[highlight_content]

नयमयूखमालिका – Adhyaya 1 Pada 4

॥श्रीः॥

नयमयूखमालिका

।।प्रथमाध्यायस्य चतुर्थ पादः।।

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त गृहीतेर्दर्शयति च।।1।।

सूक्ष्मं तु तदर्हत्वात्।।2।।

तदधीनत्वादर्थत्वात्।।3।।

ज्ञेयत्वावचनाच्च।।4।।

वदतीति चेन्न प्राज्ञो हि प्रकरणात्।।5।।

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च।।6।।

महद्वच्च।।7।।

इह पादे सांख्यतन्त्रप्रतिपादनच्छायापन्नानां वाक्यानां सांख्याभिमतार्थनिरासेन ब्रह्मणि समन्वयः प्रतिपाद्यत इति पादार्थस्तत्सङ्गतिश्चेत्युभयमपि प्रथमपाद एव दर्शितं। काठके श्रूयते- “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परम्मनः। मनसस्तु परा बुद्धि र्बुद्धेरात्मा महान् परः।। महतः परमव्यक्तमव्यक्तात्पुरुषः परः।। पुरुषान्नपरं किंचित् सा काष्ठा सा परागति”रिति। तत्र किं सांख्यतन्त्रसिद्धं प्रधानमव्यक्तशब्दनोच्यते, उत शरीरमिति शाख्यतत्वप्रक्रियाप्रत्यभिज्ञानशरीरीपरिशेषाभ्यां संशये, पूर्वपक्षः सांख्याभिमतं प्रधानमिदमव्यक्तम्। “महतः परमव्यक्तमव्य्क्तात्पुरुषः परः” इति तत्प्रक्रियाप्रत्यभिज्ञानात्, “पुरुषान्न परं किंचि”दिति पञ्चविंशपुरुषातिरिक्ततत्वनिषेधाच्च। न तु शरीरमव्यक्तं। व्यक्ते तस्मिन्नव्यक्तशब्दस्य शक्त्यभावात्। लक्षणातः प्रधाने रूढेर्बलवत्त्वात्। सांख्यकल्पिता सा रूढिः नैयायिककल्पितपक्षसपक्षादिरूढिवदन्यत्रशब्दार्थनिर्णये अनुपयोगिनीति चेन्न। सांख्यतन्त्रसिद्धतत्वानुवादोयमिति तत्प्रक्रियाप्रत्यभिज्ञानात् सिद्धौ तदीयरूढेरेव ग्राह्यत्वात्, “न पक्षे न सपक्षे वा विपक्षे केवलं स्थितः। चित्रंनिसिं्रशधूमस्ते प्रतीपाग्न्यनुमापक” इति काव्यश्लोके नैयायिककल्पतिरूढेरप्युपयोगदर्शनात्। ननु “पुरुशान्न परं किंचि”दित्यत्र पुरुषः पंचविंश इति कथमवगम्यते, येनायं पंचविंशातिरिक्तनिषेधस्स्यादिति चेत्, इत्थं। ज्ञानंकर्मेंद्रियाणि दशोंद्रियशब्दगृहीतानि, भूततन्मात्राः दशार्थशब्दोदिताः, मनोऽन्तः करणं बुद्धिरहङ्कारः महानात्मा महत्तत्त्वमव्यक्तं प्रथानमिति सांख्याभिमतानि चतुर्विंशतिस्तत्वानि प्राङ्निर्दिष्टानि। अतः पुरुषः पंचविंशः। यद्यपि सांख्यानाम्महत्तत्व एव बुद्धिशब्दः, आत्मशब्दश्च चेतने, तथापि प्रत्यभिज्ञापकभूयस्त्वानुसारेण कार्ये कारणोपचारादहङ्कारे बुद्धिशब्दः, महत्तत्वे व्यापकत्वयोगेनात्मशब्दः। “यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनी” त्युपरितनमन्त्रे ज्ञानेप्यात्मशब्ददर्शनात्। ननु पूर्वत्र “आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेवच।। इन्द्रियाणि हयानाहुर्विषयांस्तेषुगोचरा” नित्यात्मशरीरादिषु रथिरथादिरूपेण रूपितेषु इन्द्रियादिपत्ववाक्ये शरीरव्यतिरिक्तानींद्रियादिशब्दैर्गृहीतानि, शरीरमेकं स्वशब्देन नगृहीतं, अव्यक्तशब्दश्चाधिकोस्तीति परिशेषादव्यक्तशब्दो लक्षणयापि शरीरार्थको वक्तुं युक्त इति चेत् न। रथिरथादिरूपेण निरूपितान्येव इन्द्रियादिपरत्ववाक्येप्यन्यूनातिरेकेण ग्राह्याणीति नियमे कारणाभावात्। तथा नियमे हि न तावद्रूपकवाक्यस्याकांक्षाकारणं। तस्य वाक्यस्येन्द्रियादिभिरसंयतैर्जीवैः पुनः पुनः संसारमेति संयतैस्तुमुक्तिमिति प्रदर्शनार्थे रथिरथादिरूपेणांगभावमासाद्य निराकांक्षत्वात्। नापीन्द्रियादिपरत्ववाक्यस्याकांक्षा तत्र कारणं। तस्यापि पुरुषपत्वप्रतिपादनेऽङ्गभावमासाद्य निराकांक्षत्वात्। अतः परिशेषादव्यक्तशब्दश्शरीरलक्षक इत्येतदयोगात् सांख्यतन्त्रप्रक्रियाप्रत्यभिज्ञानुसारेण तत्तन्त्रसिद्धप्रधानार्थक इत्येव युक्तमिति। एवं प्राप्ते राद्धान्तः—

