श्रीरङ्गनाथस्तोत्रम्
पराशरभट्टकृतम् ।
श्रीरङ्गक्षेत्रे
सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने
कावेरीमध्यदेशे मृदुतरफणिराड्भोगिपर्यङ्कभागे ।
निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तं
पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥ १॥
कस्तूरीकलितोर्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं
मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् ।
पश्यन्मानसपश्यतोहररुचिं पर्यायपङ्केरुहं
श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ २॥
कदाऽहं कावेरीतटपरिसरे रङ्गनगरे
शयानं भोगीन्द्रे शतमखमणिश्यामळरचिम् ।
उपासीनः क्रोशन्मधुमथन नारायण हरे
मुरारे गोविन्देत्यनिशमनुनेष्यामि दिवसान् ॥ ३॥
कदाहं कावेरीविमलसलिले वीतकलुषो
भवेयं तत्तीरे श्रममुषि वसेयं घनवने ।
कदा वा तत्पुण्ये महति पुळिने मङ्गलगुणं
भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ ४॥
पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठां
आविर्मोदस्तमितशकुनानूदितब्रह्मघोषाम् ।
मार्गे मार्गे पथिकनिवहैरुञ्च्यमानापवर्गां
पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधाम्नः ॥ ५॥
स जातु पीतामृतमूर्छितानां नाकौकसां नन्दनवाटिकासु ।
रङ्गेश्वर त्वत्पुरमाश्रितानां रथ्याशुनामन्यतमो भवेयम् ॥ ६॥
श्रीरङ्गं करिशैलमञ्जनगिरिं तार्क्ष्याद्रिसिंहाचलौ
श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम् ।
श्रीमद्वारवतीं प्रयागमधुरायोध्यागयाः पुष्करं
सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ ७॥
असन्निकृष्टस्य निकृष्टजन्तोर्मिथ्यापवादेन करोषि शान्तिम् ।
ततो निकृष्टे मयि सन्निकृष्टे कां निष्कृतिं रङ्गपते करोषि ॥ ८॥
इति पराशरभट्टकृतं श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ।