षन्यायेन सर्वासु परविद्यास्वन्वयः उत कासुचिदेवेति सर्वविद्यान्वयसम्भवासम्भवाभ्यां संशये सर्वासु परविद्यास्वन्वयः। कासुचिदनन्वये हेत्वभावात्। न च हृदयाद्यल्पायतनास्वपि विद्यासु द्युव्याप्त्यन्वयो न संभवतीति वाच्यम्। दहरशाण्डिल्यादिविद्यास्वपि ‘यावान्वा अयमाकाषशः ज्यायान्दिव’ इत्यादि श्रवणेन तद्वद्द्युव्याप्तेरप्युपसंहारसम्भवादिति। सिद्धान्तस्तु। वस्तुसामर्थ्यरूपाद्विशेषादल्पस्थानव्यतिरिक्तास्वेव वैश्वानरादिविद्यासु द्युव्याप्तिरुपसंहार्या। तत्साहचर्यात् सम्भृत्यादिकमपि तत्रैवोपसंहार्यम्। ‘यावान्वा’ इत्यादिकं तु उपास्यमहिमख्यापनार्थं नोपास्यगुणसमर्पणार्थमिति न विरोधः। नन्वेवं सति ‘आनन्दादयः प्रधानस्ये’ त्यधिकरणोक्त सत्यज्ञानादिवदान्त्यस्य सर्वासु विद्यासूपसंहारः कथं घटते। देशकालवस्तु परिच्छेदराहित्यमानन्त्यं। तत्र देशपरिच्छेदराहित्यं व्यापकत्वम्। कालपरिच्छेदराहित्यं नित्यत्वम्। वस्तुपरच्छेदराहित्यं स्वपृथक्सिद्धवस्त्वन्तरराहित्यरूपमद्वितीयत्वं स्वरूपतो गुणतो विभूतितश्चेयत्तापरिच्छेदराहित्यं वेति हि सिद्धान्तमर्यादा। यद्युच्येत विचित्रशक्तिमतः सर्वेश्वरस्य व्यापकत्वेऽप्यल्पायतनत्वं घटते। ‘इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्। मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि॥ तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा। अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदे’ त्यादि गीतावचनदर्शनात्। भगवतः कृष्णस्य बन्धने सर्वेषामपि दाम्नामपर्याप्तेस्तदानीमेवैकेन दाम्ना बद्धत्वस्य च पुराणेषु प्रतिपादनाच्च। तस्मादानन्त्येऽप्यल्पायतनत्वं घटत इति। एवं तर्हि द्युव्याप्तिरपि तथैव घटत इति सर्वासु विद्यास्वानन्दवत् द्युव्याप्तेरप्युपसंहारो युजु्तएव कोऽन्वत्र दोष इति चेत्। अत्रेदं समाधानम्। न्यायनिष्ठे शास्रे केवलपुराणेतिहासावलम्बनः परिहारो न हृदयङ्गम इति न्यायमनुसृत्य द्युव्याप्त्यादीनामल्पस्थानास्वनुपसंहार उक्तः। एवं च न्यायतौल्यादानन्त्यस्यापि तासु नोपसंहारः। ‘आनन्दादयः प्रधानस्ये’ त्यधिकरणे आनन्दत्वादीनां सर्वासु विद्यासूपसंहार उक्तः। तत्र चतुर्णां विशेषेण सर्वासुपसंहार:। आनन्त्यस्याल्पस्थानतिरिक्तास्विति विभागो विवक्षितोऽनुसन्धेयः। एवं विवक्षैतदधिकरणपर्यालोचनयावगन्तुं शक्येति तत्र नोद्धाटिता॥

 संग्रहकारिके॥

सम्भृत्यादिगुणौघ: प्रकरणपाठस्य वैधुर्यात्।

अविशेषात्सर्वास्वपि परविद्यासूपसंहार्यः॥

द्युव्याप्ते न घटत इति स्वल्पस्थानासु विद्यासु।

तत्सहपठनात्सम्भृत्याद्या अपि तासु नोपसंहार्याः॥

इति सम्भृत्यधिकरणम् ॥8॥

पुरुषविद्यायामपिचेतरेषामनाम्नानात् ॥24॥

द्युव्याप्तिसन्निधिसमाम्नातस्य सम्भृत्यादे: तत्समानस्थानानुप्रवेशादेकविद्यान्वय उक्तः। एवं ब्रह्मविद्यासन्निधिसमाम्नातपुरुषविद्यायास्तच्छेषत्वमिति सङ्गतिः। तैत्तिरीये ‘तस्यैवं विदुषो यज्ञस्यात्मा यजमानश्श्रद्धापत्नीशरीरमिध्ममुरोविदेर्लोमानि बर्हिर्वेदश्शिखाहृदयं यूप: काम आज्यं मन्यु: पशुस्तपोऽग्निश्शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनोब्रह्माश्रोत्रमग्नी द्यावद्ध्रियते सा दीक्षा यदश्र्नाति यत्पिबति तदस्य सोमपानं यद्रमते दतुपसदो यत्स़ञ्चरत्युपविशत्युत्तिष्ठते च सप्रवर्ग्यो यन्मुखं तदाहवनीयोयदस्य विज्ञानं तज्जुहोति यत्सायं प्रातरत्ति तत्समिधः यत्सायंप्रातर्मध्यंदिनञ्च तानि सवनानि ये अहोरात्रेते दर्शपूर्णमासौ ये अर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणास्सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथ’ इति। शमयित अन्नसंस्कर्ता। छान्दोग्येऽपि पुरुषविद्याऽऽम्नाता। ‘पुरुषोवाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातस्सवनं चतुश्चत्वारिंशद्वर्षाणि माध्यंदिनं सवनमष्टाचत्वारिंशद्वर्षाणि तृतीयसवनं यदशिशिषति यत्पिपासति यन्नरमते सा तस्य दीक्षायद्धसति जक्षति मिथुनीभवति तानिस्तुतशस्राणि यत्तपोदानमार्जवमहिंसा सत्यवचनं ता दक्षिणा यन्मरणं तदवभृथ’ इति। अनयोः पुरुषविद्ययोरैक्यं भेदोवेति तैत्तिरीयाम्नातपुरुषविद्यायाः प्रकृतब्रह्मविद्याङ्गत्वाभावतद्भावाभ्यां संशयः। तस्याः प्रकृतब्रह्मविद्याङ्गत्वाभावे ब्रह्मप्राप्तिफलकत्वाभावात् पुरुषविद्यासंज्ञकछान्दो- ग्यसमाम्नातविद्योक्तायुः प्राप्तिरेव फलमिति फलाभेदात् रूपाभेदाच्च विद्यैक्यं स्यात्। तस्याः प्रकृतब्रह्मविद्याङ्गत्वे तत्फलेन ब्रह्मप्राप्तिरूपेण फलवत्तया फलभेदाद्रूपभेदाच्च विद्याभेद इति फलफलिभावः। तत्र पूर्वः पक्षः। पुरुषविद्यानामैक्यात् पुरुषावयवेषु यज्ञावयवकल्पनासाम्येन रूपैक्यात् तैत्तिरीयके फलाश्रवणेन ‘प्रह षोडशं वर्षशतं जीवती’ ति छान्दोग्यपुरुषविद्याम्नातषोडशाधिकवर्षशतरूपपूर्णायुः प्राप्तेरेव तत्रापि फलत्वेन ग्राह्यतया फलसंयोगस्याप्यविशेषात् मरणावभृथत्वसाम्याच्च विद्यैक्यमिति। ननूभयत्रापि सवनत्रयकल्पनादि साम्येऽप्येकत्र प्रातर्मध्याह्नसायाह्नेषु तत्कल्पना अन्यत्र त्रेधा विभक्तायुरंशोष्वित्यवान्तरभेदसत्तवाद्यथाकथञ्चित् सवनत्रयकल्पनादिमात्रान्नारूपैक्यम्। फलैक्यमप्यसिद्धम्। तैत्तिरीयके पूर्वानुवाकान्ते ब्रह्मविद्याफलत्वेन श्रुतायाः ब्रह्ममहिमावाप्तेः ‘तस्यैवंविदुष’ इत्याद्यनुवाकान्ते पुरुषविद्याफलत्वेनापि श्रुतत्वात्  पुरुषविद्यानामैक्यन्तूद्गीथ- विद्यानामैक्यवत् न विद्यैक्यप्रयोजकम्। मरणावभृथत्वसाम्यमात्रमवशिष्यते। बहुवैषम्येसति तदप्रयोजकम्। एकत्रोद्गीथे प्राणदृष्टिरन्यत्रोद्गानकर्तरिति प्रधानरूपवैषम्येसत्यर्थवादसाम्यमिव। तस्मात्सर्वमिदमयुक्तमिति चेत्। उच्यते। ब्रह्मविद्यैकफलभूता ब्रह्मवाप्तिः पुरुषविद्याफलत्वार्हा। अतस्तदुपसंहारे श्रुतापि सा पूर्वप्रस्तुतब्रह्मविद्यान्वयिन्येव। न च पुरुषविद्यायास्तदङ्गत्वात्। तत्फलेन फलवत्तास्यादिति वाच्यम् । तस्यास्तदङ्गत्वे प्रमाणाभावात्। न च फलवदफलान्यायेन तदङ्गता शाखान्तराम्नातपुरूषविद्यातः फलप्रप्तिसम्भवेनाफलत्वाभावत् तद्वत् स्वातंत्र्योपपत्तावङ्गत्वकल्पनायोगाच्च। एवं तैत्तिरीयके छान्दोग्याम्नातफलापेक्षावश्यंभावेन तत एव विद्यैक्ये सिध्यति यथाकथं चित् पुरूषावयवेषु यज्ञावयवकल्पनास्तीति रूपैक्यं नामैक्यं मरणावभृथत्वसाम्यञ्च तदुपष्टंभकं भविश्यतीत्येतैर्हेतुभिः पुरूषविद्ययोरैक्यमिति। न च तथाऽपि छान्दोग्ये पुरुषस्यैव यज्ञत्वेन प्रक्रम:, तैत्तिरीयके ‘तस्यैवंविदुषो यज्ञस्ये’ ति विद्वच्छब्दोक्तपुरुषसम्वन्धित्वेन षष्ठ्योः सामानाधिकरण्यात्  ‘पुरुषोवाव यज्ञ’ इति शाखान्तरानुसारात् सामानाधिकरण्यसम्भवे वैयधिकरण्यकल्पनायोगात्।नचैवंसति ‘यज्ञस्यात्मा यजमान’ इति पृथङ्निर्देशानुपपत्तिः। यज्ञस्य स्वरूपमिति तदर्थोपपत्तेः। अतो युक्तोऽयं पूर्वपक्षः। एवं प्राप्ते सिद्धान्तः। उभयत्राम्नातयोः पुरुषविद्ययोः भेदोऽस्त्येव। एकस्यां शाखायामाम्नातानां गुणानामन्यत्राम्नानात् तद्विरुद्धानामेव गुणानामाम्नानात्। एकत्रायुः प्राप्तिः फलमन्यत्र ब्रह्मप्राप्तिरिति फलभेदाच्च। तैत्तिरीयके हि पूर्वानुवाके ‘ब्रह्मणेत्वामहस ओमित्यात्मानं युञ्जीते’ ति ब्रह्मविद्यामुपदिश्य ‘ब्रह्मणो महिमानमाप्नोती’ ति तत्फलमुक्त्वा ‘तस्यैवं विदुष’ इत्यनुवाकान्ते पुरुषविद्याफलत्वेनापि तत्कीर्तितम्। न च तस्य तत्फलत्वासम्भव:। साक्षादसम्भम्वेऽपि प्रधानफलस्याङ्गे कीर्तनोपपत्ते:। ‘सोमापौष्णं त्रैतमालभेद पशुकाम’ इति श्रुतस्य प्रधानफलस्य ‘औदुंबरो यूपोभवत्यूर्ग्वा उदुंबरऊर्क्पशव ऊर्जैवास्मा Page 281 ऊर्जं पशूनाप्नोती’ ति तदङ्गयूपोदुंबरतायामपि कीर्तनदर्शनात्। न च तैत्तिरीयके पुरुषविद्याया ब्रह्मविद्यांगत्वासिद्धिः। ब्रह्मविद्याफलस्य तत्सन्निधिपठितायां पुरुषविद्यायां कीर्तनेन ‘तस्यैवंविदुष’ इति सर्वनाम्ना प्रस्तुतब्रह्मविद्यावतः पुरुषविद्याविधानेन च तस्यास्तदंगत्वावगमात्। एवं प्रक्रमभेदादपि पुरुषविद्ययोर्भेदः। ‘विदुषो यज्ञस्ये’ ति षष्ठ्योः ‘आत्मा यजमान’ इत्याग्रिमवाक्ये विद्वदात्मनश्चेतनस्य यजमानतया पृथङ्निर्देशेन वैयधिकरण्यावगमात् आत्मशब्दस्य स्वरूपपरत्वे प्रसिद्धार्थत्यागात् पूर्ववाक्यसिद्धार्थानुवादवैफल्याच्च आत्मोद्देशेन यजमानत्वविधानप्रतीतेश्च। तस्मात्पुरुषविद्ययोर्नैक्यम्। एवं सति सवनत्रयकल्पनादिषु परस्परविरुद्धेष्वनुष्ठानविकल्पशङ्काऽपि न भविष्यति। एकत्वात् संज्ञायाः यज्ञावयवप्रकल्पनासत्त्वात्फलभेदानाम्नानाच्चैकत्वं पुरुषविद्ययोर्युक्तम्॥

 संग्रहकारिका॥

संज्ञैकत्वे सत्यपि यज्ञावयवप्रकल्पवैरूप्यात्।

परविद्याशेषत्वस्वातंत्र्याभ्यां च भिन्नतैव तयोः स्यात्॥

इति पुरुषविद्याधिकरणम् ॥9॥

_____________________________________________________

वेद्यायर्थभेदात् ॥25॥

ब्रह्मविद्यासन्निधिसमाम्नाताया: पुरुषविद्यायास्तदंगत्वमुक्तम्। एवं ब्रह्मविद्यासन्निधिसमाम्नातानां वेधादिमंत्राणां तदङ्गत्वं स्यादिति शङ्कया संगतिः। आथर्वणिकानामुपनिषदारम्भे ‘शुक्रं प्रविध्य हृदयं प्रविध्य सर्वं प्रविध्य धमनीः प्रवृज्य शिरोभिव्रज्य त्रिधा विवृङ्क्त’ इत्यादिमंत्राः पठ्यन्ते। वाजसनेयिनामुपनिषदारम्भे ‘देवाहवै सत्रं निषेदु’ रित्यादिना प्रवर्ग्यब्राह्मणं पठ्यते। ऐतरेयिणां ‘इन्द्रो वै वृत्रं हत्वा महानभवत् तन्महाव्रतस्य महाव्रतत्व’ मित्यादिना महाव्रतब्राह्मणं पठ्यते। कठानां तैत्तिरीयाणां च ‘शंनोमित्रश्शंवरुण’ इत्यादिमंत्राः पट्यते। एवमन्येषामपि शाखिनामुपनिषदारम्भेष्षन्यदन्यत्पठ्यते। किमेते मन्त्राः” कर्माणि च विद्यांगानि नवेति विद्यासन्निधेर्लिगादितश्च संशये पूर्वपक्षः। यद्यपि ‘शुक्रं प्रविध्ये’ त्यादिमंत्राः वैधलिंगादिभिचारप्रथनाथर्ववेदपठितत्वाच्चाभिचारकर्मार्थाः, प्रवर्ग्यो विनियोजकवाक्येन ज्योतिष्टोमार्थः, महाव्रतं गवामयनार्थं, ‘शन्नोमित्र’ इत्यादि मंत्राः ‘तेजस्विनावधीतमस्त्वि’ त्यादिलिंगादध्ययनार्थाः, तथाऽपि सन्निधिबलात् विद्यार्थत्वमपि भवन्ननिवार्यते। न च प्रबललैंगिकविनियोगिकादिना प्रथमप्रवृत्तेन नैराकाङ्क्ष्यात् दुर्बलेन समानबलत्वात्। अत एव ‘अथातोऽग्निमग्निष्टोमेनानुयजन्ती’ ति वाक्यविनियुक्तेनेष्टकाभिश्चेतव्येन स्थण्डिलरूपेणाग्निनाऽऽहवनीयस्याधाराकाङ्क्षानिवृत्तावप्युत्तरवेद्याः अग्निष्टोमप्रकरणाम्नानवैयर्थ्यपरिहारार्थं तस्या अप्याहवनीयाधारतया तदंगत्वमुपेयत इति। सिद्धान्तस्तु उदाहृतानां मंत्राणां प्रवर्ग्यब्राह्मणादीनाञ्चोपनिषत्सु विद्यासन्निध्याम्नातस्याग्ण्येऽनुवाक्यत्वलाभार्थत्वेनान्यथासिद्धत्वात् प्रबलैः श्रुतिलिंगवाक्यैरभिचारिदिष्वेव विनियोग इति वेधमन्त्रादीननामतिस्पष्टलिंग प्रकरणादिभिरन्यत्र विनियोगः स्फुटतरइति तत्र पूर्वपक्षो यद्यपि मन्दः, तथाऽपि ‘शन्नोमित्र’ इत्यादिमंत्राणां लिंगमात्रं न तथा स्फुटतरमिति तद्विषयमिदमधिकरणम्। वेधाद्युदाहरणन्तु दृष्टान्तार्थमिति भविष्यति॥