पूर्वत्र रथिरथादिरूपेण रूपितानां मध्ये यच्छरीरं रथरूपकेण विन्यस्तं तदात्मनारूपितं तदव्यक्तशब्देन परिशेषात् गृह्यत इति युक्तम्। तत्रह्यात्मा शरीरं बुद्धिर्मन इन्द्रियाणितद्विषया इति षडर्था रथरथिसारथितद्गृह्यमाणतुरगरज्जुतुरगतन्मार्गात्मना यद्रूपिताः तन्मुक्तयर्थोपासनोपकरणत्वाद्वशीकार्यत्वायेति तावन्निर्विवादं। “यस्त्वविज्ञानवान्भवति अयुक्तेन मनसा सह। तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः। यस्तु विज्ञानवान्भवति युक्तेन मनसा सह। तस्येंन्द्रियाणि वश्यानि सदश्वा इव सारथे”रिति तत्रैव श्रवणात्। तत्र च वशीकार्यतायां प्राधान्याप्राधान्यविवेचनमपेक्षितं यत् प्रधानं तद्वशीकरणे यत्नातिशयसिद्ध्ये। इन्द्रियादिपरत्ववाक्यमपि वशीकार्यतायां प्राधान्याप्राधान्यरूपं परापरभावं विना विषयान्तरन्नलभते। न हि “दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। भौतिकास्तु शतं पूर्णं सहस्रन्त्वाभिमानिकाः।। बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः। पूर्णं शतसहस्रन्तु तिष्ठन्त्यव्यक्तचिन्तकाः।। पुरुषन्निर्गुणं प्राप्य कालसंख्या न विद्यत” इति सांख्यकल्पिततत्तदुपासनाफलभूयस्त्वाल्पत्वरूपः परापरभाव इति वक्तुं शक्यम्। तत्र मनसः इन्द्रियेभ्यः पृथक्परिगणनाभावेन भूततन्मात्रापेक्षया निकर्षापत्त्या तद्विषयत्वे “अर्थेभ्यश्चपरम्मन” इति मनइन्द्रियस्य अर्थशब्दोक्तभूतपरत्वोक्त्यनुपपत्तेः। नापि हेतुहेतुमद्भावरूप इति वक्तुं शक्यम्। सांख्यमते इन्द्रियाणामाहङ्कारिकत्वेन ” इन्द्रियेभ्यः पराह्यर्था” इति भूततन्मात्राणामिंद्रियपरत्वोक्त्यनुपपत्तेः, तेषां भौतिकत्वाभ्युपगमे “अर्थेभ्यश्च परं मन ” इति मनंइंद्रियस्य भूतपरत्वोक्तयनुपपत्तेः। तस्मात् इंद्रियेभ्यः तद्विषयाः वशीकार्यत्वे पराः। वश्येंद्रियस्यापि विषयसन्निधाविंद्रियविजृम्भणात्। तेभ्योऽपि मनः परं। मनसि विषयध्यानप्रवृत्ते विषयासन्निधाने रागविजृम्भणात्। तस्मादपि बुद्धिः परा। अध्यवसायाभावे मनसोऽकिंचित्करत्वात्। ततोऽप्यात्मा परः। सर्वस्या अपि विषयवृत्तेः आत्मेच्छायत्तत्वात्। तत एवात्मा अणुरपि महानिति विशेष्यते। तस्मादपि शरीरं परं। तदायत्तत्वात् सर्वासामपि पुरुषप्रवृत्तीनां। तस्मादपि परस्सर्वान्तर्यामी सर्वप्रेरकः परिपूर्णः पुरुषोत्तम इति इन्द्रियादयो वशीकार्यतायामुत्तरोत्तरं परा उच्यन्त इति तदर्थो वाच्यः। सर्वान्तर्यामिणो भगवतो वशीकरणं तच्छरणागतिरेव। “तमेव शरणं गच्छे” त्यादिवचनात्। तदिदमिंद्रियादिपरमपुरुषान्तानां वशीकार्यतायामुत्तरोत्तरपरत्वमग्रे श्रुतिरेव दर्शयति– “यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्तआत्मनी”ति। अस्य हि मन्त्रस्यायमर्थः। वागुपलक्षितं सर्वं ज्ञानकर्मेन्द्रियजातं मनसि नियच्छेत्। बाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत्। विषयविकल्पाभिमुखं तन्मनः आत्मनि स्थितायां बुद्धौ विषयदोषाध्यवसायरूपायां नियच्छेत्। तां बुदिं्ध महति प्रत्यगात्मनि नियच्छेत्। तदुपादेयताविषयां तत्प्रवणां कुर्यात्। तञ्च प्रत्यगात्मानं निरूपप्लवे परमात्मनि नियच्छेत्। तच्छेषताप्रतिपतिं्त कुर्यादिति। तस्मात्सूक्ष्मव्याकृतमव्यक्तशब्दार्हमिति तदवस्थांतररूपं शरूरमुपचारादव्यक्तमित्युक्तम्। यदि सूक्ष्ममव्याकृतमभ्युपगम्यते तर्हि तदेव सांख्यमतमापन्नमिति कथं तन्निरसनम्। स्वतन्त्रमेवाव्याकृतं कार्याणि साधयतीति सांख्यमतन्निरसनीयम्। परमपुरुषाधिनत्वात् तेन प्रेर्यमाममेवाव्याकृतम्महदादिकार्यजातं साधयतीति त्वस्माकमभ्युपगम इति विशेषः। किञ्च- यदि सांख्याभिमतमव्यक्तमिहश्रुतिरवक्ष्यत्, तदातस्यतत्कार्यस्य व्यक्तजातस्यच ज्ञेयत्वमप्यवक्ष्यत्। “व्यक्ताव्यक्तज्ञविज्ञानान्मोक्ष” इति हि सांख्यानामुद्धोषः। ननु “अशब्दमस्पर्शमरूपमव्ययन्तथाऽरसन्नित्यमगन्धवच्च यत्। अनाद्यनन्तम्महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यत ” इत्यनन्तरमेव सा श्रुतिरव्याकृतं वदति। व्यक्तधर्मभूतशब्दादिनिषेधानामव्यक्तपर्यवसानस्य न्याय्यत्वात् महतः परत्वोक्तेश्च यत्तदिति सामान्यतोऽपि निर्देशस्याव्याकृतपरत्वौचित्यादितिचेन्मैवम्। “विज्ञानसारथिर्यस्तु मनःप्रग्रवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद”मिति परमपुरुषप्रकरणात्। स एव ह्यन्यत्र निचाय्यत्वन प्रतिपाद्यते। अत एव “पुरुषान्नपरं कि चि”दिति पञ्चविंशपुरुषातिरिक्ततत्वनिषेध इति शङ्का निरस्ता। प्रकरणेन तत्र पुरुषशब्दस्य परमपुरुषपरत्वात्। “अशब्दमस्पर्श” मित्यादि तु “यत्तदद्रेश्यमग्राह्य” मित्यादिवत् तस्मिन्नप्युपपद्यते। “महतः पर”मिति “बुद्धेरात्मा महान्पर” इति प्रस्तुतात् जीवात् परत्वमुपक्तम्। अपिचास्मिन्प्रकरणे प्राप्यस्य परमपुरुषस्य प्राप्त्युपायस्योपासनस्य प्राप्तुरुपासकस्यचेति त्रयाणामेव ज्ञेयत्वेनोपन्यासः प्रश्नश्च दृश्यते। तत्र “तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाती”ति। अतं “देवं मत्वा धीर” इति क्रमेण उपास्योपासनोपासकानामुपन्यासः, “येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणमेष वरस्तृतीय” इति मोक्षरूपप्रश्नद्वारा उपायोपेयोपेतॄणां त्रयाणामपि प्रश्नः। प्रेतः प्रकर्षेणेतः अपुनरावृतिं्त मुकिं्त प्राप्तः। आत्मोच्छत्तिर्मुक्तिरिति शून्यवादिनां विमतिः “नायमस्तीति चैक ” इत्युपन्यस्ता। नत्वत्र प्रेतशब्दो मृतवचनः। मृतास्तित्वस्य वैवस्वतं लोकं प्राप्य तं पृच्छता ” न साम्परायः प्रतिभाति बालं प्रमाद्यंतं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनःपुनर्यशमापद्यते म” इत्यादिवैवस्वतवचनं श्रुतवता च नचिकेतसा निर्ज्ञातत्वेन मृते देहातिरिक्ते नास्तित्वविमत्युपन्यासायोगात्। तस्मात्रयाणामेवात्र ज्ञेयत्वेनोपन्यासः प्रश्नश्चेति नेह तांत्रिकस्याव्यक्तस्यानुवादप्रसक्तिरस्ति। अपि च “बुद्धेरात्मा महान्पर” इत्यत्र महत्तत्वन्नग्राह्यं, चेतनरूढात्मशब्दसामानाधिकरण्यात्। “तद्यच्छेज्ज्ञान आत्मनी”त्यत्र सप्तम्यौ तु वैयधिकरण्येन प्राग्व्याख्यातौ। अतोऽपि जीवात्मपरत्वेनोच्यमानमव्यक्तं न सांख्यतन्त्रसिद्धं प्रधानमिति युक्तम्। महत्तत्वपरत्वानभिधानात्।।

संग्रहकारिके।।

महतः परमव्यक्तं पठितं यद्धि काठके।

प्रधानं कपिलोक्तं तत्तत्तन्त्रप्रत्यभिज्ञया।।

मैवं तत्स्याच्छरीरं रथिरथतुरगाद्यात्मना रूपिताना

मात्मादीनां मुमुक्षो र्नियतमिह वशीकार्यताज्ञापनार्थम्।

एतस्यां तारतम्यस्फुटसमधिगमायेन्द्रियेभ्यः पराइ

त्यारभ्याम्नातमन्त्रे न्यसनमभिलषत्यस्वशब्दं शरीरम्।।

इति आनुमानिकाधिकरणम्।।

——————-

चमसवदविशेषात्।।8।।

ज्योतिरुपक्रमातु तथाह्यधीयत एके।।9।।

कल्पनोपदेशाच्च मध्वादिवदविरोध।।10।।

पूर्वत्र रूपकवाक्ये शरीरश्रवणादव्यक्तं शरीरं न तंत्रसिद्धा प्रकृतिरित्युक्तम्। तर्हि तदश्रवणादंजा तंत्रसिद्धा प्रकृतिस्स्यादिति प्रत्यवस्थानात्सङ्गतिः। श्वेताश्वरोपनिषदः पठ्यते– “अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजास्सृजमानां सरूपाः। अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य” इति। अत्र किमजाशब्देन तन्त्रसिद्धा स्वतन्त्रा प्रकृतिरुच्यते, उत सिद्धान्ताभिमता ब्रह्माधीना प्रकृतिरिति संशये पूर्वपक्षः। तन्त्रसिद्धैवोच्यते। “अजा”मिति जन्मराहित्यश्रवणात्, “सृजमाना”मिति स्वातंत्र्यश्रवणाच्च। न तु ब्रह्मात्मिका। तस्यास्सिद्धान्ते ब्रह्मकारणकत्वाभ्युपगमेन जन्मराहित्याभावात्, सृष्टौ ब्रह्मप्रेर्यत्वाभ्युपगमेन स्वातन्त्र्याभावाच्चेति। सिद्धान्तस्तु–

