॥श्रीः॥
नयमयूकमालिका
॥तृतीयस्याध्यायस्य चतुर्थः पादः॥
प्रधानभूतविद्याप्रकारनिरूपणानन्तरं तदङ्गकर्मविशेषादिनिरूपणमिति पूर्वपादेनास्य पादस्य सङ्गतिः। विद्यायाः स्वातंत्र्येण फलसाधनत्वे सिद्ध एव तदङ्गकर्मविशेषचिंतनं युक्तम्। अतो विद्यायाः कर्माङ्गत्वशङ्कानिराकरणार्थमुपोद्धातरूपं प्रथमाधिकरणम्—
पुरुषार्थोऽतशब्दादिति बादरायणः ॥1॥
शेषत्वात्पुरुशार्थवाद यथाऽन्येष्विति जैमिनिः ॥2॥
आचारदर्शनात् ॥3॥
तच्छ्रतेः ॥4॥
समन्वारम्भणात् ॥5॥
तद्वतो विधानात् ॥6॥
नियमात् ॥7॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥8॥
तुल्यं तु दर्शनम् ॥9॥
असार्वत्रिकी ॥10॥
विभागश्शतवत् ॥11॥
अध्ययनमात्रवतः ॥12॥
नाविशेषात् ॥13॥
स्तुतयेऽनुमतिर्वा ॥14॥
कामकारेणचैके ॥15॥
उपमर्दञ्च ॥16॥
ऊर्ध्वरेतस्सु च शब्दे हि ॥17॥
परामर्शं जैमिनिरचोदनाच्चापवदति हि ॥18॥
अनुष्ठेयं बादरायणस्साम्यश्रुतेः ॥19॥
विधिर्वा धारणवत् ॥20॥
किं विद्यातः पुरुषार्थः उत विद्यांगात् कर्मण इति विद्यायाः क्रतुषु कर्तृभूतात्मसंस्कारद्वारेण क्रत्वर्थत्वतदभावाभ्यां संशये पूर्वपक्षः। विद्या कर्तृभूतात्मसंस्कारद्वारेण क्रत्वर्था। ‘आत्मानमुपासीत आत्मा द्रष्टव्य’ इति द्वितीयाश्रुतितव्यप्रत्ययाभ्यां विद्यायाः कर्मसु कर्तृभूतात्मसंस्कारत्वावगमात्। एवं च ‘ब्रह्मविदाप्नोति पर’ मित्यादिषु फलश्रुतिरर्थवादः। यथान्येषु पर्णतादिषु। उक्तं हि जैमिनिना– ‘द्रष्टसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादि’ ति। ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति। यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते। यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्या’ इत्यादिविधिविधेयेषु पर्णतादिद्रव्येष्वञ्जनादिसंस्कारेषु प्रयाजादिकर्मसु च फलश्रवणमर्थवादः, तेषां वाक्येन प्रकरणेन च क्रत्वंगभावावगत्या परार्थत्वादिति सूत्रार्थः। ननु जीवस्य पर्णतावत् नास्त्यव्यभिचरितक्रतुसम्बन्ध:। तस्य लौकिकेष्वपि कर्मसु कर्तृत्वात्। अतोऽनारभ्याधीताया विद्यायाः पर्णताया जुहूद्वारेव न कर्तृद्वारा क्रत्वर्थतोपपद्यत इति चेत् न। लौकिककर्मकर्तृत्वस्य देहादव्यतिरेकेऽप्युपपत्त्या श्रुतिषु प्रतिपाद्यस्य देहातिरिक्तस्यात्मन: पारलौकिकफलैः क्रतुभिरेवापेक्षितत्वेन तस्याव्यभितरितक्रतुसम्बन्धसद्भावात्। नन्वौपनिषद्यात्मविद्या न जीवविषया किं तु जीवातिरिक्तब्रह्मविषयाऽतो न सा कर्तृसंस्काराद्वारा क्रत्वर्थेति चेत्। स्यादेतदेवं यदि जीवातिरिक्तं ब्रह्म स्यात्। जीव एव हि ब्रह्म ‘तत्त्वमसी’ त्यादिसामानाधिकरण्यात्। ननु तत्सामानाधिकरण्यं शरीरशरीरिभावनिबन्धनमित्यसकृतुक्तम्। सत्यमुक्तम्। दुरुक्तंतु तत् विद्याक्रतुशेषत्वप्रत्यायकश्रुतिलिंगाद्युपोद्बलितेन ‘तत्त्वमसी’ त्यादिसामानाधिकरण्येन जीवएव ब्रह्मेति निर्णयात्। तथा हि। ‘यदेव विद्ययाकरोती’ ति श्रुतिः विद्यायाः कर्माङ्गत्वमाह। न च तत्र विद्याश्रुतिः प्रकरणादुद्गीथविद्यामात्रविषयेति वक्तुं शक्यम्। प्रकरणात् बलीयस्या श्रुत्याविद्यामात्रविषयत्वावगमात्। श्रुत्यनुग्राहकं जनकादीनां कर्मप्राधान्येनाचारलिंगमपि द्दश्यते। ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः। इयाज सोऽपि सुबहून्यज्ञानप्यव्यपाश्रयः’ इत्यादिहि स्मरन्ति। ‘तं विद्याकर्मणी समन्वारभेते’ इति श्रुतौ परलोकं प्रयान्तं विद्याकर्मणी अनुवर्तेते इति विद्याकर्मणोस्सहित्यं च द्दश्यते। तत्साहित्यमुक्तेन न्यायेन विद्यायाः कर्माङ्गत्वे सत्येव भवति। अपि च ‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुंबे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यस्सखल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तत’ इति श्रुतिः अध्ययनवतो गार्हस्थ्याश्रमविहितानि कर्माणि विदधत्यर्थज्ञानं कर्मार्थत्वेन विनियुङ्क्ते। अर्थावबोधपर्यंतं ह्यध्ययनं। अतो ब्रह्मविद्यामपि कर्मसु विनियुङ्क्त एव। किंच ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा’ इत्यात्मविदः कृत्स्नस्य पुरुषायुषस्य कर्मसु नियमेन विनियोगमीशावास्यश्रुतिराह। अतोऽपि कर्मण एव फलम्। विद्यातु कर्माङ्गमित्यवसीयते। एवम्भूतश्रुतिलिंगादिबलादौपनिषदात्मविद्यायाः कर्माङ्गत्वावगमादौपनिषदात्मा जीवएव। तद्विद्याऽपि कर्तृसंस्कारतया क्रत्वर्थैवेति निश्चीयत इति॥
एवंप्राप्ते सिद्धान्तः–विद्यातएव पुरुषार्थः। न तु विद्यासंस्कृतकर्तृकात् कर्मणः। सर्वेषु वेदान्तेषु कर्मकर्तृर्जीवादधिकस्य सकलजगदभिन्ननिमित्तोपादानस्य सकलजीव नियन्तुरपहतपाप्मत्वादि गुणकस्य निरतिशयानन्दरूपस्य परब्रह्मणउपदेशात् तद्विद्यायाः कर्तृसंस्कारतया क्रत्वर्थत्वायोगात्। तर्ह्युदाहृतश्रुतिलिंगादीनां का गतिरितिचेत्। उच्यते। ‘यदेव विद्यये’ ति श्रुतिः प्रकृतोद्गीथविद्याविषया। नत्वौपनिषदात्मविद्याविषयाऽपि।