 संग्रहकारिके॥

शन्नोमित्रस्सहनाविति मंत्रौ तैत्तिरीयकाम्नातौ।

विद्याप्रकरणपाठाद्विद्यांगत्वेन गम्येते॥

अध्ययनलिंगवत्त्वात्तदंगभूताविमौ मंत्रौ।

वेधादिवत्तु विद्यासन्निधिरारण्यकत्वकृतः॥

इति वेधाद्यधिकरणम् ॥10॥

हानौतूपायनशब्दशेषत्वात्कुशाछन्दस्तुत्युपगानवत्तदुक्तम् ॥26॥

‘शुक्रं प्रविध्ये’ त्यादि विद्यासन्निधिसमाम्नातमन्त्रविचारप्रसंगात्सन्निधिसमाम्नातहानोपायनविषयचिंतान्तरं प्रस्तूयत इति संगतिः। ‘अश्व इव  रोमाणि विधूय पापं चन्द्रइव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानी’ ति छन्दोगा मुच्यमानस्य पाप्मनां हानमात्रमामनंति। शाट्यायनिनस्तु ‘तस्य पुत्रादायमुपयंति सुहृदस्साधुकृत्वां द्विषंतः पापकृत्या’ मिति तेषां सुहृद्द्विषत्कर्तृकमुपायनमात्रमामनंति। कौषीतकिनस्तूभयमप्यामनंति ‘तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रियादुष्कृत’ मिति। सर्वमिदमनुचिंतनार्थं न केवलं विद्यामहिमप्रख्यापनार्थं विद्याप्रकरणपाठस्य स्थानगुणादिपाठवदनुचिंतनार्थत्वात्। ‘ज्यायान्दिव’ इत्यादाविव विरोधाभावाच्च। शांडिल्यविद्यायां ‘एतमितः प्रेत्याभिसम्भविताऽस्मी’ ति फलभूताया ब्रह्मप्राप्तेरनुचिंतनीयत्वोक्तेः। इहापि ‘अश्व इव रोमाणि’ इति मंत्रे तदुक्तेः। एवमनुचिंतनीययोर्हानोपायनयोरेकैकमुभयंच विकल्पेनानुचिंतनीयमुतोभयमपि सर्वत्रोपसंहारणीयमित्युपायनस्यहानं प्रत्यशेषत्वशेषत्वाभ्यां संशये पूर्वपक्षः। हानमात्रश्रुतावुपायनं उपायनमात्रश्रुतौ हानं च नोपसंहार्यं। उपसंहारप्रयोजनस्य विद्यैक्यस्याभावात्। ननु विद्यैक्याभावेऽपि हानोपायनयोः परस्परापेक्षयोपसंहारः स्यात्। उपायनं हि हानमन्तरेणानुपपन्नं हानमपेक्षते, हानमप्युपायनमपेक्षत एव। अवश्यं हि कुतश्चित्प्रहीणं किंचिदुपैति यथाऽश्वात्प्रहीणं रोमबृन्दं भूभागमिति चेत् सत्यं। अर्थस्वभावस्तथैव। अनुचिंतनं त्वेकैकस्योभयस्य च विकल्पेन कार्यं न समुच्चयेन। समुच्चयस्य सर्वत्र कौषीतकिवाक्येन प्राप्तिसंभवेन शाखान्तरेष्वेकैकाम्नानस्य विकल्पार्थत्वाभावे वैयर्थ्यापत्ते:। नचाध्येतृभेदेन सार्थक्यमिह वक्तुं शक्यम्। अविशेषपुनश्श्रवणाभावात्। अतश्शाखाभेदेनैकैकस्योभयस्य च श्रवणमुदितानुदित होमवद्विकल्पार्थमित्येव न्याय्यम्। नचेदं विद्याभेदेन व्यवस्थापयितुं शक्यम्। हानस्य ब्रह्मप्राप्त्यर्थं सर्वासु विद्यास्वपेक्षितत्वादिति। सिद्धान्तस्तु एकैकश्रुतावन्यदप्युपसंहार्यम्। शाट्यायनिशाखायां दायसंक्रमण दृष्टान्तेनह्येवमेव गम्यते। यथा मुच्यमाने धने तंप्रति यथेष्टविनियोगार्हता हीयते। पुत्रान्प्रतिच सा सम्पद्यते। एवं तस्य पुण्यपापयोस्तं प्रति फलजननार्हता हीयते। प्रियाप्रियान्प्रतिच सम्पद्यते इति श्रुतिषु कतहानोपायनशब्दाभ्यां विवक्षितमिति तत्र हानं ब्रह्मप्रेप्सो: फलरूपत्वात्तत्क्रतुन्याय तस्सर्व विद्यानुसन्धेयतयोपसंहर्तव्यमिति तदुपापदकत्वेन तच्छेषतया फलभूतमुपायनमपि सर्वत्रोपसंहर्तव्यम्। पुण्यपापयोः फलजननार्हत्वस्यान्यत्र संक्रान्तो हि हानमुपपद्यते। सङ्कीर्तनप्रायश्चित्तादिभिरनष्टतया विद्यमानयोस्तयोः फलजनकत्वावश्यम्भावात् दायद्दष्ठान्तानुगुण्याच्च। ततश्च यथाकालं नवीना वानस्पत्याः कुशा इति सामान्यवचनस्यौदुंबर्यः कुशा इति शाट्यायनिनां विशेषवचनं वाक्यशेषतामापद्यते। देवासुराणां छंदोभिरित्यविशेषवचनस्य ‘देवछंदांसि पूर्व’ मिति क्रमविशेषवचनं ‘हिरण्येन षोडशिनस्स्तोत्रमुपाकरोती’ त्यविशेषवचनस्य शाखान्तराम्नातवचनस्य ‘समयाविषिते सूर्य शोडशिनस्तोत्रमुपाकरोति’ ति समयाविषितशब्दोक्तसूर्यास्तमयमन्निहितकालविशेषविष- यनियमार्थविशेषवचनं ‘ऋत्विज उपगायन्ती’ त्यविशेषवचनस्य शाखान्तराम्नातस्य भाल्लविनां ‘नाध्वर्युरुपगाये’ दित्यनध्वर्युविषयतापादकं विशेषवचनमिति। एवं सामान्येनावगतमर्थं विशेषे व्यस्थापयितुं क्षमस्य वाक्यस्य तच्छेषत्वानङ्गीकारे तयोर्विकल्प एष्टव्यः। स च गतौसत्यां न युज्यते। तदुक्तं पूर्वकाण्डे ‘अपितु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्या’ दिति। ‘यज्ञेषु ये यजामहं करोति नानूयाजे’ ष्वित्यनारभ्य श्रूयते। तत्र सामान्यतस्सर्वयज्ञेषु येयजामहस्य विधिस्ततो विशिष्यानूयाजेषु तन्निषेध इति पर्युदासाधिकरणे पूर्वपक्षः कृतः। तत्र सिद्धान्तसूत्रमिदम्। तथा सत्यनूयाजेषु येयजामहतन्निषेधयोः षोडशिग्रहणाग्रहणयोरिव विकल्पो भवेत्। नचाहवनीयपदशास्रवदिह सामान्यविशेषन्यायः प्रवर्तते। तत्र होमासामान्यद्वारा पदशास्रविषये होमे प्राप्तव्यपर्यवसानादाहवनीयशास्रात्प्रागेव आहत्यहोमविशेषविषयतया तत्र शीघ्रप्रवृत्तिकेन पदशास्रेणापहृतविषयविशेषमाहवनीयशास्रं तदितरविशेषविषयं व्यवतिष्ठत इति युक्तम्। इह तु सामान्यविषयमपि विधिशास्रमेवानूयाजानपि क्रोडीकृत्य प्रथमं प्रवर्तत इति वक्तव्यम्। अन्यथा प्रसक्त्यभावेन निषेधायोगात्। एवं शास्रप्राप्तस्य शास्रान्तरेण सर्वथानिषेधे  प्रापकशास्रस्य अप्रामाण्यं स्यात्-अतस्तत्परिहारार्थं अनूयाजेषु येयजामहविधिनिषेधयोर्विकल्पोऽङ्गीकार्यस्स्यात्। सचान्याय्यः। तस्मात् नानूयाजेष्वित्ययमंशः पर्युदासवृत्त्याऽनूयाजव्यतिरिक्तपरो यज्ञेषु येयजामहमित्यत्र यज्ञविशेषणसमर्पकतया तदेकदेशतामश्र्नुत इति सूत्रार्थः। एवं शाखान्तरम्नातोपसंहारेण सर्वास्वपि शाखासु हानोपादानशब्दवत्तवाविशेषो लभ्यत इत्यविशेषपुनश्श्रवणसत्त्वात् तस्याध्येतृभेदेन परिहर्तुं शक्यत्वाच्च। पूर्वतंत्रसूत्रोक्तन्यायेनात्राप्यष्टदोषदुष्टो विकल्पो न समाश्रयणीय इति हानोपादानद्वयं समुच्चयेनानुसन्धेयत्वादुपसंहार्यम्। नन्वन्यदीययोः पुण्यपापयो रन्यत्र संक्रमाणायोगात् प्रियाप्रिययोस्तत्संक्रमवचनं ब्रह्मविन्महिमप्रख्यापनार्थं, ब्रह्मवित्सु भक्तिरभ्युदयाय भवति द्वेषोऽनर्थायेत्येतद्बोधनार्थंवा। अतो नोपायनं श्रुतमुपसंहृतंवाऽनुसन्धेयम्। मुच्यमानानां पुण्यपापसंस्पर्शस्तु ब्रह्मज्ञानेन तयोर्नाशादेव भविष्यति। ‘क्षीयन्तेचास्य कर्माणि तस्मिन्द्दष्टेपरावरे’ इति श्रुतेरितिचेन्मैवं। ‘यतेनश्चकृमावयं यद्वा यदन्यकृतमारिम ऋताममामुञ्चतांहसः यदन्यकृमारिमे’ त्यादि मंत्रवर्णतोऽन्यकर्म-फलस्यान्यानुभाव्यत्वप्रतितेः। वैश्वानरेष्ट्यपूर्वन्यायेनान्यस्थितस्यैवान्यत्र फलजनकत्वोपपत्त्याऽन्यसंक्रमवचनानामन्यत्र फलजननतात्पर्यसम्भवात्। ‘क्षीयंते चास्य कर्माणी’ त्यादिवचनानां ब्रह्मविदि तत्कर्मणां फलाजननतात्पर्यसंभवाच्च॥

संग्रहकारिका॥

सुकृतदुष्कृतयोर्विदुषः क्वचिन्निगमसीमनिहानमुदीरितम्।

क्वचन संक्रमणं प्रियवैरिणोस्तदुभयं क्वचन प्रतिपादितम्।

हानंविद्याविशेषप्रकरणपठने सत्यपिस्यादपेक्षा-

सामर्थ्यात्सर्वविद्यान्वयि तदनुसरन्नन्यतस्संक्रमश्च।

हानं शेष्यस्य विद्याव्यभिचरितसमायोगिविद्यैककार्यं

तद्द्वारा सर्वविद्यासम्धिगतिरतो युज्यते संक्रमस्य॥

एवंसत्यपि हानसंक्रमयुगं सर्वासु विद्यास्विदं

गृह्णीते नियमेन नैव तु समुच्चित्यानुसन्धेयताम्।

हानोपायनयोस्तदाहि पृथगाम्नातं निरर्थं भवे-

दुक्ताध्येत्रभिदाविशेषपुनराम्नाने हि साफल्यता॥

मैवं हानवचोऽन्वयं कलयते संक्रांतिवाक्यंकुशा-

च्छन्दस्तुत्युपगानवर्णननयाच्छाखान्तरेऽपि स्थितम्।

हानोपायनयोस्ततश्च पृथगाम्नानस्य वैधुर्यतः

सिध्यत्येव तयोस्समाधिषु समुच्चित्यानुसन्धेयता॥

इति हान्यधिकरणम् ॥11॥

सांपराये तर्तव्याभावात्तथाह्यन्ये ॥27॥

छन्दत उभयाविरोधात् ॥28॥

गतेरर्थवत्वमुभयथाऽन्यथा हि विरोधः ॥29॥

उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥30॥

यावदधिकारमवस्थितिराधिकारिकाणां ॥31॥

पुण्यपापयोर्हानमुपायनं च सर्वासु विद्यासु चिन्तनीयमित्युक्तम्। तद्धानं कदेति चिंत्यत इति सङ्गतिः। सुकृतदुष्कृतहानं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च उत देहवियोगकालएवेत्युभयविधश्रुतिदर्शनात् देहवियोगानन्तरं कर्मसाध्यफलाभावाच्च संशये पूर्वःपक्षः। उभयत्रेति युक्तम्। उभयथा श्रुतत्वात्। ‘अश्व इव रोमाणी’ ति मन्त्रे ‘तस्य पुत्रादायमुपयंती’ ति शाट्यायनिश्रुतौ च देहवियोगकाले पुत्रेषु दायसंक्रमणसमसमये पुण्यपापहानं श्रूयते। ‘स आगच्छति विरजां नदीं तां मनसाऽत्येति तत्सुकृतदुष्कृते विधृनुत’ इति कौषीतकिवाक्ये तदध्वनि श्रूयते। एवं पुण्यपापयोरेकदेशस्य देहवियोगकाले क्षयो विरजानद्यतिक्रमणानन्तरमित्युभयथाकर्मक्षये सत्येव देवयानगतिश्रुतिरर्थवती भवेत्। देहवियोगकाल एव सर्वकर्मक्षये तन्मूलस्य सूक्ष्मशरीरस्यापि विनाशात् केवलस्यात्मनो गमनासम्भवात् गतिश्रुत्याविरोधः स्यात्। वसिष्ठावान्तरतपः प्रभृतीनां च साक्षात्कृतपरब्रह्मणां देहपानसमय एव सर्वकर्मक्षये देहान्तरसम्बन्धो न स्यात्। तस्मादुभयत्र कर्मक्षयः। एतेन देहपातादूर्ध्वं कर्मणाप्राप्यं नास्तीति निरस्तम्। सर्वेषां ब्रह्मविदां देवयानगतेः केषां चिद्देहान्तरसम्बन्धस्य च कर्मप्राप्यस्य सत्त्वात् इति। एवं प्राप्ते सिद्धान्तः। देहपातकाल एव विदुषः पुण्यपापयोः निरवशेषक्षयः। तस्य देहवियोगानन्तरं कर्मपाप्यस्य सुखदुःखभोगस्याभावात्। तथैव हि छन्दोगास्तस्य देहपातादूर्ध्वं ब्रह्मप्राप्तिव्यतिरिक्तसुखदुःखभोगाभावमधीयते ‘अशरीरंवावसन्तं न प्रियाप्रिये स्पृशतः। एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’ इति। एवं तर्हि श्रुतेरर्थस्वभावाच्च देहवियोगकाल एव पुण्यपापहानिरित्यवधृते सति श्रुत्यर्थस्वभावाविरोधार्थं यथायोगं पदानामन्वयो वर्णयितुं युक्तः। अतः कौषीतकिवाक्ये ‘तत्सुकृतदुष्कृते विधूनुत’ इति चरमश्रुतो वाक्यावयवः ‘स एतं देवयान’ मित्यतः प्राग्योजनीयः। देवयानगतिस्तु विद्यामहात्म्यात्। विद्या हि सूक्ष्मशरीरस्यानारम्भिकापि स्थूलशरीरस्य सर्वकर्मणां च क्षयेऽपि स्वफलब्रह्मप्राप्तिप्रदानाय देवयानेन पथा ब्रह्मविदं नेतुं सूक्ष्मशरीरं स्थापयति। यथा लोके सस्यार्थं निर्मिते तटाके तद्धेतुषु तदिच्छादिषु विनष्टेष्वपि तटाकमशिथिलं स्थापयन्तस्तत्र स्नानपानादिकंकुर्वंति तद्वद्वसिष्ठादीनांत्वाधिकारिकाणां यावदधिकारंप्रारब्ध कर्मानुवृत्त्यादेहांतरसंबंध उपपद्यते॥