ब्रह्मकारणिकाया अपि जन्मराहित्यमुपपादयिष्यते। तथा अजाशब्दयौगिकार्थस्य जन्मराहित्यस्य साधारणत्वात् न तेन तत्रसिद्धेति विशेषः प्रतीयते। यथा “अर्वाग्बिलश्चमसऊर्ध्वबुध्नस्तस्मिन् यशोनिहितं विश्वरूपम्। तस्यासत ऋषयस्तप्ततीर” इत्यस्मिन् मंत्रे यौगिकेन चमसशब्देन चम्यते भक्ष्यते अनेनेति व्युत्पत्तिमता भक्षणसाधनमात्रं प्रतीयते। न कश्चित्विशेषः, यौगिकशब्दानामार्थप्रकरणवाक्यशेषादिभिर्विनाऽर्थनिश्चयासम्भवात्। तत्र “यथेदं तच्छिर एषह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्न” इति वाक्यशेषः शिरोऽत्र चमस इति निश्चायकोऽस्ति। तस्मिन्निहितं यशः प्राणवायुः तस्य तीरस्थास्सप्त ऋषयश्श्रोत्रचक्षुर्घ्राणयुगलरसनानीति निश्चायको वाक्यशेषोऽस्ति। नैवमिहाजा तंत्रसिद्धा प्रकृतिरित्यत्र किञ्चिन्निश्चायकमस्ति। सृष्टिस्वातंत्र्यं तु स्वव्यापारकर्तृत्वरूपं परप्रेर्यत्वेऽर्युपपद्यते। सारथिना प्रेर्यस्यापि रथस्य “रथो गच्छती” ति स्वातंत्र्यव्यवहारात्। तस्मादिह तन्त्रसिद्धा अजा न ग्राह्या। किं तु ब्रहामात्मिकैव ग्राह्या। ब्रह्मकारणकत्वाम्नानात्। तैत्तिरीत्या हि “अणोरणीयान्महतो महीया” निति मंत्रेण ब्रह्मोपक्रम्य “सप्त प्राणाः प्रभवंति तस्मा”दित्यादिना “यस्माज्जाता न परा नैव किं च नासे”त्यंतेन प्राणसमुद्रपर्वतादिकस्य सर्वस्य प्रपञ्चस्य ब्रह्मणस्सकाशात्प्रभवमधीयानास्तेषां मंत्राणां मध्य एव “अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्। अजोह्येको जुषमाणोऽनिशेते जहात्येनां भुक्तभोगामजोऽन्य” इति पठन्ति। अतोऽत्र ब्रह्मकार्यवर्गमध्ये पाठादजाऽपि ब्रह्मकारणिका विवक्षितेत्यवसीयते। ननु अयमजामन्त्रस्तद्भोगत्यागरूपबन्धमुक्तजीवृत्तांतविषयः, कथमिह “अजा”मिति द्वितीयान्तेन “सप्त प्राणाः प्रभवंती त्यनुवृत्तक्रियान्वयः। अतो नास्याः प्राणादिवत् ब्रह्मकारणकत्वं प्रतीयइतिचेत् उच्यते- यथा “ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छ” दितिवाक्यमिंद्रवृत्तांतमात्रविषयतया प्रतीयमानमपि दर्शपूर्णमासप्रकरणानुरोधादिंद्रेण अग्नीषोमाभ्यां दत्ततयोच्यमानस्य पुरोडाशद्रव्यकस्य यागस्य विधायकं, तथा वृत्तान्तमात्रविषयतया प्रतीयमानोऽपि अयं मंत्रस्सकलकार्यजनयित्र्याः प्रकृतेः परमेश्वरसृज्यत्वप्रतिपादक इति पूर्वापरपरामर्शादङ्गीकर्तव्यम्। ननु कथं प्रकृतेः परमेश्वरकारणकत्वं जन्मराहित्यढ्च। स्थूलसूक्ष्मभेदान्नैतद्विरूद्धम्। यथा मधुविद्यायामादित्यस्य व्वादिदेवताभोग्यरसाश्रयत्वोदयास्तमयादिमत्त्वं, “अथ ततऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकलएव मध्ये स्थाते” त्युक्तम् सर्वविशेषप्रहाणेनैकतयाऽवस्थानञ्च कार्यकारणवस्थाभेदरूपस्थूलसूक्ष्मावस्थाभेदेन न विरुद्धम्। “एकल” इति लकारोपजनश्छान्दसः। एकएवेत्यर्थः। तस्मात् ब्रह्माधीननैवेयमजा तंत्रसिद्धेरिति सिद्धम्।।

संग्रहकारिके।।

स्वातंत्र्यजनिराहित्ये सृजमानामजामिति।

यस्याश्श्रुते सा प्रकृतिस्सांक्योक्ता न परात्मिका।।

मैवं ब्रह्मात्निकायामपि यदजनिता कारणावस्थया स्यात्

स्वव्यापाराश्रयत्वं रथवदिह परप्रेर्यतायामपि स्यात्ऽ

तस्मान्नायं विशेषोऽस्त्यपितु परसृजिप्रक्रियास्तेविशेष

स्तत्सृ#ायान्ततस्स्यादतिविशदमजामन्त्रतात्पर्यमस्याः।।

इति चमसाधिकरणम्।।2।।

——————

संख्योपसंग्रहादपि नानाभावादतिरेकाच्च।।11।।

प्राणादयो वाक्यशेषात्।।12।।

ज्योतिषैकेषामसत्यन्ने।।13।।

अजा शब्दस्य स्वतन्त्रप्रकृतिपत्वे विशेषकस्याभावात् वाक्यान्तरानुरोधेन ब्रह्मात्मकत्वं साधितम्। तदत्रनप्रसरति। ब्रह्मसत्वे संख्याधिक्यात्, तेन विनैव संख्यापूरणएन अब्रह्मात्मिका प्रकृतिरिति निश्चयसंभवादिति शङ्कया सङ्गतिः। वाजसनेयिनस्समामनंति। “यस्मिन्पञ्च पञजना आकाशश्च प्रतिष्ठितः। तमेव मन्यआत्मानं विद्वान् ब्रह्मामृतोऽमृत”मिति। अयम्मन्त्रः सांख्यतन्त्रसिद्धतत्वपरः उत वाक्यशेषाम्नातप्राणादिपर इति पंचविंशतिसंख्यातत्वाधिक्यप्रतीतिभ्यांसंशये पूर्वपक्षः। सांख्यतत्वपरः। पंचविंशतिसंख्यातत्वाधिक्यप्रतीतेः। तत्प्रतिश्च पंचशब्दविशेषितात्पञ्चशब्दात्। पंचजनाइति हि न मनुष्यादिवाचीशब्दः। प्रथमपंचशब्दसमभिव्याहारेण द्वितीयपंचशब्दस्यापि संख्यापरत्वावसायात्। ततश्च पञ्चानां जनानां समूहाइति समाहारविषयोयं समासः। तथा निश्चये च पंचपूल्यइतिवदीकाराभावो लिङ्गव्यत्ययश्च छान्दसस्समर्थनीयः। तद्धितार्थोत्तरपदयोरभावेन समासस्य समाहाविषयत्वावश्यंभावात्। ते समूहाः कतीत्याकांक्षायां पुनः पञ्चसंख्यया विशेष्यन्ते “पञ्च पञ्च पूल्य” इतिवत्। ननु समासमभअयुपगम्य छान्दसत्वेन रूमसमर्थनं किमर्थं, असमासेऽपि पञ्चशब्दद्वयेन पञ्चविंशतिसंख्यालाभोपपत्तेः। एवं संवर्धनेन संख्याविशेषलाभोऽप्यन्यत्र संप्रतिपन्न एव। यथा “पञ्चपञ्चाशतस्रिवृतस्संवत्सरा” इत्यत्र पञ्चगुणितपंचाशत्संख्यया पंचाशदुत्तरद्विशतसंख्यालाभः। यथावा “वयसो वयसस्सप्त दशसप्तदशानि ददाती”त्यत्र सप्तदशगुणितसप्तदशसंख्यया एकोननवत्युत्तरद्विशतसंख्यालाभः। यथावा “पंचभिर्धाता विदधाविदं यत्तासां स्वसॄरजनयत् पंच पंच तासामुयंति प्रयवेण पंच नानारूपाणि क्रतवो वसानाः तिं्रशत्स्वसार उपयंति निष्कृत” मित्यत्र पंचगुणितपंचसंख्यया पंचविंशतिसंख्यालाभा इति चेत् मैवं। पंचजनशब्दस्य समासपदत्वेन तन्नायायनवतारात्। समासपदत्वंच शतपथब्राह्मणपठितस्यास्य मन्त्रस्य अन्तानुदात्तस्वरेण निश्चीयते। अस्यान्तानुदात्तस्वरस्य शतपथब्राह्मणस्वरविधायकभाषिकाख्यग्रन्थविहितब्राह्मणपठितमन्त्रत्वनिमित्तोदात्तादेशरूपत्वात्। अतस्तस्य “स्थानिना समासस्ये” ति व्याकरणविहितेन अन्तोदात्तस्वरेण “पंचानांत्वा पंचजनाना”मिति मन्त्रान्तरे समासदर्शनेन च अत्रापि समासेन भाव्यमिति। तस्मात्समाहारसमासोऽयं, छान्दसत्वेन रूपसिद्धिरित्येव युक्तम्। न च तत्वाधिक्यप्रसङ्गः। चतुर्विंशतेस्तत्वानां आत्मनि प्रतिष्ठितत्ववचनं तददृष्टायत्तत्वात् भाक्तं, आत्मनस्तद्वचनं स्वमहिमप्रतिष्ठितत्ववचनवत् भाक्तमित्युपपत्तेः। सांख्यतत्वापरिग्रहे श्रुतपंचविंशतिसंख्यान्वयानिर्वाहादिति। एवं प्राप्ते सिद्धान्तः।।

