[highlight_content]

05 पञ्चमस्कन्धः-अध्यायः 01-13

श्रीमद्भागवतम्

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ पञ्चमस्कन्धः ॥

॥ प्रथमोऽध्यायः – १ ॥

राजोवाच

प्रियव्रतो भागवत आत्मारामः कथं मुने ।

गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १॥

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।

गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २॥

महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ।

छायानिर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः ॥ ३॥

संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।

सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४॥

श्रीशुक उवाच

बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्द-

मकरन्दरस आवेशितचेतसो भागवत परमहंस-

दयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां

पदवीं न प्रायेण हिन्वन्ति ॥ ५॥

यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः

परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगत-

परमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितल-

परिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया

स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-

समाधियोगेन समावेशितसकलकारकक्रियाकलापो

नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण

आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः ॥ ६॥

अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य

परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय

आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः

स्वभवनादवततार ॥ ७॥

स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभि-

रनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि च

वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो

गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥ ८॥

तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं

हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह

पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥ ९॥

भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरा-

मुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं

सदयहासावलोक इति होवाच ॥ १०॥

श्रीभगवानुवाच

निबोध तातेदमृतं ब्रवीमि

मासूयितुं देवमर्हस्यप्रमेयम् ।

वयं भवस्ते तत एष महर्षि-

र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११॥

न तस्य कश्चित्तपसा विद्यया वा

न योगवीर्येण मनीषया वा ।

नैवार्थधर्मैः परतः स्वतो वा

कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२॥

भवाय नाशाय च कर्म कर्तुं

शोकाय मोहाय सदा भयाय ।

सुखाय दुःखाय च देहयोग-

मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३॥

यद्वाचि तन्त्यां गुणकर्मदामभिः

सुदुस्तरैर्वत्स वयं सुयोजिताः ।

सर्वे वहामो बलिमीश्वराय

प्रोता नसीव द्विपदे चतुष्पदः ॥ १४॥

ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग

दुःखं सुखं वा गुणकर्मसङ्गात् ।

आस्थाय तत्तद्यदयुङ्क्त नाथ-

श्चक्षुष्मतान्धा इव नीयमानाः ॥ १५॥

मुक्तोऽपि तावद्बिभृयात्स्वदेह-

मारब्धमश्नन्नभिमानशून्यः ।

यथानुभूतं प्रतियातनिद्रः

किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६॥

भयं प्रमत्तस्य वनेष्वपि स्या-

द्यतः स आस्ते सह षट्सपत्नः ।

जितेन्द्रियस्यात्मरतेर्बुधस्य

गृहाश्रमः किं नु करोत्यवद्यम् ॥ १७॥

यः षट्सपत्नान् विजिगीषमाणो

गृहेषु निर्विश्य यतेत पूर्वम् ।

अत्येति दुर्गाश्रित ऊर्जितारीन्

क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८॥

त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-

दुर्गाश्रितो निर्जितषट्सपत्नः ।

भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान्

विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९॥

श्रीशुक उवाच

इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरो-

रनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति

सबहुमानमुवाह ॥ २०॥

भगवानपि मनुना यथावदुपकल्पितापचितिः

प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्म-

समवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥ २१॥

मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेना-

त्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमति-

विषमविषयविषजलाशयाशाया उपरराम ॥ २२॥

इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशित-

कर्माधिकारोऽखिलजगद्बन्धध्वंसनपरानुभावस्य

भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन

परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो

महतां महीतलमनुशशास ॥ २३॥

अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं

नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्म-

रूपवीर्योदारान् दश भावयाम्बभूव कन्यां च यवीयसी-

मूर्जस्वतीं नाम ॥ २४॥

आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठ-

सवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः ॥ २५॥

एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त

आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्य-

मेवाश्रममभजन् ॥ २६॥

तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीव-

निकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य

श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगा-

नुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूताना-

मात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः ॥ २७॥

अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो

रैवत इति मन्वन्तराधिपतयः ॥ २८॥

एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगती-

मर्बुदान्येकादशपरिवत्सराणामव्याहताखिलपुरुषकार-

सारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनित-

विरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद-

प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः

पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥ २९॥

यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो

वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि

भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन्

समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति

सप्तकृत्वस्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः ॥ ३०॥

ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्तसिन्धव

आसन् यत एव कृताः सप्त भुवो द्वीपाः ॥ ३१॥

जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं

पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः

समन्तत उपकॢप्ताः ॥ ३२॥

क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदाः

सप्तजलधयः सप्तद्वीपपरिखा इवाभ्यन्तरद्वीपसमाना

एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित

उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनुव्रता-

नात्मजानाग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठ-

मेधातिथिवीतिहोत्रसंज्ञान् यथासङ्ख्येनैकैकस्मि-

न्नेकमेवाधिपतिं विदधे ॥ ३३॥

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासी-

द्देवयानी नाम काव्यसुता ॥ ३४॥

नैवंविधः पुरुषकार उरुक्रमस्य

पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।

चित्रं विदूरविगतः सकृदाददीत

यन्नामधेयमधुना स जहाति बन्धम् ॥ ३४॥

स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणा-

नुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं

मन्यमान आत्मनिर्वेद इदमाह ॥ ३५॥

अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्या-

रचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया

विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥ ३६॥

परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य

इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव

सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीत-

हरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ॥ ३७॥

तस्य ह वा एते श्लोकाः

प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।

यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्तवारिधीन् ॥ ३८॥

भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।

सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ ३९॥

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।

यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः ॥ १॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ द्वितीयोऽध्ययः ॥