संग्रहकारिकाः॥

किंचित्कर्म क्षीयते साम्पराये किंचिन्नद्यां वाक्ययुग्मानुरोधात्।

मैवं मार्गे शर्मदुःखाद्यभावात्प्राङ्नेतव्या नद्यतीतौ तदुक्तिः॥

कर्माभावेऽप्यर्चिराद्यध्वगत्यै विद्याशक्त्या सूक्ष्मदेहस्थितिस्स्यात्।

यावद्ब्रह्मप्राप्ति विद्यावतां यो धीसङ्कोचस्सोऽपि सूक्ष्मानुवृत्त्या॥

देहान्ते येनार्चिरादिं लभन्ते विद्यावन्तो देहमन्यं भजन्तः।

तेषां यावत्स्वाधिकारस्थितीनां तद्देहान्तेनैव कर्मक्षयोऽस्ति॥

इति साम्परायाधिकरणम् ॥12॥

अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥32॥

देवयानगतिप्रसङ्गात्तन्नियमानियमचिंतेति संगतिः। देवयानगतिः उपकोसलविद्यापञ्चाग्निविद्यापर्यङ्क विद्यापर्यङ्कविद्यादिषु श्रूयते। सा किं तास्वेव व्यवतिष्ठिते उत सर्वविद्यासाधारणीति तस्यास्साधारण्यबोधक शास्रासत्त्वतत्सत्वाभ्यां संशये पूर्वःपक्षः। तास्वेव व्यवतिष्ठते। साधारण्यबोधकशास्राभावात्। ननु छान्दोग्ये ‘तद्य इत्थंविदुर्येचेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषभिसंभवंती’ त्यादिश्रूयते। वाजसनेयके ‘य एवमेतद्विदुर्येचामी अरण्ये श्रद्धांसत्यमुपासतेतेर्चिषमभिसंभवंती’ त्यादिश्रूयते। तत्रोभयत्रापि तद्यइत्थं विदुरितिप्रकृतान् पञ्चाग्निविद इव ‘येचेम’ इति विद्यांतरनिष्ठानप्युद्दिश्य अर्चिरादिगतिर्विधीयते। मैवं। तत्र श्रद्धासत्यवचनतपोनिष्ठानामेव हि सा विधीयते। श्रद्धादिपदानां प्रसिद्धार्थातिक्रमे कारणाभावात्। ‘येचेम’ इत्यादेस्सर्वब्रह्मविद्यासाधारण्ये तत एव पञ्चाग्निविदामप्यर्चिरादिगतिप्राप्त्या ‘तद्य इत्थं विदु’ रिति विशेषवचनवैफल्यापत्तेश्चेति। सिद्धान्तस्तु। उपकोसलविद्यानिष्ठानामेवार्चिरादिगतिरिति ननियमः। किं तु ब्रह्मविद्यान्तरनिष्ठानामपि। ‘येचेमऽरण्य’ इत्यविशेषाम्नानात्। तत्र तपस्सत्यशब्दयोर्ब्रह्मपरत्वात्। सत्यशब्दस्य हि ब्रह्मवाचित्वं निर्विवादम्। श्रुत्यन्तरंच ‘सत्यंत्वेव विजिज्ञासितव्य’ मिति। तपश्शब्दस्यापि तदैकार्थ्यात् ब्रह्मपरत्वमवसीयते। न च प्रसिद्धार्थातिक्रमो दोषः। ‘विद्यया तदारोहंति यत्र कामा: परागताः। न तत्र दक्षिणा यांति नाविद्वांसस्तपस्विन’ इति विद्यारहितानां केवलतपोनिष्ठानां दक्षिणमार्गएवेति तेषामर्चिरादिगतिकीर्तनमनुवादमात्रम्। न च गत्यनुचिंतनमुपकोसलविद्यादिष्वेवेति नियमार्थं विशिष्य पृथक्कीर्तन स्यादिति वाच्यम्। गतेस्साधारण्ये सर्वासु विद्यासु तत्क्रतुन्यायानुरोधेन तच्चिंतनावश्यम्भावात्॥

संग्रहकारिकाः॥

ब्रह्मप्रतिपादनपरसत्यतपश्शब्दघटितवाक्याभ्याम्।

यद्यप्यन्वेति गतिर्विहिता सर्वासु विद्यासु॥

न तथाऽपि तासु सर्वास्वनुसन्धेया भवत्येषा।

एकम्याव्द्यर्थस्तथासति स्यादिविशिष्य विद्याविशेषयोः पाठ:॥

साधारणीगतिश्चेच्चिन्ता तस्याः कथं न स्यात्।

कामं स्यादनुवादस्तस्याविद्याविशेषयोः पाठः॥

इति अनियमाधिकरणम् ॥13॥

अक्षरधियांत्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥33॥

इयदामननात् ॥34॥

अर्चिरादिगतिवदस्थूलत्वादेरपि सर्वविद्यासाधारण्यं निरूप्यत इति संगतिः। बृहदारण्यके श्रूयते- एतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छाय’ मित्यादि। अथर्वणे श्रूयते ‘अथ पराययातदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण’ मित्यादि। एतेचकिमस्थूलत्वादयः सर्वासु परविद्यासु उपसंहार्या नवेति तेषां ब्रह्मस्वरूपनिरूपकत्वतदनिरूपकत्वाभ्यां संशये पूर्वःपक्षः। यत्र श्रुतास्तत्रैव व्यवतिष्ठन्ते। विद्यान्तरश्रुतगुणानां विद्यान्तररूपत्वे प्रमाणाभावात्। न च स्वरूपनिरूपकत्वाद्विद्यान्तरेष्वप्युपसंहारः। आनंदादिभिरेव स्वरूपनिरूपणसिद्धेस्तैर्निरूपितस्वरूप एव ब्रह्मण्यधिकरणे स्थूलत्वादिप्रतिषेधानां बोद्धव्यत्वादिति। सिद्धांतस्तु। अक्षररसंबन्धिनीनामस्थूलत्वादिधियां सर्वासु ब्रह्मविद्यासु संग्रहः कार्यः। सर्वास्वप्युपास्यस्यब्रह्मण एकत्वात्। आनन्दमात्रस्य प्रत्यगात्मसाधारण्येन समस्तहेयराहित्यविशेषितमेवानन्दादिक मेवासाधारणं ब्रह्मणो निरूपकमित्यस्थूलत्वादीनामप्यानन्दादिवद्ब्रह्मस्वरूपप्रतीत्यनुबन्धित्वात्। यद्यप्यानन्दाद्यन्तर्गतेनामलत्वेन प्रत्यगात्मव्यावृत्तिस्संभवति। तेन तव्द्यावृत्त्स्वरूप एव च ब्रह्मणि स्थूलत्वादिप्रतिषेधोबोद्धव्यः। तथापि सामान्यतो दोषाभावानुसन्धानादपि जीवेषु सतां शरीरेन्द्रियदोषाणां विशिष्याभावानुसन्धाने तद्वैलक्षण्यदार्ढ्यं लभ्यते।ततस्तेऽपि सर्वासु विद्यास्वनुसंधेयाः। प्रधानानुसारित्वाद्गुणानां। यथौपसदानां जामदग्न्यचतूपात्रोपसत्संबन्धिसामवेदोत्पन्नतद्गुणभूतमन्त्राणाम्। तथाहि सामगानां पञ्चविंशब्राह्मणे जामदग्न्यचतूरात्रस्योपसत्स्वेककपालादिद्विदशकपालान्तपुरोडाशद्रव्यकाः द्वादशहोमा विहिताः। तेषां च ‘अग्नये वेर्होत्रमवेरध्वरमाविदुरं वैश्वानरमवसेकरिन्द्राय देवेभ्यो जुहुता हविः स्वाहे’ त्याद्याः द्वादशमन्त्रास्समाम्नाताः। तेषां सामवेदोत्पन्नत्वादुच्चैस्साम्नेति सामवेदस्वप्राप्तावुपांशुयाजुर्वेदिकप्रधानोपसत्स्वर एवेति गुणमुख्यव्यतिक्रमसूत्रेणोक्तं गुणमुख्योर्मन्त्रोपसदोर्व्यतिक्रमे स्वस्ववेदविहितस्वरप्राप्त्या विरोधे सति मुख्येन प्रधानानुसारेण वेदसंयोगः स्वरविधायकवेदसम्बन्धः। प्रधानानुसारित्वाद्गुणानामित्यर्थ:। तदिहोदाहृतं सूत्रकारेण तदुक्तमिति। शबरस्वामिना तु गुणमुख्यव्यतिक्रमाधिकरणस्योदाहरणान्तरं लिखितम्। ‘य एवंविद्वानग्निमाधत्त’ इति यजुर्वेदविहितस्याधानस्याङ्गानि वारवन्तीयादिसामानि यजुर्वेद एव विहितानि ‘य एवं विद्वान् वारवन्तीयं सामगायती’ त्यादिना। तेषां साम्नामुच्चैस्स्वरूपोत्पत्तिवेदस्वरप्राप्तावुत्पत्तेर्विनियोगार्थत्वेन विनियोगस्य प्राधान्याद्याजुर्वेदिकोपांसशुत्वरूपो विनियोगवेदस्वर एव ग्राह्यः प्रधानानुसारित्वाद्गुणानामिति। इदमपि न्यायतौल्यादुदाहरणतामर्हतीति। एवमन्यदपि ह्यत्रोदाहरणतामर्हतीति। उद्गातृवेदोत्पन्नानां मन्त्राणामुद्गातृप्रयोगे प्राप्ते अध्वर्युकर्तृके पुरोडाशहोमे विनियुक्तत्वादध्वर्युणैव तेषां प्रयोगः कार्यः प्रधानानुवर्तित्वाद्गुणानामिति। ननु यद्यमुं न्यायमवलम्ब्य विद्यान्तरेष्वप्यक्षरधियां निवेशः क्रियते, तदा सर्वकाम इत्यादीनामपि सर्वासु विद्यासु निवेशस्स्यादिति चेत्। उच्यते। उपासनार्थं सर्वासु विद्यास्वियदेव गुणजातमुपसंहर्तव्यं यदस्थूलत्वादिविशेषितमानन्दत्वादिकम्। इयतैव प्रत्यगात्मव्यावृत्तासाधारणब्रह्मस्वरूपानुसन्धानसिद्धेरतो नातिप्रसङ्गः॥

