।। श्रीः ।।
।। श्रीमते रामानुजाय नमः ।।
वात्स्यवरदाचार्य(वरदराजसूरि) विरचिता
प्र मे य मा ला
[मङ्गलाचरणम्]
नमः श्रीविष्णुचित्तार्यपदपङ्कजपांसवे ।
रामानुजमुनीन्द्रोक्तिरहस्यज्ञानहेतवे ।। १ ।।
जगतामुपकाराय जातं यतिवरात्मना ।
प्रगुणीकृतसन्मार्गं भजामः पुरुषोत्तमम् ।। २।।
[प्रतिज्ञा]
सच्चेतो मधुकरवृन्दसेवनीयं
सौरभ्यं श्रुतिशिरसस्समादधानाम् ।
वत्सानां कुलपतिरद्भुतामकार्षीत्
अम्लानां वरदगुरुः प्रमेयमालाम् ।। ३ ।।
[अध्ययनविधिनिरूपणम्]
मीमांसायाः विधिप्राप्तत्व-रागतःप्राप्तत्वविवेकार्थम्
अध्ययनविधिर्निरूप्यते । किं अध्ययनविधि: अर्थज्ञान-
पर्यवसायी? आहोस्वित् अक्षरराशिग्रहणमात्रे पर्यवस्यति?
[पूर्वः पक्षः]
अर्थज्ञानपर्यवसायी इति पूर्वः पक्षः, तथाहि .
अध्ययनविधेः अक्षरराशिग्रहणमात्रपर्यवसायित्वे मीमांसा-
श्रवणस्य प्रवर्तकाभावात् अनारम्भणीया मीमांसा स्यात् ।
साङ्गवेदाध्ययनात् प्रयोजनवदर्थापातप्रतीतेः उत्पन्नानुरागो
मीमांसायां प्रवर्तक इति चेत्, नैतत् । वेदमधीत्य यथाविधानं
गुरोः कर्मातिशेषेण अभिसमावृत्य, (छां.उ.८-१५-१)
‘वेदमधीत्य स्नायात्‘ (बौध.गृ.२-५-३) इति श्रुतिस्मृतिभ्याम्
अध्ययनानन्तरं समावर्तनादिप्राप्तेः, मध्ये मीमांसावसराभावात्,
मीमांसाश्रवणरागप्राप्तत्वस्य बाधकत्वात् । विधिर्हि रागं बाधते.
यथा ‘न कळंजं भक्षयेत्‘ इत्यादिः । वैधे तु मीमांसाश्रवणे
स्नानविधिरपि श्रवणमबाधित्वा, तत:परस्तादेवावसरमश्नुते ।
स्वतः प्रतीतमप्यध्ययनानन्तर्यं समावर्तनस्य अर्थज्ञान-
पर्यन्ताध्ययनविधिं च न बाधितुं युज्यते । रागस्तु न
विधिम् अन्यथाकर्तुम् अलम् । किंच, अध्ययनविधेः
पुरुषार्थपर्यवसानावश्यंभावात्, पाठमात्रस्य च अपुरुषार्थत्वात्,
पुरुषार्थपर्यवसानाय अवश्यम् अर्थज्ञानपर्यन्तो विधिरास्थेयः ।
किंच, यद्यक्षरराशिग्रहणमात्रपर्यवसायी विधिस्स्यात्, तदा
पाठग्रहणार्थतया विनियुक्तत्वात् स्वाध्यायस्य अविवक्षितार्थता
स्यात् । ततश्च, तदर्थविचाररूपा मीमांसा न आरम्भणीया
स्यात्, तस्मात्, अध्ययनविधिः अर्थज्ञानपर्यवसायीति ।
[सिद्धान्तः]
राद्धान्तस्तु, नाध्ययनविधिः अर्थज्ञानपर्यवसायी
किन्तु, अक्षरराशिग्रहणमात्रे पर्यवस्यति । अप्राप्त-
प्रापकत्वाच्छास्त्रस्य “अप्राप्ते हि शास्त्रमर्थवत्” इति हि
न्यायविदः । मीमांसाश्रवणं च, साङ्गाध्ययनवतः पुरुषस्य
प्रयोजनवदर्थापातप्रतीत्या रागतः प्राप्तमिति न तत्र विधिना
व्यावर्तव्यम् । स्नानविधिस्तुरागंबाधत इति चेत् किमिति
बाधते?स्नानादेः अध्ययनानन्तरभावित्वात् अध्ययनोत्तर-
कालस्य कृत्स्नस्य स्नानादिविध्यावरुद्धतया मध्ये
अवसराभावात्, मीमांसाश्रवणं बाध्यत इति चेत् नैतदेवम् ।
न हि स्नानादिविधयः कृत्स्नं कालम् अवरुन्धते, रागतः
प्राप्तानांद्रव्यार्जनभोजनादीनां च अनवसरप्रसङ्गात्।याजन-
अध्यापन-प्रतिग्रहा हि, द्रव्यार्जनोपायतया रागतः प्राप्ता
इति न विधिविषयतां अनुभवितुमर्हन्ति । श्रावयिता च
आचार्यः, कर्मविध्यनवरुद्धा अवसरलाभादेव हि श्रावयति ।
तस्मात्, मीमांसाश्रवणस्यापि रागतः प्राप्तस्य स्नानादि-
विध्यनवरुद्धेष्वेव कालेषु अवसरसम्भवात्, न तस्य
स्नानादि विधिबाध्यता ।
यत्तूक्तम्, विधेः पुरुषार्थपर्यवसानाय अर्थज्ञान-
पर्यवसायित्वं आस्थेयमिति । तत्रेदं प्रष्टव्यम्, किं साक्षात्
पुरुषार्थपर्यवसानाया विधेः अर्थज्ञानपर्यवसानत्वाश्रयणम् ?
आहोस्वित्, परम्परया पुरुषार्थपर्यवसानायेति । न तावत्
प्रथमः कल्पः, अर्थज्ञानस्यापि साक्षात् पुरुषार्थत्वाभावात् ,
तस्य हि, स्वर्गादिसाधनयागाद्यनुष्ठानोपयोगितयैव
पुरुषार्थत्वात्, न स्वर्गादिवत् साक्षात्पुरुषार्थत्वम् । ततश्च
अर्थज्ञानपर्यवसायी विधि: न स्यात् । द्वितीये तु कल्पे,
अर्थज्ञानवत् पाठग्रहणस्यापि परम्परया पुरुषार्थत्वसम्भवात्,
तस्मिन्नेव विधिपर्यवसानं स्यात् । इयांस्तु विशेषः
एकस्मिन्पक्षे स्वतः प्राप्तमर्थज्ञानमिति तत्र विधिव्यापार-
कल्पना वैयर्थ्यम्, अन्यत्र च तदभाव इति ।
यच्चोक्तम्, विधेः पाठग्रहणपर्यवसायित्वे स्वाध्यायस्य
स्वार्थेषु अतत्परत्वम् आपद्यत इति । तन्न, नान्यतः प्राप्तम्
अर्थपरत्वं पाठग्रहणपर्यवसायी विधि: व्याहन्ति । यथा परमते,
अध्ययनविधिसिद्धम् अर्थपरत्वं स्वाध्यायस्य जपविधिर्न
विहन्ति, तथा अत्रापि व्युत्पत्तिसिद्धं स्वाभाविकमर्थपरत्वं
न अध्ययनविधिर्विहन्तुम् अलम् । यथा च, वह्नेः
उष्णत्वभास्वरत्त्वशक्तियुक्तस्य पाकार्थम् उष्णत्वशक्तया
विनियोगेऽपि, भास्वरत्त्वशक्तियुक्तम् अर्थप्रकाशनं न
विरुध्यते । एवम् अक्षरस्वरूपेण पाठार्थतया विनियोगोपि,
बोधकत्वशक्तयार्थपरत्वं न विरुद्धम् । किंच,
‘स्वाध्यायोऽध्येतव्यः‘ (ते.आर.२-१५) इति स्वाध्यायस्य
कर्मत्वावगमात् तस्यैव साध्यत्वम् अवगम्यते । यथा,
‘अग्नीनादधीत‘ इत्यग्नीनां कर्मत्वावगमात्, तेषामेव
साध्यत्वमित्याधानविधिः अग्निग्रहणमात्रे पर्यवस्यति।
एवमध्ययनविधिः, साध्यतयाऽवगतस्वाध्यायग्रहणमात्रे
पर्यवस्यति । स्वाध्यायशब्दवाच्योऽक्षरराशिमात्रं न
अर्थज्ञानमपि । तस्मात् स्वाध्यायशब्दवाच्या अक्षरराशिरेव
अध्ययनसाध्यः इत्यवगम्यते । अत एव इदमपि निरस्तम् ।
यदध्ययननियोगविषयो न स्वाध्याय-संस्कार इति
कैश्चिदुत्प्रेक्षितम्:द्रव्यनिष्ठस्यहि भावार्थस्य न नियोगविषयता
युक्ता; यथा आधानस्याग्निनिष्ठस्य न नियोगविषयता,यथा
च अवघातादेः व्रीह्यादिनिष्ठस्य न नियोगार्थता, अत्रापि
स्वाध्यायस्य कर्मत्वावगमात् ‘स्वाध्यायनिष्ठमध्ययनं अवगतम्’
इति न नियोगविषयत्वम् । ‘सक्तून्जुहोति, ‘सुवर्णं धार्यम्‘
इत्यादिषु कर्मत्वावगमेऽपि नियोगविषयत्वं दृष्टमिति चेत्;
तन्न, कर्मत्वं नाम – कर्तुः क्रिययाप्तुमिष्टतमत्वम्, अतः
कर्मतयावगतस्य साध्यत्वं स्वतः प्रतीयते । क्वचित् तदेव
हेतुवशादपोद्यते । ‘सक्तून् जुहोति‘ इत्यादिषु कः तत्र
हेतुः? विनियोगान्तरादर्शनमिति ब्रूमः । संस्कार्यस्य हि
द्रव्यस्य विनियोगान्तरेण भवितव्यम् । संस्कारो हि नाम, –
‘कार्यान्तरयोग्यताकरणम्‘ । अत्र तु अर्थबोधजपादिलक्षण-
कार्यान्तरदर्शनात् न स्वतः प्राप्तसंस्कार्यत्वस्य अपवाद
इति स्वाध्यायसंस्कार एव अध्ययनम् । अतः, अध्ययनविधि:
अक्षरराशिग्रहणमात्रपर्यवसायी, मीमांसारम्भश्च रागप्राप्त इति
स्थितम् ।।
।। इति अध्ययनविधिनिरूपणम् ।।
[ अथ ऐकशास्त्र्यसमर्थनम् ]
ऐकशास्त्र्यमथ ब्रूमः कर्मब्रह्मविचारयोः ।
शारीरकाद्यसूत्रोक्तपौर्वापर्यप्रसिद्धये ।।
वेदाख्यैकप्रबन्धार्थविषयत्वात्तदिष्यते ।
तन्निर्णयाख्यं च फलमेवमेव तयोर्यतः ।। १ ।।
विषयैक्यं फलैक्यं च कर्मकाण्डेपि कारणम् ।
ऐकशास्त्र्यस्य धर्मो हि विषयस्तस्य निर्णयः ।। २ ।।
फलं च तत्र वेदार्थः कृत्स्नो विषय इष्यते ।
तन्निर्णयः फलं चात्र तदैक्यादेकशास्त्रता ।। ३ ।।
अर्थभेदात् कर्तृभेदात् अन्योन्यं च विरोधतः ।