श्रीशुक उवाच

एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो

जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः

पर्यगोपायत् ॥ १॥

स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां

भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण

तपस्व्याराधयाम्बभूव ॥ २॥

तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं

नामाप्सरसमभियापयामास ॥ ३॥

सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपि-

विटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनैः

प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डव-

कलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकर-

मुपबभ्राम ॥ ४॥

तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं

खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य

नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुल-

युगलमीषद्विकचय्य व्यचष्ट ॥ ५॥

तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं

दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडा-

विनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य

विदधतीं विवरं निजमुखविगलितामृतासवसहास-

भाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन

वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन

विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो

जडवदिति होवाच ॥ ६॥

का त्वं चिकीर्षसि च किं मुनिवर्य शैले

मायासि कापि भगवत्परदेवतायाः ।

विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे

किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ७॥

बाणाविमौ भगवतः शतपत्रपत्रौ

शान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।

कस्मै युयुङ्क्षसि वने विचरन् न विद्मः

क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥ ८॥

शिष्या इमे भगवतः परितः पठन्ति

गायन्ति साम सरहस्यमजस्रमीशम् ।

युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः

सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥ ९॥

वाचं परं चरणपञ्जरतित्तिरीणां

ब्रह्मन्नरूपमुखरां श‍ृणवाम तुभ्यम् ।

लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे

यस्यामलातपरिधिः क्व च वल्कलं ते ॥ १०॥

किं सम्भृतं रुचिरयोर्द्विज श‍ृङ्गयोस्ते

मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ।

पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्

येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११॥

लोकं प्रदर्शय सुहृत्तम तावकं मे

यत्रत्य इत्थमुरसावयवावपूर्वौ ।

अस्मद्विधस्य मन उन्नयनौ बिभर्ति

बह्वद्भुतं सरसराससुधादिवक्त्रे ॥ १२॥

का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति

विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ ।

उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-

रासन्नभृङ्गनिकरं सर उन्मुखं ते ॥ १३॥

योऽसौ त्वया करसरोजहतः पतङ्गो

दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे

मुक्तं न ते स्मरसि वक्रजटावरूथं

कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४॥

रूपं तपोधन तपश्चरतां तपोघ्नं

ह्येतत्तु केन तपसा भवतोपलब्धम् ।

चर्तुं तपोऽर्हसि मया सह मित्र मह्यं

किं वा प्रसीदति स वै भवभावनो मे ॥ १५॥

न त्वां त्यजामि दयितं द्विजदेवदत्तं

यस्मिन् मनो दृगपि नो न वियाति लग्नम् ।

मां चारुश‍ृङ्ग्यर्हसि नेतुमनुव्रतं ते

चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६॥

श्रीशुक उवाच

इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया

परिभाषया तां विबुधवधूं विबुधमतिरधिसभा-

जयामास ॥ १७॥

सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयः-

श्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुत-

परिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना

भौमस्वर्गभोगान् बुभुजे ॥ १८॥

तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो

नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्व-

केतुमालसंज्ञान् नव पुत्रानजनयत् ॥ १९॥

सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय

पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २०॥

आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव

संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि

यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१॥

आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिन-

मधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध

यत्र पितरो मादयन्ते ॥ २२॥

सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपा-

मुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा

नवोदवहन् ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः ॥ २॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ तृतीयोऽध्यायः ॥

श्रीशुक उवाच

नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं

यज्ञपुरुषमवहितात्मायजत ॥ १॥

तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु

प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगो-

पपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया

सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थ-

विधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दना-

वयवाभिराममाविश्चकार ॥ २॥

अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं

कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं

दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं

स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूर-

नूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना

इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण

उपतस्थुः ॥ ३॥

ऋत्विज ऊचुः

अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम

इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुण-

व्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयो-

रर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम् ॥ ४॥

सकलजननिकायवृजिननिरसनशिवतमप्रवर-

गुणगणैकदेशकथनादृते ॥ ५॥

परिजनानुरागविरचितशबलसंशब्दसलिलसित-

किसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया

किल परम परितुष्यसि ॥ ६॥

अथानयापि न भवत इज्ययोरुभारभरया समुचित-

मर्थमिहोपलभामहे ॥ ७॥

आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमा-

नाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष

आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ॥ ८॥

तद्यथा बालिशानां स्वयमात्मनः श्रेयः पर-मविदुषां

परम परमपुरुष प्रकर्षकरुणया स्वमहिमानं

चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित

एवेतरवदिहोपलक्षितः ॥ ९॥

अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो

भवान् निजपुरुषेक्षणविषय आसीत् ॥ १०॥

असङ्गनिशितज्ञानानलविधूताशेषमलानां

भवत्स्वभावानामात्मारामाणां मुनीनामनवरत-

परिगुणितगुणगणपरममङ्गलायनगुणगण

कथनोऽसि ॥ ११॥

अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु

विवशानां नः स्मरणाय ज्वरमरणदशायामपि सकल-

कश्मलनिरसनानि तव गुणकृतनामधेयानि

वचनगोचराणि भवन्तु ॥ १२॥

किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान

ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति

प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम् ॥ १३॥

को वा इह तेऽपराजितोऽपराजितया मायया-

नवसितपदव्यानावृतमतिर्विषयविषरयानावृत-

प्रकृतिरनुपासितमहच्चरणः ॥ १४॥

यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूत-

स्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि

साम्येन सर्वान् प्रतिवोढुमविदुषाम् ॥ १५॥

श्रीशुक उवाच

इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो

वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह ॥ १६॥

श्रीभगवानुवाच

अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ-

मभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति

ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा

भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १७॥

तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्य-

मनुपलभमानः ॥ १८॥

श्रीशुक उवाच

इति निशामयन्त्या मेरुदेव्याः पतिमभिधाया-

न्तर्दधे भगवान् ॥ १९॥

बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः

प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने

मेरुदेव्यां धर्मान् दर्शयितुकामो वातरशनानां

श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया

तनुवावततार ॥॥ २०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः ॥ ३॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ चतुर्थोऽध्यायः ॥