संग्रहकारिके॥

प्रत्येतव्या लब्धरूपे परस्मिन्नानन्दाद्यैः पूर्वमस्थूलताद्याः।

आनन्दाद्यैस्तस्य भेदप्रसिद्धेर्व्यर्थं तेषां सर्वसाधारणत्वम्॥

जीवन्यायाच्चेतनत्वप्रसक्तेरस्पृष्टस्य ब्रह्मणो दोषवर्गैः।

ताद्रूप्येण स्फूर्तयेऽपेक्षणीयस्सर्वेष्वेव ब्रह्मणो वेदनेषु॥

इति अक्षरध्यधिकरणम् ॥14॥

_________________________________________________

अन्तराभूतग्रमवत्स्वात्मनोऽन्यथा श्रेदानुपपत्तिरिति चेन्नो पदेशवत् ॥35॥

व्यतिहारो विशिषन्तिरीतरवत् ॥36॥

सैवहि सत्यादयः ॥37॥

हेयप्रत्यनीकत्वं ब्रह्मासाधारणञ्चेदशनायाद्यतीतमेव ब्रह्म स्यात्। प्राणितृत्वादिविशिष्टस्तु जीवः स्यादिति शङ्क्या संगतिः। बृहदारण्यके याज्ञावल्क्यं प्रत्युषस्तिप्रश्न एवमाम्नायते– ‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वे’ ति। तस्य प्रतिवचनम्- ‘यः प्राणेन प्राणिति सत आत्मा सर्वान्तरो योपानेनापानिति सत आत्मा सर्वान्तर’ इत्यादि। अतुष्टेन तेन पुनः पृष्टस्य प्रतिवचनम्- ‘न द्दष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं श्रृणुयाः न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीया: एषत आत्मा सर्वान्तरोऽतोऽन्यदार्त’ मिति। तदनन्तरं ‘यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वे’ ति कहोळप्रश्ने- ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्येतं हैवमात्मानं विदित्वा ब्रह्मणः पुत्रेषणायाश्च वित्तेषणायास्चेत्यादि अतोऽन्यदार्त’ मित्यन्तं प्रतिवचनमाम्नायते। अनयो र्विद्या भिद्यते नवेति उषस्तिप्रश्नप्रतिवचनयोर्जीवविषयत्वब्रह्मविषच्वान्यत रानवधारणात्संशये पूर्वपक्षः। उषस्तिप्रश्नप्रतिवचनं प्राणितृत्वादिलिंगाज्जीवविषयं कहोळप्रश्नप्रतिवचनमशनाया- द्यतीत्वलिंगात् ब्रह्मविषयमित्युपास्यरूपभेदाद्विद्याभेदोऽवश्यंभावी। अतः प्रथमप्रश्ने ब्रह्मशब्दो जीवविषयः। तत्रापि तत्प्रयोगदर्शनात्। तस्य साक्षादैन्द्रियकवृत्त्यनपेक्षापरोक्षत्वं स्वप्रकाशत्वात्। सर्वान्तरत्वं शरीरेन्द्रियाद्यान्तरत्वात्। यद्युच्येत ब्रह्मशब्दस्य               परब्रह्मणि मुख्यस्य जीवे नयनं न युक्तम्। साक्षादित्यस्य ब्रह्मविशेषमत्वे च तस्य जीवव्यावृत्त्यर्थत्वात् सर्वथा तन्नयुक्तम्। अपरोक्षलक्षणया सर्वदेशकालसम्बन्धित्वं सन्निकृष्टदेशकालं हि वस्त्वपरोक्षं भवति। प्राणितृत्वादिविषयप्रतिवचनानुसारेणोपक्रमगतस्य ब्रह्मशब्दस्यान्यथानयनं च नयुक्तम्। अतः प्रस्नानुसारेण प्रतिवचनागतं प्राणितृत्वादिकमेव ब्रह्मणि योज्यम्। ‘कोह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो नस्या’दिति तस्य प्राणनादिव्यापारहेतुत्वश्रवणादिति। एवमुभयोरप्युषस्तिकहोळब्राह्मणयोर्ब्रह्मविषयत्वेऽपि रूपभेदाद्विद्याभेदो न निवार्यत इति। एवं प्राप्ते सिद्धान्तः। न तावदिह जीवब्रह्मविषयत्वेन विद्याभेदो युक्तः। प्रथमप्रश्नगतब्रह्मशब्दादिस्वारस्यातिलंघनकारणाभावात्। ब्रह्मविषयकहोळप्रश्नगतेन यदेवेत्यवधारणेन तस्य प्रथमप्रश्नसमानविषयत्वावगमाच्च प्राणितृत्वादिकं तु ब्रह्मण्येवोपपन्नतरम्। प्रत्यगात्मनस्सुषुप्तौ प्राणनकर्तृत्वासम्भवात्। एव मजानतोषस्तेन प्राणनकर्तृत्वं प्रत्यगात्मनोऽप्यस्तीति प्रतिवचनस्य तत्साधारण्यं विचिन्त्यातुष्टेन पुनः पृष्ट: प्राणनकर्तृत्वं निरुपाधिक प्रत्यगात्मन्येवोक्तमिति दर्शयितुमाह ‘नदृष्टेर्द्रष्टार’ मित्यादि। ओदनपाकं पचतीतिवत् दृष्टेर्द्रष्टारमिति प्रयोगः। दर्शनश्रवणमननविज्ञानानां कर्ता प्रत्यगात्मा प्राणनकर्तृत्वेनोक्त इति नमन्वीथाः। किन्तु सुषुप्तिसमयाद्युनगतनिरुपाधिकप्राणनकर्ता परमात्मैवोक्त इति तदभिप्रायः। एवं प्रथमप्रश्नप्रतिवचनयोः परमात्मविषययोर्द्वितीयप्रश्नप्रतिवचने तद्विषये इत्यसन्दिग्धमिति न विद्याभेदः। एवमुभयोर्ब्रह्मविषयत्वादेव उभयत्रापि अतोऽन्यदार्तमित्युपसंहारः। न च विद्याभेदे प्रश्नप्रितवचनभेदानुपपत्तिः। कृत्स्नप्राणिप्राणनहेतुतामशनायाद्यतीततां च प्रतिपादयितुं तदावृत्त्यपपत्तेः। सद्विद्यायामपि ‘भूय एव मा भगवान्विज्ञापय’  त्विति प्रश्नानां तत्प्रतिवचनानांचावृत्तिदर्शनात्। तस्माज्जीवब्रह्मविषयत्वेन विद्याभेदशङ्का न युक्ता। ननुभयोर्ब्रह्मविषयत्वेऽपि रूपभेदप्रयुक्तविद्याभेदः स्यात्। न हि खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवतीत्युपक्रान्तोद्गीथावयवैकविषयत्वेऽप्युद्गीथविद्यानामध्यसनीयप्राणाकाशहिरण्मय पुरुषादिरूपभेदान्नभेदः। सद्विधान्यायात् भेद इति चेत् न। तत्रापि प्रतिखण्डिकं विद्याभेदोपपत्तेरितिचेत्। उच्यते। स च सर्वान्तरब्रह्मोपक्रमस्यातोऽन्यदार्तमित्युपसंहारस्य च उभयत्रापि समानत्वादशनायाद्यतीतत्वस्य निर्दोषत्वरूपतया सकलविद्योपसंहरणीयस्य उद्गीथावयवाध्यसनीयप्राणाकाशहिरण्मयपुरुषादिगुणान्तरवत् भेदकत्वाभावात् ‘तस्माद्ब्राह्मणः पाण्डित्ये निर्विद्य बाल्येन तिष्ठासे’ दित्यादेर्ब्राह्मणद्वयसाधारणस्य विद्याविधेः कहोळप्रश्न एव श्रवणादुषस्तब्राह्मणे प्राणितृत्वादिना ब्रह्मणस्सर्वान्तरत्वे प्रतिपादितेऽपि जीवव्यावृत्तस्फटसर्वान्तरत्वप्रतिपत्त्यर्थं उषस्तस्यैव प्रश्नांतरवत् स्फुटतरसर्वान्तरत्वप्रतिपत्त्यर्थं कहोळप्रश्नोपपत्तेश्च नात्र विद्याभेदः। सद्विद्यायामपि प्रतिखण्डिकं न विद्याभेदः। ‘सेयं देवतैक्षते’ ति या परा देवता सैवहि सर्वेषु पर्यायेषु प्रदर्श्यते। ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मे’ ति प्रथमपर्यायोदितास्सत्यादयस्सर्वेषु पर्यायेषूपपाद्योपसंह्रियन्ते। उपपादनप्रकाराः परं ‘भूय एव माभगवान्विज्ञापयत्वि’ ति पुनः प्रष्टुः श्वेतकेतोराशयगतानां शङ्काविशेषाणां निराकरणार्थतया भिद्यन्ते। न तावता विद्याभेद:। तथा हि। सुषुप्तौ जीवा यत्रापियन्ति तत्सदिति नवखण्डीमध्ये प्रथमखण्डेन बोधितेसति सुप्तौ सत्सम्पन्ना जीवाः किमिति सत्सम्पत्तिं न विदुरिति अभिप्रायेण प्रश्नः ‘यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ती’ त्यादि द्वितीयखण्डे नानावृक्षरसान्मधुमक्षिकाभिर्मधुत्वेन समाहृतान् प्रस्तुत्य यथा तत्र न विवेकं लभन्ते अमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमास्सर्वाः प्रजास्सति सम्पद्य न विदुस्सति सम्पद्यामहइति’ इति प्रतिवचनभङ्ग्यासमाहितः। ननुयुक्तं सुप्तौ सर्वेन्द्रियोपरमात्सत्संपत्ते रवेदनं। उत्थिताः सतोहमागता इति किमिति नविदुः स्वगृहेसुप्तोत्थिताहि स्वगृहादहमागत इति जानन्तीत्यभिप्रायेण द्वितीयप्रश्नः ‘इमास्सोम्यनद्यः पुरस्तात्प्राच्यस्स्यन्दन्त’ इत्यादि तदनन्तरखण्डे समुद्रादाकृष्य जलधरमुक्तैर्जलैः सम्भृताः प्रवहन्तीर्नदीः प्रस्तुत्य तायथा तत्र न विदुरियमहमस्मीयमहमस्मीत्येव मेव खलु सोम्ये माः सर्वाः प्रजास्सत आगत्य न विदुस्सत आगच्छामह इति’ प्रतिवचनभङ्ग्या समाहित एव। तृतीयादिप्रश्नानामपिश्ङ्का विशेषाभिप्रायः, तत्तदनन्तरखण्डगत द्दष्टांतविशेषोपन्यासयुक्त प्रतिवचनभङ्ग्यैव तत्समाधानानिच द्रष्टव्यानि। तस्मान्नसद्विद्यायां विद्याभेद इति तत्रेवात्रापि न विद्याभेदः॥

संग्रहकारिकाः॥

यत्साक्षादितिजीवो यदेवसाक्षादितितुपरः प्रतिपाद्यः।

प्राणितृताद्यशनायारहिततादिलिङ्गगणात्॥

ब्रह्मैवयद्युपिभवेदुभयत्र साक्षाद्भ्द्रह्मेतिजीवविभिदार्थविशेषणोक्तेः।

सर्वान्तरत्वनियताननकर्तृभावनिश्शेषदेशसमयान्वयवर्णनाच्च॥

साक्षादिहैवच निवारणतोनदृष्टेर्द्रष्टारमित्यसुभृतः प्रतिपाद्यतायाः।

एवंस्थितेपिचयथोदितरूपभेदाद्विद्याविभेदमिहयुक्ततरंप्रतीमः॥

मैवं प्रश्नेद्वितीयेह्यवधृतिसहिते प्राच्यधर्मैर्विशिष्टम्।

पृष्टं ब्रह्मात्रवर्ण्या स्त्वघविहतितयासर्वविद्यानुवृत्ताः॥

तेतत्सर्वान्तरत्वं विशदतरयितुन्जीववैधर्म्यरूपा।

धर्माः पृष्टद्वयोपिव्यतिहरणजुषस्तत्कृतोरूपभेदः॥

सद्विद्यायां देवताकारणात्मा भूयोभूयः प्रश्नभेदोन्यरूपि।

यद्वन्नेतुं श्रोतृबद्धौ प्रतिष्ठामेवं सर्वाभ्यन्तरं ब्रह्मचात्र॥

नच सद्विद्यायामपि विद्याभेदस्समाशङ्क्यः।

पर्यायेष्वखिलेष्वपि साम्यात्तत्सत्यमित्यादे:॥

इति अंतरत्वाधिकरणम् ॥15॥

_____________________________________________________

कामादीतरत्र तत्रचायतनादिभ्यः ॥38॥

आदरादलोपः ॥39॥

उपस्थितेतस्तद्वचनात् ॥40॥

प्राणितृत्वादीनामशनायायद्यतीतत्वादीनां च भेदकत्वाभावाद्विद्यैक्यं समर्थितम्। इह अपहतपाप्मत्वादि विशिष्टाकाशरूपत्वस्य वशित्वादिविशिष्टाकाशत्वस्य भेदकत्वेन रूपभेदात् विद्याभेद इति प्रत्यवस्थानात्सङ्गतिः। छान्दोग्ये ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्य’ मिति आकाशः स्वान्तर्वर्तिगुणाष्टकविशिष्ट उपास्यः श्रूयते। बृहदारण्यके ‘सवा एष महानज आत्मे’त्युपक्रम्य ‘य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशान’ इति वशित्वादिगुणाविशिष्ट आकाशे शयान उपास्यः श्रूयते। किमनयोर्विद्याभेदोऽस्ति नवेति रूपभेदाभेदाभ्यां संशये पूर्वपक्षः। विद्याभेद इति युक्तम्। रूपभेदस्य निगदव्याख्याततया स्फुटत्वात्। नच वाजसनेयकगताकाशशब्दो भूताकाशपरः, वशित्वादिकं गुणाष्टकान्तर्भूतसत्यसङकल्पत्वविशेषरूपमिति न विरोध इति वाच्यम्। वाजसनेयकश्रुतान्तर्हृदयवर्त्त्याकाशस्य समानप्रकरणश्रुत्यन्तरानुरोधेन दहराकाशरूपत्वावश्यम्भावात् दहराकाशो ‘वेदनिहितं गुहायां परमे व्योम’ न्निति श्रुत्यन्तरश्रुतं परमं व्योम, वाजसनेयकश्रुत आकाशे शयस्तु व्योमातीतं परंब्रह्मेत्युपपत्तेः। ‘तत्रापि दह्रं गगनं विशोकः तस्यान्ते सुषिरं सूक्ष्म’ मिति तैत्तिरीयकश्रुतयोर्गगनसुषिरशब्दयोरपि परमव्योमपरत्वोपपत्तेरित्येवं प्राप्ते सिद्धान्तः। छान्दोग्ये वाजसनेयके च सत्यकामादिविशिष्टमेव ब्रह्मउपास्यं। हृदयायतनत्वसेतुत्वविधरणत्वादिगुणानामुभयत्रापि साम्यात्। ‘अथ य आत्मा ससेतुर्विधृतिरेषां लोकानामसम्भेदाये’ त्यादेरेकत्र ‘एष सेतुर्विधरण एषां लोकानामसम्भेदाये’ त्यादेरन्यत्रच श्रवणात् वशित्वादीनां छान्दोग्ये श्रुतसत्यसङ्कल्पत्वविशेषरूपत्वाच्च वशित्वादिरूपतया सत्यसङ्कल्पसत्त्वे तत्साहचर्येण सत्यकामादीनामपि प्राप्तेश्च फलसंयोगाविशेषाच्च ‘परंज्योतिरुपसंपद्ये’ त्यादेरेकत्र ‘अभयं वै जनकप्राप्तोऽसि अभयं वै ब्रह्मभवती’ त्यादेरन्यत्र च श्रवणात्। तस्माद्वाजसनेयकश्रुताकाशशब्दस्तैत्तिरीयकश्रुतौ गगनसुषिरशब्दाश्च भूतकाशपराः। दहराकाशस्तु प्रागुक्तरीत्या ब्रह्मैव। न च ब्रह्मभूतकाशव्यतिरेकेण परमव्योमनामकिञ्चिदस्ति तद्वर्तिब्र्हमव्योमातीतमिति सिध्येत्। क्वचित्  ब्रह्मैव परमव्योमेति व्यपदिश्यते। यथा- ‘सैषा भार्गवी वारुणीविद्या परमे व्योमन्प्रतिष्ठिते’ ति। क्वचित्तस्य स्थानतया प्रशस्तो हृदयान्तरवकाशरूपो भूताकाशो व्यपदिश्यते ‘यो वेद निहितं गुहायां परमे व्योम’ न्निति। नैतव्द्यतिरेकेण परमव्योमनामकिंचिदस्ति। ननु गार्गिब्राह्मणे सर्वलोकाधारप्रश्ने तदाधारमाकाशमुक्त्वा आकाशाधारप्रश्ने परंब्रह्म तदाधारतयोक्तम्। ‘एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चे’ ति। सचाकाशोदेवतारूपः। प्रथमप्रवृत्तस्य सर्वलोकाधारप्रश्नस्य वक्ष्यमाणाकाशविषयत्वमालोच्य ‘अनतिप्रश्नां वै देवतामतिपृच्छसी’ ति तन्निषेधादर्शनात् अस्यैव देवतापरमव्योमेति चेत् न। आकाशाधारविषयो द्वितीयः प्रश्नः परब्रह्मविषयो भविष्यतीति तदभिप्रायेणानतिप्रश्नानित्यादिप्रवृत्तेः तत्र देवतापदस्य प्रथमप्रश्नविषयत्व आकाशस्सम्प्रतिपन्नाचित्प्रकृतिरस्तु न तव्द्यनिरेकेण परमव्योमनामकिंचिदस्ति। यच्छांदोग्यादिष्वाकाशादिशब्दैरुक्तं स्यात्। अतश्छान्दोग्यबृहदारण्यकयोर्न विद्याभेदः। अथापि स्यात्। उभयत्रापि सत्यकामादिवशित्वादिगुणविशिष्टोपासनयोर्मोक्षरूपफलसंयोगाविशेषो य उक्त स्सनोपपद्यते। वाजसनेयके ‘नेह नानास्ति किंचनमृत्यो स्समृत्युमाप्नोति य इह नानेव पश्यती’ ति ब्रह्मणि नानाभूतवस्तुनिषेधेन वसित्वादीनां पारमार्थिकत्वावगमात्। छानदोग्ये ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पिरतरस्समुत्तिष्ठन्ती’ त्यादिना सत्यकामादिगुणविशिष्टवेदनस्य सांसारिकफलश्रवणात्। अतो मुमुक्षोर्ब्रह्मावगमे वशित्वादिकं सत्वकामत्वादिकं च लुप्यत इति चेत् नैव लुप्यते। श्रुतेस्तत्रादरदर्शनात्। छान्दोग्येतावत् ‘तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेषु कामचारो भवती’ ति गुणविशिष्टोपासनस्य फलमुक्त्वा ‘अथ य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेष्वकामचारो भवती’ ति निंदागुणविशिष्टवेदनविषयमादरं दर्शयति। वाजसनेयकेऽपि ‘सर्वस्य वशी सर्वस्येशान एष सर्वेश्वर: एष भूताधिपतिरेषभूतपाल’ इति पुनः पुनरैश्वर्योपदेशस्तद्विषयमादरं दर्शयति। ‘स यदि पितृलोककाम’ इत्यादिकं न सांसारिककीर्तनं,  किंतु मुक्तौ यद्भाविफलं तत्कीर्तनमेव। ब्रह्मप्राप्ते पुंसि ब्रह्मप्राप्त्यैव हेतुना तथाभूतफलवचनात्। ‘परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्रीभिर्वा यानैर्वे’ त्यादिकं हि श्रूयते। ‘नेह नानास्ति किंचन एकधैवानुद्रष्टव्यम्’ इति तु सर्वस्य ब्रह्मकार्यत्वेन तदात्मकत्वादेकधीदर्शनं विधायाब्रह्मात्मकत्वेन पूर्वसिद्धंनानात्वदर्शनं प्रतिषेधति नतु वशित्वादि निषेधति। स्वयंविधाय स्वयंप्रतिषेधायोगात्। ‘अग्राह्यो नगृह्यते अशीर्योनशीर्यते असङ्गो नहिसज्जते’ इत्याद्यनन्तरवाक्यैः प्रमाणांतराग्राह्यत्वेन ब्रह्मप्रतिपादनात्। छांदोग्येपि ‘नास्यजरयैतज्जीर्यति नवधेमास्यहन्यन्ते एतत्सत्यं ब्रह्मपुरमस्मिन्कामास्समाहिता’ इति लोकसिद्धविजातीयत्वेन सत्यकामादिविशिष्टत्वेन ब्रह्मणः प्रतिपादनाच्च। तस्माद्गुणानां पारमार्थिकत्वात् मोक्षार्थविद्यासु नलोप इति सिद्धम्॥