शास्त्रभेदप्रसङ्गश्चेत् नैवमत्र प्रसज्यते ।। ४ ।।
अध्यायपादषट्केषु प्रत्येकं भेद इष्यते ।
अवान्तरार्थभेदेन शास्त्रभेदावहो हि सः ।। ५ ।।
धूर्तस्वामिकपर्दिभ्यां कृतयोर्व्याख्ययोर्द्वयोः ।
आपस्तम्बीयसूत्रार्थपरयोरेकशास्त्रता ।। ६ ।।
वैयाकरणवृत्यादौ भिन्नकर्तृकता तथा ।
दृष्टेतिकर्तृपेदश्च न शास्त्रैक्यस्य बाधकः ।। ७ ।।
देवताविग्रहाद्यर्थ निषेधात्तत्समर्थनात् ।
विरुद्धार्थत्वमस्तीति यदुक्तं तन्त्र युज्यते ।। ८ ।।
कर्मस्वश्रुतवेदान्ता श्रद्धावन्तो भवन्त्विति ।
तथा जैमिनिराचार्यों विग्रहादीन्निरस्यति ।। ९ ।।
एवमन्यपरोक्त्यापि माभून्मन्दधियां भ्रमः ।
इति क्वचिन्निराचक्रे जैमिनिं बादरायणः ।। १० ।।
बादरायणसूत्रेषु बहुशश्चास्ति जैमिनेः ।
त्रैयन्तार्थप्रतिष्ठार्थं साक्षित्वेन परिग्रहः ।। ११ ।।
नन्वनन्यपरैवेयं जैमिनेरुक्तिरिष्यते ।
द्रव्यदैवतसामान्ये द्रव्यप्राबल्यसाधिका ।। १२ ।।
न चायमति वादस्स्यादनुष्ठानविरोधतः ।
हविःप्राधान्यतस्सर्वे ह्यनुतिष्ठन्ति साधवः ।। १३ ।।
उच्यते तात्त्विकं नात्र हवि:प्राधान्यमीरितम् ।
किन्तु प्रातीतिकं तच्च प्राथम्येन प्रतीतता ।। १४ ।।
प्रत्यक्षसिद्धं हि हविस्स्वरूपं देवता पुनः ।
शास्बैकवेद्या प्राथम्यं प्रत्यक्षस्यैव वस्तुनः ।। १५ ।।
अस्ति प्रतीतो शास्त्रन्तु पश्चादेवावबोधकम् ।
अर्थस्य सत्रिकर्षा हि बलीयस्त्वनिबन्धनम् ।। १६ ।।
श्रुत्यादौ साधितस्तद्वदत्रापि हि भविष्यति ।
अतश्शास्त्रैकवेद्याया देवतायास्तु वास्तवम् ।। १७ ।।
प्रातीतिकादप्राधान्यात्प्राधान्यं न विहन्यते ।
ननु शास्त्रैकवेद्यत्वाद्धविषो न प्रधानता ।। १८ ।।
प्रातीतिकहविष्यं हि न प्रत्यक्षस्य गोचरः ।
मैवं हविष्वमन्त्रं हि शास्त्रवेद्यं तदाश्रयः ।। १९ ।।
द्रव्यं प्रत्यक्षसिद्धत्वान्न तु शास्त्रस्य गोचरः ।
देवतात्वं देवतायाः स्वरूपमिति च द्वयम् ।। २० ।।
शास्त्रैकवेद्यमित्युक्तं हविः प्राधान्यमव्ययम् ।
अतस्वरूपप्राधान्यं हविषो न विवक्षितम् ।। २१ ।।
बोधायनस्तु भगवानैकशास्त्र्यमुदीरयत् ।
ततश्चान्यपरैवोक्ति: जैमिनेरिति निश्चितम् ।। २२ ।।
तस्यान्नार्थविरोधोऽस्ति कर्मब्रह्मविचारयोः ।
ऐकशास्त्र्यमतः कर्मब्रह्ममीमांसयोः स्थितम् ।। २३ ।।
।। इति ऐकशास्त्र्यसमर्थनम् ।।
[अथ प्रपंचमिथ्यात्वभङ्गः]
ननु इदमेकशास्त्र्यं तत्प्रयुक्तं पौर्वापर्यम् चानुपपन्नं,
शारीरकावसेयस्य अखण्डेकरसचिन्मात्रब्रह्मगोचरस्य,
ज्ञानस्य, अविद्याकल्पितकर्मकर्तृसाधनफलादिविविध-
भेदावलम्बिना कर्मविचारेणानुपयोगात्, प्रत्युत विपरीत-
वासनोत्पादनद्वारेण विरोधाच्च । मिथ्याभूतस्य हि संसारस्य
शुक्तिकारजतरज्जुसर्पादेरिवाधिष्ठानयाथात्म्यज्ञानमेव निवर्तकं
युक्तम् । ब्रह्माव्यतिरिक्तस्य मिथ्यात्वमनुमानादिसिद्धम् ।
तथाहि – विवादपदम् मिथ्या दृश्यत्वात्, शुक्तिका-
रूप्यवदिति, श्रुतिश्च ‘नेह नानास्ति‘ (कठ.उ.४-११)
इत्यादिरिति तदसत् दृश्यत्वहेतोरात्मन्यनैकान्त्यात् कथम्?
‘आत्मा वा अरे द्रष्टव्यः‘ (बृ.उ.६-५-५) ‘दृश्यते त्वग्र्यया
बुद्ध्या‘ (मुं.उ.१-१-६) इत्यादि श्रुतिभिः । ‘यत्तदद्रेश्यम्‘
(मुं.उ.१-१-६) इत्यादि श्रुतिषु आत्मनो दृश्यत्वप्रतिषेधोऽपि
दृश्यत इति चेत्, न तस्मिन्नेव वाक्ये ‘परिपश्यन्ति धीराः‘
(मुं.उ.१-१-६) ‘दृश्यते त्वग्र्यया बुद्ध्या‘ (मुं.उ.१-१-६)
इत्यादिषु दृश्यत्व-विशेषविधानात् दृश्यत्वनिषेधवचनस्य
प्राकृतदृश्यचक्षुरादिदृश्यतानिषेधपरत्वावगमनाच्च। तथा च
श्रुतिः- ‘न मांसचक्षुरभिवीक्षते तम्‘ ‘न चक्षुषा
गृह्यते नापि वाचा‘ (मुं.उ.३-१-८) ‘न चक्षुषा पश्यति’
(तै.ना.१) इत्यादिका च ।
यच्च, आत्मा दृश्यो न भवति-आत्मत्वात्,
यदृश्यं न तदात्मा यथा घट इत्यात्मनोऽदृश्यत्वनिषेधानुमानम् ।
तदपि, अग्नीषोमीयहिंसा न धर्मः हिंसात्वात्, यथा
ब्राह्मणहिंसादि’ इत्यनुमानवत् आगमबाधितम् । किंच,
घटः दृश्यो न भवति घटत्वात्, यदृश्यं तदघटभूतं दृष्टं –
यथा घटादि इत्याद्यपि प्रसज्यते । इदं रजतमितिवत्
घटस्सन्पटस्सन्नितिघटाद्यधिष्ठानतयाभ्युपगतस्यसन्मात्रस्यापि
घटादिवदृश्यत्वस्यावर्जनीयत्वात्, अनैकान्त्यं सुस्पष्टम् ।
विवादपदम् मिथ्येति मिथ्यात्वं सत्यम्,उतमिथ्या
पूर्वत्र तेनैवानैकान्त्यम् । उत्तरत्र, प्रपंचसत्यत्वसिद्धिः ।
अयमनुयोगे नित्यसमा जातिरिति चेत्,न अधिष्ठानसंविदो
मिथ्यात्ववादिनं माध्यमिकं प्रतिमिथ्येत्युक्तिर्मिथ्येति भवता
साधितत्वात्, तेन च भवत्संवित्तेरबाधितत्वाच्च ।
लोकेप्यपवरके घटोऽस्तीत्युक्तवन्तं प्रति केनापि घटो
नास्तीत्युक्ते पुनरपि नास्तीत्युक्तिर्मिथ्येति वचनम् यथा
घटसद्भावसाधकं भवति,तथामिथ्यात्वस्यमिथ्यात्वेप्रपंचस्य
सत्यत्वसिद्धिः । न चात्र जातित्वम् । स्वव्याघाताभावात् ।
तर्हि नित्यसमायाः को विषयः? सत्यत्वस्य, सत्यत्वा-
सत्यत्वविकल्पेन, नित्यत्वादेश्च नित्यत्वानित्यत्वविकल्पेन
दूषणम् । सत्यत्वनित्यत्वादे: प्रमाणसिद्धत्वस्य परनिर्वाहादि
रक्षितत्वात् तद्विकल्ये नित्यसमा, तर्काङ्गपंचकान्यतम-
हीनत्वादिति, दृश्यत्वानुमानम्, प्रत्यक्षानुमानागमै: प्रतिपन्नस्य
सत्यप्रपंचस्य मिथ्यात्वरोधनात् धर्मिग्राहक-प्रमाणविरुद्धं
च । एवं अनुमानान्तरेष्वनित्यरामाजातिरिति चेत्, न
अधिष्ठानसंविदो मिथ्यात्ववादिनामपि दूषणमूह्यम् । एवं
‘नेह नानास्ति‘ (कठ.उ.२-४-११) इत्यादि निषेध-
वाक्यानामपि तत्तद्धर्मिग्राहकप्रमाणाविरोधेन स्वतन्त्रभेद-
निषेधपरत्वं तत्तत्प्रकरणादिभिरवसितम् If
॥ इति प्रपंचमिथ्यात्वभङ्गः ।।
[अथ भेददूषणनिस्तारः]
यत्तु भेदमिथ्यात्ववादिभिरुक्तम्, प्रमाणत:
स्वरूपतश्च दुर्निरूपत्वात्, भेदी न संभवति, तथाहि
प्रत्यक्षं तावद् भेदग्राहकं भेदवादिभिरिष्यते । तत्र किं
प्रत्यक्षकृत्यं स्वरूपग्रहणं भेदग्रहणं चैकं; उत भिन्नम् ?
भिन्नत्वे च, प्रत्यक्षं किं स्वरूपग्राहि, उत भेदग्राहि, अथ
उभयग्राहि? उपयग्राहित्वे च, युगपत् किं क्रमेण वा? न
तावत्, स्वरूपभेदग्रहणैक्यम्, प्रतियोगिनिरपेक्षत्वसापेक्षत्व-
लक्षणीवरुद्धधर्माध्यासात् । भिन्नत्वपक्षेच, स्वरूपमात्रग्राहित्वे
भेदग्राहित्वं प्रत्यक्षस्य स्यात् । भेदमात्रग्राहित्वन्तु न
संभवति, स्वरूपग्रहणसापेक्षत्वात् भेदग्रहणस्य
उभयग्राहित्वेऽपि, यौगपद्यं न सम्भवति, स्वरूपग्रहण-
योगिस्मरणसापेक्षत्वात् भेदग्रहणस्य, तन्निरपेक्षत्वाच्च
स्वरूपग्रहणस्य प्रत्यक्षज्ञानस्य क्षणिकत्वात् , क्रमेणोभय-
ग्राहित्वं च न संभवति, अतो न भेदः प्रत्यक्षविषयः ।
तदुक्तं संवित्सिद्धौ – यौगपद्यक्रमायोगात् व्यवच्छेद–
विधानयोः । ऐक्यायोगाच्च भेदो न प्रत्यक्षः‘ (सं.सि.१७७)
इति भेदग्रहणमिह व्यवच्छेद इत्युच्यते, स्वरूपग्रहणं तु
विधानमिति । अत एव च, न प्रमाणान्तरविषयत्वं
भेदस्य । अतः, भेदः प्रमाणतो दुर्निरूपः । तथा
स्वरूपतश्च, तथाहि किं भेदो वस्तुनस्स्वरूपं उत धर्मः?