श्रीशुक उवाच

अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं

साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिन-

मेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा

देवताश्चावनितलसमवनायातितरां जगृधुः ॥ १॥

तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन

चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च

पिता ऋषभ इतीदं नाम चकार ॥ २॥

तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष

तदवधार्य भगवान् ऋषभदेवो योगेश्वरः

प्रहस्यात्मयोगमायया स्ववर्षमजनाभं

नामाभ्यवर्षत् ॥ ३॥

नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्याति-

प्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं

गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं

मायाविलसितमतिर्वत्स तातेति सानुराग-

मुपलालयन् परां निर्वृतिमुपगतः ॥ ४॥

विदितानुरागमापौरप्रकृतिजनपदो राजा

नाभिरात्मजं समयसेतुरक्षायामभिषिच्य

ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां

प्रसन्ननिपुणेन तपसा समाधियोगेन

नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः

कालेन तन्महिमानमवाप ॥ ५॥

यस्य ह पाण्डवेय श्लोकावुदाहरन्ति –

को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।

अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥ ६॥

ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः ।

यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७॥

अथ ह भगवान् ऋषभदेवः स्ववर्षं कर्मक्षेत्र-

मनुमन्यमानः प्रदर्शितगुरुकुलवासो लब्धवरै-

र्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो

जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म

समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां

शतं जनयामास ॥ ८॥

येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण

आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ९॥

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्रसेन

इन्द्रस्पृग्विदर्भः कीकट इति नव नवतिप्रधानाः ॥ १०॥

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।

आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ११॥

इति भागवतधर्मदर्शना नव महाभागवतास्तेषां

सुचरितं भगवन् महिमोपबृंहितं वसुदेवनारदसंवाद-

मुपशमायनमुपरिष्टाद्वर्णयिष्यामः ॥ १२॥

यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा

महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा

ब्राह्मणा बभूवुः ॥ १३॥

भगवान् ऋषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थ-

परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत्कर्मा-

ण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षय-

न्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशः-

प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ १४॥

यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः ॥ १५॥

यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणै-

र्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास ॥ १६॥

द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः

सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज ॥ १७॥

भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन

पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्

कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं

विजृम्भितस्नेहातिशयमन्तरेण ॥ १८॥

स कदाचिदटमानो भगवान् ऋषभो ब्रह्मावर्तगतो

ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीना-

मात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रिता-

नप्युपशिक्षयन्निति होवाच ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥ ४॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ पञ्चमोऽध्यायः ॥

ऋषभ उवाच

नायं देहो देहभाजां नृलोके

कष्टान् कामानर्हते विड्भुजां ये ।

तपो दिव्यं पुत्रका येन सत्त्वं

शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ १॥

महत्सेवां द्वारमाहुर्विमुक्ते-

स्तमोद्वारं योषितां सङ्गिसङ्गम् ।

महान्तस्ते समचित्ताः प्रशान्ता

विमन्यवः सुहृदः साधवो ये ॥ २॥

ये वा मयीशे कृतसौहृदार्था

जनेषु देहम्भरवार्तिकेषु ।

गृहेषु जायाऽऽत्मजरातिमत्सु

न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३॥

नूनं प्रमत्तः कुरुते विकर्म

यदिन्द्रियप्रीतय आपृणोति ।

न साधु मन्ये यत आत्मनोऽय-

मसन्नपि क्लेशद आस देहः ॥ ४॥

पराभवस्तावदबोधजातो

यावन्न जिज्ञासत आत्मतत्त्वम् ।

यावत्क्रियास्तावदिदं मनो वै

कर्मात्मकं येन शरीरबन्धः ॥ ५॥

एवं मनः कर्मवशं प्रयुङ्क्ते

अविद्ययाऽऽत्मन्युपधीयमाने ।

प्रीतिर्न यावन्मयि वासुदेवे

न मुच्यते देहयोगेन तावत् ॥ ६॥

यदा न पश्यत्ययथा गुणेहां

स्वार्थे प्रमत्तः सहसा विपश्चित् ।

गतस्मृतिर्विन्दति तत्र तापा-

नासाद्य मैथुन्यमगारमज्ञः ॥ ७॥

पुंसः स्त्रिया मिथुनीभावमेतं

तयोर्मिथो हृदयग्रन्थिमाहुः ।

अतो गृहक्षेत्रसुताप्तवित्तै-

र्जनस्यमोहोऽयमहं ममेति ॥ ८॥

यदा मनो हृदयग्रन्थिरस्य

कर्मानुबद्धो दृढ आश्लथेत ।

तदा जनः सम्परिवर्ततेऽस्मा-

न्मुक्तः परं यात्यतिहाय हेतुम् ॥ ९॥

हंसे गुरौ मयि भक्त्यानुवृत्या

वितृष्णया द्वन्द्वतितिक्षया च ।

सर्वत्र जन्तोर्व्यसनावगत्या

जिज्ञासया तपसेहा निवृत्त्या ॥ १०॥

मत्कर्मभिर्मत्कथया च नित्यं

मद्देवसङ्गाद्गुणकीर्तनान्मे ।

निर्वैरसाम्योपशमेन पुत्रा

जिहासया देहगेहात्मबुद्धेः ॥ ११॥

अध्यात्मयोगेन विविक्तसेवया

प्राणेन्द्रियात्माभिजयेन सध्र्यक् ।

सच्छ्रद्धया ब्रह्मचर्येण शश्व-

दसम्प्रमादेन यमेन वाचाम् ॥ १२॥

सर्वत्र मद्भावविचक्षणेन

ज्ञानेन विज्ञानविराजितेन ।

योगेन धृत्युद्यमसत्त्वयुक्तो

लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३॥

कर्माशयं हृदयग्रन्थिबन्ध-

मविद्ययासादितमप्रमत्तः ।

अनेन योगेन यथोपदेशं

सम्यग्व्यपोह्योपरमेत योगात् ॥ १४॥

पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा

मल्लोककामो मदनुग्रहार्थः ।

इत्थं विमन्युरनुशिष्यादतज्ज्ञान्

न योजयेत्कर्मसु कर्ममूढान् ।

कं योजयन् मनुजोऽर्थं लभेत

निपातयन् नष्टदृशं हि गर्ते ॥ १५॥

लोकः स्वयं श्रेयसि नष्टदृष्टि-

र्योऽर्थान् समीहेत निकामकामः ।

अन्योन्यवैरः सुखलेशहेतो-

रनन्तदुःखं च न वेद मूढः ॥ १६॥

कस्तं स्वयं तदभिज्ञो विपश्चि-

दविद्यायामन्तरे वर्तमानम् ।

दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं

प्रयोजयेदुत्पथगं यथान्धम् ॥ १७॥

गुरुर्न स स्यात्स्वजनो न स स्यात्

पिता न स स्याज्जननी न सा स्यात् ।

दैवं न तत्स्यान्न पतिश्च स स्या-

न्न मोचयेद्यः समुपेतमृत्युम् ॥ १८॥

इदं शरीरं मम दुर्विभाव्यं

सत्त्वं हि मे हृदयं यत्र धर्मः ।

पृष्ठे कृतो मे यदधर्म आरा-

दतो हि मामृषभं प्राहुरार्याः ॥ १९॥

तस्माद्भवन्तो हृदयेन जाताः

सर्वे महीयांसममुं सनाभम् ।

अक्लिष्टबुद्ध्या भरतं भजध्वं

शुश्रूषणं तद्भरणं प्रजानाम् ॥ २०॥

भूतेषु वीरुद्भ्य उदुत्तमा ये

सरीसृपास्तेषु सबोधनिष्ठाः ।

ततो मनुष्याः प्रमथास्ततोऽपि

गन्धर्वसिद्धा विबुधानुगा ये ॥ २१॥

देवासुरेभ्यो मघवत्प्रधाना

दक्षादयो ब्रह्मसुतास्तु तेषाम् ।

भवः परः सोऽथ विरिञ्चवीर्यः

स मत्परोऽहं द्विजदेवदेवः ॥ २२॥

न ब्राह्मणैस्तुलये भूतमन्य-

त्पश्यामि विप्राः किमतः परं तु ।

यस्मिन् नृभिः प्रहुतं श्रद्धयाह-

मश्नामि कामं न तथाग्निहोत्रे ॥ २३॥

धृता तनूरुशती मे पुराणी

येनेह सत्त्वं परमं पवित्रम् ।

शमो दमः सत्यमनुग्रहश्च

तपस्तितिक्षानुभवश्च यत्र ॥ २४॥

मत्तोऽप्यनन्तात्परतः परस्मा-

त्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।

येषां किमु स्यादितरेण तेषा-

मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५॥

सर्वाणि मद्धिष्ण्यतया भवद्भि-

श्चराणि भूतानि सुताध्रुवाणि ।

सम्भावितव्यानि पदे पदे वो

विविक्तदृग्भिस्तदु हार्हणं मे ॥ २६॥

मनो वचो दृक्करणेहितस्य

साक्षात्कृतं मे परिबर्हणं हि ।

विना पुमान् येन महाविमोहात्

कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७॥

श्रीशुक उवाच

एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि

लोकानुशासनार्थं महानुभावःपरमसुहृ-

द्भगवान् ऋषभापदेश उपशमशीलाना-

मुपरतकर्मणां महामुनीनां भक्तिज्ञान-

वैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः

स्वतनयशतज्येष्ठं परमभागवतं

भगवज्जनपरायणं भरतं धरणिपालनाया-

भिषिच्य स्वयं भवन एवोर्वरितशरीरमात्र-

परिग्रह उन्मत्त इव गगनपरिधानः

प्रकीर्णकेश आत्मन्यारोपिताहवनीयो

ब्रह्मावर्तात्प्रवव्राज ॥ २८॥

जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषो-

ऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं

बभूव ॥ २९॥

तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोष-

सार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदैः

परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडना-

वमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेपपूतिवातदुरुक्तै-

स्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणे

सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थानेना-

समारोपिताहम्ममाभिमानत्वादविखण्डितमनाः

पृथिवीमेकचरः परिबभ्राम ॥ ३०॥

अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदना-

द्यवयवविन्यासः प्रकृतिसुन्दरस्वभावहाससुमुखो

नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः

सदृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदन-

महोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधानः

परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारो-

ऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत ॥ ३१॥

यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा

प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति

व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति

खादत्यवमेहति हदति स्म चेष्टमान उच्चरित

आदिग्धोद्देशः ॥ ३२॥

तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं

दशयोजनं समन्तात्सुरभिं चकार ॥ ३३॥

एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः

काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४॥

इति नानायोगचर्याचरणो भगवान् कैवल्यपतिरृषभो-

ऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां भूताना-

मात्मभूते भगवति वासुदेव आत्मनोऽव्यवधाना-

नन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि

वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि

यदृच्छयोपगतानि नाञ्जसा नृपहृदयेनाभ्यनन्दत् ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः ॥ ५॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ षष्ठोऽध्यायः ॥

राजोवाच

न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जित-

कर्मबीजानां ऐश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति

यदृच्छयोपगतानि ॥ १॥

ऋषिरुवाच

सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भ-

मनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २॥

तथा चोक्तं –

न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।

यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३॥

नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।

योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४॥

कामो मन्युर्मदो लोभः शोकमोहभयादयः ।

कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५॥

अथैवमखिललोकपालललामोऽपि

विलक्षणैर्जडवदवधूतवेषभाषाचरितै-

रविलक्षितभगवत्प्रभावो योगिनां

साम्परायविधिमनुशिक्षयन् स्वकलेवरं

जिहासुरात्मन्यात्मानमसंव्यवहित-

मनर्थान्तरभावेनान्वीक्षमाण

उपरतानुवृत्तिरुपरराम ॥ ६॥

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत

ऋषभस्य योगमायावासनया देह इमां

जगतीमभिमानाभासेन सङ्क्रममाणः

कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान्

देशान् यदृच्छयोपगतः कुटकाचलोपवन

आस्यकृताश्मकवल उन्माद इव

मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७॥

अथ समीरवेगविधूतवेणुविकर्षणजातोग्र-

दावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ८॥

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां

राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे

भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय

कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः

सम्प्रवर्तयिष्यते ॥ ९॥

येन ह वाव कलौ मनुजापसदा देवमायामोहिताः

स्वविधिनियोगशौचचारित्रविहीना देवहेलना-

न्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नाना-

नाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनो-

पहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः

प्रायेण भविष्यन्ति ॥ १०॥

ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परया-

ऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११॥

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२॥

तस्यानुगुणान् श्लोकान् गायन्ति –

अहो भुवः सप्तसमुद्रवत्या

द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।

गायन्ति यत्रत्यजना मुरारेः

कर्माणि भद्राण्यवतारवन्ति ॥ १३॥

अहो नु वंशो यशसावदातः

प्रैयव्रतो यत्र पुमान् पुराणः ।

कृतावतारः पुरुषः स आद्य-

श्चचार धर्मं यदकर्महेतुम् ॥ १४॥

को न्वस्य काष्ठामपरोऽनुगच्छे-

न्मनोरथेनाप्यभवस्य योगी ।

यो योगमायाः स्पृहयत्युदस्ता

ह्यसत्तया येन कृतप्रयत्नाः ॥ १५॥

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां

परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं

पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायन-

मिदमनुश्रद्धयोपचितयानुश‍ृणोत्याश्रावयति वावहितो

भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि

समनुवर्तते ॥ १६॥

यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसार-

परितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया

निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि

स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव

परिसमाप्तसर्वार्थाः ॥ १७॥

राजन् पतिर्गुरुरलं भवतां यदूनां

दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।

अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो

मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८॥

नित्यानुभूतनिजलाभनिवृत्ततृष्णः

श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।

लोकस्य यः करुणयाभयमात्मलोक-

माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः ॥ ६॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ सप्तमोऽध्यायः ॥