संग्रहकारिकाः॥

क्वचिदाकाशोदहरस्समुपास्यः सत्यकामादियुतः।

अन्यत्राकाशशयो वशित्वमुख्यैर्गुणैर्युक्तः ॥

तस्माद्विद्याभिद्यते रूपभेदाच्छान्दोग्येचारण्यके वाजिनांच।

मैवं ब्रह्मैवोभयत्रापि हार्दं तत्वाम्नातं वाजिभिर्हृत्सुषिस्थम् ॥

आतस्तेषां सत्याकामादयोन्येप्यानेयत्वं यांति तत्साहचर्यात्।

नन्वेनयोस्सगुण निर्गुणविद्यायोस्ते युज्येत नैवमुपसंहृतिवाद एषः ॥

आद्यापराप्यपरमार्थगुणावलं………………[अत्र कश्चित् ग्रन्थ: गळित: नोपलभ्यते]

इति कामाद्यधिकरणम् ॥16॥

____________________________________________________

तन्निर्द्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलं ॥41॥

कर्मपदसमभिव्याहाराभावात्। न च रात्रिसत्रन्यायेन फलविपरिणामः कर्तव्यः। पर्णतादितवत् क्रतुफलेनैव फलत्वसंभवेनापापश्लोकश्रवणादिवत्   फलविपरिणामानपेक्षणात्। ननु तथापि ‘तेनोभौकुरुतो यश्चैवं वेदयश्चनवेद यदेव विद्ययाकरोति श्रद्धायोपनिषदा तदेववीर्यवत्तरं भवती’ ति क्रतुषूद्गीथादिविद्यानामनियमश्र- वणादनियतगोदोहनादिवत् पुरुषार्थतैव युक्तेतिवाच्यम्। षोडशिग्रहणादिवदनियतत्वेपि क्रत्वर्थतोपपत्तेः। ‘यदेवविद्याया करोती’ त्यत्रैव तृतीया विद्यायाः करोतिशब्दोक्तकर्मांगत्वप्रतीतेश्च। नच वीर्यवत्तरमित्यनेन विद्यायाः फलांतरप्रतीतेः पुरुषार्थस्स्यादिति वाच्यम्। वीर्यवत्तरमित्यस्य षोडशिग्रहणपक्ष इव विद्यानुष्ठानपक्षे कर्मभूयस्त्वात् फलभूयस्त्वमितिन्यायेन भूयः क्रतुफलं भवतीत्येतदर्थकत्वोपपत्तेः। किंच ‘तेनोभौकुरुत’ इत्यादिवाक्येन भवन्नियमोपि पूर्वपस्तुताप्त्यादिगुणकोद्गीथविद्यामात्रस्य भवेत्। नतु तदनन्तरं वक्ष्यमाणानां मुख्यप्राणदृष्ट्यादिविशिष्टोद्गीथोपासनानां। ‘यश्चैव’ मित्येवंशब्दस्य प्रकृताप्त्यादिवैशिष्ठ्यपरत्वात्। सर्वथापर्णतादिवत् क्रत्वर्थतया नियतैवोपासना इत्येवं प्राप्ते: सिद्धान्तः- अङ्गावबद्धोपासनानां क्रतुषुननियमः। विनियोजकप्रमाणाभावेन तेषां तदङ्कत्वाभावात्। नचाव्यभिचरितसंबन्ध्युपस्थापित क्रतुबोधकशब्दाध्याहारेण पर्णताया इव वाक्यं क्रतौ विनियोजकं स्यादितिवाच्यम्। पर्णतायास्सिद्धरूपजुहूसम्बन्धेऽपि व्यापाररूपत्वालाभात् फलनिष्पादकत्वं नस्यादिति तत्सिद्धये क्रतूपरागेण पुरुषानुष्ठेयव्यापाररूपतां सम्पादयितुं जुहूलिंङ्गेन क्रतुमुपस्थाप्य तत्संबन्धबोधकः शब्दः कल्प्यते। इहोपासनानां व्यापाररूपाणां स्वतएवानुष्ठेयतया फलवत्वसंभवे किमुद्गीथाद्युस्पस्थापितक्रतुसंबन्धकल्पनया। नचोपासनानां फलवत्त्वसिध्यर्थं तत्कल्पना। उपासनावाक्यशेषत एव विपरिणामेन फललाभसंभवात्। तस्माद्गोदोहनविधिवदाश्रित्यविधिना सरूपा अङ्गावद्धोपासनाविधयः। अतएव न्यायप्राप्तनियमानुवादकं ‘यश्चैवंवेदे’ त्यादिवाक्यं न्यायसाम्यात्। सर्वेषामङ्गावबद्धोपासनानामनियमस्योपलक्षणं। फलं च तेषां क्रतुफलविर्यवत्तरत्वं क्रतुफलाप्रतिबन्धरूपं क्रतुफलात्पृथग्भूतमेव। न तु क्रतुफलभूयस्त्वं। वीर्यंहिलोके कार्यानुकूलं बलमिति प्रसिद्धम्। न तु कार्यमेव।    बलवत्तरत्वं च कर्मणः स्वफलजननप्रतिबन्धकापेक्षया वक्तव्यं। अन्यस्य प्रकृतानुपयोगात्। अतः फलदानोन्मुखेन विरिधिकर्मान्तरेणा प्रतिबद्धत्वं वीर्यवत्तरत्वमित्यवसीयते। एवंच ‘यदेवविद्यये’ ति तृतीयाश्रुतिर्नमुख्यकर्मशेषत्वपरा। किंतु कर्मभिरविलंबेन फलेजननीये तेषामुपकारकत्वमस्तीत्यमुख्यशेषत्वपरेति योज्यम्। तस्मात् क्रतुफलाप्रतिबन्धरूपफलांतरवन्त्यङ्गावबद्धोपासनानि क्रत्वर्थत्वाभावात् क्रतुषु न नियता नीति सिद्धम्। अप्रतिबन्धफलोक्तिश्चोद्गीथविद्याविशेषाणां यानि प्रातिस्विकफलानि तेषामप्युपलक्षणम्। प्रातिस्विकफलान्यपिहि श्रूयन्ते- ‘आपयिताहवैकामानां भवति, वर्षतिहास्मैवर्षयतिच, कल्पन्तेहास्मैलोका ऊर्ध्वाश्चावृत्ताश्च्चे’ त्यादीनि॥

संग्रहकारिका॥

उद्गीथाद्याश्रयाविद्या क्रत्वङ्गं पर्णतानयात्।

तेनोभौवाक्यतोनाङ्गं स्वतस्साध्यापृथक्फला ॥

इति तन्निर्धारणानियमाधिकरणम् ॥17॥

______________________________________________

प्रदानवदेवतदुक्तम् ॥42॥

पूर्वाधिकरणं प्रासङ्गिकम्। तत्पूर्वाधिकरणप्रस्तुतदहरविद्याविषयनिरूपणं क्रियतइति सङ्गतिः। दहरविद्यायां ‘तद्यइहात्मानमनुविद्यव्रजंती’ ति दहराकाशस्योपासनमुक्त्वा ‘एतांश्चसत्यान्कामानि’ तिगुणानामपि पृथगुपासनं विहितम्। तत्रसंशयः- गुणचिन्तनेष्वपि तत्तद्गुणविशिष्टतया दहराकाशस्य चिन्तनमावर्तनीयं नेति प्राथमिकधर्मिचिन्तनेनैव पर्याप्त्यपर्याप्तिभ्यां संशये पूर्वपक्षः- धर्मी दहराकाशस्तावत्प्रथमं चिन्तनीयः। तदुपासनस्य प्रथमं पृथग्विधानात्। तदुपजीवनादेव धर्माणामुपासनासिद्धेस्तेषामुपासनार्थं पुनर्धर्मिचिन्तनं नावर्तनीयमिति। सिद्धान्तस्तु- प्रतिधर्मोपासनमावर्तनीयं धर्मिचिन्तनम्। गुणिनोदहराकाशत्वेपि तस्यप्रथमं चिन्तितत्वेपि तत्स्वरूपमात्रादपहतपाप्मत्वादिगुणविशिष्टाकाराणां भिन्नत्वात्।      यथा ‘इन्द्रायराज्ञे पुरोडासमेकादशकपालंनिर्वपे दिंन्द्रायाधिराजायेंद्राय स्वराज्ञ’ इति अत्रेंन्द्रस्यैकस्ययष्टव्यत्वेपि तस्यैवराजादिगुणविशिष्टत्वेपि तत्तद्गुणसंबन्ध्याकारभेदात्प्रदानावृत्तिः क्रियते। तदुक्तंसङ्कर्षे ‘नानावादेवतापृथक्त्त्वादि’ ति। तन्नानाप्रदानाधिकरणमित्थमस्ति। त्रैधातवीयेष्टिः। सा ‘इन्द्रायराज्ञ’ इत्यादिवचनविहितत्रिपुरोडाशा। तेषां पुरोडासानामुपर्युपर्यधिश्रयणं सर्वेषां युगपदवदानं च विहितम्। तेषां यद्यपि पूर्वार्धादवदानं प्रकृतिवत्कर्तुं शक्यम्। तथाऽपि मध्यादवदानं यथा कर्तुं न शक्यतमं” पुरोडाशानां मध्ये नळकप्रवेशनाद्युपायेन मध्यादपि युगपदवदानं ग्राह्यम्। एवंस्थिते प्रदानमपि युगपत्कर्तव्यं क्रमेणवेति संशये तेषां ‘अपृथक्प्रदानमवदानैकत्वा’ दिति सूत्रेणावदानवत्प्रदानमपि अपृथग्युगपदेव कार्यमिति पूर्वपक्षः कृतः। तत्रेदं सूत्रं- ‘नानावा देवतापृथक्त्वा’ दिति। द्रव्याणां भेदात् विशिष्टरूपाणां देवतानां च भेदात्त्रिभिर्द्रव्यदेवतासम्बन्धैः कल्प्यानां त्रयाणां यागानां भेदात् तत्तद्देवतोद्देशेन क्रमिकाणि प्रदानानि कर्तव्यानीति सूत्रार्थः॥

 संग्रहकारिका ॥

आनन्दादिविशिष्टधर्मिकलनादन्याहि धर्माष्टके

धीः कार्या विहिता तदर्थमपि तत्स्यात्तंत्रनित्येति चेत्।

आवर्त्य प्रतिधर्ममेव हविषश्शक्ये प्रदानं यथा तत्तद्धर्मविशिष्टरूपमितरद्यत्केवलाद्धर्मिणः॥

इति प्रदानाधिकरणम् ॥18॥

___________________________________________________

लिंगभूयस्त्वास्तद्धि बलीयस्तदपि ॥43॥

पूर्वाधिकरणप्रस्तुतदहरविद्योपास्यविशेषनिर्धारणविचारस्तत्प्रसङ्गात् क्रियत इति सङ्गतिः। तैत्तिरीयाः ‘दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम्। तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासिदव्य’ मिति दहरविद्यां प्रकृत्याधीयते। ‘सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम्।  विश्वं नारायणं देवमक्षरं परमं प्रभु’ मित्यारभ्य ‘स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमः स्वरा’ डित्यन्तम्। किमत्र प्रकृतदहरविद्यापास्यो नारायण इति, निर्धार्यते, उत सकलपरविद्योपास्यो नारायण इति निर्धायते, इति। नारायणत्वविधानस्य दहरविद्योपास्योद्देश्यकत्व सकलविद्योपास्योद्देश्यकत्वा निर्णयात् संशये दहरविद्यायाः प्रकृतत्वादाद्य एव पक्षो युक्तः। अत एव नारायणानुवाके ‘पद्मकोशप्रतीकाश’ मित्यादिना दहरोपासनाविषप्रपञ्चनमेव कृतमिति पूर्वपक्षः। सिद्धान्तस्तु- सकलपरविद्योपास्यनिर्धारणार्थोऽयमनुवाकः। तत्तद्विद्यागताक्षरशिवशम्भुपरब्रह्मपरंज्योतिः परतत्वपरमात्मादिशब्दनिर्दिष्टमुपास्यमिह तैरेव शब्दैरिहानुद्य तस्य नारायणत्वविधानात्। एवं भूयसीषु विद्यासु श्रुतैः शब्दैरुपास्यमनूद्य तस्य नारायणत्वविधानरूपलिंगभूयस्त्वात् नारायण एव सकलपरविद्योपास्य इति निर्णीयते। अत्र लिंगशब्दः चिह्नपर्यायो वाक्यमाचष्टे। न च द्वितीयान्तानामुद्देश्यविधेयभावान्वयबोधकत्वानुपपत्तिः। ‘येनावृतं खं च दिवं महींच’ इत्यादाविवेह द्वितीयान्तानां प्रथमार्थत्वात्। ‘विश्वमेवेदं पुरुषः, अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’ इत्यादिप्रथमान्तसामानाधिकरण्यात्। एवं च यथा ‘ऐतदात्म्यमिदं सर्व’ मिति सामान्येनाप्युक्तं सर्वात्मकत्वं सम्बोध्यश्वेतकेतावप्यस्तीति ‘तत्वमसी’ ति तस्मिन्नुपसंहृतम्, एवं सकलपरविद्योपास्यस्य प्रकृतदहरविद्योपास्यत्वमप्यस्तीति तत्र नारायणस्योपास्यत्वमुपसंहृतमिति न काचिदसङ्गतिः। प्रकरणाद्वाक्यानां बलीयस्त्वात्। ‘सहस्रशीर्षं देव’ मित्यादिवाक्यैर्नारायणस्य सकलपरविद्योपास्यत्वबोधनेऽपि नानुपपत्तिः। प्रकरणाद्वाक्यबलीयस्त्वमप्युक्तं पूर्वकाण्डे ‘श्रुतिलिंगवाक्यप्रकरण- स्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्’ इति॥