न तावत् स्वरूपम् स्वरूपभेदगोचरयोः घटः भिन्न इति
शब्दयोः, हस्तः कर इतिवत् पर्यायत्वप्रसङ्गात्। किंच
भेदस्य प्रतियोगिपक्षत्वात्, तन्निरपेक्षत्वाच्च स्वरूपस्य,
न स्वरूपभेदः । ननु भेदस्य प्रतियोगिसापेक्षत्वम्,
स्वरूपस्यैव भेदत्वेन प्रतियोगिनिरपेक्षस्वरूपग्रहणेनैव
भेदस्य गृहीतत्वात् । अयमस्माद्भिन्नः इति भेदव्यवहारस्तु
प्रतियोगिसापेक्षत्वम्, न ग्रहणे । नैवम्। यदि भिन्न इति
व्यवहारः स्वरूपविषयः तर्हि, तस्यापि प्रतियोगिसापेक्षत्वं
न स्यात्, घट इति व्यवहारवत् । यथा, घट इति व्यवहारः
स्वरूपविषयः न प्रतियोगिसापेक्षः, भेदव्यवहारोऽपि तथैव
स्यात् । अपि च स्वरूपस्य भेदत्वेन स्वरूपो भिन्नः इति
व्यवहारो न स्यात् भिन्नो हि भेदयोगी । अथ,
स्वरूपान्तराभ्युपगमेन भिन्न इति व्यपदेशोपपत्तिः तर्हि
तस्यापि स्वरूपान्तरापेक्षयाऽनवस्था स्यात्। नामान्तरेण
धर्मपक्षाङ्गीकारश्च । किंच – स्वरूपं किमनुवृत्तं व्यावृत्तं
वा, अनुवृत्तत्वे भेदत्वहानिः । व्यावृत्तत्वे, स्वरूपं
स्वरूपमित्यनुवृत्तिप्रयोगो न स्यात्, नापि स्वरूपविशेषो
भेद इति वक्तुं शक्यम् । तत्र, किं स्वरूपमेव विशेषः,
स्वरूपस्य विशेषो वा? इति विवेचनीयम् । आद्ये प्रागुक्ता
दोषास्स्युः । द्वितीये धर्मभेदपक्षस्वीकारस्स्यात् । अतो न
स्वरूपभेदः । नापि धर्मः । स किं स्वरूपात् भिन्नः
उताभिन्नः? अभिन्नत्वे, स्वरूपभेदपक्षाङ्गीकारः स्यात् ।
भिन्नत्वे च तस्यापि भेदः तद्धर्म: तस्यापीत्यनवस्था ।
किंच धर्मिप्रतियोगिज्ञाने सति भेदग्रहणम् भेदग्रहणे सति
तयोः धर्मितया प्रतियोगितया च ज्ञानमित्यन्योन्याश्रयणं
स्यात् । न ह्येकमेव वस्तु एकापेक्षया धर्मितया प्रतियोगितया
च प्रत्येतुं शक्यते । अन्यच्चान्योन्याश्रयणं, जात्यादिधर्माणां
धर्मिणश्च धर्मधर्मिभावग्रहणे सति भेदग्रहणम्, भेदग्रहणे
सति धर्मधर्मिभावग्रहणमिति । न खल्वेकस्यैव स्वात्मानं
प्रति धर्मतया धर्मितया च प्रतिपत्तिस्सम्भवति । अतः
सन्मात्रस्यैव ग्राहकं प्रत्यक्षं न भेदग्राहीति ।
अत्र प्रतिविधिः – इदं तावत् भेदापलापिनं प्रति
पृच्छामः किं भवान् भेदप्रतीत्यभावं ब्रूते उत
प्रतीतेरकारणत्वम् अनुरूपकारणत्वं वा आहोस्वित्
निर्विषयत्वम्। ‘बाध्यविषयत्वं’ वेति । न तावदाद्यकल्प:
कल्पते, स्वपक्षपरपक्षदूषणादिसमस्तभेदव्यवहारोच्छेद-
प्रसङ्गात्, वेदान्ततत्त्वज्ञाननिवर्त्याभावेनसर्ववेदान्तानारम्भण-
प्रसङ्गाच्च । अतो भवताऽपि भेदप्रतीतिरवश्याभ्युपगन्तव्या।
भवदभ्युपगमश्च तथैव । द्वितीयेऽपि, सिद्धायाः प्रतीतेर-
कारणत्वम् किं तस्यास्सिद्धिविरोधि वा न वा । नो चेत्,
न क्षतिः, विरोधि चेत्, प्रतितेस्सिद्धत्वादेव स्वसिद्धि-
विरोधपरिहाराय स्वकारणं स्वयमेव कल्पयतीति। कार्यं हि
प्रतीतं कारणकल्पनायां प्रमाणम् ।न पुनः स्फुटावधारितं
कार्यं कारणनिरूपणायामपह्नवमर्हति, तथा च संवित्सिद्धौ
‘सत्यं प्रतीतिरस्त्यस्या मूलं नास्ति इति चेन्न तत् ।
सा चेदस्ति तया मूलं कल्प्यतां कार्यजातया‘ ।। (१७६)
इति । नापि तृतीयः, कार्यविशेषेणैव तदनुगुणकारणविशेषस्य
निरूपितत्त्वात्, तदप्युक्तं संवित्सिद्धौ, – ‘क्लृप्तं चेन्द्रिय–
लिङ्गादि तद्भावादिविधानतः‘ (१७७) इति । चतुर्थश्च
न सम्भवति, स्वपक्षपरपक्षसाधनदूषणादिभेदप्रतीतेरपि
निर्विषयत्वप्रसङ्गात्, तथा च सति स्वाभिमतासिद्ध्या भेदो
प्रतिपक्षस्स्यात् । नापि पंचमः, समस्तभेदबाध्यत्वे
तद्धेतुभूतप्रतीतेरपि बाध्यविषयत्वेन भेदापलापासिद्धेः ।
किंच, तर्केण हि भवतो भेदापलापः, तर्कस्य च व्याप्त्यपेक्षया
व्याप्तिग्राहकप्रत्यक्षादिप्रमाणमूलत्वमवश्याश्रयणीयम् ।
अतस्तर्कः स्वमूलबाधाय न भवति, स्वमूलबाधे,
स्वात्मलाभासिद्धेः तर्कस्य प्रमाणानुग्राहकतया तदङ्गत्वात् ,
तेन स्वानुग्राह्यप्रधानबाधश्च न सम्भवति । सूत्रितं च
तर्काप्रतिष्ठानादपि (ब्र.सू.२-१-१२) इति ।अतोऽवश्यंभवतापि
भेदोऽभ्युपगन्तव्यः । यत्तु,प्रमाणतस्स्वरूपतश्चदुर्निरूपत्वात्
भेदोनसंभवति इत्युक्तम् । तदयुक्तम् । जात्यादिविशिष्टस्यैव
वस्तुनः प्रत्यक्षविषयत्वात्, जात्यादेरेव प्रतियोग्यपेक्षया
वस्तुनः स्वस्य च भेदव्यवहारहेतुत्वाच्च । तथाहि –
जात्यादिविशिष्टवस्तु प्रत्यक्षेण प्रतीयते । तत्र विशेषण-
विशेष्ययोर्द्वयोरपि योग्यत्वाद्युगपदेव ग्रहणम् ।भेदशब्देऽपि
प्रयुज्यमाने तस्य पुत्रादिशब्दस्येव प्रतिसम्बन्धिनिरूपिताकारे
व्युत्पन्नत्वात् प्रतियोग्यपेक्षेति न कश्चिद्दोषः । अत
एवान्योन्याश्रयादिकमपि परिहतम् । पर्यायत्वप्रसङ्गस्तु
स्वरूपशब्दवत्परिहार्यः । तद्वदेव प्रतियोगिसापेक्षत्व-
निरपेक्षत्ववैषम्यमपि दत्तोत्तरम् । व्यावृत्तव्यवहारे तु
हेतुत्वाविशेषात् स्वरूपस्यापि ‘मेदशब्दार्थत्वदोषः । तत्र
भिन्न इति व्यवहारः धर्मभेदोल्लेखेन, च्यावृत्तव्यवहार
हेतुत्वमात्रेण वा स्यात्, स्वरूपस्य व्यावृत्तत्वेऽपि
अनुवृत्तौपाध्युपलक्षिताकारे स्वरूपशब्दस्य वृत्तेरनुवृत्त-
प्रयोगोपपत्तिः । धर्मपक्षेऽनवस्था तु संविदादिवत्
स्वपरनिर्वाहेण परिहता । अतः प्रत्यक्षसिद्धस्य भेदस्य
प्रमाणतः स्वरूपतो वा न कश्चिद्दोष इति ।
।। इति भेददूषणनिस्तारः ।।
[अथ भावान्तराभावसमर्थनम् ]
यत्तु भेदस्य अन्योन्याभावरूपत्वात् तस्य च
षष्ठप्रमाणवेद्यत्वात् न प्रत्यक्षत्वमित्याहुः । तदसत्,
अभावाख्यपदार्थान्तराभ्युपगमेऽपि प्रतिपत्यापरोक्ष्यादिभिः
तस्य प्रत्यक्षग्राह्यत्वसिद्धेः । भावान्तरमेवाभावमभिदध्महे,
अतिरिक्तस्यानुपलम्भात्, अनुपपत्तेश्च । ननु अघटं भूतलं
इत्यादिव्यवहार: भूतलाद्यतिरिक्तार्थनिबन्धनः, – विशिष्ट-
व्यवहारत्वात् यदित्थं तदित्थम्, यथा, घटघटितं भूतलमिति
व्यवहार इत्यतिरिक्तसिद्धिरिति चेत्, अत्रोच्यते । प्रतियोगिबुद्धौ
वस्तुधीरेवोपेता नास्तीति व्यवहारहेतुरिति । तत्रातिरिक्तार्थं
वस्तु तत्प्रतियोगिरूपो वा, तदन्यो वा कश्चित्
भूतलादिविशेषः, तदन्यो वा । तत्र आद्ययोस्सिद्धसाधनता
प्रतियोगिनो घटादेः, विशेषस्य च प्रांकणत्वादेरस्माकमपि
सिद्धत्वात् । तदुक्तं च ‘प्रतियोगिबुद्धौ वस्तुधीरेवोपेता’
इति । न तृतीयः, प्रमाणाभावात् । विशिष्टव्यवहारस्य
त्वदभ्युपेतया प्रतियोगिबुद्धिपूर्वकवस्तुधियैव उपपादितत्वात्,
भवदभिमतार्थगमकत्वाच्च । ननु घटोऽस्तीति विशिष्ट-
व्यवहारेऽपि तथात्वमापद्येत, तथा च, प्रामाणिकार्थपरित्यागः
स्यात्। तन्न, भूतलादिविशेषव्यतिरिक्तप्रतियोगिरूपार्थान्तरा-
भावेन घटोऽस्तीति विशिष्टव्यवहारसिद्धेः । अभावरूप-
प्रतियोग्यभ्युपगमे तत्प्रतिभानाभ्युपगमापातात्, तमन्तरेण
तदनिरूपणात्, स्वरूपेण निरूपणे भावत्वापाताच्च । तथा
च लाघवात्, भाव एवास्तु, एतेनैव तद्व्यवहारसिद्धेः ।
यत्रकुत्रचित् सिद्धे भावरूपे प्रतियोगिनि, तत्र तत्तद्व्यवहारस्य
तद्वत्तया दर्शनात्, अन्यत्रापि तथैव व्यवहारहेतुधियमन्तरेण
अत्र घटोऽस्तीति व्यवहारदर्शनेन सर्वैरभ्युपेयते । न हि
पित्रादिवत् केनचित् प्रतियोगिना घटादिर्निरूप्यते । न च
सर्वोऽपि भावो भवता शक्यनिह्नवः । निह्नवहेतुभूत-
विशिष्टव्यवहारतदर्थयोरभावे निह्नवस्यैव अभावात् ।
निह्नवाभावे च निह्नोतव्यमस्त्येव । ननु पिशाचादि-
प्रतियोगिबुद्धिपूर्वकप्रांकणत्वादिविशेषावगमेऽपि, क्वचित्
पिशाचाद्यभावव्यवहारो न जायते । तत्र त्वभावो नाम
कश्चिदस्त्येव । यदवगमे नास्तीति व्यवहारः यस्य च
अनवगमेऽपि न तद्व्यवहार इति । तन्न, भावपक्षेऽपि
समानत्वात् । देशादेः प्रत्यक्षत्वेऽपि पिशाचादि सम्बन्धस्य
अप्रमाणान्तरवेद्यत्वे न तदवगमे न तद्व्यवहारः । देशादि-
विशेषधीरेव भवतां नास्तीति व्यवहारहेतुरिति चेत् । तन्न,
तत्प्रतियोगिग्राहक ग्राह्यविशेषगिशिष्टत्वेन देशादेः
अभ्युपगमात्, तथाऽन्यत्र क्लृप्तत्वाच्च । तद्वदेव,