श्रीशुक उवाच

भरतस्तु महाभागवतो यदा भगवतावनितल-

परिपालनाय सञ्चिन्तितस्तदनुशासनपरः

पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥ १॥

तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपा-

नात्मनः पञ्च जनयामास भूतादिरिव

भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं

धूम्रकेतुमिति ॥ २॥

अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य

व्यपदिशन्ति ॥ ३॥

स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया

स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः

पर्यपालयत् ॥ ४॥

ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः

श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्य-

पशुसोमानां प्रकृतिविकृतिभिरनुसवनं

चातुर्होत्रविधिना ॥ ५॥

सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं

यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे

सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया

साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव

भावयमान आत्मनैपुण्यमृदितकषायो

हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो

देवांस्तान् पुरुषावयवेष्वभ्यध्यायत् ॥ ६॥

एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाश-

शरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपो-

पलक्षणे श्रीवत्सकौस्तुभवनमालादरगदादिभि-

रुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण

विरोचमान उच्चैस्तरां भक्तिमनुदिनमेधमान-

रजयाजायत ॥ ७॥

एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरो-

ऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं

यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्पुलहाश्रमं

प्रवव्राज ॥ ८॥

यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां

वात्सल्येन सन्निधाप्यत इच्छारूपेण ॥ ९॥

यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी

नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥ १०॥

तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने

विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूल-

फलोपहारैश्च समीहमानो भगवत आराधनं विविक्त

उपरतविषयाभिलाष उपभृतोपशमः परां

निर्वृतिमवाप ॥ ११॥

तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमाना-

नुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्य-

मानरोमपुलककुलकौत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धा-

वलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यान-

परिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदय-

ह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां

न सस्मार ॥ १२॥

इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्र-

कपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा

भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठ-

न्नेतदु होवाच ॥ १३॥

परो रजः सवितुर्जातवेदो

देवस्य भर्गो मनसेदं जजान ।

सुरेतसादः पुनराविश्य चष्टे

हंसं गृध्राणं नृषद्रिङ्गिरामिमः ॥ १४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः ॥ ७॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ अष्टमोऽध्यायः ॥

श्रीशुक उवाच

एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको

ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश ॥ १॥

तत्र तदा राजन् हरिणी पिपासया

जलाशयाभ्याशमेकैवोपजगाम ॥ २॥

तया पेपीयमान उदके तावदेवाविदूरेण नदतो

मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ॥ ३॥

तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकित-

निरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया

पारिप्लवदृष्टिरगततृषा भयात्सहसैवोच्चक्राम ॥ ४॥

तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो

योनिनिर्गतो गर्भः स्रोतसि निपपात ॥ ५॥

तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन

वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती

निपपाताथ च ममार ॥ ६॥

तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभि-

वीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षि-

र्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ॥ ७॥

तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृतनिजाभि-

मानस्याहरहस्तत्पोषणपालनलालनप्रीणना-

नुध्यानेनात्मनियमाः सह यमाः पुरुषपरिचर्यादय

एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल

सर्व एवोदवसन् ॥ ८॥

अहो बतायं हरिणकुणकः कृपण ईश्वररथचरण-

परिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्यः परिवर्जितः

शरणं च मोपसादितो मामेव मातापितरौ

भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद

मय्यतिविस्रब्धश्चात एव मया मत्परायणस्य

पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं

शरण्योपेक्षा दोषविदुषा ॥ ९॥

नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद

एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते ॥ १०॥

इति कृतानुषङ्ग आसनशयनाटनस्नानाशनादिषु

सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ॥ ११॥

कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो

वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह

हरिणकुणकेन वनं समाविशति ॥ १२॥

पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभर-

हृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि

चाधायोपलालयन् मुदं परमामवाप ॥ १३॥

क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय

यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन

मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स

ते सर्वत इति ॥ १४॥

अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः

सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदय-

सन्तापस्तमेवानुशोचन् किल कश्मलं महदभि-

रम्भित इति होवाच ॥ १५॥

अपि बत स वै कृपण एणबालको मृतहरिणीसुतो-

ऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य

कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन

इवागमिष्यति ॥ १६॥

अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं

देवगुप्तं द्रक्ष्यामि ॥ १७॥

अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर

एकचरो वा भक्षयति ॥ १८॥

निम्लोचति ह भगवान् सकलजगत्क्षेमोदयस्त्रय्या-

त्माद्यापि मम न मृगवधून्यास आगच्छति ॥ १९॥

अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति

हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृग-

दारकविनोदैरसन्तोषं स्वानामपनुदन् ॥ २०॥

क्ष्वेलिकायां मां मृषा समाधिनाऽऽमीलितदृशं

प्रेमसंरम्भेण चकित चकित आगत्य पृषदपरुष-

विषाणाग्रेण लुठति ॥ २१॥

आसादितहविषि बर्हिषि दूषिते मयोपालब्धो

भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहित-

करणकलाप आस्ते ॥ २२॥

किं वा अरे आचरितं तपस्तपस्विन्यानया

यदियमवनिः सविनयकृष्णसारतनयतनुतर-

सुभगशिवतमाखरखुरपदपङ्क्तिभिर्द्रविण-

विधुरातुरस्य कृपणस्य मम द्रविणपदवीं

सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं

द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति ॥ २३॥

अपि स्विदसौ भगवानुडुपतिरेनं मृगपतिभया-

न्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया

कृपणजनवत्सलः परिपाति ॥ २४॥

किं वाऽऽत्मजविश्लेषज्वरदवदहनशिखाभि-

रुपतप्यमानहृदयस्थलनलिनीकं मामुपसृत-

मृगीतनयं शिशिरशान्तानुरागगुणितनिज-

वदनसलिलामृतमयगभस्तिभिः स्वधयतीति च ॥ २५॥

एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन

स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स

योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा

जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयस-

प्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य

तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य

तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणा-

विगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः

कालः करालरभस आपद्यत ॥ २६॥

तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्त-

मभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य

लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मा-

नुस्मृतिरितरवन्मृगशरीरमवाप ॥ २७॥

तत्रापि ह वा आत्मनो मृगत्वकारणं भगव-

दाराधनसमीहानुभावेनानुस्मृत्य भृशमनु-

तप्यमान आह ॥ २८॥

अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्त-

समस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत

आत्मनि सर्वेषामात्मनां भगवति वासुदेवे

तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणा-

भियोगेनाशून्यसकलयामेन कालेन समावेशितं

समाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्या-

रान्मृगसुतमनु परिसुस्राव ॥ २९॥

इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं

पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं

शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरा-

त्प्रत्याजगाम ॥ ३०॥

तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न

आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो

मृगत्वनिमित्तावसानमेव गणयन् मृगशरीरं

तीर्थोदकक्लिन्नमुत्ससर्ज ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे भरतचरिते अष्टमोऽध्यायः ॥ ८॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ नवमोऽध्यायः ॥

श्रीशुक उवाच

अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः-

स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्या-

नसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचार-

रूपौदार्यगुणा नवसोदर्या अङ्गजा बभूवुर्मिथुनं च

यवीयस्यां भार्यायाम् ॥ १॥

यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरत-

मुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ॥ २॥

तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः

कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरण-

चरणारविन्दयुगलं मनसा विदधदात्मनः

प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृत-

स्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिर-

स्वरूपेण दर्शयामास लोकस्य ॥ ३॥

तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना

आ समावर्तनात्संस्कारान् यथोपदेशं विदधान

उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमा-

ननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः

पुत्रेणेति ॥ ४॥

स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव

स्म करोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिः

सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्

मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥ ५॥

एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः

शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौप-

कुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन

भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं

तावदनधिगतमनोरथः कालेनाप्रमत्तेन

स्वयं गृह एव प्रमत्त उपसंहृतः ॥ ६॥

अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं

सपत्न्या उपन्यस्य स्वयमनुसंस्थयापतिलोकमगात् ॥ ७॥

पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव

पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातु-

रनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८॥

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूके-

त्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि

च स कार्यमाणः परेच्छया करोति विष्टितो वेतनतो

वा याच्ञया यदृच्छया वोपसादितमल्पं बहु मृष्टं

कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् ।

नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्द-

स्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयो-

रसम्भावितदेहाभिमानः ॥ ९॥

शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः

संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जन-

रजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः

कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति

ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥ १०॥

यदा तु परत आहारं कर्मवेतनत ईहमानः

स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि

करोति किन्तु न समं विषमं न्यूनमधिकमिति

वेद कणपिण्याकफलीकरणकुल्माषस्थाली-

पुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११॥

अथ कदाचित्कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुषपशु-

मालभतापत्यकामः ॥ १२॥

तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः

परिधावन्तो निशि निशीथसमये तमसा-

वृतायामनधिगतपशव आकस्मिकेन विधिना

केदारान् वीरासनेन मृगवराहादिभ्यः

संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् ॥ १३॥

अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्म-

निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-

गृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४॥

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन

वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभि-

रुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाज-

किसलयाङ्कुरफलोपहारोपेतया वैशस-

संस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण

च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥ १५॥

अथ वृषलराजपणिः पुरुषपशोरसृगासवेन

देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसि-

मतिकरालनिशितमुपाददे ॥ १६॥

इति तेषां वृषलानां रजस्तमःप्रकृतीनां

धनमदरज उत्सिक्तमनसां भगवत्कला-

वीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां

हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य

साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः

सूनायामप्यननुमतमालम्भनं तदुपलभ्य

ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा

सहसोच्चचाट सैव देवी भद्रकाली ॥॥ १७॥

भृशममर्षरोषावेशरभसविलसितभ्रुकुटि-

विटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानक-

वदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण

विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां

तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासव-

मत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां

स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरः

कन्दुकलीलया ॥ १८॥

एवमेव खलु महदभिचारातिक्रमः

कार्त्स्न्येनात्मने फलति ॥ १९॥

न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः

स्वशिरश्च्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभाव-

सुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां

साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः

परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भयमुपसृतानां

भागवतपरमहंसानाम् ॥ २०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः ॥ ९॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ दशमोऽध्यायः ॥