संग्रहकारिका ॥

प्रकृतदहरविद्योपास्यनिर्धारणार्थः प्रकटमुपरितत्संस्पृष्टऊर्ध्वानुवाकः।

अनुचिततरमेतत्प्रकियायन्त्रितत्वं स खलु विविधवाक्यैस्सर्वविद्यानुयायी ॥

इति लिंगभूयस्त्वाधिकरणम् ॥19॥

______________________________________________________

पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॥44॥

अतिदेशाच्च ॥45॥

विद्यैव तु निर्धारणाद्दर्शनाच्च ॥46॥

श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥47॥

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ॥48॥

न सामान्यादप्युपलब्धेर्मृत्युवन्नहि लोकापत्तिः ॥49॥

परेण च शब्दस्य ताद्विध्यं भूयत्स्वात्त्वनुबन्धः ॥50॥

प्रकरणाद्बलीयसा वाक्येन नारायणानुवाकस्य सर्वविद्यासाधारण्यमुक्तम् । इह प्रकरणस्य बाधकाभावात् मनश्चितादयः क्रियामयक्रत्वनुप्रवेशिन इति प्रत्यवस्थानात्सङ्गतिः । वाजसनेयके अग्निरहस्यब्राह्मणे मनश्चितादयोऽग्नयस्समाम्नाताः । ‘षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीन्मनोमयान्मनश्चित’ इत्यादिना मनश्चितो वाक्चित: प्राणचितश्चक्षुश्चित: कर्मचितोऽग्निचित इति च । पुरुषस्य शतसंवत्सरमित आयुषि षट्त्रिंशत्सहस्राणि दिनानि । तत्रैकस्मिन्दिने यावती मनोवृत्तिः तस्या एकैकाग्नित्वे सति मनश्चितोऽग्नयः प्रत्येकं षट्त्रिंशत्सहस्राणि सम्पद्यन्ते । एवं वाक्चितादयोऽपि वाग्व्यापारादिरूपाग्नयः प्रत्येकं षट्त्रिंशत्सहस्राणि सम्पद्यन्ते । तत्र कर्मचितो वागिंद्रियातिरिक्तकर्मेन्द्रियव्यापाराः देहव्यापारा वा । अग्निचितो जाठराग्निव्यापाराः । एते मनश्चितादयः साम्पादिकाग्नयः किं क्रियामयक्रत्वन्वयिन उत विद्यामयक्रत्वन्वयिन इति विद्यामयक्रतुविधिकल्पनया तत्र श्रुतिलिंगवाक्यैर्मनश्चितादीनां विनियोगसत्त्वासत्त्वाभ्यां संशये, तत्र पूर्वपक्षः – प्राक् ‘असद्वा इदमग्र आसी’ दित्यादिनेष्टकचितोऽग्निः प्रकृतः । तेनाव्यभिचरितक्रतुसम्बन्धिनोपस्थापितः क्रियामयः क्रतुरिति तस्याङ्गभूता एते मनश्चितादयः स्युः । न तु विद्यामय क्रतोः । तद्विध्यश्रवणेन तस्यैवाभावात् । ‘मनसैवाचीयन्त मनसैषुग्रहा अगृह्यन्त मनसास्तुवत मनसाशंसन् यत्किंचिद्यज्ञे कर्म क्रियते यत्किंच यज्ञीयं कर्म मनस्यैव तेषु मनोमयेषु मनश्चित्सु मनोमयं क्रियत’ इति अग्निवत् विद्यामयानि क्रत्वङ्गान्येवहि श्रूयन्ते । न च विद्यामयः क्रतुविधिः कल्प्यः । कल्पकाभावात् । ननु ‘ते हैते विद्याचित एवे’ ति निर्धारणश्रुत्या ‘विद्यया हैवैत एवंविदश्चिता भवन्ती’ ति च विवृतया विद्यामयक्रत्वन्वयोऽवसीयते। विद्यारूपत्वस्य सिद्धत्वेनावक्तव्यतया तस्या विद्यामयक्रत्वन्वयबोधनार्थत्वात् । तानि हैतान्येवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपत इति लिंगेनाप्यवसीयते । विद्यावते सर्वभूतैः क्रियमाणं सर्वकालव्यापिचयनं परिमितकर्तृकालयुक्तक्रियामयेष्टकचितकार्यद्वारेण क्रत्वनुप्रवेशमलभमानं विद्यामयक्रत्वनुप्रवेशे लिंगं भवति । एवंविदे चिन्वन्तीति पुरुषसम्बन्ध प्रितपादकेन वाक्येनापि तथाऽवसीयते । श्रुतिलिंगाभ्यां क्रियामयक्रत्वङ्गत्वे वारिते पुरुषसम्बन्धस्य विद्यामयक्रत्वङ्गत्वद्वारेण निर्वाह्यत्वात् क्रत्वर्थत्वे पुरुषसम्बन्धाभावादिति चेत् । मैवम् । आर्थवादिकश्रुतिलिंगवाक्यानां विद्यामयक्रतुविधिकल्पनया प्रकरणप्राप्तक्रत्वनुप्रवेशबाधकत्वायोगात् । अतोऽवधारणादिकं बाह्यसाधनानपेक्षापरत्वादिना कथञ्चिन्नेम् । ननु प्रकरणे इष्टकचितेऽग्नौ समर्पिते तदवरुद्धे क्रतौ कथं विद्यामयस्याग्नेरवकाश इति चेत्, तेन विकल्पो भविष्यति । नन्वेककार्याणां विकल्पः । नचेष्टकचितस्याग्नेः कार्यमाहवनीयधारणं विद्यामयोग्निः कर्तुं शक्नोतीति चेत् उच्यते । नाग्निः क्रत्वंगम् । किं तु गोदोहनवत् फलार्थगुणः । ‘अभागिप्रतिषेधा’ दित्यर्थवादाधिकरणसूत्रे वार्तिककारैः ‘पशुकामश्चिन्वीते’ ति श्रुतिमुदाहृत्य तथा निर्णीतत्वात् । तथा च क्रियामयाग्नेः कार्यं पशुफलं विद्यामयाग्निनापि भवितुमर्हतीति न विकल्पानुपपत्तिः । तथाऽपि मानसस्य विद्यामयाग्नेः कथं क्रियामयक्रत्वंगत्वमिति चेत् मानसग्रहवदिति ब्रूमः । तथा हि – द्वादशाहे दशमेऽहनि ‘अनया त्वा पृथिव्या पात्रेण समुद्रं सरया प्रजापतयेत्वा जुष्टं गृह्णामी’ ति मन्त्रग्राह्यः पृथिवीपात्रत्वादिध्यानयुक्तो मानसग्रहः श्रूयते । स च ‘पत्नीसंयाज्यमानसाय प्रसर्पन्ती’ ति विहितो दशमस्याह्नोऽङ्गमिति पूर्वतंत्रे व्यवस्थापितम् । तथैव विद्यामयस्याग्नेः क्रियामयक्रत्वंगत्वं घटत इति न काचिदनुपपत्तिः । अपि च ‘तेषामेकैक एव तावान् यावानसौ पूर्व’ इति मनश्चितादीनां मध्ये एकैक एव विद्यामयोऽग्निः पूर्वप्रस्तुतेष्टकचिताग्निसमानवीर्य इति अतिदेशोऽपीष्टकचिताग्न्येककार्यत्वेन क्रियामयक्रत्वनुप्रवेशं गमयति । तस्मात् क्रियामयक्रत्वंगान्येव मनश्चितादय इति । एवं प्राप्ते सिद्धान्तः – अवधारणादिभिर्मनश्चितादयो विद्यामयक्रत्वङ्गानि। न च बाह्यसाधनानपेक्षमवधारणम्। विद्याबाह्यानपेक्षत्वस्य स्वतस्सिद्धत्वेन तद्विषयत्वे वैयर्थ्यात्। न तु विद्यामयक्रतोरसिद्धिः । श्रुतविध्युद्देशानामर्थ वादानामन्यार्थदर्शनरूपत्वेपि अश्रुतविध्युद्देशेषु मानसस्तोत्रशस्त्रादिषु ‘वचनानित्वपूर्वत्वा’ दिति न्यायात् विधिकल्पनावश्यम्भावेन तत एव तदंगस्य विद्यामयक्रतोरपि कल्प्यत्वात् । सोमे वचनाद्भक्षो न विद्यत इति । पूर्वतन्त्राधिकरणे हि सोमे शेषभक्षो नास्ति वचनाभावात् । ‘सर्वतः परिहारमाश्विनं भक्षयत’ त्यादिवचनानां गुणविधानार्थत्वात् । न च गुणविधानस्य भक्षणविधिमन्तरेणानुपपत्तिः । तस्यैच्छिकभक्षणाश्रयत्वोपपत्तेः । ‘प्राङ्मुखोन्नानि भुञ्जीते’ त्यादिवचनविधेयदिङ्नियमादीनामैच्छिकभोजनाद्याश्रयत्वदर्शनात् इति पूर्वपक्षं कृत्वा विशिष्टविधिरूपाण्येव तानि भक्षणस्याप्यपूर्वत्वा’ दिति सूत्रेण सिद्धांतितम् । किंच स्तोत्रशस्त्रादिवत् भक्षणादिकमपि मानसमिह विधेयं ‘यत्किंचन यज्ञे कर्म क्रियते यत्किं च न यज्ञयं कर्मे’ ति द्विरुक्त्या यज्ञानुबन्धि यद्गुणजातं तस्य सर्वस्यापि ग्रहणात् । तेन भक्षणयुक्तफलचमसवदभिषवयुक्तपूतीकवच्च क्रत्वर्थं भवत् कथं वारणीयम् । नच क्रियामयक्रत्वर्थेन तन्निर्वाह:। क्रियामयस्य क्रतो: क्रियामयभक्षणाद्यवरोधात्।न च तैर्विकल्पसम्भवः । मानसभक्षणस्य क्रियामयकार्यत्वाभावात् । तस्माद्यथा दहरविद्यादि क्रियामयात्क्रतोः पृथग्भूतं तथा यज्ञानुबन्धिभिर्विद्यामयग्रहस्तोत्रशस्त्रादिभिर्विद्यामयः क्रतुरनुवादसरूपविधिकल्प्योऽवगम्यमानः पृथग्भूतः । न च तस्य फलाश्रवणाद्वैयर्थ्यम् । ‘तेषामेकैकएव तावान्यावानसौ पूर्व’ इत्यतिदेशेनेष्टकचितस्याग्नेः स्वक्रतुद्वारेण यत्फलं तदेव मनश्चितादीनामपि स्वक्रतुद्वारेण फलमित्यवगमात्।नचानेनैवातिदेशेन मनिश्चितादी मिष्टकचिताग्निसाम्यावगमात्तद्वत्क्रियानुप्रवेशः । यतः कुतश्चित्साम्यादतिदेशोपपत्त्या सर्वसाम्यानपेक्षणात् । न हि मनश्चितादिब्राह्मणात् पूर्वब्राह्मणे ‘स एष एव मृत्यु’ रित्यादित्ये मृत्युशब्दो यत्किंचित्संहर्तृत्वमादित्यस्याप्यस्तीति तावन्मात्रेणापर्याप्तस्तस्य मृत्युलोकावस्थितिमप्यपेक्षते । नन्विह यदि विद्यामयः क्रतुर्विवक्षितः, तदंगत्वं च मनश्चितादीनां, तदाऽग्रे बृहदारण्यक एवैतदाम्नानं स्यात् । न त्वग्निरहस्ये । अतोऽग्निरहस्याम्नानात् प्रकृतक्रियामयक्रत्वंगतावगम्यत इति चेत् । नायं नियमः, यद्बृहदारण्यक एव विद्यानामाम्नानमिति परेण ब्राह्मणेन ‘अयं वाव लोक’ इति चितेऽग्नौ पृथिवीदृष्टिविधानस्य ‘अश्मन्नूर्जमिति परिषिंचती’ ति विहिताग्निपरिषेचनजले समुद्रजलदृष्टिविधेः मनुष्या यजुष्मत्य इष्टका इत्यादिनाऽग्न्यनुबन्धिषु भूलोकानुबंधिवस्तुविशेषदृष्टिविधीनां च दर्शनात् । एवं विद्यानामप्यग्निरहस्ये समाम्नानं मनश्चिदादिसंपादनीयानामग्न्यंगानां भूयस्त्वात् । सांगेष्टकचिताग्निसमाम्नानसन्निधानेन हि तेषामवगमे बुद्धिसौकर्यं भवति । अतस्तत्सन्निधाने मनश्चिताद्यनुबन्धः इति॥

संग्रहकारिके॥

प्रस्तुतेष्टकचितेन हि क्रतौ धीपदं यदि मनश्चिदादिकः ।

अङ्गभावमयति क्रियामये द्वादशाहइव मानसग्रहः॥

अस्य तावदवधारणादिकं वारयत्यनुमितां क्रियाङ्गताम् ।

धीमयः क्रतुरिहास्ति कल्पितस्तेन सोऽयमयते तदङ्गताम्॥

॥ इति पूर्वविकल्पाधिकरणम् ॥20॥

______________________________________________________

एक आत्मनश्शरीरेभावात् ॥51॥

व्यतिरेकस्तद्भावश्रावित्वान्नतूपलब्धिवत् ॥52॥

पूर्वाधिकरणं प्रासङ्गिकमिति तत्पूर्वाधिकरणेन सङ्गतिरुच्यते। तत्र सर्वासु विद्यासु पर एवानुसन्धेय इत्युक्तम्। तथा तद्विशेषणत्वेनापहतपाप्मत्वादियुक्तः            प्रत्यगात्माऽप्यनुसन्धेयो निरूप्यत इति। सर्वासु विद्यासु परब्रह्मरूपोपास्यवत् प्रत्यगात्मरूपोपासकोऽपि तद्विशेषणत्वेनानुसन्धेय इति ‘आत्मेतितूपगच्छन्ती’ ति चतुर्थाध्यायाधिकरणे वक्ष्यते। किमयं प्रत्यगात्मा सांसारिक कर्तृत्वभोक्तृत्वादियुक्तोऽनुसन्धेयः, किं वा मुक्तिदशाभाव्यपहतपाप्मत्वादिविशिष्टोऽनुसन्धेय इति तत्क्रतुन्यायस्य प्रत्यागात्मसाधारण्यासाधारण्याभ्यां संशये पूर्वपक्षः। उपासनदशायामुपासकस्य शरीरवर्तमानत्वात्तद्दशायं यद्रूपं तदेवासन्धेयम्। तदनुसन्धानेनैव फलसिध्युपपत्तेः। न हि कर्मठानां स्वर्गार्थिनां स्वर्गानुभवदशायां यद्रूपं तत्कर्मानुष्ठानदशायामनुसन्धातव्यम्। तदविशेषादिहापि तथैव। ननु ‘यथाक्रतु’ रित्यादिविशेषवचनमस्तीति। मैवम्। तस्य ‘तं यथायथोपासत’ इति वचनांतरानुसारेणोपास्यविषयत्वादिति। सिद्धान्तस्तु। मोक्षदशायां यो विशेषोऽपहतपाप्मत्वादिस्तद्विशिष्टोऽनुसन्धेयः। जीवस्यापहतपाप्मत्वादिरूपापत्तेस्तत्क्रतुन्यायेन तथानुसन्धानसद्भावभावित्वात्। ‘तं यथायथोपासत’ इत्यत्र तच्छब्दस्य प्रत्यगात्मविशिष्टविषयत्वात्। प्रत्यगात्मनोऽपि ब्रह्मशरीरतयोपास्यकोटिनिक्षिप्तत्वेन तस्य तद्विशिष्टविषयत्वावश्यम्भावात्। अतो यथोपासनारूपाब्रह्मोपलब्धिर्यथावस्थितब्रह्मस्वरूपविषया तथात्मोपलब्धिरपि यथावस्थितात्मस्वरूपविषयैव वक्तव्या। कर्मस्वात्मस्वरूपानुसन्धानं तु न कर्माङ्गम्। कर्मानुष्ठानमात्रं हि स्वर्गादिफलाय चोद्यते देहातिरिक्तात्मज्ञानमात्रं तत्रापेक्षितमिति वैषम्यम्॥