पंचविंशतिसंख्योपसंग्रहादपि न सांख्यतत्वप्रतीतिः। तेभ्यः पृथग्भावात्। तद्वैलक्षण्यात्। “यस्मिन् पंच पंचजना” इति तेषां यच्छब्दनिर्दिष्टब्रह्मात्मकताप्रतीतेः, आत्माकाशाभ्यां संख्यातिरेकाच्च। नच पंचविंशतिसंख्यान्वयानुरोधेन पूर्वपक्षावसानोक्ता क्लिष्टगतिः कल्पनीया। कठवल्लीषु “इन्द्रियेभ्यः पराह्यर्था” इत्यादिना पुरुषावरत्वेन वर्णितानां ज्ञानेन्द्रियकर्मेन्द्रियभूततन्मात्रा मनोबुद्धिभोक्तृस्थूलसूक्ष्मशरीराणां “तच्चाकाशं सनातन”मित्यादिष्वाकाशशब्देन प्रसिद्धस्य अप्राकृतभगवल्लोकस्य च ग्रहणसम्भवात् कठवल्लीषु अव्यक्तशब्दस्य स्थूलसूक्ष्मशरीरद्वयपरत्वोपपत्तेः. एवमक्लेशेन अन्तरङ्गशाखान्तरदृष्टसंख्योपसंग्रहसंभवे क्लिष्टगत्या बहिरङ्गाप्रामाणिकसांख्यतत्वोपसंग्रहायोग्ता। वस्तुतोऽत्र पंचविंशतिसंख्याप्रतीतिरेव नास्ति। समाहारसमासे स्रीप्रत्ययाभावपुल्लिंगयोः छान्दसत्वेन समर्थनीयत्वात्, पंचजनशब्दस्य संज्ञाशब्दत्वमभ्युपगम्य “दिक्संख्ये संज्ञाया” मिति सूत्रविहितसंज्ञआसमासवर्णनोपपत्तेः। ननु तर्हि पंचजनसंज्ञकाः केचिदिह वर्णनीया इति चेत् सत्यम्। सन्त्येव वाक्यशेषश्रुताः प्राणादयः “प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्यश्रोत्रमन्नस्यान्नं मनसो ये मनोविदु”रिति वाक्यशेषे हि षष्ठ्यन्तैः प्राणादिशब्दैः प्रसिद्धाः प्राणादयः श्रूयन्ते। ननु शतपथब्राह्मणे माध्यन्दिनानामेवान्नपाठः। न काण्वानाम्। अतस्तेषां प्राणादयः पंचपंचजना नस्युरिति चेत् उच्यते- “यस्मिन्पंचपंचजना” इत्यस्मात् पूर्वस्मिन्मंत्रे “तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृत” मिति ज्योतिषां ज्योतिष्ट्वेन ब्रह्मण्यभिधीयमाने ब्रह्माधीनस्वकार्याणां केषांचिज्जोतिषां प्रतिपादकेन षष्ठ्यन्तज्योतिश्शब्देन प्रकाशकानि ज्ञानेन्द्रियाणइ गृह्यन्त इति इन्द्रियविशेषाणां समर्पकेण “प्राणस्य प्राण” मित्यादिवाक्यशेषेणावधार्यते। तत्र “प्राणस्ये”ति शब्देन वायुसम्बन्धिनस्स्पर्शेन्द्रियस्य ग्रहणम्। मुख्यप्राणस्य ज्योतिश्शब्देन षष्ठ्यन्तेन प्रदर्शनायोगात्। “चक्षुष” इति “श्रोत्रस्ये” ति चक्षुश्श्रोत्रेन्द्रिययोर्ग्रहणम्। “अन्नस्ये”त्यन्नशब्दोदितपृथिवीसम्भन्धिघ्राणेन्द्रियग्रहणम्। तेनैव अद्यतेऽनेनान्नमिति व्युत्पत्त्या तंत्रेण रसनेन्द्रियस्यापि ग्रहणम्। “मनस” इति मन इन्द्रियस्य। एवं गृहीतानां सर्वेषामिन्द्रियाणआं ग्रहणसिध्यर्थं कण्वशाखायामप्युपसंहर्तव्यम्। षष्ठ्यन्तज्योतिःपदोदितेन्द्रियोपक्रमस्य वाक्यशेषगतेंद्रियविशेषोपन्यासस्य च तत्रापि तुल्यत्वात् तदेवं “यस्मिन् पंच पंचजना आकाशश्च प्रतिष्ठित ” इति पंचजनशब्दनिर्दिष्टानि इन्द्रियाणि आकाशशब्दोपलक्षितानि भूतानि च ब्रह्मणि प्रतिष्ठितानीति सर्वतत्वानां ब्रह्माश्रयत्वप्रतिपादनात् नतन्त्रसिद्धब्रह्मानधीनपंचविंशतितत्वानुवादशङ्कावकाशइति स्थितम्।।

संग्रहकारिकाः।।

यस्मिन्पञ्चेति मनौ पचोक्ताः पंचजनसमाहाराः।

तत्वानि पंचविंशतिरेते कपिलेन कथितानि।।

मैवं ब्रह्माश्रयताभेदान्नहिधीस्तदुक्तत्वानां।

अधिकरणाऽऽकाशाभ्यां तदुक्तसंख्यातिरेकाच्च।।

पंचजनाइति संज्ञापदेन पंचेंन्द्रियाणि कथ्यन्ते।

दृष्टानि यानि शेषे ब्रह्माधीनस्वकार्याणि।।

संग्राह्यं काण्वैरप्यन्नपदं घ्राणरसनपरं।

ज्योतिः पदोदितेन्द्रियसमुपक्रमवाक्यशेषगतितौल्यात्।।

इति संख्योपसंग्रहाधिकरणम्।।3।।

—————

कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेः।।14।।

समाकर्षात्।।15।।

माभूवन् पंचपंचजनास्सांख्यतत्वानि, तथापि ब्रह्मकारणमिति सिद्धांत्यभिमतं न सिध्यति। कारणवाक्यानां परस्परविरोधेन क्वचिदपि प्रतिष्ठितत्वाभावात्, तानि विहाय स्मृत्यनुसारेण प्रधानस्यैव कारणतया वक्तव्यत्वादिति प्रत्यवस्थानात्सङ्गतिः। कारणवाक्यैः ब्रह्म कारणमिति निश्चेतुं शक्यं, उत परस्परविरोधेन तैः किमपि निश्चेतुं नशक्यमिति, तान्यनपेक्ष्य कपिलादिस्मृतिभिः प्रधानं कारणमिति निश्चेयमिति संशये पूर्वपक्षः- छांदोग्ये “सदेवसोम्येदमग्रआसीदेकमेवाद्वितीय”मिति सत्पूर्विकासृष्टिराम्नाता। तत्रैव “तद्धैक आहुरसदेवेदमग्रआसीत् एकमेवाद्वितीय”मित्यस्रत्कारणवादमुपक्षिप्य “कुतस्तुखलु सोम्यैवंस्यात् कथमसतस्सज्जायेते”ति असत्कारणवादं निराकृत्य “सदेवसोम्येदमग्र आसी”दिति सत्पूर्विकासृष्टिः स्थिरीकृता। तैत्तिरीयकेतु छान्दोग्ये नीराकृतमसत्कारणवादं परिगृह्य असत्पूर्विका सृष्टिराम्नाता। “असद्वा इदमग्रआसीत् ततो वै सदजायत” इति। बृहदारण्यकेऽपि तथैवाम्नायते– “सदेवेदमग्रआसीत् तत्सदासीत् तत्समभव”दिति। तत्रैव अव्याकृतपूर्विकाऽपि सृष्टिराम्नायते– “तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियते”ति। अव्याकृतं ह्यव्यक्तं प्रधानमेव। एवं कारणवाक्यानां परस्परविरोधेन ब्रह्म वा स्वतन्त्रं प्राधानंवैकं कारणमिति निर्णयालाभेसति आप्ततमकपिलादिप्रणीतस्मृतिभिः प्रधानं कारणमिति निश्चेयं, तत्रैव सर्वाणि कारणवाक्यानि योजनीयानि, ईक्षणादयोऽपि गौणायोजनीयाइति। एवंप्राप्ते सिद्धांतः–

ब्रह्मणएव जगदुत्पद्यत इति निश्चेतुं शक्यते। जन्मादिसूत्रे सर्वज्ञत्वसत्यसङ्कल्पत्वादिविशिष्टं ब्रह्मयथाव्यपदिष्टंतथाभूतस्यतस्यैकस्यैव  “तस्माद्वाएतस्मादात्मनआकाशस्संभूतः, तत्तेजोऽसृजते”त्यादिश्रुतिभिराकाशादिषु कारणत्वेन प्रतिपादनात्। नन्वस्तु तथाप्रतिपादनं, तथाऽप्युदाहृतकारणवाक्यजातविगानं कथं समाधेयं। उच्यते- आनन्दवल्ल्यां “सोऽकामयत बहुस्यां प्रजायेये” ति पदेन पूर्वप्रकृतमानंदमयं परामृश्य तस्य जगत्सृष्टिसङ्कल्पमुक्त्वा “इदं सर्वमसृजत यदिदं किंचे”त्यादिना तस्य सर्वस्रष्टृत्वसर्वानुप्रवेशसर्वात्मभावानभिधाय “तदप्येष श्लोकोभवती”त्युक्ते सर्वस्मिन्नर्थे साक्षित्वेन “असद्वा इदमग्र आसी”दिति श्लोक उदाहृतः। तस्मादानन्दमयसमाकर्षात् असच्छब्दस्तस्मिन्नेवानभिव्यक्तनामरूपताभिप्रायो वक्तव्यः।”असदेवेदमग्र आसी” दित्यत्रापियमेव निर्वाहः। असच्छब्दोक्तस्य “तत्सदासी” दिति सत्पदेन समाकर्षात्, अत्यन्तासतश्च “नासतोदृष्टत्वा” दिति न्यायेन सद्रूपतापत्त्ययोगात्। “तद्धेदं तर्ह्यव्याकतमासी” दित्यत्राप्यव्याकृतपदं अव्याकृतशरीरकपरमपुरुषपरं। “सएष इह प्रविष्ट आनखाग्रेभ्यः पश्यंचक्षुश्श्रृण्वन् श्रोत्रं मन्वानोमन” इत्यनन्तरवाक्ये “सएष” इत्यनेन प्रकृतमव्#ाकृतं समाकृष्य तस्य अन्तःप्रविष्टसर्वांतर्यामिपुरुषत्वाभिधानात् । “तन्नामरूपाभ्यां व्याक्रियते”ति कर्मकर्तरिलकारः। तदव्याकृतशरीरमविभक्तनामरूपं ब्रह्म स्वयमेव स्वात्मानं विभक्तनामरूपमकरोदित्यर्थः। “तदात्मानं स्वयमकुरुते” ति श्रुत्यन्तरैकार्थ्यात्। एवं कारणवाक्यानां ब्रह्मपरत्वे सति ईक्षणब्रह्मात्मश्रुतयोऽप्यनुगृहीता भवती। तस्माद्ब्रह्मैककारणकं जगदिति सिद्धम्।।