श्रीशुक उवाच

अथ सिन्धुसौवीरपते रहूगणस्य व्रजत

इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषा-

न्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध

एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति

पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह

शिबिकां स महानुभावः ॥ १॥

यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न

समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां

रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः

साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २॥

अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीया-

च्छङ्कितमनसस्तं विज्ञापयां बभूवुः ॥ ३॥

न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव

वहामः अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति

नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४॥

सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां

सांसर्गिकाणां भवितुमर्हतीति निश्चित्य

निशम्य कृपणवचो राजा रहूगण उपासित-

वृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थित-

मन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव

रजसाऽऽवृतमतिराह ॥ ५॥

अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक

एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा

चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति

बहु विप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्व-

चरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहम्ममेत्य-

नध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां

पूर्ववदुवाह ॥ ६॥

अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच

रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य

भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि

चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां

भजिष्यस इति ॥ ७॥

एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा

तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं

पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूत-

सुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान

इव विगतस्मय इदमाह ॥ ८॥

ब्राह्मण उवाच

त्वयोदितं व्यक्तमविप्रलब्धं

भर्तुः स मे स्याद्यदि वीर भारः ।

गन्तुर्यदि स्यादधिगम्यमध्वा

पीवेति राशौ न विदां प्रवादः ॥ ९॥

स्थौल्यं कार्श्यं व्याधय आधयश्च

क्षुत्तृड्भयं कलिरिच्छा जरा च ।

निद्रा रतिर्मन्युरहं मदः शुचो

देहेन जातस्य हि मे न सन्ति ॥ १०॥

जीवन्मृतत्वं नियमेन राजन्

आद्यन्तवद्यद्विकृतस्य दृष्टम् ।

स्वस्वाम्यभावो ध्रुव ईड्य यत्र

तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥ ११॥

विशेषबुद्धेर्विवरं मनाक्च

पश्याम यन्न व्यवहारतोऽन्यत् ।

क ईश्वरस्तत्र किमीशितव्यं

तथापि राजन् करवाम किं ते ॥ १२॥

उन्मत्तमत्तजडवत्स्वसंस्थां

गतस्य मे वीर चिकित्सितेन ।

अर्थः कियान् भवता शिक्षितेन

स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३॥

श्रीशुक उवाच

एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर

उपशमशील उपरतानात्म्यनिमित्त उपभोगेन

कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४॥

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्व-

जिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकार-

स्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहु

योगग्रन्थसम्मतं त्वरयावरुह्य शिरसा

पादमूलमुपसृतः क्षमापयन् विगत-

नृपदेवस्मय उवाच ॥ १५॥

कस्त्वं निगूढश्चरसि द्विजानां

बिभर्षि सूत्रं कतमोऽवधूतः ।

कस्यासि कुत्रत्य इहापि कस्मात्

क्षेमाय नश्चेदसि नोत शुक्लः ॥ १६॥

नाहं विशङ्के सुरराजवज्रा-

न्न त्र्यक्षशूलान्न यमस्य दण्डात् ।

नाग्न्यर्कसोमानिलवित्तपास्त्रा-

च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७॥

तद्ब्रूह्यसङ्गो जडवन्निगूढ-

विज्ञानवीर्यो विचरस्यपारः ।

वचांसि योगग्रथितानि साधो

न नः क्षमन्ते मनसापि भेत्तुम् ॥ १८॥

अहं च योगेश्वरमात्मतत्त्व-

विदां मुनीनां परमं गुरुं वै ।

प्रष्टुं प्रवृत्तः किमिहारणं तत्

साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ १९॥

स वै भवाँल्लोकनिरीक्षणार्थ-

मव्यक्तलिङ्गो विचरत्यपि स्वित् ।

योगेश्वराणां गतिमन्धबुद्धिः

कथं विचक्षीत गृहानुबन्धः ॥ २०॥

दृष्टः श्रमः कर्मत आत्मनो वै

भर्तुर्गन्तुर्भवतश्चानुमन्ये ।

यथासतोदानयनाद्यभावात्

समूल इष्टो व्यवहारमार्गः ॥ २१॥

स्थाल्यग्नितापात्पयसोऽभिताप-

स्तत्तापतस्तण्डुलगर्भरन्धिः ।

देहेन्द्रियास्वाशयसन्निकर्षा-

त्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२॥

शास्ताभिगोप्ता नृपतिः प्रजानां

यः किङ्करो वै न पिनष्टि पिष्टम् ।

स्वधर्ममाराधनमच्युतस्य

यदीहमानो विजहात्यघौघम् ॥ २३॥

तन्मे भवान् नरदेवाभिमान-

मदेन तुच्छीकृतसत्तमस्य ।

कृषीष्ट मैत्री दृशमार्तबन्धो

यथा तरे सदवध्यानमंहः ॥ २४॥

न विक्रिया विश्वसुहृत्सखस्य

साम्येन वीताभिमतेस्तवापि ।

महद्विमानात्स्वकृताद्धि मादृ-

ङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे दशमोऽध्यायः ॥ १०॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ एकादशोऽध्यायः ॥

ब्राह्मण उवाच

अकोविदः कोविदवादवादान्

वदस्यथो नातिविदां वरिष्ठः ।

न सूरयो हि व्यवहारमेनं

तत्त्वावमर्शेन सहामनन्ति ॥ १॥

तथैव राजन्नुरुगार्हमेध-

वितानविद्योरुविजृम्भितेषु ।

न वेदवादेषु हि तत्त्ववादः

प्रायेण शुद्धो नु चकास्ति साधुः ॥ २॥

न तस्य तत्त्वग्रहणाय साक्षा-

द्वरीयसीरपि वाचः समासन् ।

स्वप्ने निरुक्त्या गृहमेधिसौख्यं

न यस्य हेयानुमितं स्वयं स्यात् ॥ ३॥

यावन्मनो रजसा पूरुषस्य

सत्त्वेन वा तमसा वानुरुद्धम् ।

चेतोभिराकूतिभिरातनोति

निरङ्कुशं कुशलं चेतरं वा ॥ ४॥

स वासनात्मा विषयोपरक्तो

गुणप्रवाहो विकृतः षोडशात्मा ।

बिभ्रत्पृथङ्नामभि रूपभेद-

मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५॥

दुःखं सुखं व्यतिरिक्तं च तीव्रं

कालोपपन्नं फलमाव्यनक्ति ।

आलिङ्ग्य मायारचितान्तरात्मा

स्वदेहिनं संसृतिचक्रकूटः ॥ ६॥

तावानयं व्यवहारः सदाविः

क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ।

तस्मान्मनो लिङ्गमदो वदन्ति

गुणागुणत्वस्य परावरस्य ॥ ७॥

गुणानुरक्तं व्यसनाय जन्तोः

क्षेमाय नैर्गुण्यमथो मनः स्यात् ।

यथा प्रदीपो घृतवर्तिमश्नन्

शिखाः सधूमा भजति ह्यन्यदा स्वम् ।

पदं तथा गुणकर्मानुबद्धं

वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ८॥

एकादशासन्मनसो हि वृत्तय

आकूतयः पञ्च धियोऽभिमानः ।

मात्राणि कर्माणि पुरं च तासां

वदन्ति हैकादश वीर भूमीः ॥ ९॥

गन्धाकृतिस्पर्शरसश्रवांसि

विसर्गरत्यर्त्यभिजल्पशिल्पाः ।

एकादशं स्वीकरणं ममेति

शय्यामहं द्वादशमेक आहुः ॥ १०॥

द्रव्यस्वभावाशयकर्मकालै-

रेकादशामी मनसो विकाराः ।

सहस्रशः शतशः कोटिशश्च

क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ ११॥

क्षेत्रज्ञ एता मनसो विभूती-

र्जीवस्य मायारचितस्य नित्याः ।

आविर्हिताः क्वापि तिरोहिताश्च

शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १२॥

क्षेत्रज्ञ आत्मा पुरुषः पुराणः

साक्षात्स्वयञ्ज्योतिरजः परेशः ।

नारायणो भगवान्वासुदेवः

स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३॥

यथानिलः स्थावरजङ्गमाना-

मात्मस्वरूपेण निविष्ट ईशेत् ।

एवं परो भगवान् वासुदेवः

क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४॥

न यावदेतां तनुभृन्नरेन्द्र

विधूय मायां वयुनोदयेन ।

विमुक्तसङ्गो जितषट्सपत्नो

वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५॥

न यावदेतन्मन आत्मलिङ्गं

संसारतापावपनं जनस्य ।

यच्छोकमोहामयरागलोभ-

वैरानुबन्धं ममतां विधत्ते ॥ १६॥

भ्रातृव्यमेनं तददभ्रवीर्य-

मुपेक्षयाध्येधितमप्रमत्तः ।

गुरोर्हरेश्चरणोपासनास्त्रो

जहि व्यलीकं स्वयमात्ममोषम् ॥ १७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः ॥ ११॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ द्वादशोऽध्यायः ॥