 संग्रहकारिका॥

विद्यासु जीवः परमात्मनोऽयं विशेषणत्वेन परासु चिंत्यः।

कर्तृत्वभोक्तृत्वमुखावरुद्धस्तस्या दशायां हि तदस्ति तस्य॥

प्राप्त्यापहतपाप्मत्वप्रमुखैस्सहितो गुणः।

चिन्त्योयं तत्क्रतुन्यायाद्विशेषणविशेष्यगात्॥

इति शरीरे भावाधिकरणम् ॥21॥

________________________________________________

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥53॥

मन्त्रादिवद्वाऽविरोध: ॥54॥

यत्रयत्र ब्रह्मणः उपास्यत्वं तत्रतत्र शुद्धस्वरूपस्य जीवस्योपास्यत्वमुक्तम्। एवं यत्रयत्र शाखायामुद्गीथाद्याश्रयमुपासनमुक्तं तत्रतत्र शाखायां तत्तच्छाखागतोद्गीथस्यैवोपास्यत्वमिति शङ्क्या सङ्गतिः। सन्त्युद्गीथादिक्रत्वङ्गाश्रया विद्या नानाशाखास्वाम्नाताः। उद्गीथादयश्च प्रतिशाखं प्रायस्स्वरवर्णभेदेन भिद्यन्ते। एवं च यस्यां शाखायां उद्गीथाद्याश्रया उपासना विहितास्तास्तत्तच्छाखागतोद्गीथाद्याश्रया एव कार्या इति नियमः, उत सर्वशाखान्तरेषु स्वरवर्णभेदभिन्ना य उद्गीथादयस्तदाश्रया अपि कार्या इति अनियम इति सर्वासु शाखासु शाखान्तराम्नातोद्गीथादीनां सन्निधानं नास्ति अस्तिवेत्यनिर्णयात् संशये पूर्वपक्षः। तत्तच्छाखागतोद्गीथाद्याश्रया एव तत्तच्छाखाम्नातोद्गीथाद्याश्रयोपासनाः कार्या इति नियमो युक्तः। उद्गीथादिश्रतेस्सन्निहतविशेषपर्यवसानात्। नचाविशेषश्रुतेः सन्निधिना सङ्कोचो न युक्त इति वाच्यम्। ‘गामानये’त्यादिषु गवादिशब्दानां बुद्धिसन्निहतव्यक्तौ सङ्कोचदर्शनादिति पूर्वपक्षः॥

राद्धन्तस्तु- उद्गीथादिश्रुत्यविशेषात् न सङ्कोचो युक्तः। गामानयेत्यादिव्यवहारे सर्वगोव्यक्त्यानयनासम्भवात् गोशब्दश्रुतेरेव सङ्कोचापेक्षाऽस्तीति तदपेक्षितसङ्कोचस्सन्निधिना क्रियते। न च सङ्कोचकापेक्षाऽस्ति। यत्किंचिदुद्गीथाद्याश्रयतयोपासनोपपत्तेः। न हि गामानयेति वदतो गोव्यक्तिवेशेषविवक्षावत् ‘उद्गीथमुपासीते’ त्यादिविधीनामुद्गीथादिविशेषविवक्षायां प्रमाणमस्ति। यद्युच्येत निर्विशेषसामान्येन व्यवहारायोगादनुष्ठानार्थमवश्यं यत्किंचिद्विशेषपर्यवसानावश्यम्भावात् सन्निहितविशेषपर्यवसानं स्यात्। यथा ‘अक्ताश्शर्करा उपदधाती’ त्युपक्रमगते विधिवाक्येऽञ्जनसाधनस्नेहद्रव्यमात्रप्रतीतौ निर्विशेषसामान्येन व्यवहारायोगात् विशेषपर्यवसानापेक्षायां चरमश्रुतेन ‘तेजोवै घृत’ मित्यर्थवादेन समर्पिते घृते पर्यवसानमिति। एवं तर्हि सर्वास्वपि शाखासु शाखान्तराम्नातानामप्युद्गीथादीनां सन्निधानमविशिष्टमिति ब्रूमः। सर्वास्मपि शाखासु सर्वशाखाप्रत्ययन्यायेन क्रतोरैक्यात्। तदेकत्वे च क्रत्वङ्गानां सर्वेषां सन्निधानावश्यम्भावात्। सर्वाङ्गसहितो हि क्रतुः सर्वशाखाप्रत्ययन्यायविषयः। अत एव वेदान्तरम्नातानां ‘अग्नेर्वेर्होत्रंवेरध्वर’ मित्यादि मन्त्राणां वेदान्तरे परिग्रहः ‘अजोऽग्नीषोमीय’ इति शाखान्तराम्नातछागजातेः ‘यदग्नीषोमीयं पशुमालभत’ इति पशुमात्रोपदेशवति शाखान्तरे परिग्रह इत्यादि द्दश्यते। तस्माद्या उद्गीथाश्रया आप्त्यादिविशिष्टप्राणाकाशादिविशिष्टोपासनाः, याश्च ‘लोकषु पञ्चविधं सामोपासीत अयं वाव लोक एषोऽग्निचित’ इत्यादिषु लोकपृथिवीलोकादि दृष्टिविशिष्टसामाग्न्याद्युपासनाः, तासु सर्वास्वपि शाखाभेदेन स्वरवर्णभेदभिन्नानि सामानि शाखाभेदेनाकृतिभेद भिन्नाश्चित्याग्नयश्चाश्रया भवन्तीत्यादि द्रष्टव्यम्॥

संग्रहकारिका।

उद्गीथाद्यश्रया विद्यास्तत्तच्छाखस्थगोचराः।

मैवं सान्निध्यमन्येषामप्यस्त्यङ्गमुखागताः॥

इति अङ्गावबद्धाधिकरणम् ॥22॥

श्रूम्नः क्रतुवज्जयायस्त्वं तथा हि दर्शयति ॥55॥

पूर्वाधिकरणे सामोद्गीथादिकं प्रस्तुतम्। तत्र यथा ‘समस्तस्य खलु साम्न उपासनं साधु’ ‘ओमित्येतदक्षरमुद्गीथमुपासीते’ ति श्रुतिद्वयवशात् समस्तस्य व्यस्तस्यचोपासनं, एवं वैश्वानरविद्यायमपीति सङ्गतिः। वैश्वानरविद्यायां स्वर्लोगादित्यवाय्वाकाशपृथिवीनां प्रत्येकं वैश्वानरत्वं व्यस्तानां तेषामुपासनेषु प्रत्येकमाख्यातं फलं च श्रूयते। स्वर्लोकादिपृथिव्यन्तं त्रैलोक्यशरीरो वैश्वनरश्च व्यस्तोपासननिंदापूर्वकं समस्तस्य तस्योपासनं तत्फलञ्च श्रूयते। तत्र किं व्यस्तानामेवोपासनं कार्यम्, उत व्यस्तानां समस्तस्य च, अथवा समस्तस्यैवेति पक्षत्रयबलाबलानवधारणात् संशये पूर्वपक्षः। व्यस्तानामुपासनं कार्यम्। ‘एष वै सुतेजा आत्मा वैश्वानर इत्यादिवाक्यैस्सुतेजश्शब्दाद्युक्तानां द्युप्रभृतीनां प्रत्येकं वैश्वानरत्वप्रतिपादनात् ‘अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्त’ इति द्युप्रभृतिषु प्रत्येकं वैश्वनरबुध्योपासनानां अन्नादनादिरूपतत्फलानां च श्रवणाच्च। अग्रे ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इति वाक्यं द्युप्रभृतिदेशावच्छिन्नपरिमाणस्य त्रैलोक्यशरीरस्य वैश्वानरस्योपासनान्तरविद्यायकं न भवति।किं तु व्यवस्तोपासनसमुदायानुवादकम्। ननु ‘यस्त्वेतमेवं प्रादेशमात्रभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ती’ ति समस्तोपासनस्य सर्वलोकसर्वभूतसर्वात्मभोग्यब्रह्मानन्दरूपफलश्रवणात् समस्तोपासनविधिरावश्यक इति चेत् तर्हि व्यस्तसमस्तविषयद्विविधमुपासनं कार्यमित्यस्तु। व्यस्तोपासननिंदा नहिनंदान्यायेन समस्तोपासनप्रशंसापरा न तु व्यस्तोपासननिषेधार्था इत्युपपत्तेः। नन्वौपमन्यवादय उद्दालकषष्ठा:  कैकयराजमुपसंगम्य ‘आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूही’ ति पृष्टवन्त इत्युपक्रमात् कैकयराजोपदिष्टं स्वर्लोकादिपृथिव्यन्तशरीरं वैश्वानरं तदुपासनफलञ्चावगतवन्त इत्युपसंहाराच्च उपक्रमोपासंहारैकरूप्यावगतमेकवाक्यत्वं व्यस्तसमस्तविषयानेकोपासनाविधिसमाश्रयणे बाध्येतेति चेत् न। भूमविद्यान्यायेन तदबाधोपपत्तेः। भूमविद्यायां हि सत्यशब्दोक्तस्य ब्रह्मणस्सर्वतो भूयस्त्वप्रतिपादनार्थं तदवधित्वेनोपन्यस्यमानेषु नामादिप्राणान्तेष्वप्युपासनाविधिरङ्गीकृतः। न च तत्र ‘श्रुतंह्येवमे भगवद्दृशेभ्यस्तरति शोकमात्मविदि’ ति ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमार’ इत्युपक्रमोपसंहारैकरूप्यावगतैकमहावाक्यभावस्य बाधः। एवमिहापि त्रैलोक्यशरीरस्य वैश्वानरस्य प्रतिपादनार्थं तदवयवत्वेनोपन्यस्यमानेषु स्वर्लोकादिषु प्रासङ्गिकोपासना तत्फलाभिधानमिति न ततो महावाक्यैक्यबाधः। तस्मात्समस्तस्यैवोपासनं कार्यमित्येतन्नयुक्तमिति॥

एवं प्राप्ते सिद्धान्तः। समस्तस्यैवोपासनं कार्यम्। उपक्रमोपासंहाराभ्यामेकवाक्यत्वावगमानुरोधेनावयव विशेषेषूपास्तितत्फलवचनानां समस्तोपासनातत्फलैकदेशानुवादमात्रमिति जातेष्टिवाक्यन्यायेन कल्पनोपपत्तेः। जातेष्टिवाक्ये हि ‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवती’ त्युपक्रमोपसंहारैकरूप्यावगतैक्यमहावाक्यभावे ‘यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्रिवृतैवास्मिन् तेजो दधाति यद्दशकपालो विरजैवास्मिन्नन्नाद्यं दधाति यदेकादशकपालस्रिष्टुभैवास्मिन्निंद्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन् पशून् दधाती’ ति वाक्यानां द्वादशकपालपुरोडाशतत्फलैकदेशानुवादत्वं पूर्वतन्त्रे निर्णीतम्। अतस्समस्तस्यैवोपासनं कार्यम्। तथैव व्यस्तोपासनेष्वनर्थं ब्रुवती श्रुतिरपि दर्शयति वैश्वानरबुध्योपासीनं प्रति ‘मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य’ इति निंदावचनम्। एमन्येष्वपि चतुर्षु निंदावचनानि द्दश्यन्ते। नामाद्युपासनेषु निंदावचनाभावात्तान्यभ्युपगम्यन्त इति वैषम्यम्॥

संग्रहकारिकाः॥

व्यस्तो वैश्वानरश्चिंत्यः प्रत्येकं फलवर्णनात्।

समुदायानुवादोऽस्तु कृत्स्नोपास्तिफलश्रुतिः॥

यद्वा कृत्स्नोऽप्युपास्योऽस्तु श्रुतेस्तत्रापि भावतः।

भूमाधिकारे नामादेर्भूम्नश्चोपासने यथा॥

समस्तएवतूपास्यः तव्द्यस्तोपास्तिनिंदनात्।

अवयुत्यानुवादाः स्युः व्यस्तोपास्तिफलोक्तयः॥

नामादीनामुपासातु नैव श्रुत्यापि निंदिता।

भूमविद्याफलोत्कर्षावधित्वेनाप्यपेक्षिता॥

इति भूमज्यायस्त्वाधिकरणम् ॥23॥

___________________________________________________

नानाशब्दादिभेदात् ॥56॥

स्वर्गलोकादिसमस्तावयविषयतया वैश्वानरविद्याया इव तत्तद्विद्याम्नातसकलगुणविषयतया सर्वासां ब्रह्मविद्यानां ऐक्यमिति शङ्क्या सङ्गतिः। नानाशाखानानाप्रकरणाम्नातानां सद्विद्यानन्दमयविद्याप्रतर्दनविद्या शाण्डिल्यविद्यादीनामैक्यं भेदोवेति वेद्यब्रह्मैक्यात्तत्तत्प्रकरणव्यवस्थितगुणभेदाच्च संशये पूर्वपक्षः। वेद्यस्य ब्रह्मणो रूपस्यैक्यात् ब्रह्मप्राप्तिरूपफलैक्याच्च विद्यानामैक्यमिति। ननु ‘इन्द्राय राज्ञ’ इत्यत्र हविःप्रदानरूपस्य यागस्य सर्वत्रैकरूपत्वेऽपि यष्टव्यस्येन्द्रस्यैकत्वेऽपि राजादिगुणभेदाद्यागभेदः ‘प्रदानवदेव तदुक्त’ मित्यधिकरणे सङ्कर्षसिद्धउदाहृतः। तेनैव न्यायेन विद्यानां भेदस्सिध्यतीति कथमिह पूर्वपक्षः। न च दहरशाण्डिल्यविद्यादीनां गुणभेदात् सत्यविद्यादीनामक्ष्यादित्यादिस्थानभेदाच्च भेदसिद्धावपि शब्दान्तरप्रयुक्तो भेदः क्वापि न निरूपित इति तन्निरूपणार्थोयं पूर्वपक्ष इति वाच्यम्। यजति ददाति जुहोतिवदपर्यायधातुनिष्पन्नाख्यातरूपस्य शब्दान्तरस्यात्राभावात् ‘ध्यायेदुपासीत क्रतुं कुर्वीते’ त्यादिषु ध्यायत्यर्थादीनां पर्यायत्वात्। उच्यते- भक्तिरूपाणां दहरादिविद्यानां न्यासविद्यायाश्च शब्दान्तरेणापि भेदोऽस्तीति दर्शयितुं सर्ववेदान्तप्रत्ययाधिकरणदर्शितमविधेय- ज्ञानवादनिराकरणं द्दढीकर्तुंचायं पूर्वपक्षो दर्शितः। शब्दान्तरगुणभेदा………मधुविद्योपकोसलविद्यादिष्वभ्युदयमिश्रा ब्रह्मप्राप्तिः फलम्। ज्योतिर्विद्यासु चक्षुष्यत्वाद्यैहिकं फलमिति फलभेदात् सद्विद्याक्षरविद्यादिसमाख्याभेदाच्च प्रतिकरणं विद्याभेद इति सिद्धान्तः॥