तस्या जीवाधिकपरब्रह्मविषयायाः ‘तथा विद्वान्नामरूपाद्विमुक्त’ इत्यादिश्रुतिशतैः पतब्रह्मप्राप्तिफलकतया प्रमितायाः स्वतन्त्रत्वेन कर्माङ्गत्वायोगात्। आचार दर्शनं तु विद्यायाः कर्मानंगत्वेऽपि तुल्यम्। ‘किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे येषां न आत्मे’ त्यपि दर्शनात्। कथं कर्मतत्त्यागयोरपि ब्रह्मवित्सु द्दष्टयोरुपपत्तिः। फलार्थकर्मणां त्यागः निष्कामकृतकर्मणां विद्यासहकारित्वमिति न विरोधः। ‘तं विद्याकर्मणी’ इति श्रुतौ विद्यास्वस्मै फलायान्वारभते कर्मच स्वस्मै फलायेति विभागो द्रष्टव्यः। क्षेत्ररत्नविक्रयिणं शतद्वयमन्वेतीत्युक्तौ हि क्षेत्रार्थं शतं रत्नार्थं शतमिति विभागः प्रतीयते। न च विदुषि फलार्थकर्मान्वारम्भणासम्भवः। तत्राप्यनेकदेहान्वयाय प्रारब्धकर्मानुवृत्तिसम्भवात्। ‘आचार्यकुलाद्वेदमधीत्ये’ त्यादिश्रुत्याऽपि न विद्यायाः कर्माङ्गत्वसिद्धिः। अध्ययनमात्रवतः कर्मविधानात्। अध्ययनविधिर्ह्यक्षरराशिग्रहण- पर्यन्तो नार्थज्ञानपर्यन्तः। येनार्थज्ञानपर्यन्तमध्ययनं ‘अधीत्ये’ त्यनेन गृह्येत। ‘स्थाणुरयं भारहरः किलाभूदधीत्य वेदं न विजानाति योऽर्थ’ मिति श्रुत्यन्तरे अक्षरराशिग्रहणमात्रनिर्वृत्तावधीत्येतिव्यवहारदर्शनात्। अध्ययनविधेरर्थज्ञानपर्यन्तत्वेऽपि न विद्यायाः कर्माङ्गत्वसिद्धिः। मीमांसान्यायसाध्यादुपासनारूपाया विद्याया भिन्नत्वात्। ‘कुर्वन्नेवेहे’ ति यावज्जीवं कर्मानुवृत्तिनियमेनापि न विद्यायाः कर्माङ्गत्वसिद्धिः। नियमस्य विद्यांगकर्मविषयतयाऽप्युपपत्तेः। वस्तुतस्तु विद्यास्तुतये कुर्वन्नेवेति कर्मानुमतिरेवेयम्। ‘एवं त्वयिनान्यथेऽतोऽस्ति न कर्म लिप्यते नर’ इति वाक्यशेषान्नरमत इति नरो निस्सङ्गः तस्मिन्नात्मविदि त्वयि यावज्जीवं यत्किंचित्कर्म क्रियमाणमपि न श्लिष्यते इदं तत्वमिति हि विद्यामाहात्म्यस्तुतिरितः प्रतीयते। अपिचैके शाखिनः कामकारेण ब्रह्मविद्यानिष्ठस्य गार्हस्थ्यत्यागमधीयते ‘किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक’ इति। अतोऽपि विद्या कर्मांगं। न हि विद्यायाः कर्मांगत्वे पूर्वं प्रधानत्वांगानुष्ठानमुपपद्यते। अपि च पुण्यापुण्यरूपस्य कर्मणः सर्वस्यापि विद्ययोपमर्दमप्यधीयते ‘क्षीयन्तेचास्य कर्माणि तस्मिन्द्दष्टे परावर’ इत्यादावतोऽपि न विद्याकर्माङ्गम्। नह्यङ्गेनाङ्गिन उपमर्द उपपद्यते। नन्वेवंसति कर्मणो विद्याङ्गत्वमपि न स्यात्। अङ्गिनाङ्गोपमर्दस्याप्ययोगात्। उच्यते। येषां कर्मणां विद्यानिवर्त्यत्वं न तेषां विद्याङ्गत्वमिष्यते। तदेतच्चतुर्थाध्याये स्फटीभविष्यति। जैमिनिनातूपनिषदां जीवादिरिक्तब्रह्मपरत्वमपह्नुत्य देहातिरिक्तात्ममात्रपरत्वमुपगम्य तद्वेदनं पारलौकिकसर्वकर्माङ्गमिष्यत इति तन्मते विद्यानिवर्त्यकर्मणामपि पारलौकिकात्मवेदनसाध्यत्वाविशेषेण विद्यां प्रत्यंगित्वस्य वक्तव्यत्वात् अङ्गेनांगिन उपमर्दो न सम्भवतीति दूषणमुक्तम्। अपिचोर्ध्वरेतस्स्वप्याश्रमेषु ब्रह्मविद्या द्दश्यते। अतोऽपि न विद्या तदङ्गम्। नचोर्ध्वरेतस आश्रमा नसन्त्येव। ‘यावज्जीवमग्निहोत्रं जुहोती’ त्यादिश्रुति- विरुद्धानां स्मृतीनामप्रामाण्यादिति चेन्न। स्मृतिष्विव वैदिकशब्देऽपि तेषां दर्शनात्। श्रूयते हि– ‘त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमस्तपएव द्वितीये ब्रह्मचार्याचार्यकुलवासी तृतीयोऽप्यन्तमात्मानमाचार्यकुलऽवसादयन् सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति, येचेमेऽरण्ये श्रद्धा तप इत्युपासते, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ती’ त्यादिश्रुतिरूर्ध्वरेतसां समर्पको वैदिकः शब्दः। नन्वत्रोर्ध्वरेतसां अनुवादमात्रं, चोदनाभावात्। अपिचापवदति च श्रुतिराश्रमान्तरं ‘वीरहावा एष देवानां योऽग्निमुद्वासयत’ इति। तस्मादग्न्युद्वासननिन्दाविरोधात् ब्रह्मसंस्थोऽमृतत्वमेतीति चेत् उच्यते। अस्त्विह स्तुत्यर्थतयाऽनुवादः, सोऽपि प्रमाणान्तरतः प्राप्तिमपेक्षते। अन्यथा गृहस्थाश्रमोऽपि न सिध्येत्। अतस्तस्य प्रमाणान्तरतः प्राप्तिरन्वेष्टव्येति सन्याय इतरेषामपि समान:। तत्र ‘त्रयो धर्मस्कन्धा’ इति त्रेधा विभागानुसारेण यज्ञोऽध्ययनं दानमिति गृहस्थधर्माणां तप इति तपः प्रधानयोर्वैखानसपारिव्राज्यधर्मयोः ब्रह्मचारित्यादिना नैष्ठिकधर्माणा़ञ्चानुकीर्तनमिति विभागप्रकारो द्रष्टव्यः। ‘ब्रह्मसंस्थोऽमृतत्वमेती’ त्यत्र ब्रह्मसंस्थशब्दस्तु यौगिकस्सर्वाश्रमसाधारणः। सर्वेषामाश्रमिणां ब्रह्मणि संस्थाया निष्ठायास्सम्भवात्। ते ब्रह्मनिष्ठा विकलाः केवलाश्रमधर्मानुष्ठायिनः पुण्यलोकभाजो भवन्तीति तेषु यो ब्रह्मनिष्ठस्सोऽमृतत्वभाग्भवतीति वाक्यार्थः। तस्मात् गृहस्थाश्रमवदूर्ध्वरेतस आश्रमाअपि द्दश्यन्त इति तेऽप्यनुष्ठेयाः। अनुवादस्य प्राप्त्याक्षेपकत्वसाम्यात्। अथवा ‘यज्ञोऽध्ययनं दान’ मित्या- दाविवाश्रमाणां विधि: कल्प्यः। अपूर्वत्वात्। ‘अधस्तात् समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयती’ ति मृताग्निहोत्र प्रकरणगतश्रुति लिंगविभक्तियोगातधोधारण इवाप्राप्तत्वादुपरि धारणेऽपि विधिरेष्टव्य इति ‘विधिस्तु धारणेऽपूर्वत्वा’ दिति पूर्वतंत्राधिकरणे निर्णीतत्वेन तस्य न्यायस्यात्रापि साम्यात् सर्वथोर्ध्वरेतस आश्रमास्सन्तीति सिद्धम्॥
संग्रहकारिकाः॥
विद्या गच्छति शेषतां क्रतुगणे श्रुत्यादिमानैस्ततः।
संस्कार्यस्य तयाऽऽत्मनोऽपि भवति व्रीह्यादिवच्छेषता॥
जीवस्यैव च तत्र कर्तुरुचिता सातस्सएवोच्यते।
वेदान्तेषु तदीयवेदनफलोद्धोषाः प्रशंसापराः॥
मैवं समस्तागममौळिलाळितो निश्शेषकल्याणगुणाकरो हरिः। नापह्नवार्हस्तदुपाश्रयाखिला विद्यास्वन्त्रैव विमुक्तिसाधिनी॥
यातु श्रुतिस्तत्र यदेव विद्ययेत्नूक्तिरेषा प्रकृतैकसंश्रया।
आचारद्दष्ट्यादि च तुल्यतादिभिर्निराकृतं नाभिमतार्थसाधकम्॥
विद्याद्दष्टोर्ध्वरेस्स्वपि च भजति सा न क्रतोश्शेषभावं