तदस्तिताव्यवहारोऽपि भविष्यतीति चेत् न । पिशाचादि-
सद्भावानभ्युपगमे तद्विशेषोपलम्भकप्रमाणाभावात्
तद्विशेषोपलम्भमूलस्य विशेषस्यैवासिद्धेः तदस्तीति
व्यवहारस्य अनुपपन्नत्वात्, तत्सिद्धौ तदतिरिक्त-
विशेषकल्पनागौरवाच्च । तावन्मात्रेण तन्नास्तीत्यादि-
व्यवहारोपपत्तेः । विशिष्टव्यवहारस्य च भूतलातिरिक्त
तद्घटादिविशेषव्याप्तस्य पक्षस्य तद्भावाऽभ्युपगमे
सर्वानुमानभङ्गप्रसङ्ग इति चेत् । न, द्रव्यत्वानुष्णत्व-
वदुपपत्तेः। द्रव्यत्वविशेषप्रयुक्त मनुष्णत्वम्, न तु
द्रव्यत्वमात्रप्रयुक्त मिति हि तत्र निर्णयः । अत्रापि
विशिष्टव्यवहारविशेषप्रयुक्तं देहल्यादिविशेषातिरिक्त-
घटादिविशिष्टत्वं, न तु विशिष्टव्यवहारमात्रप्रयुक्तमिति
सन्तोष्टव्यम् । तदेतत् सर्वमभिहितम् । ‘प्रतियोगिबुद्धौ
वस्तुधीरेवोपेता नास्तीति व्यवहारहेतुः‘ इति ।
एवं च भावान्तरस्यैव अभावत्वात् तस्य प्रत्यक्षयोग्यत्वात्
भेदोऽपि प्रत्यक्ष इति स्थितम् ।
।।इति भावान्तराभावसमर्थनम् ।।
[अखण्डवाक्यार्थभङ्गः]
यत्तु समानाधिकरणसमुदायात्मकानाम् अखण्डैकर-
सप्रतिपादकत्वमाचक्षते । तदपि मन्दम्, वाक्यान्तरवत्
तेषामपि विशिष्टविषयत्वावश्यम्भावात् । इह खलु भगवता
पतंजलिना ‘लटश्शतृशानचावप्रथमासमानाधिकरणे‘
(पा.सू.२-१-१२४) ‘तत्पुरुषः समानाधिकरण: कर्मधारयः‘
(पा.सू.१-२-४२) इत्यादिसूत्रस्य समानाधिकरणशब्द-
विवरणार्थं सामानाधिकरण्यलक्षणमुक्तं ‘भिन्त्रप्रवृत्ति–
निमित्तानां शब्दानां एकस्मिन्नर्थे वृत्तिस्सामानाधि–
करण्यम्‘ इति, अस्यायमर्थः – प्रवृत्तेर्निमित्तं – प्रवृत्तिनिमित्तं,
प्रकृष्टा वृत्तिः- प्रवृत्तिः । शब्दस्यार्थे वृत्तिर्नाम, तद्बोधनम् ।
तत्र विशेष्यभूत-प्रधानार्थविषया वृत्ति: प्रवृत्तिः ।
विशेष्यप्रधान्ये च, गुणानां प्रतिपत्तिर्हिगुणिप्रतिपत्त्यर्थेत्यनेन
सिद्धम् । तस्याः प्रवृत्तेः निमित्तं द्वारम्, ‘निमित्तमात्रं भव
सव्यसाचिन्‘ (भ.गी.११-३३) इत्यादि प्रयोगात् । तच्च
विशेषणीभूतजाति-गुणादिकम् । समानं एकं, अधिकरणं-
विशेषणानां आधारभूतं विशेष्यम् एकस्मिन्नर्थे वृत्तिः
इत्येकशब्देन समानशब्दस्य सदृशार्थपरत्वं व्युदस्तम् ।
समानशब्दसामर्थ्यात् एकशब्द साधारणपरः । समानशब्दो
हि साधारणे प्रयुज्यते, ‘समानकर्तृकयोः पूर्वकाले’
(पा.सू.३-४-२) इति । अर्थशब्दश्च विशेष्यभूत-
प्रधानाभिधेयपर: । अनेनाधिकरणशब्दो विशेष्यपरत्वेन
व्याख्यातः । एतदुक्तं भवति – त्रिविधाः शब्दाः, केचित्
विशेषणतो विशेष्यतश्चैकार्थाः । यथा, घटः कुम्भः नीलं
कृष्णमित्यादयः । केचिच्चोभयतश्च भिन्नार्थाः, यथा
गौरश्वो महिषः, नीलं शुक्लं (रक्तं ?) पटमित्यादयः ।
केचिच्च विशेषणतो भिन्नार्थाः विशेष्यतश्चैकार्थाः, यथा –
‘नीलम् उत्पलम्’ ‘देवदत्त-श्श्यामो युवा लोहिताक्षः’
इत्यादयः । तत्र पूर्वकोटि-द्वयव्यावृत्ततृतीयकोटिनिविष्टानां
शब्दानां सामानाधिकरण्यम् । तत्र ‘भित्रप्रवृत्तिनिमित्तानां
शब्दानां‘ इत्यनेन विशेषणतो विशेष्यतश्चैकार्थानां नीलं
कृष्णम् इत्यादीनांसामानाधिकरण्यं इत्युच्यते । एकस्मिन्नर्थे
वृत्तिः’ इत्यनेन च उभयतो भिन्नार्थानां गौरजो महिषः’
इत्यादीनां न सामानाधिकरण्यमित्युच्यते । तस्मात्,
विशेषणतो भिन्नार्थानां विशेष्यतश्चैकार्थानां
नीलमुत्पलमित्यादीनामेव सामानाधिकरण्यम् इति । तत्र,
प्रवृत्तिनिमित्तशब्दयोरेवं वा अर्थः, प्रवृत्तिः – अभिधानम्,
तस्य निमित्तं – अभिधेयम् । अर्थशब्दश्च अभिधेयवचनः
भिन्नाभिधेयानां शब्दानाम् एकस्मिन्नभिधेये प्रवृत्तिः
सामानाधिकरण्यम्, भिन्नविशेषणानां शब्दानां एकस्मिन्
विशेष्ये वृत्तिस्सामानाधिकरण्यम् इत्युक्तं भवति ।
भिन्नपदसामर्थ्येन, निमित्तशब्दनिर्दिष्टं विशेषणभूतम्
अभिधेयम् । एकशब्दसामर्थ्येन च अर्थशब्दनिर्दिष्टं
विशेष्यभूतम् अभिधेयम् इत्यवगम्यते । अतश्चोभयथापि
अनेकविशेषणाभिधायिनां शब्दानां एकस्मिन्विशेष्ये
पर्यवसानं सामानाधिकरण्यमिति ‘भिन्नप्रवृत्तिनिमित्तानां
शब्दानां‘ इत्यादि सामानाधिकरण्यलक्षणवाक्येन उक्तं
भवति । उक्तादादपि पूर्वोक्तः साधीयान् । समानाधिकरणपदेषु
प्रातिपदिकं विशेषणान्वयपरम् । तत्समानविभक्तिर्विशेष्यैक्यपरा ।
समानविभक्त्या ऐक्यबोधनं वृत्तिशब्देन विवक्षितम् । तेन
राजा तस्य पुत्रश्च दर्शनीयावित्यत्र राजतच्छब्दयोः
सामानाधिकरण्यनिवृत्तिः । तत्र हि प्रकृतपरामर्शि तच्छब्द
प्रातिपदिकादैक्यावगमः न समानविभक्त्या । ननु
नीलान्युत्पलानि इत्यत्र सामानाधिकरण्यं न स्यात्;
विशेष्यबहुत्वादेकार्थवृत्तित्वानुपपत्तेः । नैवं; एकस्मिन्निति
पदस्य समभिव्याहतपदान्तरोपस्थापिता-
कारानधिकरणव्यावृत्त्यर्थत्वात्। तत्तत्पदोपस्थापितानेक-
विशेषणापेक्षया साधारणत्वं ह्ये कशब्दार्थः । न
हि नीलान्युत्पलानीत्यत्र नीलत्वानधिकरणेषूत्पलत्वं
वर्तते । अतस्तत्र सामानाधिकरण्यमुपपन्नम् । अत:
सामानाधिकरण्यलक्षणग्रन्थस्य यथोक्त एवार्थः ।
ननु, सामानाधिकरण्यस्य तावत् एकार्थत्वम्
अविगीतम् । तत्र, समानाधिकरणानि सत्यादिपदानि किं
सत्यत्वादि विशेषणमात्रपराणि; उत तत्तद्विशेषण-
विशिष्टपराणि, अथ, स्वरूपमात्रपराणीति विवेचनीयम् ।
न तावत् विशेषणमात्रपराणि, विशेषणानामनेकत्वात्
एकार्थतासिद्धेः; नापि विशिष्टपराणि, विकल्पासहत्वात्।
किं क्रमेण युगपद्वा विशिष्टार्थप्रतिपादनम् न तावत् क्रमेण,
विशेषणानामन्योन्यसमवायप्रसङ्गात् । प्रथमम् एकेन
विशेषणेन विशिष्टतयाऽवगतस्य वस्तुनः पश्चात्
विशेषणान्तरविशिष्टतयाऽवबोधनं हि क्रमेण प्रतिपादनम् ।
तत्र, विशिष्टं प्रति विशेषणतयाऽन्वीयमानं पूर्वविशेषणस्यापि
विशेषणं भवतीति विशेषणानां अन्योन्यविशेषण-
विशेष्यभावप्रसङ्गो दुर्वारः । अवर्जनीयं च पदानां
क्रमेणार्थप्रतिपादनम् । कुतः, उद्देश्योपादेयविभागवत्त्वात्
सर्ववाक्यानाम् । नापि युगपत्, उद्देश्योपादेय-
विभागहानिप्रसङ्गेन युगपत्प्रतिपादनासम्भवात् । सम्भवे,
विशेषणानां परस्परैक्यप्रसङ्गाच्च। तथाहि – प्रातिपदिकानां
विशिष्टार्थपरत्वे प्रातिपदिकार्थकपरस्य समानविभक्तिनिर्देशस्य
विशिष्टैक्यपरत्वमवश्याश्रयणीयमिति विशेष्यैक्यवत्
विशेषणानामप्यैक्यं प्रतिपाद्यमापद्येत । किंच, विशेषणानां
व्यावर्तकस्वाभाव्यात्, विशेषणभेदन विशेष्यभेदप्रसङ्गो
दुर्वारः । तथाहि – भेदकं विशेषणम्, भेद्यं विशेष्यमिति
विशेषणविशेष्ययोस्स्वरूपविवेकः । अत: पारिशेष्यात्
समानाधिकरणपदानां स्वरूपमात्रप्रतिपादनपरत्वमास्थेयम् ।
एवन्तर्हि, पदानां पर्यायत्वम्, एकेनैव पदेन स्वरूपं
प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्यम्, प्रवृत्तिनिमित्तभेदाभावेन
सामानाधिकरण्यलक्षणहानिश्च प्रसज्यते ।
नैवम् – एकस्यैवार्थस्य तत्तत्स्वरूपविरोधि-
प्रत्यनीकत्वपरत्वेन पदार्थानामर्थवत्त्वं, अपर्यायत्वं,
निमित्तभेदलाभात् सामानाधिकरण्यलक्षणसिद्धिश्च । अत
एव कृत्स्नस्य जगतः कारणतयाऽवगतस्य ब्रह्मणः,
कार्यगतविकारास्पदत्वजडत्वपरिच्छिन्नत्वशङ्कायाम्
तद्व्युदासार्थं सत्यादिशोधकवाक्यं प्रवर्तते । तत्र सत्यपदं
ब्रह्मणो विकारास्पदत्वशङ्कां निवर्तयति, ज्ञानपदं
जडत्वशङ्कां, अनन्तपदं च परिच्छिन्नत्वप्रसक्तिम् ।
न चैतावता ब्रह्मणस्तत्तद्व्यावृत्तिरूपधर्मवत्त्वप्रसङ्गः,
ब्रह्मस्वरूपस्यैव सकलेतरव्यावृत्तिरूपत्वात् । यथा,
शौक्ल्यादेः कार्ष्ण्यादिव्यावृत्तिः तत्तत्पदार्थस्वरूपमेव,
न धर्मान्तरम्, धर्मान्तरानुपलम्भात् । तदभ्युपगमे
अनवस्थानाच्च । अतः कार्ष्ण्यादिव्यावृत्तं रक्तिमव्यावृत्तं
पीतिमव्यावृत्तं शौक्ल्यमिति पदानां शौक्ल्यस्वरूपमात्र-
विषयाणां व्यावर्त्यभेदेन यथा न पर्यायत्वं अर्थवत्त्वं एकार्थत्वं
च, तथा, सत्यादिपदानां ब्रह्मस्वरूपमात्रविषयाणामपि