संग्रहकारिकाः॥

सर्वासां ब्रह्मविद्यायां रूपं ब्रह्मफलं च तत्।

अतो न भेदो नैवन्ताः नानाशब्दादिभेदतः॥

न्यासोपासनयोस्तावच्छब्दस्स्पष्टंविभज्यते।

उपासनेषु रूपं च तत्तद्ब्रह्मगुणात्मकम्॥

फलं च मधुविद्यादौ मिश्रितं क्वचिदैहिकम्।

सदक्षराद्युपपदैस्समाख्या च विभिद्यते॥

इति शब्दादिभेदाधिकरणम् ॥24॥

____________________________________________

विकल्पोऽविशिष्टफलत्वात् ॥57॥

काम्यास्तु यथाकामं समुच्चीयेरन्नवापूर्वहेत्वभावात् ॥58॥

विद्यानां भेदे सिद्धे विकल्पसमुच्चयचिंतेति संगतिः। किमासां विकल्प एव उत मसुच्चयोऽपि संभवतीति ब्रह्मप्राप्तिफलस्यैकरूप्यवैलक्षण्याभ्यां संशये पूर्वपक्षः। फलातिशयलिप्सया समुच्चयोऽपि संभवति। न च ब्रह्मानन्दानुभवरूपस्य फलस्यैकरूपत्वात् तस्मिन्नितिशयासम्भवः। ‘जक्षत्क्रीडन्रममाण’ इत्यादिश्रुतिप्रतिपन्नेषु जक्षणादिफलेष्वतिशयसंभवात् ‘उपस्थितेऽतस्तद्वचना’ दिति कामाद्यधिकरणसूत्रेण जक्षणादीनामपि मुक्तानुभाव्य विद्याफलत्वस्योक्तत्वादुपास्यगुण तारतम्यवतीनामनियतकालप्रायणपर्यन्तं यदाकदाचिदारभ्यानुवर्तनीयानां विद्यानामनुष्ठितकर्मतारतम्यप्रयुक्तफलतारतम्यावश्यम्भावात्। न च ब्रह्मविद्यानामाप्रयाणं अहरहरनुवर्तनीयतयैकविद्यानुष्ठानं समाप्य विद्यान्तरारम्भायोगात् समुच्चयासम्भवः। प्रत्यहं समयभेदेनानेकविद्यानुष्ठानोपपत्तेः। नतु ‘आप्रयाणात्तत्रापि हि द्दष्ट’ मित्यधिकरणे प्रत्यहं निरन्तरं विद्यानुष्ठेयेति वक्ष्यते। किंतु प्रत्यहं विद्यानुष्ठेयेत्येतावदेव वक्ष्यते। निरन्तरानुष्ठाने नित्यानां विद्यामहकारिणां च कर्मणामारम्भणसंशीलनस्य च निरवकाशत्वापत्तेः। ननु जक्षणरमणादिश्रुतिः ‘सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ती’ त्यादिपित्रादिसृष्टिश्रुतिः ‘कामान्नीकामरूपी’ त्याद्यभिलषितसकलभोग्यवस्त्ववाप्त्यभिलषितसकलरूपपरिग्रहादि श्रुतिः ‘तेषां सर्वेषु लोकेषु कामचारोभवती’ त्यादि तत्तल्लोकसम्भावितसकलभोगभोक्तृत्वश्रुतिरित्येवमादिका यावती मुक्तसम्पद्विषया श्रुतिः, सा सर्वापि मुक्तस्य ब्रह्मानुभवव्यतिरिक्तफलान्तरबोधनार्था न भवति, किं तु ब्रह्मानुभवान्तर्गतफलप्रदर्शनार्थैव। सर्वस्यैवास्य ब्रह्मविभूत्यन्तर्गतत्वात् सविभूतिकब्रह्मानुभवस्यैव मुक्तभोग्यफलताया जगव्द्यापरवर्जाधिकरणे वक्ष्यमाणत्वादिति चेत्। पितृमातृभ्रातृस्वस्रादिसकलसृष्टौ कामनानुसारेण कदाचित्तेषु कतिपयसृष्टौ च विभूतितारतम्यात्। विभूतेश्च सुखरूपत्वस्य प्रागुक्तत्वात् स विभूतिकब्रह्मानुभव एव तारतम्यं सम्भवंतीति न कर्मभूयस्त्वप्रयुक्तफलभूयस्त्वन्यायस्यात्र निरवकाशता। अतः फलभूयस्त्वापेक्षया समुच्चयोऽपि सम्भवतीति। एवं प्राप्ते सिद्धान्तः॥

इत्थं विभूतितारतम्यं नःनिर्धारयितुं शक्यम्। यावन्तो मुक्तास्तैस्सर्वैरपि सृष्टफलविसिष्टं ब्रह्मसृष्टसकलविभूतिविशिष्टं हि ब्रह्मानुभूयते। तथाचैकस्य मुक्तस्य स्वसृष्टाल्पत्वे मुक्तान्तरसृष्टैः ब्रह्मसृष्टैश्च ब्रह्मणि विभूतिरेकरूपाभवेत्। अस्तु वा समयभेदेन विभूतितारतम्यात् सविभूतिकब्रह्मानन्दानुभवे तारतम्यं, तथाऽपि तदेकैकयाऽपि विद्यया भवतीति तदर्थं न समुच्चयापेक्षाऽस्ति। समुच्चयाभाव एव च विद्यातत्सहकारिकर्मानुष्ठानकालव्यतिरिक्ते सर्वस्मिन्कालेऽप्येकैकस्या विद्यायः कर्तव्यं तदारम्भणसंशीलनमपि सामञ्जस्यं लभते। तस्मात् ब्रह्मप्राप्तिफलकानां विद्यानां न समुच्चयः। एवं च विद्यानां गुणतारतम्येन तदनुष्ठानकालतारतम्येन च भवदपि साधनतारतम्यं न फलतारतम्यप्रयोजकम्। एकग्रामप्राप्तिसाधनऋजुसु- पथानृजुकापथभेदवदिति समाधेयम्। एवं ब्रह्मप्राप्तिफलानामेव न समुच्चयः। काम्यानां तु विद्यानां फलभूयस्त्वापेक्षया स्वर्गार्थकर्मणामिव समुच्चयोऽपि सम्भवत्येव॥

संग्रहकारिके॥

ब्रह्मप्राप्तिफला यथारुचि समुच्चित्यनुष्ठेयतां

यांतु स्वर्गफलक्रियावदिति नाशंक्यं फलाभेदतः।

एतासां प्रमितं फलं हि परमं साम्यं परब्रह्मणा

तच्चानन्दमहाम्बुधौ निरवधौ सर्वात्मना मज्जनम्॥

विद्या बह्वल्पगुणा भवन्तु बह्वल्पकालाश्च।

अध्वान इव तथाऽपि प्राप्याभेदो न युज्यते नैव॥

इति विकल्पाधिकरणम् ॥25॥

अङ्गेषु यथाश्रयभावः  ॥59॥

शिष्टेश्च  ॥60॥

समाहारात् ॥61॥

गुणसाधारण्यश्रुतेश्च  ॥62॥

न वा तत्सहभावाश्रुतेः ॥63॥

दर्शनाच्च ॥64॥

काम्ये मुक्तानां यथाकामं विकल्पस्समुच्चयोवेत्युक्तम्। तथोद्गीथादिविद्यानां यथाकाममनुष्ठानमुच्यत इति सङ्गतिः । उद्गीथाद्युपासनानि पर्णतादिवत् क्रतुनियतानि उत गोदोहनादिवदनियतानीति क्रत्वर्थपुरुषार्थत्वाभ्यां संशये पूर्वपक्षः। क्रत्वर्थतया पर्णतान्याय एवात्र युक्तः। न तु पुरुषार्थतया गोदोहनन्यायः। ‘ओमित्येतदक्षरमुद्गीथमुपासीते’ त्यादिविधिवाक्ये फलाश्रवणात् विधिवाक्यस्थफलसम्बन्धे क्रत्वर्थत्वाभावः। विधिवाक्यस्थफलसम्बन्धविरहे क्रत्वर्थत्वमिति नियमस्य गोदोहनादिषु पर्णतादिषु च दृष्टत्वात् । गोदोहनवाक्य इव ‘यदेव विद्यया करोती’ ति वाक्ये फलसम्बन्धबोधकविध्यश्रवणाच्च । ‘उद्गीथमुपासीते’ त्युद्गीथांगतया विधानाच्च । उद्गीथमिति द्वितीयाश्रुत्या ह्युद्गीथस्य शेषित्वप्रतीतेस्तच्छेषत्वेन उपासनं विधीयते व्रीहिशेषत्वेनेव प्रोक्षणम्। उपासनानामुद्गीथादिद्वारा क्रत्वर्थत्वे लिंगमपि दृश्यते । ‘होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरन्ती’ ति छान्दोग्ये ‘य उद्गीथस्स प्रणवो यः प्रणवस्स उद्गीथ’ इत्युद्गातुः प्रणवोद्गीथैक्योपासनं विहितम्। तत्रोद्गीथावयव ओङ्कार उद्गीथः, होतृशंसनीयानामृचामन्ते निवेशनीय ओङ्कारः प्रणवः, तयोरैक्योपासनविधेरर्थवादोऽयं होतृषदनादित्यादिः। अस्यार्थः – दुरुद्गीथमुद्गीथप्रणवैक्योपासनहीनमुद्गीथं होतृषदनाद्धोतृकर्मणः होत्रा सम्यक्प्रयुक्ताच्छंसनादनुसमाहरन्ति समादधति। एवमिदमुद्गीथोपासनहानावन्येन समाधानवचनमुद्गीथोपासनस्य क्रत्वर्थतया नियमेनोपादेयत्वे लिंगम्। तथा गुणसाधारण्यश्रुतेश्च तस्य नियमेनोपादेयत्वमवगम्यते। ‘तेनेयं त्रयी विद्या वर्तते । ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायती’ ति। अत्र हि तेनेति सर्वनामप्रकृतोङ्कारस्योपासनविशिष्टस्यैव परामर्शः, तथैव प्रकृतत्वादिति। एवं नियमरूपयुक्त्या श्रुत्योपासनहानावन्याधीनसमाधानोक्तिलिंगेन गुणसाधारणश्रुत्या चोत्थितमधिकशङ्कान्तरं निराकर्तुमिदमधिकरणमिति न  तन्निर्धारणानियमाधिकरणेनास्य गतार्थता। अधिकशङ्कानिराकरणस्य तदनन्तरमेव कर्तव्यत्वेपि सङ्गतिविशेषादधिकरणान्तरप्राप्तेस्तदनन्तरमिदमधिकरणं कृतम्। एवं प्राप्ते सिद्धान्तः – उपासनानां न क्रत्वर्थत्वम्। तदश्रवणात्। तदश्रवणं च तद्विरोधिनी ‘यदेव विद्यया करोती’ ति फलार्थवत्वस्यैव श्रवणात्। स्ववाक्यस्थत्वं वाक्यान्तरस्थत्वं च फलत्वाफलत्वयोर्न प्रयोजकं किंतु विलम्बमात्रं विलम्बद्वयं च। पर्णतावाक्ये हि विलम्बद्वयमस्ति। पर्णताया अपापश्लोकश्रवणं प्रति साधनत्वाश्रवणात् फलस्य वाक्यान्तरस्थत्वाच्च। गोदोहनवाक्ये त्वन्यतरविलम्ब एव, फलस्य स्ववाक्ये फलश्रवणेन पशुं प्रति गोदोहनस्य साधनतामात्रस्य कल्प्यत्वात् । गोदोहनेनेति तृतीयाश्रुतिर्हि न फलकरणत्वबोधनार्था । सिद्धरूपस्य गोदोहनस्य फलसिध्यर्थानुष्ठानविषयत्वायोगेनानुष्ठेयत्वनिर्वाहार्थं तृतीयावगतक्रियानिर्वर्तकत्वरूपकरणकारकतापन्नतया साध्यरूपत्वं निर्वहणीयमिति तृतीयाश्रुतेरन्यत्र विनियोगात्। एवं पर्णताविधिवाक्ये विलम्बद्वयसम्भवेन वाक्यस्वरससिद्धांगत्वाबाधनायोगात् तत्फलश्रुतिरर्थवाद इत्याश्रितम्। इह तु गोदोहनन्यायेनान्यतरविलम्ब एव विद्यायास्स्वतस्साध्यरूपायाः फलसाधनत्वसम्भवेन तृतीयाश्रुतेः फलसाधनत्वबोधन एव व्यापारात्। तस्मादन्यतरविलम्बसाधर्म्यात् गोदोहनन्याय एवात्र प्रवर्तते। न पर्णतान्यायः। लिंगदर्शनाच्च। गोदोहनादिवदुपासनानामुपादानानियमः। लिंगं हि दृश्यते। ‘एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षती’ ति। छान्दोग्ये  ‘यद्यृक्तो रिष्येत् भूस्स्वाहेति गार्हपत्ये जुहुयात्, यदि यजुष्टो रिष्येत् भुवस्स्वाहेति दक्षिणाग्नौ जुहुयाद्यदि सामतो रिष्येत् सुवस्स्वाहेत्याहवनीये जुहुया’ दित्युपादिश्य ‘एवं विद्ध वा’ इत्याद्याम्नायते। तत्र यज्ञस्य रक्षाऽङ्गवैकल्यप्रयुक्तदोषपरिहारः। यजमानस्य रक्षा बलवद्विरोधिकर्मणा कर्मफलाप्रतिबन्धः। ऋत्विजां रक्षा मन्त्रोच्चारणेषु स्वरादिभ्रंशप्रयुक्तदोषपरिहारः । ‘अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः। आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपु’ रिति मन्त्रहानावृत्विजां दोषस्मरणात्। एवं च यद्युद्गीथाद्युपासना नित्याः स्युस्तदा तत्फलतया कर्मफलाप्रतिबन्धसिद्धेः प्रणवोद्गीथैक्योपासनाफलतयोद्गातुः स्वरभंगादिदोषपरिहारसिद्धेश्च, यजमानस्य सर्वेषामृत्विजां च ब्रह्मणा परिपाल्यत्वं नोच्येत। तदुच्यमानमुपासनानामनित्यत्वं ज्ञापयतीति । तत्र ब्रह्मण एवंवित्त्वं प्रकृतप्रायश्चित्ताभिज्ञत्वम्। एवमस्मादनन्यथासिद्धलिंगात् क्रत्वंगाश्रयोपासनानां क्रत्वंगत्वसिद्धौ ‘उद्गीथमुपासीते’ ति द्वितीया विधीयमानोपासनाश्रयसमर्पणमात्रार्था। ‘वाचं धेनुमुपासीते’ त्यादाविव ‘होदृषदना’दित्यादिकं क्रतूद्गीथोपासनानां सङ्कल्प्य तद्रहितोद्गानविषयमिति च योज्यम्। गुणसाधारण्यश्रुतिस्त्वसिद्धा। ‘तद्वा एतदनुज्ञाक्षरं यद्धि किंचिदनुजानात्योमित्येतदाहे’ ति प्राचीनवाक्यगतपदस्येव तेनेति तत्पदस्याप्योङ्कारमात्रपरामर्शित्वात् ॥

संग्रहकारिकाः ॥

उद्गीथविद्या तु पृथक्फलत्वतो गोदोहनन्यायमितीरितं कथम् ।

तद्वत्स्ववाक्ये हि न वर्णितं फलं संस्कारतैव प्रथते द्वितीयया ॥

क्रतुषु च नियमोऽस्य हानिषु प्रतिविधिवर्णनतः प्रतीयते ।

इति न समुचितं विधानगं न खलु फलश्रवणं प्रयोजकम् ॥

विलम्बद्वितयाभावसाधर्म्यं तत्प्रयोजकम् ।

तत्तु गोदोहनेनैव न तु पर्णतयेष्यते ॥

तस्मात्क्रतुषु न नियतं क्रत्वङ्गाश्रितमुपासनं सकलम् ।

तेनोभाविति वाक्यादेवंविद्धेति लिंगाच्च ॥

सङ्कल्पिते सति प्रागुद्गीथोपासने हीने ।

प्रतिविधिविधानमर्थवादाश्रयमात्रे द्वितीया स्यात् ॥

इति यथाश्रयभावाधिकरणम् ॥26 ॥

इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि- श्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षतस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे तृतीस्याध्याययस्य तृतीयः पादः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.