धर्मस्कन्धत्रयोक्त्या श्रुतिशिरसि मितास्ते न सन्तीत्युक्ता।
तस्यां वैखानसानां तप इति यतिनां चोर्ध्वसंग्राहकं स्यात्
सर्वे ते पुण्यलोकान्समियुरमृततामप्यवस्थावभेदात्॥
इति पुरुषार्थाधिकरणम् ॥1॥
_____________________________________________________
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥21॥
भावशब्दाच्च ॥22॥
स्तुतिविधिप्रसङ्गादिदमधिकरणम्। छान्दोग्ये- ‘ओमित्येतदक्षरमुद्गीथमुपासीते’ त्युपक्रम्य श्रूयते- ‘एषां भूतानां पृथिनीरस: पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रस: पुरुषस्य वाग्रसो वाच ऋग्रस ऋचस्सामरस स्साम्न उद्गीथो रसस्स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ’ इति। इतं रसतमत्वादिप्रतिपादनं प्रकृतोद्गीथस्तुत्यर्थं उत तस्मिन् रसतमत्वादिद्दष्टिविधानार्थमिति स्तुतिवाक्यछायापत्त्यपूर्वत्वाभ्यां संशये पूर्वपक्षः। ‘इयमेव जुहूःस्वर्गो लोके आहवनीय’ इत्यादिषु जुह्वादेरिव कर्माङ्गस्योद्गीथस्य उपादानात्तद्वदेव स्तुत्यर्थत्वम्। न च कर्माङ्गोपादानमात्रेण स्तुत्यर्थत्वे ‘पर्णमयी जुहूर्भवति हिरण्मय्यस्स्रुचो भवन्ती’ त्यादेरपि स्तुत्यर्थत्वप्रसङ्गः। विध्ययोग्यत्वेनापि विशेषणादिति। तत्र जुह्वादिविधेरिवात्र कर्मकाण्डगतस्योद्गीथविधेस्सन्निधानाभावात् अप्राप्तरसतमत्वादिद्दष्टिविधिरेव युक्तः। उपासीतेति विधिप्रत्ययस्यापि सत्त्वादिति सिद्धान्तः॥
सङ्ग्रहकारिका॥
क्रत्वङ्गाश्रितकृत्यसाध्यपठनं स्तुत्यर्थमेतज्जुहू
वाक्ये द्दष्टमतो भवेद्रसतमत्वादेस्तथा कीर्तनम्।
मैवं तावदपूर्व एष सुकरो द्दष्टिश्रुतेस्तद्विधि
स्स्तोतव्यस्य विधेर्न सन्निधिरतो ध्यानार्थमेतन्मतम्॥
इति स्तुतिमात्राधिकरणम् ॥2॥
__________________________________________________
पारिप्लवार्था इतिचेन्न विशेषितत्वात् ॥23॥
तथाचैकवाक्योपबन्धात् ॥24॥
रसतमत्वादीनामुपासनार्थत्ववदाख्यानानां पारिप्लवार्थत्वम् प्रवृत्तिविशेषकरत्वादिति शङ्कया सङ्गतिः। विद्याप्रकरणेष्वाख्यानादिश्रूयते ‘प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम। अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतु’ रित्यादीनि किं विद्याप्रशंसार्थत्वेन विद्याप्रधानानि उतपारिप्लवप्रयोगार्थत्वेन कर्मशेषभूतानीत्याख्यानत्वसा- मान्याद्विद्याप्रकरणगतत्वाच्च संशये पूर्वपक्षः। पारिप्लवप्रयोगार्थान्येतानि। अश्वमेधे ‘पारिप्लवंशंसती’ ति पारिप्लवनामकं शस्रं विहितम्। तत्र सर्वाण्याख्यानानि पारिप्लवेसंतीति सर्वाख्यान शंसनं विहितम्। ततश्चाख्यानत्वसामान्यात् विद्याप्रकरणाम्नातानामपि आख्यानानां तत्र विनियोगस्स्यात्। नन्वश्वमेधे त्रिरात्रे प्रथमेऽहनि मनुर्वैवस्वतो राजेत्यादि द्वितीयेऽहनि यमो वैवस्वतइत्यादिश्च तृतीयेऽहनि वरुण आदित्य इत्यादिश्चाख्यानविशेषे विनियुज्यते। तेन सर्वशब्दस्य सङ्कोचस्स्यादिति चेन्न। उपक्रमगतस्य वाक्यशेषेण सङ्कोचायोगात्। अन्यथा ‘एषवाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनेष्ट्वाऽथान्येन यजते’ इत्यत्रान्यशब्दस्य ज्योतिष्टोमेतरसर्वक्रतुपरामर्शिनो यो हि त्रिवृदन्यं यज्ञक्रतुमापद्यते स तं दीपयति यः पञ्चदशः स तं यस्सप्तदशस्स तं य एकविशस्सत’ मिति वाक्यशेषगत त्रिवृदादिस्तोमक क्रतुसङ्कीर्तनानुसारेण तावन्मात्रे समकुचितवृत्तित्वापत्त्या चतुर्विंशचतुश्चत्वारिंशादिस्तोमकानां क्रतूनां ज्योतिष्टोमात्प्रागप्यनुष्ठानप्रसङ्गेन ‘एकस्तोमेवा क्रतुसंयोगात् सर्वेषां वा चोदनाविशेषात् प्रशंसास्तोमाना’ मिति पूर्वमक्षसिद्धान्तसूत्राभ्यां प्रवर्तितेन पूर्वतंत्राधिकरणेन विरोधापत्तेः। तस्मादुपक्रमगतसर्वश्रुत्याऽपि विद्याप्रकरणगताख्यानानामपि कर्मसु विनियोगान्न तेषां विद्याप्राधान्यमिति। सिद्धान्तस्तु- उपक्रमानुसारेणोपसंहार नयनस्यौत्सर्गिकत्वेऽप्यत्रानन्तरशाखागतसर्वाख्यान शंसनस्याशक्यत्वात् स्वत एवोपक्रमगत सर्वश्रुतेस्सङ्कोचकापेक्षसत्त्वात् वाक्यशेषगतेष्वाख्यानविशेषेषु सङ्कोचः। यथा- ‘अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त’ इत्यत्र सर्वशब्दस्यासंकुचितसर्वपरत्वासम्भवेन सङ्कोचकापेक्षया ज्योतिष्टोमे प्रकृतेषु ऋत्विक्षु सङ्कोचः। अत एव ऋत्विजामेव हारियोजनप्रचारशेषसोमभक्षः। तस्मान्नविद्याप्रकरणगताख्यानानां पारिप्लवे विनियोग इति तत्तद्विद्याविधिभिरेव सम्बन्धः। तथा च तदेकवाक्यताऽप्युपपद्यते॥
संग्रहाकारिकाः॥
आख्यानजातं विधितोऽखिलं भवेत्पारिप्लवार्थं परविद्ययाऽन्वितम्। नाख्यायिकानन्त्यकृतामशक्यतां पश्यन्स विश्राम्यति वाक्यशेषगे॥
इति पारिप्लवार्थाधिकरणम् ॥3॥
____________________________________________________
अतएवचाग्नीन्धनाद्यनपेक्षा ॥25॥
स्तुतिविधिप्रसङ्गदवान्तरसङ्गतिविशेषेणाधिकरणद्वयं प्रवृत्तम्। तस्मिन्प्रासंगिकेऽर्थे चिंतिते प्रथमाधिकरणे यदुक्तमूर्ध्वरेतस्स्वप्याश्रमेषु विद्याऽस्तीति तन्नयुज्यत इत्याक्षिप्य समाधीयत इति संगतिः। ऊर्ध्वरेतस्स्वाश्रमेषु विद्या न सम्भवति। ‘यज्ञेन दानेने’ त्यादिवचन श्रुतविद्यानुग्राहककर्माभावादिति प्राप्ते तेष्वपि विद्या सम्भवति। ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति, यदिच्छन्तो ब्रह्मचर्यं चरन्ती’ त्यादिश्रवणात्। अतस्तेषां विद्यायास्तत्तदाश्रम धर्मैरनुग्रहसम्भवात्तेषामाधानपूर्वक यज्ञाद्यनपेक्षैव विद्या सम्भवतीति सिद्धन्तः।।