असत्यादिव्यावर्त्यभेदेन न पर्यायत्वादिदोषप्रसक्तिः । एवं
सत्यत्त्वादिगुणविशिष्टवस्तुवाचिनां सत्यादिपदानां
तत्तद्गुणपरित्यागेन तत्तद्विरोधिव्यावृत्तस्वरूपमात्रपरत्वे
लक्षणा स्यात् ।
मैवम्, अवाच्योपस्थापने हि पदानां लक्षणा
यथा, ‘गंगायां घोषः प्रतिवसति’ इत्यत्र गंगापदस्य
कूलोपस्थापने। नहि कूलं गंगापदावाच्यम् । अत्र तु
सत्यादिपदानां वाच्यैकदेशभूतविशेषणपरित्यागेऽपि वाच्ये
प्रधानांशभूतविशेष्यस्वरूपप्रतिपादनात् न लक्षणाप्रसङ्गः ।
तथापि, विशिष्टवाचिनश्शब्दस्य विशेष्यमात्रपरत्वे
स्वारस्यभङ्गः प्रसज्यत इति चेत्, नैषदोषः, समानाधिकरण-
वाक्येषु एकार्थपरत्वबलात् विशेषणपरित्यागेन
स्वरूपमात्रपरत्वमेव पदानां स्वारसिकम् । व्यधिकरण-
वाक्येष्वेवपदानां विशिष्टपरता स्वारसिकी । भवतु लक्षणा
पदानाम्, तथापि न दोषः, वाक्यतात्पर्यानुगुणा हि लक्षणा
तद्विरोधिमुख्यवृत्तेर्बलीयसी दृष्टा, यथा गंगापदे ।
सामानाधिकरण्यस्य हि ऐक्य एव तात्पर्यमिति
सर्वसम्मतम् ।
ननु, सर्वपदानां लक्षणा न दृष्टचरी, अयुक्ता च,
कैश्चित्पदैः वाक्यतात्पर्यनिश्चये सत्येव हि तदानुगुण्येन
पदान्तरलक्षणा । केन पदेन वाक्यतात्पर्यम् निश्चित्य
सर्वपदलक्षणा स्वीक्रियते? उच्यते – दृष्टा तावत् विषं
भुङ्क्ष्व’ इत्यादिषु सर्वपदलक्षणा; तत्र हि विषपदं
निषिद्धभोज्यं लक्षयति; भुङ्क्ष्वेति भोजननिवृत्तिम्, तत्र
योग्यतावशात् वाक्यतात्पर्यनिश्चयः । सत्यादिवाक्येषु तु
समानाधिकरणेषु समानविभक्तिबलात् ऐक्यतात्पर्यनिश्चयः ।
तदविरोधाय प्रातिपदिकानान्तु सर्वेषां लक्षणा स्वीक्रियते ।
एकपदलक्षणायामपि वाक्यतात्पर्यविरोध एव हेतुः; यथा,
‘गंगायां घोषः’ इत्यादिषु । तदविरोधित्वे कस्यापि पदस्य
लक्षणा न दृष्टा; यथा, ‘गंगायां मत्स्याः प्रतिवसन्ति’
इत्यादिषु । अतः वाक्यतात्पर्यविरोधाय एकस्यैव सर्वपदानां
लक्षणा न दोषाय । दृश्यते च विशेषणानां विशेष्य-
भेदकत्वम् ; यथा, ‘खण्डो मुण्डः, घटः पटः’ इत्यादिषु ।
ननु, ‘नीलमुत्पलम्‘ ‘देवदत्तश्श्यामो युवा‘
इत्यादिषु विशेषणभेदेऽपि विशेष्यैक्यं दृश्यते । नैष
दोषः, तत्र हि स्वतःप्राप्तं विशेषणानां विशेष्यभेदकत्वं
प्रत्यक्षविरोधेन अपोद्यते । प्रत्यक्षाद्यगोचरे तु ब्रह्मणि
विशेषणभेदप्रयुक्तो विशेष्यभेद: केन वार्यते । तस्मात्,
सत्यादिवाक्यम् अखण्डैकरसमेव ब्रह्म प्रतिपादयति इति।
अत्र प्रतिविधीयते – सत्यादिवाक्यं सत्यत्वादिगुण-
विशिष्टमेव ब्रह्म प्रतिपादयति, ‘नीलमुत्पलम्’ इत्यादिषु
समानाधिकरणवाक्येषु अनेकविशेषणविशिष्टैकार्थ-
परत्वोपपत्तेः, सत्यादिवाक्यस्य समानाधिकरणत्वाच्च ।
तथाच सामानाधिकरण्यलक्षणं ‘भिन्नप्रवृत्तिनिमित्तानाम्’
इत्यादिनोक्तं शाब्दैः इति प्रदर्शितम् । तत्र यदुक्तं
सामानाधिकरण्यस्य एकार्थ्यापरत्वव्युत्पत्तेः, ऐकार्थस्य च
पदानां विशेषणमात्रपरत्वे विशिष्टपरत्वे चासिद्धेः,
स्वरूपमात्रैकपरत्वं सत्यादिसमानाधिकरणपदानाम्
आस्थेयमिति । तन्नोपपद्यते । त्वदुक्तविकल्पदूषणयोः
त्वत्पक्षेऽपि प्रसङ्गात् । तथाहि – सत्यादिपदानि कि
विरोधिमात्रपराणि, यद्वा स्वरूपमात्रपराणि, किंवा
विरोध्यवच्छित्रस्वरूपपराणि । न तावत् विरोधिमात्रपराणि,
तेषामनेकत्वेन एकार्थत्वासिद्धेः । नापि स्वरूपमात्रपराणि,
तथासति पदानां पर्यायत्वप्रसङ्गात्, एकेनैव पदेन स्वरूपं
प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्याच्च । नापि तदवच्छिन्न-
स्वरूपपराणि, विकल्पासहत्वात् – किंवा विरोधिनां
स्वरूपावच्छेदकत्वम् उपलक्षणतया विशेषणतया वा ।
न तावदाद्यः कल्पः, एकेन उपलक्षणेन स्वरूपं प्रतिपन्नमिति
उपलक्षणान्तरवैयर्थ्यात् । ‘उपलक्ष्यात् बहिर्भूतः उपलक्ष्य–
प्रतीत्युपायो धर्म उपलक्षणम्‘ इति ह्युपलक्षणविदः ।
तथा च शाखादिषु दृश्यते । कथन्तर्हि, भवत्पक्षे
जन्मादिबहुलक्षणत्वमेकस्यैव ब्रह्मणोऽभ्युपगम्यते इति
चेत् उच्यते –
तत्र ह्युपलक्ष्यस्य धर्मिणो ब्रह्मण एकत्वेऽपि
प्रत्युपलक्षणमुपलक्ष्यधर्मभेदोऽस्माभिरभ्युपगम्यते ।अन्यथा
तत्राप्यनेकोपलक्षणवैयर्थ्यम् प्रसज्यत एव । त्वत्पक्षे तु
अनेकोपलक्षणोपलक्ष्यधर्मभेदानभ्युपगमादुक्तदोषो दुर्वारः ।
त्वदभ्युपगमे हि ब्रह्मणः सविशेषत्वप्रसङ्गः ।नापि द्वितीयः
विशेषणभूतानां विरोधिनां अनेकत्वेनैकार्थ्यत्वासिद्धेः ।
विशेष्यान्तर्भूतो विशेष्यप्रतीत्युपायो धर्मो हि विशेषणम्।
विशेष्यान्तर्भावो नाम, ज्ञाप्यान्तर्भावः । विशेषणभूतार्थ-
भेदेऽपिविशेष्यभूतार्थप्रधानार्थैक्यपरत्वात् ऐकार्थ्यसिद्धिरिति
चेत्, तन्न खण्डवाक्यार्थवादिनोऽपि समानः । कस्तर्हि
विशेष आवयोरिति चेत् अयमेव विशेषः, यदेकस्य मते
पदानां लाक्षणिकत्वम्, तस्य तु तेषां मुख्यत्वमिति ।
यच्चोक्तं विशेषणान्तरनिशिष्टे वस्तुनि
विशेषणान्तरान्वयात् विशेषणानां अन्योन्यसमवायप्रसङ्ग
इति; तदसत्, विकल्पासहत्वात्; किं पदार्थस्मरणदशायाम्
अन्योन्यसमवायप्रसङ्गः; अथ परामर्शदशायाम् आहोस्वित्
वाक्यार्थाभिधानदशायाम् । न तावत्प्रथमः कल्पः, स्मरण-
दशायां पृथक्पृथक्पदार्थस्मरणेन मिथोऽन्वयप्रसङ्गाभावात् ।
नापि द्वितीयः, एकस्मिन्वस्तुनि अविरुद्धानेकविशेषण-
समवायस्य प्रत्यक्षावगतस्य यथावस्थितवस्तुपरामर्शदशायां
परामृश्यमानत्वात् । नापि तृतीयः, वाक्यार्थाभिधानदशायां
सर्वैः पदैः युगपदनेकविशेषणविशिष्टैकवस्तुविषयैक-
ज्ञानजननेन क्रमाभिधानप्रयुक्तान्योन्यसमवायप्रसङ्गाभावात् ।
यथैव, द्वे चक्षुषी जातिगुणाद्यनेकविशेषणविशिष्टैकवस्तु-
विषयामेकान्धियं युगपज्जनयतः, तथैवानेकपदानि युगपदेव
तत्तद्विशेषणविशिष्टैकवस्तुविषयैकज्ञानजनकानि भवन्ति;
यथादृष्टविषयत्वात् पदानां व्युत्पत्तेः । क्रमेणाभिधानानभ्यु-
पगमे कथमुद्देश्योपादेयविभागसिद्धिरिति चेत्, उच्यते;
ज्ञाताज्ञातविभागो हि उद्देश्योपादेयविभागः । स च युगपत्प्रति-
पादनेऽपि नापैति, एकेन वाक्येनैकस्य वस्तुनोऽनेकविशेषणान्वये
युगपत्प्रतिपाद्ये तत्रैकविशेषणान्वयः प्रागेव ज्ञातः,
विशेषणान्तरान्वयस्त्वज्ञात इति ज्ञाताज्ञातविभागपरामर्शः,
परामर्शदशायां हि सम्भवत्येव ।
यदप्युक्तं विशिष्टैक्यप्रतिपादने विशेष्यैक्यवत्
विशेषणैक्यं प्रसज्यत इति । तदपि न साधीयः, भवत्पक्षेपि
असत्यत्वादिप्रतियोगिरूपविशेषणैक्यप्रसङ्गात् । प्रातिपदिकानां
तत्तत्प्रतियोगिविशिष्टस्वरूपपरत्वेऽपि, समानविभक्तेः
प्रातिपदिकार्थैकदेशभूतविशेष्यमात्रैक्यपरत्वव्युत्पत्त्या न
विशेषणैक्यं प्रसज्यत इति चेत्, तदस्मत्पक्षेऽपि समानम् ।
आवयोर्विशेषस्तु प्रागेवोक्तः । कार्ष्ण्यपीतिमरक्तिमादि-
व्यावृत्तं शौक्ल्यमित्यादिषु प्रतियोगिभेदस्य तत्तद्व्यावृत्त-
स्वरूपस्य च शब्दोपात्तत्वात् न लक्षणाप्रसङ्ग:;
सत्यादिवाक्येषु न तथातिविशेषः । एवन्तावत्
शौक्ल्यादिदृष्टान्तवाक्यात् सदादिदार्ष्टान्तिकवाक्यस्य
शब्दद्वारकत्वं वैषम्यमुक्तम्, अर्थद्वारकं च वैषम्यं
द्रष्टव्यम् । कथमिति चेत् । इत्थम् – शौक्ल्यादेः
कस्यचिद्द्रव्यस्य द्रव्यान्तराद्व्यावर्तकतया धर्मान्तरानपेक्षत्वम्;
ब्रह्मणस्तु न तथात्वम् इति स्वरूपातिरिक्तं व्यावर्तक-
धर्मापेक्षा नैव । किंच, शौक्ल्यादिस्वरूपस्मरणे हि न
कार्ष्ण्याद्यध्यासप्रसङ्गः । अतः तत्र स्वरूपमेव सकलेतर-
व्यावृत्तिरिति युक्तमभ्युपगन्तुम् । ब्रह्मस्वरूपस्फुरणेऽपि
तदितराध्यासाभ्युपगमात्, रजतादिव्यावर्तकाधिष्ठान-
स्वरूपातिरिक्त शुक्ति त्वादिवत्, सर्वाध्यासाधिष्ठान-
ब्रह्मस्वरूपातिरिक्तसकलेतरव्यावृत्तिरूपधर्मोऽवश्याभ्युप-
गमनीयः ।
यञ्चोक्तं विशेषणभेदे विशेष्यभेदप्रसङ्ग इति।
तदयुक्तम् । विशेषणभेदमात्रस्य विशेष्यभेदकत्वाभावात्;
देवदत्तश्श्यामो युवेत्यादिषु विशेषणभेदेऽपि विशेष्यैक्य-
दर्शनात्। तत्र विशेषणभेदस्य स्वतःप्राप्तविशेष्यभेदकत्वं
प्रत्यक्षेणापोद्यत इति चेत्, तन्न । धर्मिवाचिपदैक्यात
समानविभक्ति निर्देशाच्चैक्यप्रतीतेः ।खण्डोमुण्ड: पूर्णशृङ्गो
गौरित्यत्र धर्मिवाचिपदैक्ये समानविभक्ति निर्देशे सत्यपि,
विशेषणभेदाद्विशेष्यभेदः प्रतीयत इति चेत्, नैवम् – यतः
स्वतःप्राप्तं तयोर्विशेष्यैक्यप्रतिपादकत्वं प्रत्यक्षेण
तत्रापोदितम् । परोक्षेऽपिखण्डत्वादिविशेषणभेदे विशेष्य-
भेदप्रतीतिः दृश्यत इति चेत्, परोक्षेऽपि श्यामत्वादि
विशेषणभेदेऽपि विशेष्यैक्यप्रतीतिर्दृश्यत इति समानश्चर्चः ।
को निर्णायक इति चेत्; यज्जातीयविशेषणानां नियमेन
भिन्नाश्रयत्वं प्रत्यक्षेणदृष्टम् ,तज्जातीयविशेषणानांपरोक्षेऽपि
विशेष्यभेदापादकत्वम्, यथा खण्डत्वादीनाम् । यज्जातीय-
विशेषणानान्तु न भिन्नाश्रयत्वनियमो दृष्टः, तज्जातीय-
विशेषणानां धर्मिवाचिपदैक्ये समानविभक्तिनिर्देशे च
एकविशेष्यसमवेतत्वं युक्तम्; यथा नीलत्वादीनामिति ।
यच्चोक्तं वाच्येप्रधानांशस्य प्रतिपादनात् न लक्षणेति;
तदप्यसत् । विशेषणद्वारेण विशेष्यपर्यवसायिनश्शब्दस्य
द्वारानभिधाने द्वार्यभिधानासिद्धेः । अलाक्षणिकत्वेऽपि
विशिष्टाद्विधानस्वरसस्य शब्दस्य विशेष्यमात्रपरत्वे
स्वारस्यहानिरवर्जनीया । सा च विरोधाभावेन युक्ता।
यच्च विषं भुङ्क्ष्वेत्यादिषु सर्वपदलक्षणा दृष्टेति ।
तच्च, तत्र विधिप्रत्ययांशस्य मुख्यत्वादयुक्तम् । तत्र
विधिप्रत्ययव्यतिरिक्तशब्दलक्षणा च मुख्यार्थत्वेप्रमाणान्तर-
विरोधात् स्वीक्रियते; प्रस्तुते तु विरोधाभावात् न सा
युक्ता।
यच्चोक्तं समानविभक्तयवगतैक्याविरोधाद्विशेषण-
परित्याग इति तदप्ययुक्तम्,प्रातिपदिकावगतविशेषणान्वय-
विरोधात् ऐक्यपरित्यागापत्तेः । तथाहि – यदि समान-
विभक्त्यन्वयावगतत्वात् ऐक्यं न हातुं शक्यते; तर्हि
प्रातिपदिकान्वयव्यतिरेकावसितविशेषणान्वय: कथमिवहातुं
शक्यते, यथा नीलमुत्पलमित्यादौ । तत्रविशेषणान्वयस्तु
प्रत्यक्षसिद्धत्वादङ्गीक्रियत इति चेत् । तत्रैक्यप्रतीतिरपि
तथैवेतिकिमिति न स्यात् । समानविभक्तिनिर्देशे परोक्षेऽपि
ऐक्यप्रतीतिर्दृश्यत इति चेत्; तथैव प्रातिपदिकप्रयोगे
परीक्षेऽपि विशेषणान्चयप्रतीतिर्दृश्यत एव । तस्मादैक्य-
प्रतीतिश्शाब्दी चेत्, विशिष्टप्रतीतिरपि शाब्द्येवेति न
कश्चिद्विशेषः, अन्यत्राभिनिवेशात् । तस्मात् सत्यादिवाक्यं
सत्यत्वादिविशिष्टमेव ब्रह्म प्रतिपादयतीति सिद्धम् ।
।। इति अखण्डवाक्यार्थभङ्गः ।।
[अथ त्रिविधपरिच्छेदराहित्यम्]
ननु ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (ते.आन.२-१-१)
इत्यत्र अनन्तपदेन देशकालवस्तुपरिच्छेदराहित्यं विवक्षितम् ।
तत्र वस्त्वन्तरसद्भावो वस्तुपरिच्छेद इति ब्रह्मव्यतिरिक्तं
वस्त्वभ्युपगच्छतो भेदवादिनो न ब्रह्मानन्त्यसिद्धिः ।
अद्वैतवादिनस्तु ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् तस्यैव
ब्रह्मानन्त्यसिद्धिरिति चेत्, तन्न; भवतोऽपि ब्रह्मव्यतिरेकेण
अविद्यामभ्युपगच्छतो ब्रह्मानन्त्यासिद्धेः । अविद्याया
मिथ्यारूपत्वात् न दोष इति मा वोचः, मिथ्यारूपत्वेऽपि
तथाविधायास्तस्याः ब्रह्मव्यतिरिक्त त्वस्य अवश्या-
श्रयणीयत्वात्, इतरथा ब्रह्मणो अविद्यात्वम्, अविद्यायाश्च
ब्रह्मत्वं वास्यात् । नह्यनिर्वचनीयजडरूपाया ह्यविद्यायाः,
सच्चिद्रूपस्य ब्रह्मणश्च तमः प्रकाशयोरिव इतरेतरभाव-
स्सम्भवति । तदुक्तं भगवत्पादीय एव भाष्ये, ‘युष्मदस्मत्
प्रत्ययगोचरयोः विषयविषयिणोः तमःप्रकाशयोरिव
विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सत्याम्‘ इति ।
अथ मतम् – सजातीयवस्त्वन्तरसद्भावो वस्तुपरिच्छेद
इति ब्रह्मणश्च अविद्यासजातीयत्वाभावात् अपरिच्छेद
इति । यद्येवं भेदवादिनोऽपि ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य
तद्धर्मत्वात् ब्रह्मणस्तद्धर्मितया तद्विजातीयत्वादपरिच्छेद-
सिद्धिरिति समानश्चर्चः । ब्रह्मणः तद्व्यतिरिक्तस्य
धर्मधर्मिभावेन विजातीयत्वेऽपि सत्यत्वप्रमेयत्वादि-
नाकारान्तरेण सजातीयत्वमस्त्यैवेति नापरिच्छेद-
सिद्धिरिति मन्यसे, एवन्तर्हि, अजडत्वस्वयंप्रकाशत्वादिना
विजातीयत्वेऽपि अनादित्वभासमानत्वादिना आकारान्तरेण
सजातीयत्वमविद्याब्रह्मणोरस्तीति तुल्यं चोद्यम् ।
एतञ्चोद्यपरिजिहीर्षया सर्वथा सजातीयवस्त्वन्तरसद्भावो
वस्तुपरिच्छेद इति वचनं भेदपक्षेऽपि समानम् ।
किंच, यथा देशकालपरिच्छेदौ स्वव्यतिरिक्त-
देशकालसद्भाव इति नाङ्गीक्रियते; तथा वस्तुपरिच्छेदोऽपि
स्वव्यतिरिक्तवस्तुसद्भाव इति न युज्यते वक्तुम् । देशकाल-
परिच्छेदयोरपि तथात्वमभ्युपगम्यत इति चेत् । तथासति
देशकालादीनामपि देशकालपरिच्छेदौ न स्याताम् । तेषां
काल्पनिकदेशकालावच्छेदो विद्यत इति चेत् तर्हि ब्रह्मणोऽपि
तदवच्छेदस्स्यात्, काल्पनिकदेशकालयोर्विद्यमानत्वात् ।
वास्तवदेशकालावच्छेदो न घटादीनामपीति तेभ्यो ब्रह्मणो
न कश्चिद्विशेषः । अन्यत्राभिनिवेशात् ।
किंच, ब्रह्मव्यतिरिक्तस्य तद्गुणविभूतिभूतस्य
वस्त्वन्तरस्य अनन्यथासिद्धानेकप्रमाणसिद्धस्य अन्यथा-
सिद्धानन्तपदमात्रेण न बाधशंकावकाशः । न ह्येकपद-
स्वारस्यानुरोधाय सर्वशब्दस्वारस्यभङ्गो युक्तः । तस्मात्,
न वस्त्वन्तरसद्भावो वस्तुपरिच्छेद इति ।
एवं स्थिते वस्त्वन्तरप्रतिघातो वस्तुपरिच्छेद इति
केचित् । यथा, सूर्यालोकादेः स्वतःसर्वप्रदेशप्रवेशार्हस्यापि
कुड्यादिभिः प्रतिहतिर्दृश्यते, देशपरिच्छेदस्तु स्वतःसर्वप्रदेश-
प्रवेशानर्हता घटादेरिति; एवंविधो वस्तुपरिच्छेदो ब्रह्मणो
नास्तीति ब्रह्मणोऽनन्तत्वसिद्धिरिति ।
अन्ये त्वाहुराचार्याः – वस्तुपरिच्छेदो वस्तुनः
परिमाणमिति परिमितस्य वस्तुनः परिमितदेशवृत्तित्वम्
अवच्छेद्यस्य वस्तुनः परिमितत्वं वस्तुपरिच्छेदः,
अवच्छेदकस्य देशस्य परिमितत्वं देशपरिच्छेद इति
नानयोरैक्यम्; किन्तु, वस्तुपरिच्छेदो देशपरिच्छेदस्य
हेतुरिति हेतुहेतुमद्भावमात्रमेव । यथा घटादेः परिमितत्वेन
तदवच्छेदकस्य परिमितत्वम् । अतो वस्तुपरिच्छेदो वस्तुनः
परिमाणं तदभावाच्च ब्रह्मणोऽनन्तत्वसिद्धिरिति ।
त्रैयन्तनिष्णातास्त्वाचक्षते, वस्त्वन्तरात्मतया निषेधः
वस्तुपरिच्छेदः, यथा, घटादेः; पटाद्यन्तरात्मतया निषेधः
घटः पटो न भवतीत्यादिः । देशविशेषयोगितया निषेधो
देशपरिच्छेदः; यथा, इदमिह न भवतीति; कालविशेष-
योगितया निषेधः कालपरिच्छेदः; यथा, इदमिदानीं न
भवतीति; वस्तुविशेषात्मतया निषेधो वस्तुपरिच्छेदः; यथा
इदमिदं न भवतीति; नित्यस्य विभोः सर्ववस्त्वन्तरात्मकस्य
ब्रह्मणस्तदभावादानन्त्यसिद्धिरिति। तथाहि – पुरुषसूक्त-
नारायणानुवाकादिषु तावत् परस्य ब्रह्मणः, ‘स भूमिं
विश्वतो वृत्वा‘ (पु.सू.१) ‘सर्वं व्याप्य नारायण: स्थितः‘
(तै.ना.६-११) ‘येन सर्वमिदं प्रोतम्‘ (तै.ना.६-५०)
‘विश्वतःपरमं नित्यम्‘ (तै.ना.६-११) ‘नित्यं विभुं
सर्वगतम्‘ (मुं.उ.१-१-६) इति सर्वदेशकालपरिच्छेदा-
भावमुक्त्वा, ‘पुरुष एवेदं सर्वं यद्भूतं यञ्च भव्यम्‘
(पु.सू.२) ‘विश्वमेवेदं पुरुषः‘ ‘स ब्रह्मा स शिवः‘
(तै.ना.६-११) ‘स वै सर्वमिदं जगत् स च भूतं स
भव्यम्‘ (ते.ना.६-५०) इति, सर्ववस्त्वात्मकत्वेन
वस्तुपरिच्छेदाभाव उक्तः। ‘पुरुष एवेदं सर्वं यद्भूतं यच्च
भव्यम्‘ (पु.सू.२) । ‘स वै सर्वमिदं जगत् स च भूतं
स भव्यम्‘ (तै.ना.६-५०) इति कालत्रयवर्तिसर्व-
वस्त्वात्मकत्वाभिधानेन अर्थात् कालपरिच्छेदाभावश्च
प्रतिपादितः । तथा भगवता पराशरेणापि
‘अपक्षयविनाशाभ्यां परिणामर्धिजन्मभिः‘ (वि.पु.१-२-११)
‘सर्वत्रासौ‘ (वि.पु.१-२-१२) इति श्लोकद्वयेन कालात्
देशतश्च परिच्छेदाभावमभिधाय, ‘तदेव सर्वमेवैतत्‘
(वि.पु.१-२-१४) इति सर्ववस्त्वात्मकतया वस्तु-
परिच्छेदाभावः प्रतिपादितः ।
यत्तु वस्त्वन्तरप्रतिहतिः, वस्तुनः परिमाणं वा,
वस्तुपरिच्छेद इति । तत्, तयोर्देशपरिच्छेदान्तर्भावेन
पृथगभिधानं न प्रयोजनवदित्यनपेक्षितोक्तेः; वस्त्वन्तरात्मतया
निषेधरूपस्य परिच्छेदस्य अनभिधानेन अपेक्षितावचनात् ।
आरम्भणाधिकरणभाष्यविरोधाच्च, त्रैयन्तविदो न बहुमन्वते ।
आरम्भणाधिकरणे हि, देशकालपरिच्छेदयोः प्रतिपदार्थं
तारतम्यम्, वस्तुपरिच्छेदस्य चैकरूप्यम् , भगवता भाष्यकारेण
अभ्यधायि । वस्त्वन्तरात्मतया निषेधो वस्तुपरिच्छेद इति
च तत्रैवोक्तं ‘भेदवादिनस्तु (श्री.भा.२-१-१५) इत्यादिना ।
अतो वस्त्वन्तरात्मतया निषेधो वस्तुपरिच्छेदः, तदभावात्
ब्रह्मणोऽनन्तत्वम् । ‘अनश्नन्नन्यः‘ (मुं.उ.३-१-१)
‘अन्योऽन्तरात्मा‘ (ते.आ.२-२-८) इत्यादिषु स्वरूपपरेषु
वाक्येषु वस्त्वन्तरात्मतया निषेधो दृश्यत इति चेत्, तन्न,
अभिप्रायापरिज्ञानात् ।
एतदुक्तम्भवति – वस्त्वन्तरसामानाधिकरण्या-
योग्यत्वं वस्तुपरिच्छेदः, ब्रह्मणस्तु सर्ववस्तुशरीरकत्वात्
सर्ववस्तुसामानाधिकरण्ययोग्यत्वेन तदभाव इति ।
।। इति त्रिविधपरिच्छेदराहित्यम् ।।
[अथ सर्वशरीरत्वम्]
ननु, सर्वस्य ब्रह्मशरीरत्वं न सम्भवति,
तल्लक्षणासिद्धेः इतिचेत् । न, तदसिद्धेरेवासिद्धेः ।
तथाहि-भगवान् भाष्यकार: ‘चेष्टेन्द्रियार्थाश्रयश्शरीरम्‘
(न्या.सू.१-१०) इति न्यायसूत्रोक्तं शरीरलक्षणत्रयं लौकिक-
वैदिकसकलशरीरव्यापित्वाभावेन जीवशरीरविशेषमात्र-
लक्षणविवक्षयोक्तं मत्वा, सकलशरीरव्याप्तं लक्षणान्तरत्रयं
दर्शयति ‘यस्य चेतनस्य’ (श्री.भा.२-२-९) इत्यादिना । ‘यस्य
चेतनस्य यद्रव्यं सर्वात्मना स्वार्थे नियन्तुं शक्यम् ,
तत् तस्य शरीरम् यस्य चेतनस्य यद्रव्यं सर्वात्मना
स्वार्थे धारयितुं शक्यम्,तत्तस्यशरीरम् यस्य चेतनस्य
यद्द्रव्यं शेषतैकस्वरूपम् तत् तस्य शरीरम्‘ (श्रु.प्र.२-१-९)
इति त्रीणि शरीरलक्षणानि अन्योन्यनिरपेक्षणानि
दृश्यन्ते । लोकवेदयोर्हि शरीरशब्दप्रयोगं यद्वस्तुविषयो
दृश्यते, तत्र सर्वत्रानुगतमेव शरीरलक्षणं वक्तव्यम् ।
लोके तावत् अत्यन्तविलक्षणाकारेषु क्रिमिकीटपतंगनरपशु-
प्रभृतिषु अगौणः प्रयुज्यमान-शरीरशब्दो दृश्यते ।
श्रुतिस्मृतीतिहासपुराणेषु परमात्मव्यतिरिक्तस्य
कृत्स्नस्य चिदचिद्वस्तुनः परमात्मानं प्रति शरीरत्वम्,
‘यस्य पृथिवी शरीरम्‘ (बृ.उ.५-७-३) ‘यस्यात्मा
शरीरम्‘ (बृ.उ.मा.पा.५-७-३) ‘सोऽभिध्याय–शरीरात्स्वात्।
(म.स्मृ.१-८) ‘जगत्सर्वं शरीरं ते‘ (रा.यु.१२०-२६) ‘तानि
सर्वाणि तद्वपुः‘ (वि.पु.१-२२-८७) इत्यादिभिर्व्यपदिश्यते ।
चेष्टाश्रयत्वादीनामेव शरीरलक्षणत्वस्वीकारेण जगद्ब्रह्मणोः
शरीरशरीरिभावप्रतिपादकानां एषां च बहूनां वचसां
औपचारिकत्वांगीकारे जीवशरीरेष्वपि द्विपात्व-
द्विजन्मत्वसास्नादिमत्वादीनां कतिपयशरीरवर्तिनां
अन्यतरस्यैव शरीरलक्षणत्वस्वीकारेण तल्लक्षणरहित-
जीवशरीरान्तरेषु लोकवेदयोः शरीरशब्दप्रयोगस्यौप-
चारिकत्वेन निर्वाह: प्रसज्यते । तदप्रसक्तिश्च सर्वत्र
शरीरशब्दप्रयोगसाम्यात्, तदत्रापि समानम्, अन्यत्राभि-
निवेशात् । ‘यस्य‘ इति षष्ट्यन्तेन प्रतिसम्बन्धिवाचिना
पदेन शरीरं न घटत्वादिवत् अप्रतियोगिकम्, किन्तु
पुत्रत्वादिवत् सप्रतियोगिकमिति दर्शयति । तच्च, श्रुतिषु
‘तस्माद्वा एतस्मादात्मनः‘ (तै.आन,२-१-२) इत्यादिषु
केवलात्मशब्दप्रयोगेऽपि ‘चेतनस्य’ इति पदम्, धारयितुं
शक्यं, शेषतैकस्वरूपमितिलक्षणद्वये प्रभावभावतो:
शरीरशरीरिभावव्युदासार्थं, लक्षणत्रयेप्यात्मधर्मभूतज्ञानस्य
शरीरत्वनिवृत्त्यर्थं च । चेतनस्य चैतन्यविशिष्टयेत्यर्थः ।
यदितिधर्मनिर्देशः ।द्रव्यशब्देन,जीवगतक्रियादीनां शरीरत्वं
व्युदस्यते । सर्वात्मनेति कादाचित्कनियाम्यत्वादिमतां
गर्भदासवस्त्राभरणगृहक्षेत्रादीनां शरीरत्वं निवर्त्यते ।
सर्वात्मना-यावद्द्रव्यभावीत्यर्थ: । अत एव,
सृष्ट्यपवर्गादिभिः आवापोद्वापवशादव्यवस्थितांशविशेष-
सम्बन्धानियतसमुदायाकारक्षेत्रज्ञसमष्टिधार्यप्रकृतौ
द्वितीयलक्षणस्य अव्याप्तिपरिहारश्च । स्वार्थ इति
तत्तच्छरीराविषयेषु कार्येषु तस्य तस्य शरीरस्य
नियाम्यत्वाभावेनलक्षणस्यासम्भावनानिराक्रियते ।स्वार्थे-
स्वविषये,तत्तच्छरीरासाधारणे कार्ये इत्यर्थः । नियन्तुम्,
धारयितुम्, शेष इति पदैः अनियाम्याधार्याशेषभूतेषु
परमात्मादिष्वतिव्याप्तिर्निषिद्धयते ।शक्यमितिरुग्णादिशरीरेषु
नियमनाद्यदर्शनेन लक्षणस्याव्याप्तिः परिह्रीयते । तेषु
तच्छरीरिकर्तृकनियमनादि कार्याभावेऽपि तच्छक्ति-
विषयत्वमस्त्येव । कार्यानुदयस्तु रोगादिप्रतिबन्धात् ।
यथा अग्न्यादेशशक्तिप्रतिबन्धात् दहनादिकार्यानुदयः ।
शक्यम् – शक्तिविषयीभूतमित्यर्थः । तच्छेषतैकस्वरूपमिति
भिन्नवाक्यतया निर्देशस्तु स्वार्थे शक्यमिति पूर्ववाक्यस्थ-
पदद्वयानन्वयात् ।
वेदान्तिनः सत्कार्यवादितया हस्ताद्यवयवानां
समुदितानामेव अवयवित्वेन शरीरत्वात् न तेषु
अव्याप्तिश्शंकनीया । तत्रशरीरशब्दव्यवहारस्तु, पूर्वं
शरीरतया अवकॢप्तसंघातैकदेशगोचरत्वेनौपचारिकः ।
चेष्टाश्रयत्वादिलक्षणान्तरवादिनोऽपि समानमेतत् । कदाचित्
चेष्टायोगव्यवच्छेदमात्रमेव लक्षणतया विवक्षितमिति
चेत् । तथापि, अन्तर्यामिब्राह्मणद्वयसुबालोपनिषत्प्रभृतिषु
उपनिषद्भागेषु स्मृतीतिहासपुराणेषु पृथिव्याद्यक्षरतमः
पर्यन्तबह्वर्थविषयतया बहुशः प्रयुज्यमानस्य शरीरशब्दस्य
लाक्षणिकत्वकल्पनाद्वारा मृतशरीरमात्रविषयतया प्रयुज्य-
मानस्य शरीरशब्दस्य लाक्षणिकत्वकल्पनम् ।
किंच मृतशरीरस्यापि परमात्मापेक्षया शरीरत्वम्
अस्त्येव; जीवात्मापेक्षया शरीरत्वं लाक्षणिकम् ,
तस्मादिदमेव समीचीनं शरीरलक्षणत्रयम् । न्यायसूत्रे तु,
जीवशरीर-विशेषगोचरं लक्षणमुक्तमिति बोद्धव्यम् । यथा
न्यायविदामेव प्रमासाधनप्रमाणत्ववचनं जीवगत-
प्रमासम्बन्धिप्रमाणमात्रलक्षणविवक्षयोक्तम्, न पुनः
जीवपरमात्मगतप्रमासम्बन्धि प्रमाणलक्षणविवक्षयेति
व्याख्यातं तज्ज्ञै: । अतस्सूक्तं ‘यस्य‘ इत्यादिनाभाष्ये
लक्षणत्रयम् ।
तत्र तृतीयलक्षणविवेकार्थं शेषलक्षणं व्याक्रियते ।
‘शेषः परार्थत्वात्’ (पू.मी.सू.३-१-१) इति शेषशेषिभावपरं
जैमिनीयं सूत्रं परैः अयथा व्याख्यातं मत्वा, यथावद्व्याचष्टे
‘परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपं
स शेषः परपशेषी‘ (वे.सं. ) इति । अस्यार्थः
अन्यस्य प्रयोजनमेव यस्य प्रयोजनम्, सः शेष; अन्य;
शेषीति । अत्रपरशब्द: अन्यपर्याय: परातिशयशब्दयोः
कर्मधारयसमासशंकामात्रनिवृत्त्यर्थं गतेति पदम् ।
अतिशयः विशेषः, किंचित्कार इति यावत्;
‘नाकिंचित्कुर्वतश्शेषत्वम्‘ इति हि मीमांसकानां प्रसिद्धिः ।
अनेनातिशयशब्देन, स्वरूपाननुकूलविनाशाद्याधायकानां
शेषत्वशंकाव्युदासः। फलविनाश्यस्य हि कर्मणः
स्वगतविनाशाधायक फलं प्रति न शेषत्वम् ।
आधानशब्देनातिशयं प्रति अनधिकरणतया हेतुत्वं
विवक्ष्यते । अनेन, परगतमतिशयं स्वस्मिन्ना-
पादयितुमिच्छ्योपादेयस्य शेषिणः शेषत्वशंकानिवृत्तिः ।
इच्छयेति परगतातिशयस्येच्छया विषयतया प्रयोजनत्वमुच्यते ।
तच्च ‘परार्थत्वात्‘ इत्यर्थशब्देन उक्तम् । अर्थ्यत इति
ह्यर्थः, इष्यत इति यावत् । अनेन,स्वस्मिन्नप्यतिशयाधायके
भृत्यादौ लक्षणस्यासम्भवशंकानिवृत्तिः । उपादेयत्वं
स्वीकार्यत्वम् । इच्छास्वीकारो च शेषिणः शेषस्य या
अन्यस्य वा यथासम्भवः । यत्र शेषी वा शेषो वा चेतनः
तत्र तयोरन्यतरस्वेच्छास्वीकारौ, यत्र तूभयमचेतनं
प्रभाप्रभावत्, यागतदंगादिकम् तत्रोभयव्यतिरिक्तस्य
चेतनस्य । एवेति परस्मिन्नप्यतिशयाधायकस्य स्वामिनः
परंप्रति शेषत्वव्युदासः । स्वरूपमिति स्वरूपातिरिक्त-
गुणाधुपाधिनिरासः । स्वरूपं स्वरूपप्रयुक्तम्, न
गुणादिधर्मप्रयुक्तमित्यर्थः । एवं च सर्वशेषित्वं सर्वशरीरकत्वं
च ईश्वरस्य सिद्धम् ।
।। इति सर्वशरीरत्वम् ।।