संग्रहकरिके।।

कारणवाक्यविगानादाप्ततमोक्तं प्रधानमेव भवेत्।

कारणमशेषजगतः कारणवाक्यानि तत्र नेयानि।।

मैवं सर्वत्रापि ब्रह्मसमाकर्षसत्वेन ।

तेषां नास्ति विगानं तस्माद्ब्रह्मैव कारणं जगतः।।

इति कारणत्वाधिकरणम्।।4।।

———-

जगद्वाचित्वात्।।16।।

जीवमुख्यप्राणलिङ्गादिति चेत्तद्व्याख्यातम्।।17।।

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके।।

अत्रेयं विषयशुद्धिः– अजातशत्रुर्नाम काशीराजः स्वसमीपमागत्य “ब्रह्मे ते ब्रुवाणी”त्युक्तवन्तं बालाकिं गार्ग्यं “सहस्रं दद्म एतस्यां वाचि जनको जनक इति वै जना धावन्ति”ति प्रशस्य बालाकिना “य एवैष आदित्ये पुरुषस्तमेवाहमुपास” इत्यादिभिर्वाक्यैर्ब्रह्मत्वेनोपदिष्टानादित्यचन्द्रविद्युत्स्तनयित्न्वादिगतान् पुरुषानब्रह्मत्वेन तत्तत्पुरुषोक्त्यनन्तरमेव प्रत्याख्याय ततस्तूष्णींभूते तस्मिन् किमेतावदेव परिज्ञानमिति पृष्ट्वा तेनैतावदेवेत्यभिमते “मृषा वै किल मासमवादिष्ठाः ब्रह्म ते ब्रवाणी”त्युक्त्या तमपोद्य “यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म सवै वेदितव्य” इति स्वयमुपदिदेश। अत्र यो वेदितव्य उपदिष्टः पुरुषः स किं सांख्यतन्त्रसिद्धः पुरुषः उतपुरुषोत्तम इति संशये पूर्वपक्षः।तन्त्रसिद्धः पुरुष एवायम्। “यस्य वै तत्कर्मे”ति पुण्यपापसम्बन्धश्रवणात्। नच तस्य “एतेषां पुरुषाणां कर्ते”ति श्रुतादित्यादिपुरुषकर्तृत्वासम्भवः। आलोकदानादिना तद्भोगोपयोगिनां तेषां तददृष्टजन्यत्वेन अदृष्टद्वारा तस्य तत्कर्तृक्वाक्। “तद्यता श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाश्श्रेष्ठिनं भुञ्जन्ति एवमैवेष प्राज्ञ आत्मा एतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मानः एतमात्मानं भुञ्जन्ति”ति वाक्यशेषे यथा प्रधानपुरुषः स्वकीयैर्भृत्यादिभिर्भोगसाधनान्युपहरद्भिर्भोगान्भुङ्क्ते यथा च ते भोगसाधनान्युपहरन्तः प्रधानपुरुषं पालयन्ति तथा वेदितव्यत्वेनोपदिष्ट आत्मा प्रकृतैरादित्यादिपुरुषैर्भुङ्क्ते ते च तं पालयन्तीत्युक्तत्वाच्च। ननु तथाऽपि पुण्यपापवान् पुरुषो वेदितव्यः परिग्राह्य इत्यत्र किन्नियामकम्। कर्मशब्दस्य पुण्यपापरूढितवत् क्रियत इति व्युत्पत्या कार्यमात्रयोगस्यापि सत्वेन परमपुरुषपक्षेऽपि “यस्य वैतत्कर्मे”त्येतदुपपन्नम्। रूढिप्राबल्यावलम्बने चलनेऽपि रूढेस्सत्वेनान्यतरपरिग्रहे विनिगमनाविरहात् रूढ्योः परस्परं कलहायमानयोर्लब्धोन्मेषो योग एवेह प्रबल इति वक्तुं शक्यत्वादिति चेन्न। आदित्यादिपुरुषकर्तृत्वमपूर्वद्वारकं विवक्षितमित्येतदर्थसमर्पणार्थतया कर्मशब्दस्यापूर्वरूढेरिहोपयुक्तत्वेन रूढ्यन्तराद्योगाच्च तस्याः प्रबलत्वात् चलनरूढेः परमपुरुषपक्षे विभौ तस्मिन्ननन्वयेन सांख्यपुरुषपक्षेऽपि विभुत्वेन तैरभ्युपगते तस्मिन्ननन्वयेन जीवाणुत्वपक्षेऽपि चनलोक्तेः प्रयोजनाभावेन रूढ्यन्तरोन्मेषशङ्कानवकाशाच्च। तस्माद्वक्तव्यतयोपक्रान्तं ब्रह्म तन्त्रसिद्धः पुरुष एवेति न तद्व्यतिरिक्तेश्वरसिद्धिः। एवञ्च यद्यपि पूर्वाधिकरणेषु सकलवेदान्तप्रसिद्धब्रह्माधिष्ठानेन प्रधानस्य जगत्परिणामित्वमुक्तं, तथाऽपि तथाभूतं ब्रह्म सांख्यपुरुष एवेतीह ब्रह्मनिरूपणोपक्रमसांख्यपुरुषनिरूपणाभ्यामवगमात् तस्मिन्नेव सर्वेषां वेदान्तानां पर्यवसानमभ्युपेयमिति सर्वपूर्वाधिकरणाक्षेपेणायं पूर्वपक्षः। तत एवास्य पूर्वाधिकरणसङ्गतिश्च। एवं प्राप्ते सिद्धान्तः–

“यस्य वैतत्कर्मे”त्यत्र एतच्छब्दस्तावत् प्रत्यक्षादिसन्निधापितसकलजगद्वाची। प्रकरणोपपदादिसङ्कोचकाभावात्। अतस्तत्समानाधिकरणः कर्मशब्दोऽपि कार्यत्वयोगेन सकलजगद्वाचीत्यभ्युपेयं। सकलजगद्वाच्येतच्छब्दसामानाधिकरण्येन दुर्बलस्यापि योगस्योन्मेषात्। पूर्ववाक्योक्तमादित्यादिपुरुषकर्तृत्वं प्रति द्वारतया निर्वाहकत्वेन अपूर्वं बुद्धिस्थमितिचेत् न। जगदेकदेशभूतादित्यादिकीर्तनेन तदेकदेशि जगत् बुद्धिस्थमित्यपि वक्तुं शक्यत्वात्। उभयोर्बुद्धिस्थत्वसंभवे च एतत्पदसामानाधिकरण्येन जगद्वाचित्वस्यैव युक्तत्वात्। अपूर्ववाचित्वमादित्यादिपुरुषकर्तृत्वनिर्वाहकतया प्रकृतोपयोगीतिचेत् न। एकः कथमेतावतामादित्यादिपुरुषाणआं कर्तेत्याकांक्षायां नह्यन्तेषामेव कर्ता किंतु सर्वस्यास्यजगतः। तथाच यस्यैतत्सर्वमेव जगत्कार्यं तस्यादित्यादिपुरुषकर्तृत्वे का विचिकित्सेति कैमुतिकन्यायेन कार्यसामान्ययोगस्याप्यादित्यादिपुरुषकर्तृत्वनिर्वाहकतया प्रकृतोपयोगसाम्यात्, तत्साम्येच एतत्पदसामानाधिकरण्यबलात् कार्यत्वयोगोन्मेषेण जगद्वाचित्वस्यैवाभ्युपेयत्वात्, “एतेषां पुरुषाणां कर्ते”ति प्रकृतं कर्तारं “यस्य” ति परामृश्य कर्मशब्देन तत्संबन्धिनिर्देशरूपेण कर्तृकर्मसम्भिव्याहारेणापि कर्मशब्दे कर्तृव्यापारविषयत्वात्मककार्यत्वयोगोन्मेषात् सर्वकार्यसाधारणेन कार्यसामान्योगेनैव अपूर्वेऽपि वृत्तिसम्भवेन तत्र तस्य असाधारण्येन रूढिकल्पनायोगाच्च। पूर्वतंत्रे हि बर्हिराज्याधिकरणे बर्हिश्शब्दस्य लवनादिसंस्कृतेषु दर्भेष्वाज्यशब्दस्योत्पवनादिसंस्कृते घृते च सार्वभौमे शिष्टप्रयोगो सत्यपि क्वाचित्कं तयोर्दर्भघृतजातिमात्रे प्रयोगमवलम्ब्य तेनैव संस्कृप्रयोगनिर्वाहात् तयोस्संस्काररूपं प्रवृत्तिनिमित्तान्तरं न कल्प्यमित्युक्तम्। “एकदेशेऽपि यो द्दष्टश्शब्दो जातिनिबन्धनः। तदत्यागान्नतस्यास्ति निमित्तान्तरकल्पने”ति। अतः “क्लृप्तो योगः कल्प्यां रूढिं बाधत” इति न्यायात् नापूर्वरूडिकल्पनावकाशः। तस्मात् “यस्य वैतत्कर्मे” ति सकलजगत्कर्तृत्वोपदेशोऽयम्। #ेवं च प्रत्यक्षादिसन्निधापितसकलजगदुपस्थापकैतच्छब्दः आदित्यपुरुषाद्येकदेशमात्रकर्तृत्वमात्रव्यवच्छेदको वाशब्दश्च सार्थको भवति। ब्रह्मनिरूपणोपक्रमः “चक्षोस्मीर्यो अजायते” त्यादिश्रुतिप्रतिपन्नपरब्रह्मधर्मादित्यपुरुषादिकर्तृत्वोपन्यासश्च सर्वलोकप्रसिद्वजीवातिरिकिक्तबालाक्यविदितपुरुषोपदेशश्च अनुकगीलितो भवति। “सर्वान् पाप्मनोऽपहत्य सर्वेषाञ्च भूतानां श्रैष्ठयं स्वराज्यं पर्येति यएवं वेदे”त्यौपसंहारिकब्रह्मवेदनफलवर्णनमप्युपपादितं भवति। ननु “एतैरात्मभिर्भुङ्क्ते” इति भोक्तृत्वं, “अथास्मिन् प्राणएवैकधा भवती”ति सप्तम्यन्तनिर्दिष्टवेदितव्यपुरुषाश्रितमुख्यप्राणसंबन्धश्चेति जीवलिंगद्वयं वेदितव्यपुरुषस्य जीवत्वगमकं वाक्यशेषे श्रूयत इति चेत्, तस्य निर्वाहः प्रतर्दनविद्यायामेवाभिहितः। उपक्रमोपसंहारबलात् ब्रह्मपरत्वेन निश्चिते वाक्ये तन्मध्यगतान्यन्यलिंगानि तदनुरोधेन नेयानीति। कथन्तन्नयनमिति चेत्। इत्थं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थं जीवसङ्कीर्तनमिति तदिदं प्रश्नव्यापाख्यानाभ्यामवगम्यते। प्रश्नस्तावत् राज्ञा गार्ग्यं प्रति कुतः, “क्वैष एतत्बलाके पुरुषोऽशयिष्ट क्कैषतदाऽभूत् कुतएतदागा”दिति। एवं राज्ञा पृष्टं सुषुप्तजीवाधिकरणमविजानात् गार्ग्ये “हितानाम हृदयस्य नाड्य” इत्यादिना “तासु तदा भवति यदा सुप्तः स्वप्नं नकथञ्चन पश्यती”त्यन्तेन जीवस्य सुषुप्त्यधिकरणं हृदयावच्छिन्नं ब्रह्म प्राप्तं मार्गतयाऽधिकन्तव्यासु नाडीषु सर्पणमुक्त्वा “अथास्मिन् प्राणएवैकधाभवती” ति राज्ञैव कृतं स्वपृष्टार्थविवरणम्। तस्य व्याख्यानमिदं सुषुप्तौ जीवस्य ब्रह्मणि लयप्रतिपादकं। “सता सोम्य तदा सम्पन्नो भवती” ति छन्दोगश्रुत्यैकार्थ्यात्, “य त्रैषएतत्सुप्तोभूत्, यएष विज्ञानमयः पुरुषः क्वैषतदाऽभूत् कुतएतदागा”दिति “यत्रैषएतत्सुप्तोभूत् यएषविज्ञानमयः पुरुषः तदैषां प्राणानां विज्ञानेन विज्ञानमादाय यएषोऽन्तर्हृदयआकाशस्तस्मिन्शेत”इति वाजसनेयिशाखाम्नातबालाक्यजातशत्रुसंवादगतप्रश्नोत्तरैकार्थ्याच्च। तस्माद्वेदितव्यतयोपदिष्टः पुरुषस्सुषुप्तजीवाधिकरणत्वेन ततोभिन्न उक्तइति सभगवान् परमपुरुषएवेति सिद्धम्।।

संग्रहकारिकाः।।

ब्रह्मेति सर्वागमसीमलालितः सांक्योदितः पूरुषएव नाधिकः।

ब्रह्मप्रसङ्गो यदजातशत्रुणा कर्मान्विते तत्र समाप्तिमापितः।।

मैवमिह कर्मशब्दः कार्यपरो नैव पुण्यपापपरः।

निखिलजगत्स्वरसैतत्पदसमभिव्याहृतिग्रासात्।

बालाक्यविदितपुरुषोपदेशवाक्यप्रवेशाच्च।

चक्षोस्सूर्य इतीदृक्प्रापकवचनानुरोधाच्च।।

इति जगद्वाचित्वाधिकरणम्।।5।।

————————–

वाक्यान्वयात्।।19।।

प्रतिज्ञासिद्धेर्लिंगमाश्मरथ्यः।।20।।

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः।।21।।

अवस्थितेरिति काशाकृत्स्नः।।22।।

बृहदारण्यके मैत्रेयीब्राह्मणे याज्ञवल्क्यः स्वयंप्रविव्रजिषया मैत्रेयीकात्यायन्योः स्वभार्ययोर्वित्तसंविभागं चिकीर्षन् वित्तेन किममृतत्वं प्राप्तुं शक्यमिति मैत्रेय्या पृष्टो “यथैवोपकरणवतां जीवितं तथैवतेजीवितंस्यात् अमृतत्वस्य तु नाशास्ति वित्तेन ” त्युक्त्वा “येनाहन्नामृतास्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मेब्रूही” ति तया पुनरमृतत्वसाधनं पृष्टः “न वा अरे पत्युः कामाय पतिः प्रियोभवति आत्मनस्तु कामाय पतिः प्रियोभवती” त्यादिभिः “न वा अरे सर्वस्य कामाय सर्वं पिर्यं भवति आत्मनस्तु कामाय सर्वं प्रियं भवती”त्यन्तैः वाक्यैः पतिजायापुत्रवित्तादिकं स्रवं यद्भोगार्थतयैव प्रियं भवति तं पत्यादिसर्वभोक्तारमात्मानमुपक्रम्य “आत्मावा अरे दृष्टव्यश्श्रोत्व्योमन्व्योनिदिध्यासितव्य ” इत्यमृतत्वसाधनमात्मदर्शनं तत्साधनानि श्रवणादीनि चोपदिश्य “आत्मनिखल्वरे दृष्टे श्रुते मते विज्ञाते इदंसर्वंविदित ” मित्यात्मविज्ञानेन सर्वविज्ञआनमुक्त्वा “सयथाऽऽर्द्रैधाग्नरभ्याहितस्य पृथक्धूमाविनिश्चरन्त्येवंवा अरेऽस्य महतोभूतस्य निश्वासितमेतद्यदृग्वेतो यदुर्वेदस्सामवेदोऽथर्वाङ्रसइतिहासः पुराणं विद्याउपनिषदश्लोकास्सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयञ्च लोकः परश्च लोकस्सर्वाणि च भूतन्यस्यैवैतानिसर्वाणिनिश्वसितानी”ति तस्य नामरूपात्मकसकलप्रपञ्चकारणत्वं प्रदर्श्य “प्रज्ञानघनएवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविश्यति नप्रेत्यसंज्ञाऽस्ती”ति तस्योत्पत्तिविनाशविशेषविज्ञआनाभावानुक्त्वा “एतावदरेखल्वमृत्व”मिति तस्यात्मनोवेदनममृतत्वसाधनमुपसञ्डहारेति श्रूयते। अत्र पतिजायादिवाक्यजातमुत्पत्तिविनाशवाक्यञ्च परमात्मविषयमिति प्रतीयते। सर्वाणि चैतानि वाक्यानि एकविषयत्वेन प्रवृत्तानि प्रकृतपरमर्शिभिरात्मशब्दसर्वनामशबादैरुत्तरोत्तरवाक्यप्रवृत्तेः। चतुर्थाध्याये मैत्रेयीब्राह्मणे महद्भूतमनन्तमपार”मिति परमात्मासाधारणविशेषणानि “प्रज्ञानघनएवे”त्यादिवाक्योक्तोत्पत्तिविनाशादिजीवलिंगसामानाधिकरण्येन निर्दिष्टानि। एवं जीवेश्वरलिंगयुक्तवाक्यानामेकविषयत्वप्रतीतावपि नाबेदस्तयोश्श्रुतितात्पर्यविष इत्यभ्युपगन्तुं युक्तम्। “नाहं सर्वज्ञ ” इत्याद्यनुभवेन जीवे सर्वज्ञत्वादिविशिष्टेश्वरभावबाधात्। उभयोर्भेदेन अत्र प्रतिपादनकल्पनंत्वेकविषयत्वप्रतीतिविरुद्धम्। तस्मात् जीवेश्वरयोरन्यतरएवात्र प्रतिपाद्यः। अप्रतिपाद्यलिंगानि च प्रतिपाद्ये योज्यानीति स्थिते जीवधर्माणामीश्वरे योजनेन सिद्धान्तो भविष्यति। ईश्वरलिंगानां जीवे योजनेन सांख्यतन्त्रसिद्धः पुरुष एवात्र प्रतिपाद्य इति तावत्पूर्वपक्षः। तथाहि- पतिजायादिसम्बन्धस्तावदविचलं जीवलिंगम्। “नवा अरे पत्युः कामाये”त्यत्र वैशब्देन प्रसिद्धिद्योतकेन। प्रसिद्धं ह्येतत् तवापि, मैत्रेयि यत् पत्यादयो जायादीनां पत्यादिप्रयोजनाय प्रिया न भवंति किं तु स्वप्रयोजनायैवेत्येवमर्थप्रतीतेः। अतः पत्यादिकं परित्यज्यामृतत्वसाधकं स्वात्मदर्शनमेव श्रवणादिभिस्सम्पादनीयमिति “आत्मा वाऽअरे द्रष्टव्य” इत्यादि नोच्यत इति सङ्गच्छते। ननु स्वात्मभोगाय पत्यादीनां प्रियत्वमुक्त्वा ततः केवलमात्मस्वरूपमन्वेष्टव्यमिति वचनं न संघटते। प्रियमेवह्यन्वेष्टव्यं नतु प्रियवियुक्तस्वरूपमिति चेत्, उच्यते– सर्वेषामपि स्वात्मा स्वतः प्रियः, पतिजायादयस्तु न पतित्वादिना प्रियाः, तेषां स्वेष्टसंपादकत्वदशायामिव स्वानिष्टकरणत्वदशायां प्रीत्यदर्शनात्। अतः स्वात्मनः पत्यादीनां चानुभवानुसारेण व्यवस्थिताव्यवस्थितपुरुषार्थत्वरूपं तत्वमालोच्याव्यवस्थितगौणपुरुषार्थरूपं पत्यादिकं परित्यज्य मुख्यमेवाश्रयेदिति प्रकृतिवियुक्तात्मदर्शनतदर्थश्रवणमननध्यानविधानं सङ्गच्छत एव। “दशमन्वन्तराणीह तिष्ठन्तींद्रियचिन्तका” इत्यादिना तन्त्रसिद्धपुरुषध्यानस्य सांख्यैर्मुक्तफलकत्वप्रतिपादना। सर्वविज्ञानवचनमपि तत्र सङ्गच्छते। मुक्त्यर्थानुसन्धेयप्रकृतिवियुक्तजीवस्वरूपाणां विशेषकान्तराभावेनैकारतया स्वात्मनि तथा विज्ञातेसति “एवमाकारस्सर्वे जीवा” इति ज्ञातुं शक्यत्वात्। सर्वोपादानत्व वचनं तु जीवाधिष्ठितप्रधानविषयतया सङ्गच्छते। तत्रह्याद्रेंधनविशिष्टस्याग्नेः धूमोपादानत्वं दृष्टान्तीकृतं। न चाग्निर्धूमोपादनां, किंत्वाद्रेंधनमेव। तदुत्कर्षेण धूमोत्कर्षदर्शनात्। एं दार्षान्तिकभावेऽप्याद्रेंधनकल्पजडप्रकृतिविशिष्टस्याग्निकल्पस्य चेतनस्योपादानत्ववर्णनं दृष्टान्तानुसारात् “दध्ना जुहोती”ति विधानमिव विशेषणए संक्रामति। एवमिह ब्रह्मधर्माणां जीवे योजयितुं शक्यत्वात्, जीवधर्माणां पतिजायादिसम्बन्धोत्पत्तिविनाशाविशेषविज्ञानाभावानां ब्रह्मणि योजयितुं शक्यत्वात्। बृहदारण्यकचतुर्थषष्ठाध्यायाम्नातयोर्मैत्रेयीब्राह्मणयोस्तन्तरसिद्धे पुरुषे पर्यवसानेन तत्सामान्यात् सर्वाण्यपि कारणवाक्यानि पुरुषाधिष्ठितप्रधानकारणत्वपराणि। अतः प्रधानमेव जगत्कारणं नत्वीश्वरो नाम कश्चिदस्तीति। एवं प्राप्ते सिद्धांतः—

अमृतत्वसाधनवेदनेनोपक्रमस्तेनोपसंहा#ो मध्येचामृतत्वसाधनात्मदर्शनश्रवणमननध्यानकीर्तनञ्च प्रकरणस्य परमात्मविषयत्व एवोपपद्यते, नतन्त्रसिद्धपुरुषविषयत्वे। “नान्यः पन्था” इति श्रुतेः श्रुतिविरुद्धस्य “पुरुषं निर्गुणं प्राप्ये”त्यादितान्त्रिकवचनस्य हेयत्वात्। कथं ब्रह्मणि पतिजायादिवाक्यघटना। इत्थं- पतिजायापुत्रवित्तादयो मत्प्रयोजनायाहमस्यप्रियस्स्यामिति स्वसङ्कल्पात् प्रिया न भवन्ति, किन्तु परमात्मनस्स्वाराधकप्रियप्रतिलंभनविषयकामनानिर्वृत्तय इति। परमात्मा हि कर्मभिराराधितस्तत्तत्कर्मानुगुणं प्रतिनियतदेशकालस्वरूपपरिमाणमाराधकाननान्तत्तद्वस्तुगतं प्रियत्वमापादयति। “एष ह्येवानन्दयाती”ति श्रुतेः। न तु किमपि वस्तु स्वतः प्रियमप्रियं वा भवति। यथोक्तं भगवता परशरेण– “तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते। तदेव कोपाय पुनः प्रसादाय च जायते। तस्माद्दुःखात्मकन्नास्ति न च किञ्चित् सुखात्मक”मिति। नन्वित्थं पतिजायादिवाक्यं परमात्मविषयतां प्राप्नोतु नाम। “तान्येवानुविनश्यती”त्यादि जीवपरामर्शः कथन्तद्विषयतां प्राप्नुयादिति चेत्, इत्थं जीवस्तावत् ईश्वरादुत्पद्यते। “यथा सुदीप्तात्पावकाद्विप्फुलिङ्गा”इत्यादिश्रवणात्। अतस्तयोः कार्यकारणभूतयोरस्ति घटमृत्पिण्डयोरिव मुख्यमेवैक्यं, तदिह ज्ञापनीयम् “आत्मनिखल्वर”इत्यादिपूर्ववाक्योक्तसर्वविज्ञानप्रतिज्ञासिध्यर्थमिति तत्ज्ञापनार्थं जीवशब्दैरीश्वराभिधानमित्याश्मरथ्य आचार्यो मन्यते। संसारदशायां जीवेश्वरयोर्भेदेऽपि मोक्षदशायां “यथा नद्यस्स्यंदमानास्समुद्र”इति मन्त्रोक्तनदीसमुद्रन्यायेन अभेदप्राप्तेः जीवशब्दैरीश्वराभिधानमित्योडुलोमिराचार्यो मन्यते। ईश्वरस्य जीवेऽन्तर्यामितयाऽवस्थितेस्तन्नियाम्यत्वेन तच्छरीरस्य जीवस्य शब्दाश्शरीरिपर्यन्ताइति जीवशब्दैरीश्वराभिधानमिति काशकृत्स्नआचार्यो मन्यते। इतमेव मतं सूत्रकारस्याभिमतम्। जीवोत्पत्तेः “नात्माऽश्रुते”रित्यत्र, मुक्तावागन्तुकरूपाभिनिष्पत्तेः “संपद्याविर्भाव”इत्यत्र निराकरिष्यमाणत्वात्, सर्वशब्दानां शरीरिपरमात्मपर्यन्तत्वस्य “चराचरव्यपाश्रयस्तु स्या” दिति सूत्रेण प्रसाधयिष्यमाणत्वाच्च। तस्मादादिमध्यावसानपरामर्शात् मैत्रेयीब्राह्मणं परमात्मपरम्। नतु तन्त्रसिद्धपुरुषपरमिति सर्वेषां कारणवाक्यानां सिद्धं परमात्मपरत्वम्।।

संग्रहकारिकाः।।

मैत्रेयीब्राह्मणोक्तः पतिसुतवनिताद्यन्वयात् पञ्चविंश-

स्तस्य ज्ञानाद्विमुक्तिः प्रकृतिविरहितस्येति तंत्रे प्रसिद्धिः।

तन्न्यायात्सर्ववेदावधिपरिपठिताश्चेतनैकान्तशब्दाः

तत्रैवाख्यां लभंतां भवतु च तदधिष्ठातृकं तत्प्रधानम्।।

पतिसुतवनितादिकीर्तनेऽपि स्पृशति न संसृतिभाजमात्मशब्दः।

इह सुदृढमुपक्रमादिदृष्ट्या परविषये सति तस्य कः प्रसङ्गः।।

तस्मादिहात्मा भणितः पुमान्परस्तदिष्टमाराधकसौख्यलम्भनम्।

तत्सिद्धये स्युस्तनयादयः प्रियाःस्वरूपतो नेति तदर्थइष्यतां।।

जीवपरामर्शोऽयं शरीरिपरमात्मपर्यन्तः।

यत्रोत्पत्तिविनाशज्ञानाभावाहि न गदितास्तस्य।।

इति वाक्यान्वयाधिकरणम्।।6।।

———————————-

प्रकृतिश्च प्रतिज्ञादृष्ठान्तानुपरोधात्।।23।।

अभिध्योपदेशाच्च।।24।।

साक्षाच्चोभयाम्नात्।।25।।

आत्मकृतेः।।26।।

परिणामत्।।27।।

योनिश्च हि गीयते।।28।।

एवं निरीश्वरसांख्ये निरस्ते सतीश्वरः केवलं निमित्तभूतः प्रधानमेव तु परिणामिजगदुपादानमिति वदतस्सेश्वरसांख्यस्य मतं निराक्रियत इति सङ्गतिः। किं ब्रह्म जगतोनिमित्तमात्रं उतोपादानमपीति तस्योपादानत्वे श्रुतिन्यायविरोधतदानुकूल्याभ्यां संशये पूर्वपक्षः- ईश्वरोनिमितिमात्रं, प्रधानमेव उपादानं। “मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरं, मयाध्यक्षेण प्रकृतिस्सूयते सचराचर”मित्यादिश्रुतिस्मृतिदर्शनात्, लोके कुलालमृत्पिण्डादिनिमित्तोपादानभेददर्शनाच्च परमात्मनउपादानत्वासम्भवाच्च। कार्यकारेण परिणामित्वं ह्युपादानत्वं, नतु परिणाम्याधारत्वमपि। मृदि घटाकारेण परिणममानायां तदाधारस्य भूतलक्स्याप्युपादानत्वप्रसङ्गात्। न च “बहुस्यां प्रजायेये”ति ब्रह्मणस्सृक्ष्यमाणतेजःप्रभृतिरूपेण स्वस्य बहुभवनसङ्कल्पश्रवणादुपादानत्वमप्येष्टव्यमिति वाच्यम्। तदनुपादानत्वेपि ततो भेदेऽपि स्वकीयत्वप्रयुक्ताभेदोपचारेणतदुपपत्तेः। “प्रजायेमहिरूद्रप्रजाभिः, अग्ने यन्मे तनुवा ऊनन्तन्मआपृणेत्याह यन्मे प्रजायै पशूनामूनन्तन्मआपूरयेतिवावैतदाहे”त्यादिमन्त्रार्थवादा हि प्रजापशुरूपेण स्वस्यैव जननं स्वस्यैव प्रजापश्वात्मकत्वञ्चावेदयन्ति। नच प्रतिज्ञादृष्टान्तानुसारेणोपादानत्वमप्येष्टव्यमिति वाच्यम्। ब्रह्मज्ञाने सत्यपि वियदादिषु मृतिपिण्डादिज्ञाने सत्यपि घटशरावादिषु च संशयदर्शनेन प्रतिज्ञादृष्टान्तयोरौपचारिकतया नेतव्यत्वात्। “तदात्मानं स्वयमकुरुते”त्यादेः “यदायदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्स्य तदाऽऽत्मानं सृजाम्यह” मित्यादिवन्नयनसम्भवादिति। एवंप्राप्ते सिद्धान्तः–