संग्रहकारिकाः॥
अधिकारोऽस्त्ययज्ञानां न विद्यासूर्ध्वरेतसाम्।
मैवं तेऽपिह्युपस्कुर्युर्विद्यास्वाश्रमकर्मभिः॥
इति अग्नीन्धनाद्यधिकरणम् ॥4॥
___________________________________________________
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥26॥
यदि विद्या यज्ञाद्यनपेक्षैव यत्यादीनाममृतत्वं साधयति तर्हि गृहस्थानमपि तथैव तत्साधयत्विति शङ्क्या सङ्गतिः। पूर्वपक्षश्च- ननु ‘यज्ञेने’ त्यादिश्रुत्या गृहस्थानां विद्याया यज्ञाद्यपेक्षाऽवगम्यते। तत्र हि वेदानुवचनेनेत्यध्ययनप्रधानं ब्रह्मचारिधर्मजातं लक्ष्यते। ‘यज्ञेन दानेने’ ति यज्ञदानप्रधानं गृहस्थधर्मजातं, तपसेति पञ्चाग्निमध्यतपश्चर्यादिप्रधानं वैखानसधर्मजातं अनाशेकेनेत्यशनप्रायाष्टग्रासनियमप्रधानं यतिधर्मजातं लक्ष्यते। सत्यम्। तेषां धर्माणां विविदिषासाधनत्वमेवोच्यते। न विद्यासाधनत्वम्। प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थप्राधान्यादिति॥
एवं प्राप्ते सिद्धन्तः- प्रत्ययार्थप्राधान्यविषयात् सामान्यन्यायादिष्यमाणसमभिव्याहारे इष्यमाणं प्रधानमिति विशेषन्यायः स्वर्गकामादिवाक्ये कॢप्तो बलीयान्। अत इष्यमाणविद्यासाधनत्वेन प्रतिपाद्यते। यथा अश्वेन जिगमिषतीत्यत्र अश्व इष्यमाणगमनसाधनत्वेन प्रतिपाद्यत इति गृहस्थेषु यज्ञाद्यपेक्षैव विद्या। न च तत्तदाश्रमधर्माणां बह्वल्पभावात् कथं तत्र धर्ममात्रस्य विद्यासहकारित्वमिति शङ्कनीयम्। ‘यस्य यावत्स्वगृह्योक्तं स्वल्पं वा यदि वा बहु। तस्य तावति शास्रार्थे कृते सर्वं कृतं भवे’ दिति न्यायानोपत्तेरिति॥
संग्रहकारिकाः ॥
तर्हि गृहिष्वपि विद्या नयतिष्विव यज्ञसापेक्षा।
यज्ञेनेत्यादिकृतं विनियुङ्क्ते वेदनेच्छायाम् ॥
मैवं न प्रत्ययार्थस्य प्राधान्यमिह कल्पते।
यदिष्यमाणप्राधान्यमिच्छायाः कॢप्तमन्यतः॥
अश्वेनायं जिगमिषत्यसिनाऽयं जिघांसति।
इत्यादविष्यमाणस्य प्राधान्यं हि निरीक्ष्यते॥
इति सर्वापेक्षाधिकरणम् ॥5॥
_________________________________________________
शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदंगतया तेषामप्यवश्यानुष्ठेयत्वात् ॥27॥
गृहस्थेषु विद्या यज्ञादिवत् तदविरोधेन शमादीन्यप्यपेक्षत इति निरूपणात्संगतिः। यज्ञादिमत्सु गृहस्थेषु विद्याशमाद्यपेक्षा नवेति यज्ञादीनां शमादीनां च विरोधसद्भावासद्भावाभ्यां संशये यज्ञादीनां बाह्यान्तरव्यापाररूपत्वात् बाह्यन्तरकरणव्यापारोपरमरूपत्वेन तद्विरुद्धत्वात् न तानि गृहस्थैरनुष्ठेयानीति पूर्वपक्षः। यद्यपि गृहस्थः कर्मसु प्रवृत्तः, तथाऽपि सविद्वान् शमदमाद्युपेतः स्यात् ‘शान्तोदान्तउपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्ये’ दिति विद्यांगतया तेषामपि विधानात् निरन्तरस्मृतिसन्तानविद्योत्पत्तेश्चित्तसमाधानसाध्यत्वेन विद्यानिर्वृत्तये तेषामप्यनुष्ठेयत्वाच्च। न च विरोध:। विहितेषु यज्ञादिषु करणव्यापारः, अविहितेषु निष्फलेषु तदुपशम इति विषयभेदेनाविरोधात्।।
संग्रहकारिके॥
शमाद्या नोपपद्यन्ते यज्ञादिव्यग्रचेतसः।
तस्मान्न तदुपेतस्स्याद्गृहस्थस्सन्नुपासकः॥
यज्ञादिकं सर्वतोऽपि स्युरन्यत्र शमादयः।
तस्मात्तेनाप्यनुष्ठेया विधेर्द्दष्टोपकारतः॥
इति शमदमाद्यधिकरणम् ॥6॥
__________________________________________________
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥28॥
ब्रह्मविद्यायां शमातयोऽनुष्ठेया इत्युक्तम्। तत्र भोजननियमरूपश्शमविशेषोऽस्ति नवेति विचार्यत इति सङ्गतिः। वाजिनां छन्दोगानां च प्राणविद्यायां ‘न ह वा एतस्यानन्नं जग्धं भवती’ ति, ‘न ह वा एवंविदि किं चनानन्नं भवती’ ति च प्राणाविद्यानिष्ठस्य प्राणान्नानुमतिस्सङ्कीर्त्यमाणा सर्वदा भवति उत प्राणात्ययापत्तावेवेति विशये विशेषानुपादानात् सर्वदेति प्राप्तम्। ननु ‘मटचीहतेषु कुरुष्वाटिक्यासह जाययोषस्तिर्हचाक्रायण इभ्यग्रामे प्रद्राणकउवास स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे सहोवाच। नेतोन्ये विद्यन्ते यच्चयेम इम उपनिहिता इत्येतेषां मे देहीतिहोवाच तानस्मैप्रददो हन्तानुपानमितानुच्छिष्टं वै मे पीतं स्यादिति न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमा नखादन्निति होवाच कामोम उदपानमिति सह खादित्वाऽतिशेषान्जायाया आजहार साग्रएव सुभिक्षाबभूव तान्प्रतिगृह्य निदधौ सहप्रातस्सञ्चिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्रां राजासौ यक्ष्यते समासर्वैरार्त्विज्यैर्वृणीतोति तं जायोवाच हंतपत इमएव कुल्माषा इति तान्खादित्वाऽमुं यज्ञं विततमेयाये’ ति छान्दोग्ये श्रूयते। मटचीभिरश्मवृष्टिभिः कुरुदेशसस्येषु हतेषु आटिक्या अनुपजातस्तनादिव्यंजनया जायया सह उषस्तिरिति नाम्ना प्रसिद्धश्चक्रस्यापत्यमृषिरिभ्यस्य हस्त्यारोहस्यग्रामे। प्रद्राणकः अन्नालाभात् कुत्सितां गतिं कष्टावस्थां प्राप्तस्सन् कदाचिन्मार्गवशादुवास। स किल कुल्माषान् सविशेषान् जलपक्वकुळुत्थादिकान्वा खादन्तमिभ्यं बिभक्षे। स किलेभ्य उवाच इतोऽस्मान्मया भक्ष्यमाणोच्छिष्टकुल्माषराशेरन्ये कुल्माषा न विद्यन्ते यच्चये यस्मिन्राशौ मदर्थं प्रक्षिप्ता इमे कुल्माषा इति। एवमुक्त उषस्तिरुवाच एतान्मह्यं देहीति। तानस्मा ऋषये प्रददौ। तत इभ्येन स्वपानाय समीपस्थमुदकं गृहीत्वा हर्षेण अनुपानमपि गृहाणेत्युक्तऋषिः प्रत्युवाच। यदीदमुदकं पिबेयं तदोच्छिष्टं मया पीतं स्यादिति। तत इभ्येन किमेते कुल्माषा नोच्छिष्टा इत्युक्त ऋषिरवाच नैवाजीविष्यमिमानखादन्नुदपानं त्विच्छया लभ्यत इति।तदन्नतरमृषि: यावत्कुल्माषखादनेन स्वस्य प्राणसंशयापत्तिर्निवारिता भवति तावन्मात्रं खादित्वाऽवशिष्टान्जायायै ददौ। सा च प्रागेव तृप्ता तान्प्रतिगृह्य निहितवती। ततस्स ऋषिः प्रातश्शय्यां त्यजन्नेव पुनरपि प्राणसंशयमापन्नः शीघ्रं याजनेन धनलिप्सया जिगमिषुस्तानेव कुल्माषान् पृष्टयाजायया खादित्वा राज्ञो यज्ञवाटं गत इति श्रुत्यर्थः। तथा ‘आहारशुद्धौ सत्वसुद्धिस्सत्वशुद्धौ ध्रुवास्मृति’ रिति विद्योत्पत्त्यर्थमाहारशुद्धिविधानादपि ब्रह्मविदस्सर्वान्नीनत्वमापद्विषयमवगम्यते। एवं ब्रह्मविदग्रेसरस्योषस्तेरपि प्राणात्यय एव उच्छिष्टभक्षणे तदनुसारिवचनेन च द्दष्टे कथमल्पशक्तेः प्राणविदस्सर्वदासर्वान्नानुमतिस्स्यादिति चेन्नैष दोषः। ‘नाविरतो दुश्चरितान्नाशांतो नासमाहित:। नाशान्तमानसोवाऽपि प्रज्ञानेनैन माप्नुया’ दिति ब्रह्मविदो विद्यांगत्वेन दुश्चरितव्यावृत्तिविधानेऽपि ‘न कांचन परिहरेत्तह्रत’ मिति वामदेव्योपासकस्य सर्वस्त्र्यपरिहारानुमतिवत् प्राणविदस्सर्वान्नानुमत्युपपत्तिरिति। एवं प्राप्ते सिद्धान्तः– नतावत्सर्वान्ननुमतौ विधिस्श्रूयते। कल्प्यस्तु सामान्यवचनाविरोधेन कल्पनीय:।सामान्यवचनानां च ‘प्राणसंशयमापन्नो योऽन्नमति यतस्तत:। लिप्यते न स पापेन पद्वपत्रमिवाम्भसे’ त्यादीन्यापद्येव सर्वान्नानुमतिविषयाणि द्दशयन्ते। वैदिकश्च शब्द: कामकारनिवृत्तिप्रयोजनो द्दश्यते ‘तस्मात् ब्राह्मणस्सुरां न पिबे’ दित्यादिः। अतस्तदनुसारेण प्राणविदोऽप्यापद्विषयैव सर्वान्नानुमतिरुच्यत इति कल्पनीयमिति।।
संग्रहकारिके॥
सर्वान्नानुमत्तिः प्राणविद्यानिष्ठस्य योच्यते।
सात्वापद्येव विज्ञेया पृष्टा ब्रह्मविदोऽपि या॥
सामान्यवचनानां च न बाध उपपद्यते।
अतस्तदनुसारेणाप्यापद्विषयतोचिता॥
इति सर्वान्नानुमत्यधिकरणम् ॥7॥
____________________________________________
विहितत्वाच्चाश्रमकर्माऽपि ॥32॥
सहकारित्वेन च ॥33॥
सर्वथाऽपि त एवोभयलिंगात् ॥34॥
अनभिभवञ्च दर्शयति ॥35॥
यज्ञादिकर्मांगिका ब्रह्मविद्येत्युक्तम्। तानि यज्ञादीनि केवलाश्रमिणेव विदुषाऽपि सकृदेवानुष्ठेयानि उताश्रमधर्मत्वेन विद्यार्थत्वेन च द्विरनुष्ठेयानीति संशयः। यदि विद्यार्थानि यज्ञादीनि नित्याग्निहोत्रमासाग्निहोत्रवद्भिन्नानिस्युस्तदा विद्यार्थयज्ञादिभ्यो नित्याग्नियज्ञादीनि भिन्नानि स्युः। तदा विद्यार्थयज्ञानुष्ठानेनाश्रमधर्मयज्ञाद्यनिर्वृत्तेस्तानि पृथगनुष्ठेयानीति द्विरनुष्ठानं भवेत्। यदि तु नित्याग्निहोत्रकाम्याग्निहोत्रन्यायेनैक्यं स्यात्तदा काम्यप्रयोगतः प्रसङ्गान्नित्यसिद्धेः सकृदेवानुष्ठानं भवेत्। किमत्र न्याय्यं। कर्मभेदाद्द्विरनुष्ठानमिति प्रकरणभेदात् नित्याग्निहोत्रमासाग्निहोत्रन्यायेन कर्मभेदादिति पूर्वःपक्षः॥
सिद्धान्तस्तु – आश्रमधर्मत्वेन तावत्कर्माणि विधीयन्ते । ‘यावज्जीवमग्निहोत्रं जुहोति यावज्जीवं दर्शपूर्णमासाभ्यां यजेते’ ति यदेतैर्वचनैर्विद्याङ्गत्वेनापि विधीयन्ते ‘तमेतं वेदानुवचनेने’ त्यादिवचनैः । एवं च यान्याश्रमधर्मरूपाणि यज्ञादीनि तान्येव विद्यार्थत्वेनापि विधीयन्ते । न च नित्यानित्यसंयोगविरोधः । विनियोजकवाक्यभेदसत्त्वात् । ‘खादिरो यूपो भवति खादिरं वीर्यकामस्य यूपं कुर्वीते’ ति विनियोजकवाक्यभेदेनैकस्य खादिरत्वस्य क्रत्वर्थपुरुषार्थोभयरूपतायाः ‘एकस्य तूभयत्वे संयोगपृथक्त्व’ मिति पूर्वतंत्राधिकरणे स्थितत्वात्। न चेह प्रकरणभेदाद्भेदश्शङ्कनीयः । यज्ञादिशब्दैः प्रसिद्धयज्ञादीनामेव प्रत्यभिज्ञापनात्। इह यदि यज्ञादिकं प्रसिद्धयज्ञादिकादन्यत्स्यात् तदा किंरूपमित्यवगन्तुं न शक्यते। इष्टिपशुसोमादिरूपस्य प्रसिद्धयज्ञस्यानेकविधत्वात्। न चेह तन्मध्ये केनचित्सादृश्यमवलम्ब्य प्रवृत्तया गौण्या वृत्त्या यज्ञशब्दप्रवृत्तिरिति मासाग्निहोत्रन्यायो वक्तुं शक्यते।यज्ञादिनाम्ना द्रव्यदेवताद्यतिदेशेन देवतोद्देश्यकद्रव्यत्यागत्वादिरूपयज्ञादि शब्दप्रवृत्तिनिमित्तप्राप्तेरनिवार्यत्वेन प्रसिद्धयज्ञादिभिन्नत्वमपि समर्थयितुं न शक्यते। तस्मादिह यज्ञादिशब्दानां ‘यज्ञोऽध्ययनं दानमिति प्रथमः तप एव द्वितीयः, ‘भोक्तारं यज्ञतपसां सर्वलोकमहेश्वर’ मित्यादिष्विव प्रसिद्धयज्ञादिपरत्वमेव युक्तम्। अत एव ‘धर्मेण पापमपनुदती’ त्यादिश्रुतिः प्रसिद्धयज्ञादिधर्मान्निर्दिश्य तैरनभिभवं पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं दर्शयति । अहरहरनुष्ठीयमानैर्यज्ञादिभिर्विशुद्धेऽन्तःकरणे प्रत्यहं प्रकृष्यमाणा विद्या विशदतरावभावसोत्पद्यते। अतो यज्ञादिभेदाभावाद्विद्यार्थप्रयोगैरेव प्रसङ्गादाश्रमार्थसिद्धेः सकृदेवानुष्ठानम्। अत एव काम्याग्निहोत्रप्रयोगान्नित्याग्निहोत्रस्य प्रसङ्गात्सिद्धेर्न द्विरनुष्ठानमिति॥
संग्रहकारिके ॥
विद्यार्थमाश्रमार्थं भिन्ना यज्ञादयो वाच्याः ।
प्रकरणभेदात्तेन द्विरनुष्ठानं भवत्येषाम् ॥
मैवं यज्ञादिशब्देन प्रत्यभिज्ञानदार्ढ्यतः ।
नास्ति भेदस्ततस्तेषां न भवेद्द्विरनुष्ठितिः ॥
इति विहितत्वाधिकरणम् ॥8॥
____________________________________________
अन्तराचापि तु तद्दृष्टे: ॥36॥
अपि स्मर्यते ॥37॥
विशेषानुग्रहश्च ॥38॥
अतस्त्वितरज्ज्यायो लिंगाच्च ॥39॥