[अथ अपशूद्रनयादिविरोधोपपादनम् ]
एवं च ब्रह्मणः सर्वशरीरत्वात्, शरीरवाचिशब्दानां
च शरीरिपर्यन्तत्वात्, सर्ववस्तुसामानाधिकरण्यं, न
पुनस्सर्वतादात्म्येन, व्याघातश्रुतिविरोधादिदुष्टत्वात् । अत
एव न बाधार्थं सामानाधिकरण्यमपि विरोध्याकारान्वयाभावे
प्रतीताकारबाधायोगात्, मुख्ये सम्भवति लाक्षणिकार्थ-
स्वीकारायोगाच्च । तदेवं सत्य एव प्रपंचः; सगुणमेव
ब्रह्म । तच्च जीवाच्छरीरत्वादिभिर्भिन्नम् । तादृशमेव
चोपासितव्यम् । उपासनमेव च वेदान्तविहितमोक्षोपायः ।
तच्च कर्मानुगृहीतम् । कर्मफलाभिसन्धिविशिष्टवेषण
मुमुक्षोर्हेयम् । तदेव तेन तत्तत्स्वर्गादिफलाभिसन्धिविरहेण
परमात्मप्रीत्यर्थतयाऽनुष्ठितमुपासनानुग्राहकम् एवं च सति
कर्मविचारस्य ब्रह्मविचारापेक्षया पूर्ववृत्तत्ववचनमुपपन्नम् ।
ये पुनः वाक्यार्थज्ञानमात्रात् मिथ्याभूतबन्ध-
निवृत्तिरिति वदन्ति तेषां प्रत्यक्षश्रुतिस्मृतिन्यायादिविरोधो
भाष्ये प्रपंचितः । शारीरकापशूद्राधिकरणनयविरोधश्च
तत्रैव दर्शितः । तत्पक्षे शूद्रादीनामपि अर्थित्वसामर्थ्ययोः
अनपायात्, कर्मणां विविदिषामात्रहेतुत्वाभ्युपगमात् ।
जन्मान्तरशतानुष्ठितैरपि तैर्विविदिषोत्पत्तिसम्भवात्,
भेदवासनाकृष्टचेतसामपि वेदान्तमन्तरेण सांख्यादिभिरपि
तत्त्वचिन्तनप्रविष्टैः बुभुत्सोत्पत्त्युपपत्तेः, तदनन्तरं च
भवदभिमतैः तर्कादिभिरपि तथाविधज्ञानसम्भवात् ,शास्त्र-
जन्यस्यापि ज्ञानस्य ततो विशेषाभावात्, अशास्त्रवश्यैर्वा
भवत्सिद्धान्तनिष्ठैर्ब्रह्मविद्भिराचण्डालं तदुपदेशसम्भवात्
इत्यादिभिर्हेतुभिः ।
तच्च अधिकरणमेवं प्रवृत्तम् । ‘शुगस्य तदनादर–
श्रवणात् तदाद्रवणात् सूच्यते हि‘, (ब्र.सू.१-३-३३)
‘क्षत्रियत्वगतेश्च‘, (ब्र.सू.१-३-३४) ‘उत्तरत्र चैतरथेन लिंगात्;
(ब्र.सू.१-३-३५) ‘संस्कारपरामर्शात्तदभावाभिलापाच्च
(ब्र.सू.१-३-३६) ‘तदभावनिर्धारणे च प्रकृतेः‘, (ब्र.सू.१-३-३७)
‘श्रवणाध्ययनार्थप्रतिषेधात्‘, (ब्र.सू.१-३-३८)
‘स्मृतेश्च’, (ब्र.सू.१-३-३९) इति ।पूर्वत्रदेवादीनामधिकार
उक्तः । इह तु शूद्रस्य किं ब्रह्मविद्यायामधिकारोऽस्ति न
वेति विचार्यते । अस्तीति पूर्व: पक्षः । नेति सिद्धान्तः ।
तदर्थं विचार्यते शूद्रस्य सांगब्रह्मविद्योपसंहारसामर्थ्यमस्ति
न वेति । यदाऽस्ति, तदा शूद्रस्याधिकारसम्भवः । यदा
तु न, तदा अनधिकार इति फलफलिभावः । तत्र पूर्वः
पक्षः – ब्रह्मविद्यायां शूद्रस्याधिकारः सम्भवतीति,
अर्थित्वसामर्थ्ययोः सम्भवात्, आध्यात्मिकादिदुःखाभितप्तस्य
तज्जिहासया हेयप्रत्यनीककल्याणगुणगणाकरब्रह्मप्राप्तौ
अर्थित्वं सम्भवति । सामर्थ्यं च पटुतरदेहेन्द्रियादिमतः,
त्रैवर्णिकवत् ब्रह्मोपासनविषयं सम्भवति । ब्रह्मस्वरूप-
तदुपासनप्रकारज्ञानंच अनधीतवेदस्यापि शूद्रस्य इतिहास-
पुराणश्रवणादेव सम्भवति । अस्ति हि शूद्रस्यापि
इतिहासपुराणश्रवणानुज्ञा, ‘श्रावयेच्चतुरो वर्णान् कृत्वा
ब्राह्मणमग्रतः‘ ‘शूद्रस्सुखमवाप्नुयात्‘ (महा.भा.अनु.
१४९-१२४) ‘शूद्रोऽपि महत्त्वमीयात् (रा.बाकां.१-१००)
इत्यादिभिः ।
ननु, उपासनविधीनां स्वाध्यायजन्यमेव ज्ञानमुप-
कारकम् ,नेतिहासादिजन्यम् ,यथाज्योतिष्टोमादिकर्मविधयः
त्रैवर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपाद्यज्ञानलाभेन
सविषयत्वात् शूद्रादेः अकॢप्तस्वाध्यायादि कल्पनादि
सम्भवात् । तदेवस्वोपायतया स्वीकुर्वन्ति,तथा उपासन-
विधयोऽपि इति पूर्वकाण्डोदितापशूद्राधिकरणन्यायेनैव
सिद्धत्वात्, कथमिह ब्रह्मोपासने शूद्रस्याधिकारः
पुनराशंक्यते । उच्यते, स हि न्यायस्तत्रैव जीवति, यत्र
अपवादवचनं न दृश्यते; यत्र तु अपवादकं वचनमस्ति,
तत्र तु नायं न्यायः प्रतिपत्तुमर्हति । नहि वचनविरोधे
न्यायः प्रभवति, वचनांगत्वात् न्यायस्य । ‘प्रमाणानु–
ग्राहकस्तर्कः‘ इतिन्यायविदः; यथा ‘रथकारोऽग्नीनादधीत‘
‘निषादस्थपतिं याजयेत्‘ इत्यादिषु अपशूद्रनयबाधेन
श्रुतिसिद्धः रथकारादेः आधानाधधिकारोऽङ्गीक्रियते ।
एवमत्रापि अपशूद्रनयापनोदेन ब्रह्मोपासने शूद्रस्याधिकारः
शंक्यते। किं पुनरिहापशूद्रनयातिक्रमकारणम्; वचनमेवेति
ब्रूमः; – ‘आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः‘
(छां.उ.४-२-५) इति छान्दोग्यसंवर्गविद्यायां रैक्वो जानश्रुतिं
शूद्रशब्देनामन्त्र्य तस्य ब्रह्मविद्याम् उपदिशति ।
इतिहासपुराणेषु विदुरादीनां ब्रह्मविद्यानिष्ठतादर्शनं
श्रुतिसिद्धम् अधिकारमुपबृंहयति । यज्ञादिकर्मापेक्षत्वं
विद्यायाः शूद्रानधिकारं गमयतीति चेत्, न, यथा
अनामिणां विधुरादीनाम्, आश्रमिणां नैष्ठिकादीनां च
विद्यानिष्ठत्वादर्शनात्, तेषु यज्ञाद्यनपेक्षा विद्येति स्वीक्रियते;
तद्वदत्रापि शूद्रस्य विद्याधिकारे सिद्धे, स्ववर्णोचित्तपूर्ववर्ण-
शुश्रूषाद्यङ्गकाविद्या शूद्रे, न पुनर्यज्ञाद्यपेक्षेति निश्चीयते
अतः, शूद्रस्यापि अधिकारोऽस्तीति ।
राद्धान्तस्तु,न शूद्रस्यब्रह्मविद्याधिकारः सम्भवतीति,
सामर्थ्या भावात् । न ह्यनधीतवेदस्याश्रुतवेदान्तस्य
ब्रह्मस्वरूपतदुपासनप्रकाराधनभिज्ञस्य शूद्रस्य विद्योपसंहार-
सामर्थ्यसम्भवः । कर्मविधिवदुपासनविधयोऽपि त्रैवर्णिक-
विषयाध्ययनविधिसिद्धस्वाध्यायसम्पाद्यज्ञानमेव हि
स्वोपायतया स्वीक्रियते ।
इतिहासादेस्तु वेदोपबृंहणद्वारेणैव ज्ञानहेतुत्वम्,
न स्वातन्त्र्येण ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्‘
(महा.भा.आर.१-२७३) इति वचनात्, श्रवणानुज्ञानन्तु
पापक्षयादिफलार्थं नार्थज्ञानार्थं । विदुरादयस्तु
भवान्तराधिगतज्ञानाप्रमोषात् विद्यानिष्ठा इति न
तच्छ्रूद्राधिकारलिङ्गम् । संवर्गविद्यायान्तु शूद्रशब्द:
शोचनात् शूद्र इत्यवयवशक्तया ब्रह्मज्ञानाभावनिमित्त-
शोकवति क्षत्रिये जानश्रुतौ वर्तते ।
रथकारन्यायेन रूढिशक्तिरेव किमिति नाद्रियते इति
चेत् । उच्यते – पूर्वापरपर्यालोचनया जानश्रुतेः क्षत्रियत्त्वाव-
गमात् । अवयवशक्तिनिमित्तभूतस्य शोकस्य श्रुत्यैव
विस्तरेण प्रतिपादनाच्च, यौगिकोऽत्र शूद्रशब्द इति
निश्चीयते । रथकारादौ तु नावयवार्थप्रतिपादकं वचनमस्ति,
नापि त्रैवर्णिकत्वलिङ्गं किंचिदृष्टमिति न रूढिशक्तिबाधः ।
अतः शूद्रशब्देन जानश्रुतिमामन्त्र्य शूद्राधिकारमापादयति ।
तस्मादपशूद्रनयातिक्रमकारणाभावात् ब्रह्मविद्यायामपि स
एव न्याय: प्रवर्तत इति नाधिकारश्शूद्रस्यास्ति । स चायं
न्यायः अपास्तसमस्तवर्णाश्रमधर्माणां स्वाज्ञानमात्रकलुषित-
परब्रह्मणां कलिब्रह्ममीमांसकानाम् अंसगतः ।
ये पुनरिदानीं योगसिद्धिहानिकरसम्माननाभीरुषु
अनाविष्कृतशक्तिविद्याभिजन्ममहिमसु जडवदाचरणमात्र-
प्रवृत्तेषु अदूषितसद्धर्ममर्यादेषु आदिभरतादिष्वपि स्वैरचार-
मारोप्य वर्णाश्रमधर्मव्यवस्थातिलङ्घिनं कुचण्डालमेकीभूय
अन्तर्गतचार्वाकादिमर्यादाः शिश्नोदरपरायणाः ब्रह्मविदो
भवन्ति; तैस्सह सम्भाषणमपि निरयपतनादिकारणं वदन्ति
सन्तः ।
श्रुतिस्मृत्यादयस्तु निर्भया जगद्धिता कृत्स्नास्तान्
प्रतिक्षिपन्ति-
‘नाविरतो दुश्चरितानाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैवमाप्नुयात्‘ ।। (कठ.उ.२-२४)
‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभि–
सम्पद्यते न च पुनरावर्तते’ (छा.उ.८-१५-१)
‘नियतस्य तु सन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागः तामसः परिकीर्तितः ।। (भ.गी.१८-७)
‘सताम्मार्गमदूषयन्‘ इत्यादिकाः । सूत्रितं च
‘सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्‘ (ब्र.सू.३-४-२)
इति, ‘अनाविष्कुर्वन्नन्वयात्‘ (ब्र.सू.३-४-४९) इति
च । अतः त्रैवर्णिकानामेव ब्रह्मविद्याधिकार इति
सिद्धम् ।
।। इति अपशूद्रनयादिविरोधोपपादनम् ।।
।। इति श्रीवत्सकुलतिलकवरदराजविरचिता प्रमेयमाला
सम्पूर्णा ।।