ब्रह्म जगत उपादानमपि, न निमित्तमात्रं। उपादानत्वे सत्येवहि सर्वविज्ञानप्रतिज्ञामृत्पिण्डघटशरावादिदृष्टान्तौ नोपरुध्येयाताम्। न च तयोरौपचारिकत्वं कल्प्यं, मुख्यत्वसमर्थनोपपत्तेः। तथाहि– “सदेव सोम्ये दमग्रआसीत् एकमेवाद्वितीय” मित्यत्र सत्पदं सूक्ष्मचिदचिद्विशिष्ट वस्तुपरम्।अन्यथा ब्रह्मातिक्तस्य जीववर्गस्य अव्यक्तस्य च सत्वेन अवधारणविरोधात्, अवधारणस्य तत्पृथग्भूतवस्त्वन्तरव्यवच्छेदकत्वेनोपापादनीयत्वात्। तज्ज्ञाने च तत्कार्ये सर्वमपि विषयोभवति। कार्यद्रव्यस्य कारणानन्यत्वात्। कार्यगतस्थूलावस्था परं विषयो नभवति। अतस्तेनाकारेण संशय उपपद्यते। अन्यदिहापेक्षितं प्रतिज्ञाद्दष्टान्तवाक्ययोर्विश्वारणीयमारम्भणाधिकरणे विचारयिष्यते। न च कुलालमृत्पिण्डन्यायेन निमित्तोपादानभेदन्यमश्शङ्कनीयः। तत्र हि निमित्तोपादानाभेदग्राहकप्रमाणाबावात् तद्भेदः, इह तत्प्रमाणे जाग्रति कथमभेदो न स्यात्। न च भूतलवत्परिणाम्युपादानाधारस्योपादानत्वोक्तिर्निरालंबनेति वाच्यं। अपृथक्सिद्वकार्वाश्रयत्वरूपत्वादुपादानत्वस्य तस्य ब्रह्मण्यपिमुख्यत्वात्। नच कार्याश्रयत्वे साक्षात्त्वन्निवेशनीयं, येन साक्षात्तदाश्रयभूता प्रकृतिरेवोपादानं स्यात्। साक्षात्त्वविशेषणे गौरवात्। किंच प्रतिज्ञाद्दष्टान्ताभ्यां तावद्ब्रह्मण उपादानत्वमवसीयते। “”बहुस्यां प्रजायेये”” त्यभिध्योपदेशादपितदवसीयते। न चतस्य मुख्यत्वसम्भवे पूर्वपक्षोदाहृतमन्त्रार्थवादवत्क्लिष्टगतिः कल्पनीया। तथा “ब्रह्मवनं ब्रह्मसवृक्ष आसीत् यतोद्यावापृथिवी निष्टतक्षुः। मनीषिणो मनसा विब्रवीमिवः ब्रह्माध्यतिष्ठद्भुवनानि धारय”न्निति साक्षाच्च तस्य निमित्तोपादानोभयरूपत्वमाम्नायते। अत्र हि “वृक्ष” इति तक्षणनिर्वर्त्यद्यावापृथिव्युपादानत्वमुक्तम्। “ब्रह्माध्यतिष्ठ” दिति निमित्तत्वं। तथा “तदात्मानं स्वयमकुरुते” ति सृष्टौ तस्यैव कर्तृकर्मभावश्रवणादपि तस्य निमित्तोपादानोभयरूपत्वमवगम्यते। “तदात्मानं सृजाम्यह”मितिवदुपपद्य इत्युक्तमितिचेत् न। तत्रापि निमित्तोपादानभावसिध्यविशेषात्। इयांस्तु विशेषः। तत्र अवतारशरीररूपेण स्वात्मानः स्वेम सृष्टिरुच्यते, इह प्रपञ्चरूपेणेति। एं बहुविधश्रुतिसिद्धमपि तस्योपादानत्वं “निष्कलं निष्क्रियं शान्त” मित्यादिनिर्विकारत्वविषयबहुश्रुत्यन्तराविरोधेन कल्पनीयम्। तथा तत्कल्पनञ्च निरुक्तोपादानलक्षणे साक्षादाश्रयत्वाविवक्ष्यैव निर्वहतीत्यतोऽपि साक्षात्वन्नविवक्षणीयम्। न च व्यवहितकारणवद्व्यवहिताश्रयो नास्ति, स केवलमाश्रयस्यैवाश्रय इति शङ्कनीयम्। पर्यङ्कास्तीर्णवस्रे शयानं प्रति तद्वहनाक्षमस्य वस्रमात्रस्य आश्रयत्वायोग्यतया व्यवहितस्य पर्यङ्गस्य वस्रद्वारा तदाश्रयत्वात् प्रासादस्थपर्यङ्कशयिते पुरुषे “प्रसादे शेत” इति व्यवहारदर्शनाच्च। एतेन स्वाभिन्नकार्यावस्थाश्रयत्वमुपादानलक्षणम्, तथा च ब्रह्मप्रपञ्चयोरपृथक्सिद्धिसत्वेऽप्यभेदाभावात् न ब्रह्मणः प्रपञ्चोपादानत्वमित्यपि शङ्का निरस्ता। श्रुतोपादानत्वनिर्वाहार्थमपृथक्सिद्धिगर्भस्यैव लक्षणस्य वाच्यत्वात् श्रुतोपपत्त्यनुसारेण अश्रुतकल्पनौचित्यात्। तस्मादुक्तलक्षणपरिणामित्वाभ्युपगमे श्रुतोपादानत्निर्वाहात् श्रुतिनिर्विकारत्वाव्याकोपाच्च निरुक्तपरिणामित्वरूपं निरवद्यमेवोपादानत्वम्, यदक्षरवाक्यगतभूतयोन्यादिशब्दैरपि जोघुष्यते। योनिशब्दोह्युपादानपर्यायः। अक्षरप्रकरणे “कर्तारमीशं पुरुषं ब्रह्ययोनि” मिति कर्तृत्वस्यापि श्रवणात् ततोऽपि निमित्तोपादानोभयरूप्तवसिद्धिः। तस्मात् ब्रह्म जगत उपादानं निमित्तञ्चेति सिद्धम्।।

संग्रहकारिके।।

अस्तीश्वरस्तथाऽपि तु नोपादनामयमपिणामित्वात्।

तदधिष्ठितं प्रधानं श्रुतिस्मृतिभ्यामुपादानम्।।

निर्दोषो निर्विकारस्स्वत इति चिदचिद्देह एष स्वदेह

द्वारादोषैर्विकारैरपि च न सहते सङ्गतिं विश्वनेता।

तेनोपादानलक्ष्मच्युतमिह न भवेद्भाव्यवस्थाश्रयत्वं

पर्यङ्कास्तीर्णवस्रस्थितिजुष इव यद्देहगत्याश्रयोऽसौ।।

इति प्रकृत्यधिकरणम्।।7।।

—————–

एतेन सर्वे व्याख्याता व्याख्याताः।।29।।

अतीतपञ्चतिं्रशदधिकरणन्यायादिदेशरूपत्वात् सङ्गतिः। अतीताधिकरणेष्वनुदाहृताः कारणवाक्यवेशेषाः किमुक्तलक्षणब्रह्मपरा उत नेति तेषामुक्तन्यायविषयत्वसम्भवासमभवाभ्यां संशये पूर्वपक्षः। अनुदाहृताः कारणवाक्यविशेषास्सर्वे परमपुरुषैकान्तिका न भवन्ति। “हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्, यदा तमस्तन्नदिवा न रात्रिर्नसन्नचासच्छिव एव केवल” इत्यादिकारणवाक्यान्तरेषु ब्रह्मशिवादिशब्दोक्तकारणान्तरप्रतीतेरिति। सिद्धान्तस्तु–

अतीताधिकरणोक्तन्यायैरेव तेऽपि परमपुरुषविषयास्सिद्ध्यन्तीति। तत्सिद्धिप्रकारस्तु श्रुतप्रकाशिकादिषु प्रपञ्चितो द्रष्टव्यः। अतिविस्तरापत्तेर्नेह सलिख्यते। कारणभूते वस्तुनि शिवादिशब्दा अपि श्रुता इतिचेत् पूर्वन्यायैस्तेऽपि ब्रह्मणि नारायणे योज्याः।।

इति सर्वव्याख्यानाधिकरणम्।।8।।

——————–

इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैताविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे प्रथमस्याध्यायस्य चतुर्थपादः

——— 

प्रथमोऽध्यायस्समाप्तः।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.