आश्रमधर्मांगिकाविद्येत्युक्तम्। अनाश्रमिणामपि विद्याधिकारस्समर्थ्यत इति सङ्गतिः। मृतपत्नीकाये ये पुनः गुरुकुलातभिसमावृत्याकृतविवाहाः तेषामाश्रमानन्तरास्थितानां विद्याधिकारोऽस्ति नवेति विद्यानुग्रहार्थं यज्ञाद्यभावात् साधारणधर्मसद्भावाच्च संशये पूर्वपक्षः। नास्त्यधिकारः, विद्यानुग्राहककर्माभावात्। न च साधारणधर्मैस्तदनुग्रहः, ‘यज्ञेन दानेने’ त्यादिश्रुतौ आश्रमधर्माणामेव तदनुग्राहकत्वोक्ते:, नचानाश्रमत्वेऽपि रैक्वसंवर्तगार्ग्यप्रभृतीनां विद्याद्दष्टेति वाच्यम्। तेषां विदुरादिवत् जन्मान्तरसिद्धत्वोपपत्तेः। न च ‘जप्येनैव तु संसिध्येत् ब्राह्मणो नात्र संशयः। कुर्यादन्यन्नवा कुर्यात् मैत्रो ब्राह्मण उच्यत’ इति स्मृतेः जपेन तदनुग्रस्स्यादिति वाच्यम्। तस्यास्स्मृते:, ‘कुर्यादन्यन्न वा कुर्या’ दिति स्ववचसैवजपप्रशंसामात्रपरत्वस्फुटीकरणात्। न च ‘ब्रह्मचर्येण तपसा श्रद्धया विद्ययाऽऽत्मनमन्विष्ये’ ति साधारणधर्ममात्रेणापि विद्यानुग्रहश्श्रूयत इति वाच्यम्। ‘अनाश्रमीनतिष्ठेत्तु क्षणमेकमपि द्विज’ इति विहितानां तेषां साधारणधर्मस्यापि विद्यानुग्राहकसम्भवादिति॥
सिद्धान्तस्तु- ‘रैक्वादीनां ब्रह्मचर्येण’ त्यादिश्रुतिद्दष्टेन साधारणधर्मजातेन जप्येनैवत्विति स्मार्तप्रशंसावगतोत्कर्षेण जपयज्ञेन च विद्यानुग्रहोपपादनसम्भवान्नतेषां जन्मान्तरे सिद्धिः कल्पनीया। तदर्वाचीनानामपि विवाहाद्युपपत्त्यभावेनापद्यनाश्रमिणां सतां विद्याधिकारउपपद्यत एव। ‘अनाश्रमीनतिष्ठेते’ ति वचनंत्वनापद्विषयम्। अतएवानाश्रमित्वादाश्रमित्वं न्यायः धर्मभूयस्त्वसत्त्वात् अनाश्रमित्वनिषेधलिंगाच्च॥
संग्रहकारिका॥
आश्रमकर्माभावाद्विद्यायां नाधिकारिणो विधुराः।
मैवं विद्याऽनुग्रहमुपैति जप्यादिभिस्तेषाम्॥
इति विधुराधिकरणम् ॥9॥
_________________________________________________
तद्भतस्यतु नातद्भावोजैमिनेरपि नियमातद्रूपाभावेभ्यः ॥40॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥41॥
उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ॥42॥
बहिस्तूभयथाऽपि स्म़ृतेराचाराच्च ॥43॥
विधुरादिवत् अनाश्रमित्वसाम्यादाश्रमभ्रष्टानामपि विद्याधिकार इति शङ्क्या सङ्गतिः। किं नैष्ठिकाद्याश्रमभ्रष्टानां ब्रह्मविद्याधिकारोऽस्ति नवेति तेषां तदधिकारोपपादकप्रायश्चित्तसम्भवासम्भवाभ्यां संशये पूर्वपक्षः। तेषामपि विद्याधिकारोऽस्ति। अनाश्रमित्वेऽपि विधुरादिवत् साधारणधर्मैर्विद्यानुग्रहसम्भवात्। न च ‘अत्यन्तमात्मानमाचार्यकुलेऽवसादय’ न्निति नैष्ठिकस्य ‘अरण्यमियान्नपुनरेया’ दिति वैखानसस्य ‘सन्यस्याग्निं न पुनरावर्तये’ दिति परिव्राजश्चावरोहनिषेधान्नतद्धर्मा विद्यानुग्राहका इति न तेषां विद्याधिकारइति वाच्यम्। अवरुह्य कृतप्रायश्चित्तानां तदधिकारसम्भवादिति॥
सिद्धान्तस्तु- नैष्ठिकाद्याश्रमं प्राप्तानां अत्यन्तमात्मानमित्याद्वचनैरवरोहव्यावर्तनात् नचावरुह्य कृतप्रायश्चित्तानां तेषां ततधिकारसम्भवः। ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विजः। प्रायस्चित्तं न पश्यामि येन शुध्येत्स आत्महे’ ति प्रायश्चित्ताभावस्मृत्या तेषां पतनानुमानात्। ननु पूर्वतन्त्रे अधिकारलक्षणे षष्ठाध्याये ‘अवकीर्णिपशुश्च तद्वत्’ इत्यधिकरणे अवकीर्णिनां ब्रह्मचर्यप्रच्युतानां ‘ब्रह्मचार्यकीर्णी नैर्ऋतं गर्दभमालभेते’ ति विहितं नैर्ऋतपशुरूपं प्रायश्चित्तं सिद्धं कृत्वाऽग्निर्विचारितः। तदधिकरणमित्थं- ‘यदाहवनीये जुहोती’ ति सर्वषां होमानामाहवनीयाधारत्वविधेरवकीर्णीययाऽवकीर्णस्तयासह भार्यामधिगम्य वाग्नीनाधायाहवनीयेऽवकीर्णिपशुं करोत्विति प्राप्ते ‘जायापती अग्निमादधीयाता’ मित्यग्न्याधानस्य दम्पतिकर्तृत्वस्मरणेन परस्रियासहाग्न्याधानायोगादपि अविप्लुतब्रह्मचर्यो लक्षण्यां स्रियमुद्वहे’ दित्यस्खलितब्रह्मचर्य विवाहविधानेन अकृतप्रायश्चित्तस्य विवाहायोगाच्च अग्न्याधानासम्भवादुपनयनहोमवत् लौकिकाग्नावेवावकीर्णिपशुरिति पूर्वाधिकरणे लौकिकाग्नावेवोपनयनहोमसमावर्तनानन्तरं श्रुतस्य दारपरिग्रहस्योपनयनात्पूर्वमसम्भवेनाग्न्याधानरहितस्याहवनीयाभावादिति निरूपितम्। तदर्थस्सूत्रे तद्वदिति परामृष्टः। एवंचावकीर्णिपशुनाकृतप्रायश्चित्तानां तेषां विद्याधिकारस्सम्भवतीति चेत्। मैवम्। उदाहृतस्मृत्या पतनानुमानेन पतितानां तेषामवकीर्णिपशावप्यधिकाराभावादवकीर्णिपशुविधानस्योपकुर्वाणब्रह्मचर्यविषयत्वात्। अथोच्येत। सामान्यमुखेन प्रवृत्ता नैर्ऋतपशुश्रुतिरुपकुर्वाणमात्रविषयत्वेन न शङ्कोचयितुं युक्ता। बाधकाभावात्। ‘आरूढो नैष्ठिकं धर्म’ मिति स्मृत्या विशेषविषययाऽपि बाधितुं न शक्यते। श्रुतेस्सामान्यमुखेन नैष्ठिकरूपविशेषपर्यवसानं शीघ्र्परवृत्तिकम्। स्मृतेर्नपश्यामीति प्रायश्चित्तदर्शनाभावेन प्रायश्चित्ताभावानुमानं तेन श्रुत्यनुमानमिति विलम्ब इति विशेषसद्भावात्। अतो नैष्ठिकानां तावन्मध्वशनइव प्रायश्चित्तमस्ति। वेखानसपरिव्राजकयोरपि ‘वानप्रस्थो दीक्षाभेदे कृच्छ्रद्वादशरात्रं चरित्वा महाकक्षं वर्धयेत् भिक्षुर्वानप्रस्थवत् सोमवृद्धिवर्जस्वशास्रसंस्कारंचे’ त्येवमादिप्रायश्चित्तस्मरणमस्ति। तथाऽपि तेषां न विद्याधिकारः। नरकहेतुकल्मषनिर्हरणाय प्रायश्चित्तम्मरणेऽपि कर्माधिकारनुगुणप्रायश्चित्ताभावस्य ‘प्रायश्चित्तं न पश्यामी’ ति स्मृतिवचनगौरवादाश्रमभ्रष्टान्नैष्ठिकादीन् कृतप्रायश्चित्तानपि शिष्टा वर्जयन्तीत्याचारदर्शनाच्च तेषां कृतप्रायश्चित्तानामपि इहासंव्यवहार्यत्वावगमात् ‘नैष्ठिकानां वनस्थानां यतानांचावकीर्णिनाम्। शुद्धानामपि लोकेऽस्मिन्प्रत्यापत्तिर्नविद्यत’ इति कौशिकस्मरणाच्च। तस्मात्तदीयपापानां नरकजननशक्त्या निवृत्तावपि असंव्यवहार्यतापादकशक्त्त्या न निवृत्तिरिति न तेषां विद्याधिकारः॥
संग्रहकारिके॥
स्वाश्रमधर्मनिवृत्तेयोवज्जीवं निषेधेऽपि।
तन्निष्कृत्याधिकृता विद्यायामूर्ध्वरेतसस्सन्तु॥
पतितानां हि निष्कृतिरेषां यदि सोपपत्त्या स्यात्।
विद्याधिकारबाह्या स्मृत्याचारात्तथाऽप्येते॥
इति तद्भूताधिकरणम् ॥10॥
_________________________________________________
स्वामिनः फलश्रुतेरित्यात्रेयः॥44॥
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥45॥
उपासनानुष्ठात्रननुष्ठातृविभागविचारप्रसंगादुद्गीथाद्युपासनानुष्ठात्रननुष्ठातृविभागचिंतेति संगतिः। क्रत्वंगाश्रयाण्युपासनानि किं यजमानकर्तृकाणि उत ऋत्विक्कर्तृकाणीति दहराद्युपासनागोदोहनाद्यन्यतरन्याय विषयत्वानवधारणात् संशये पूर्वपक्षः- ऋत्विक्परिक्रयस्यांगार्थत्वात् पृथक्फलवदुपासनं प्रधानमिति फलार्थिना यजमानेनैवोपासनं कार्यम्। गोदोहनादेः पृथक्फलत्वेऽपि ऋत्विक्कर्तृकप्रणयनाद्याश्रितस्य पृथक्कृत्य यजमानेनोपादातुमशक्यत्वान्नयाजमानत्वम्। उपासनानां तु क्रियारूपाणामुद्गीथादिभ्यः पृथक्कृत्य यजमानेन कर्तुं शक्यत्वात् प्रधानत्वाच्च याजमानत्वमेव युक्तम्। औद्गात्रसमाख्यादिकं तु शास्रफलं प्रयोक्तरीति न्यायविरोधान्नादरणीयमिति॥
एवं प्राप्ते सिद्धान्तः– उपासनं फलसाधनत्वेन प्रधानं सदपि ऋत्विक्कर्तृकमेव सांगप्रधानकरणायैव ऋत्विक्परिक्रयणात् प्रधानं याजमानं अङ्गमार्त्वियमिति विभागाभावात्। यागदानादिकं तु प्रधानमिति कृत्वा न यजमानेन क्रियते। किं तु यजमानद्रव्यगतस्वत्वत्यागात्मकं तद्सवामिना ऋत्विजा कर्तुं न शक्यमिति तेन क्रियते। अतएवांगं सदपि दक्षिणादानं यजमानेन क्रियते यजमानफलसाधनकर्मकरणार्थस्य दक्षिणादानस्य यजमानद्रव्येण कर्तव्यत्वात्तद्गतस्वत्वत्यागस्यान्येन कर्तुमशख्यत्वात् शास्रफलं प्रयोक्तरीत्यौत्सर्गिकन्यायस्य ऋत्विक्परिक्रयाशास्रानुसारेण फलभाजो यजमानस्य प्रयोजककर्तृत्वविषयतया तत्रैव पूर्वतन्त्राधिकरणे निर्णीतत्वात्। तस्मादौद्गात्रादिसमाख्ययाऽपि अनुग्रहलाभादुद्गातृशाखाद्याम्नातमुद्गीथाद्युपासनं उद्गात्रादिभिरेव कार्यम्। अतएवान्तरादित्यविद्यावाक्यशेषे श्रूयते। ‘तस्मादेवंविदुद्गाता ब्रूयात् कन्ते काममागायानीत्येषह्येव कामागानस्येष्टे य एवं विद्वान् साम गायती’ ति। एंविदन्तरादित्ये अन्तरक्षणिचोपास्यं सर्वेश्वरं देवमनुष्यलोककामावाप्तिरूपतत्तदुपासनाफलाभ्यां सह विद्वानुद्गातायजमानं पृच्छेत् कं ते कामं ऐहिकमामुष्मिकं वा किं फलमुद्दिश्यागायानि तत्फलानुकूलोपासनहितं गानं करवाणीति। हि यस्मादेष एवोद्गाता कामागानस्याभिमतफलसाधनोपासनासहितगानस्येष्टे य एवं विद्वान् अधिदैवताध्यात्मोपदिष्टपरमेश्वरस्वरूपं विद्वान् सामगायतीति श्रुत्यर्थः। अत्रोद्गातृकर्तृकमुपासनमिति स्पष्टम्। एवं ‘यदेव विद्यया करोती’ त्यादिविद्यायाः कर्तृसामानाधिकरण्यवचनमप्युदाहार्यम्। तस्माद्दत्विक्कर्तृकमुद्गीथाद्युपासनम्। दहराद्युपासनस्य क्रत्वंगाश्रयत्वाभावात्॥
संग्रहकारिके॥
उद्गीथविद्यादिपृथक्फलश्रुतेरुपासनत्वात्फलशालिकर्तृकम्।
गोदोहनादौ क्रतुशेषसंश्रिते यथा तथा तत्र हि नास्त्यशक्यता॥
सांगप्रधानाय परिक्रयोदितेरार्त्विज्यमेतत्फलमात्रमन्यगम्।
आर्त्विज्यता यस्य पुनर्नसम्भवेत्तत्त्यागमात्रं यजमानकर्तृकम्॥
इति स्वाम्यधिकरणम् ॥11॥
____________________________________________________
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥46॥
कृत्स्नभावात्तु गृहीणोपसंहारः ॥47॥
मौनवदितरेषामप्युपदेशात् ॥48॥
यज्ञादीनां शमादीनां च विद्यासहकारिणां निरूपणानन्तरसंगतिविशेषप्राप्तां सर्वान्नानुमत्यादिचिंतां कृत्वा पुनरपि विद्यायामेव सहकार्यन्तरं निरूप्यत इति संगतिः। ‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येनतिष्ठासेत् बाल्यं च पांडित्यं च निर्विद्याथ मुनि’ रिति कहोळब्राह्मणे श्रूयते। किमस्मिन्वाक्ये मौनमनूद्यते उत विधीयत इति मौनस्य पाण्डित्यरूपत्वतदर्थान्तराभ्यां संशये पूर्वपक्षः। मौनपाण्डित्यशब्दयोर्ज्ञानर्थत्वात् ‘पाण्डित्यं निर्विद्ये’ ति विहितमेव ज्ञानमथमुनिरित्यत्रानूद्यत इति। अत्र सिद्धान्तः-
यथा ‘यज्ञेन दानेने’ त्यादिना ‘शान्तोदान्त’ इत्यादिना च यज्ञादिश्शमादिश्च विद्यासहकारी विधीयते। यथा च श्रवणंमननंचार्थप्राप्तं गृह्यते तथा ‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्ये’ त्यादिना पाण्डित्यं बाल्यं मौनमिति त्रयं विद्यायास्सहकार्यन्तरं विधियते। तत्र बाल्यमनन्तराधिकरणे निर्वक्ष्यते। मौनं तु पाण्डित्यादन्यदेव। ऊहापोहक्षमाधीः पण्डा साऽस्यसञ्जातेति पंडितः तस्य कर्म पाण्डित्यं श्रवणमननान्तरं तदभ्यासपाटववशाल्लब्धय ऊहापोहक्षमया नवनवोन्मेषशालिन्या प्रतिभयाश्रुतमतार्थानुकूल्येन सकलोपनिषत्तात्पर्यप्रतिष्ठापनरूपम्। मौनं तु प्रकृष्टमननं प्रकृष्टमननशीलेषु व्यासादिषु तत्प्रयोगात्। प्रकर्षश्च मननस्य स्नेहपूर्वकतया प्रियविरहितनायिकाया: नायकविषयस्येव निरन्तरमनुवर्तमानत्वरूपं उपासनालम्बनस्य शुभाश्रयस्यभगवद्विग्रहादेः पुनः पुनः संशीलनात्मकं। तदपि विद्यानिष्पत्त्यर्थमेव। यस्योपासनकालव्यतिरिक्तकालेष्वपि गच्छतस्तिष्ठतश्शयानस्यवोपास्यविषयचिंताऽनुवर्तते, तस्यैवोपासनाकालेऽपि तद्विषयचित्तैकाग्न्याद्विद्याद्दढीभवति। यस्यतूपासनाकालव्यतिरिक्तकालेषु विषयान्तरावेशः तस्योपासनाकालेऽपि चेतसि समयान्तरचिंतितविषयान्तरानुप्रवेशाद्विद्या न द्दढीभवेदिति। ननु ‘कुचुंबे शुचौ देश’ इत्यादिना गृहस्थाश्रमधर्मैर्मुक्तिरिति छान्दोग्योपनिषदुपसंहारो द्दश्यते इति गृहस्थाश्रमधर्मा एव विद्यासहकारिण इति तदाशयोऽवसीयते। अतो गृहस्थानां यज्ञदानादितदर्थद्रव्यार्जनादिबहुव्यापारव्यग्रचेतसा मुक्तरूपमालम्बनसंशीलनं न घटते। अतः ‘अथमुनि’ रिति पाण्डित्यानुवाद इत्येवोचितमिति चेत्। मैवम्। नहि गृहस्थानामेव विद्या। कृत्स्नेष्वप्याश्रमेषु विद्यासद्भावे श्रुतीनामुदाहृतत्वात्। अतो गृहस्थेषु विद्योक्तिस्सर्वेषामाश्रमाणां प्रदर्शनार्था। विशिष्य गृहस्थनिर्देशस्तु यज्ञादिव्यग्रचेतसां तेषां पाण्डित्यादिसाधनत्रयसाध्या विद्या न सम्भवतीति शङ्कानिरासार्था। यज्ञादीनामन्तः करणशुद्धिद्वारा शूभावश्रये चेतः प्रतिष्ठोपयोगित्वान्न तेस्तदुपरोध इति तदाशयः। अथ स्यात् कहोळब्राह्मणे ‘ब्राह्मणाः पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ती’ ति पारिव्रज्यैकान्तिकं धर्मोपन्यासानन्तरं ‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्ये’ त्यादि श्रूयते। तेन परिव्राजामेव पाण्डित्यादिसाध्याविद्येति प्रतीतेः कथं तस्यास्सर्वाश्रमसाधारण्यम्। अतश्छान्दोग्ये गृहस्थधर्मेणोपसंहारः केवलं गृहस्थधर्मप्रसंसार्थो न विद्यद्वारा मुक्तयर्थत्वप्रदर्शनार्थ इति चेत्। मैवं। तत्र मौनोपदेशस्यापि ‘यज्ञोध्ययनं दान’ मित्यादि श्रुत्यनुसारेण सर्वेषामाश्रमाणां प्रदर्शनार्थत्वात्। तस्माद्यज्ञादिसर्वाश्रमधर्मसहकृतं बाल्यपाण्डित्ययोस्तृतीयं मौनं विधेयमिति सिद्धम्॥
संग्रहकारिकाः॥
अथमुनिरित्यत्र विधेश्श्रवणान्तमौनमविधेयम्।
पाण्डित्यशब्दितं यत ज्ञावं विहितं तदनुवाद्यम्॥
पाण्डित्याद्यन्यदिदं प्रकृष्टमननात्मकं ज्ञानम्।
आरंभणसंशीलनमितिहि यदाचक्षते वृद्धाः॥
पाण्डित्यबाल्ययोस्तत्तृतीयमधिकारिणो विदुषः।
विद्यासहकारितया यज्ञादिकवद्विधेयमिह॥
इति सहकार्यन्तरविध्यधिकरणम् ॥12॥
_____________________________________________
अनाविष्कुर्वन्नन्वयात् ॥49।॥
अथ ‘बाल्येनतिष्ठासे’ दित्यत्र विधेयं बाल्यं बालकर्मरूपं कीद्दशमिति विचार्यते। द्विविधं हि बालस्य कर्म कामचारवादभक्षत्वादिकं अप्ररूढेन्द्रियत्वदर्पाहङ्काराहित्यादिरूपं च। द्विविधमपि विधेयमिति पूर्वपक्षः। ननु ‘नाविरतोदुश्चिरिता’ दिति मंत्रेण दुश्चरितव्यावृत्तिर्विद्याङ्गत्वेन विधीयते। कथमिह तदनुमतिः। समयभेदेनाविरोध इति पूर्वपक्षीमन्यते। प्रकृष्टमननरूपात् मौनात्प्राग्बाल्यं विधीयते, प्रज्ञानेनैनमाप्नुयादिति प्रकृष्टमननांगत्वेन दुश्चरितव्यावृत्तिर्विधीयत इति। अत्र सिद्धान्तः। निर्विद्येत्नेन समापनं नोच्यते किंतु प्रतिष्ठितत्वं। निरुपसृष्टाल्लाभार्थाद्विदेस्तन्निष्पत्तेः। अतः कामचारवादभक्षत्व दुश्चरितव्यावृत्त्योर्मौनकाले विरोधात् दर्पाहङ्कारादि राहित्येनाभिजात्यादि स्वमहिमानाविष्करणमेव बाल्यमिति युक्तम्। अस्यैवान्वययोग्यत्वात्। तथाच भारतवचनं- ‘यन्नसन्तं नचासन्तं नाश्रुतं न बहुश्रुतम्। नसुवृत्तं वेद कश्चित्स ब्राह्मण:॥ गूढधर्माश्रितो विद्वानज्ञानचरितं चरेत्। अन्धवज्जडवच्चापि मूकवच्च महीं चरे’ दित्यादि।।
संग्रहकारिकाः॥
बालस्य कर्म बाल्यं तत्तु भवेत्कामचारादि।
महिमानाविष्कृतिरेवात्रोदितं बाल्यम्॥
इति अनाविष्काराधिकरणम् ॥13॥
________________________________________________
ऐहिकमप्रस्तुतप्रतिबन्धं तद्दर्शनात् ॥50॥
इत्थमङ्गचिंता कृता। अथाङ्गिनिष्पत्तिसमयश्चित्यत इति सङ्गतिः। सन्त्यैहिकभोगभोग्याभ्युदयफला विद्यास्ताः किं स्वसाधनपुण्यकर्मानुष्ठानानन्तरमिहैव जन्मनि नियमेन भवन्ति। उतेहवा देहान्तरेवा भवन्तीत्यनियम इति संशये पूर्वपक्षः। इहैव जन्मनि भवंति स्नानात्प्रायत्यवत्। स्वर्गादेवद्देहान्तरभोग्यत्वाभावादिति। असति प्रतिबन्धे तथैव, प्रबलकर्मान्तरप्रतिबन्धे तु देहान्तर इति सिद्धान्तः॥
संग्रहकारिका॥
अभ्युदयफलारोहति विद्यास्वफलककर्मानन्तरमेव।
रोहेदियमसति प्रतिबन्धे तत्सत्वे तद्विलयमपेक्ष्य॥
इति ऐहिकताधिकरणम् ॥14॥
___________________________________________
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥51॥
अभ्युदयफलासु विद्यासूक्त उत्पत्तिकालानियमो मुक्तिफलास्वतिदिश्यत इति संगतिः। परविद्यासाधनानां कर्मणां अतिप्रबलत्वेन ततः प्रबलकर्मान्तराभावान्नप्रतिबन्धस्सम्भवतीति तस्मिन्नेव जन्मनि विद्यया भाव्यमिति अधिका शङ्का। भगवत्प्रीत्यतिशयहेतुत्वेन परविद्यासाधनकर्मणां प्रबलत्वेऽपि ब्रह्मविदचाररूपैस्ततोऽपि प्रबलतरैः कर्मभिः प्रतिबन्धसम्भवात्प्रतिबन्धपरिहारार्थोद्गीथविद्यासाहित्याभावे नास्त्यैहिकत्वनियम इति परिहारः॥
यात्वपवर्गफला परविद्या सा स्यात्कर्मानन्तरमेव।
न हि भगवत्प्रीत्यतिशयहेतौ सम्भवति प्रतिबन्धकमस्मिन्॥
तत्रापि ब्रह्मविदचारः प्रायस्सम्भवति प्रतिबन्धः।
तद्यदि विद्यारहितमकारि प्रतिबन्धं न कथं बलिना स्यात्॥
__________________________________________________
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि- श्रीरङ्गराजध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे तृतीयस्याध्यायस्य चतुर्थः पादः॥