रहूगण उवाच

नमो नमः कारणविग्रहाय

स्वरूपतुच्छीकृतविग्रहाय ।

नमोऽवधूतद्विजबन्धुलिङ्ग-

निगूढनित्यानुभवाय तुभ्यम् ॥ १॥

ज्वरामयार्तस्य यथागदं स-

न्निदाघदग्धस्य यथा हिमाम्भः ।

कुदेहमानाहिविदष्टदृष्टे-

र्ब्रह्मन्वचस्तेऽमृतमौषधं मे ॥ २॥

तस्माद्भवन्तं मम संशयार्थं

प्रक्ष्यामि पश्चादधुना सुबोधम् ।

अध्यात्मयोगग्रथितं तवोक्त-

माख्याहि कौतूहलचेतसो मे ॥ ३॥

यदाह योगेश्वर दृश्यमानं

क्रियाफलं सद्व्यवहारमूलम् ।

न ह्यञ्जसा तत्त्वविमर्शनाय

भवानमुष्मिन् भ्रमते मनो मे ॥ ४॥

ब्राह्मण उवाच

अयं जनो नाम चलन् पृथिव्यां

यः पार्थिवः पार्थिव कस्य हेतोः ।

तस्यापि चाङ्घ्र्योरधिगुल्फजङ्घा-

जानूरुमध्योरशिरोधरांसाः ॥ ५॥

अंसेऽधि दार्वी शिबिका च यस्यां

सौवीरराजेत्यपदेश आस्ते ।

यस्मिन् भवान् रूढनिजाभिमानो

राजास्मि सिन्धुष्विति दुर्मदान्धः ॥ ६॥

शोच्यानिमांस्त्वमधिकष्टदीनान्

विष्ट्या निगृह्णन् निरनुग्रहोऽसि ।

जनस्य गोप्तास्मि विकत्थमानो

न शोभसे वृद्धसभासु धृष्टः ॥ ७॥

यदा क्षितावेव चराचरस्य

विदाम निष्ठां प्रभवं च नित्यम् ।

तन्नामतोऽन्यद्व्यवहारमूलं

निरूप्यतां सत्क्रिययानुमेयम् ॥ ८॥

एवं निरुक्तं क्षितिशब्दवृत्त-

मसन्निधानात्परमाणवो ये ।

अविद्यया मनसा कल्पितास्ते

येषां समूहेन कृतो विशेषः ॥ ९॥

एवं कृशं स्थूलमणुर्बृहद्य-

दसच्च सज्जीवमजीवमन्यत् ।

द्रव्यस्वभावाशयकालकर्म-

नाम्नाजयावेहि कृतं द्वितीयम् ॥ १०॥

ज्ञानं विशुद्धं परमार्थमेक-

मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।

प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं

यद्वासुदेवं कवयो वदन्ति ॥ ११॥

रहूगणैतत्तपसा न याति

न चेज्यया निर्वपणाद्गृहाद्वा ।

न छन्दसा नैव जलाग्निसूर्यै-

र्विना महत्पादरजोऽभिषेकम् ॥ १२॥

यत्रोत्तमश्लोकगुणानुवादः

प्रस्तूयते ग्राम्यकथाविघातः ।

निषेव्यमाणोऽनुदिनं मुमुक्षो-

र्मतिं सतीं यच्छति वासुदेवे ॥ १३॥

अहं पुरा भरतो नाम राजा

विमुक्तदृष्टश्रुतसङ्गबन्धः ।

आराधनं भगवत ईहमानो

मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४॥

सा मां स्मृतिर्मृगदेहेऽपि वीर

कृष्णार्चनप्रभवा नो जहाति ।

अथो अहं जनसङ्गादसङ्गो

विशङ्कमानोऽविवृतश्चरामि ॥ १५॥

तस्मान्नरोऽसङ्गसुसङ्गजात-

ज्ञानासिनेहैव विवृक्णमोहः ।

हरिं तदीहाकथनश्रुताभ्यां

लब्धस्मृतिर्यात्यतिपारमध्वनः ॥ १६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः ॥ १२॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ त्रयोदशोऽध्यायः ॥

ब्राह्मण उवाच

दुरत्ययेऽध्वन्यजया निवेशितो

रजस्तमःसत्त्वविभक्तकर्मदृक् ।

स एष सार्थोऽर्थपरः परिभ्रमन्

भवाटवीं याति न शर्म विन्दति ॥ १॥

यस्यामिमे षण्नरदेव दस्यवः

सार्थं विलुम्पन्ति कुनायकं बलात् ।

गोमायवो यत्र हरन्ति सार्थिकं

प्रमत्तमाविश्य यथोरणं वृकाः ॥ २॥

प्रभूतवीरुत्तृणगुल्मगह्वरे

कठोरदंशैर्मशकैरुपद्रुतः ।

क्वचित्तु गन्धर्वपुरं प्रपश्यति

क्वचित्क्वचिच्चाशु रयोल्मुकग्रहम् ॥ ३॥

निवासतोयद्रविणात्मबुद्धि-

स्ततस्ततो धावति भो अटव्याम् ।

क्वचिच्च वात्योत्थितपांसुधूम्रा

दिशो न जानाति रजस्वलाक्षः ॥ ४॥

अदृश्यझिल्लीस्वनकर्णशूल

उलूकवाग्भिर्व्यथितान्तरात्मा ।

अपुण्यवृक्षान् श्रयते क्षुधार्दितो

मरीचितोयान्यभिधावति क्वचित् ॥ ५॥

क्वचिद्वितोयाः सरितोऽभियाति

परस्परं चालषते निरन्धः ।

आसाद्य दावं क्वचिदग्नितप्तो

निर्विद्यते क्व च यक्षैर्हृतासुः ॥ ६॥

शूरैर्हृतस्वः क्व च निर्विण्णचेताः

शोचन्विमुह्यन्नुपयाति कश्मलम् ।

क्वचिच्च गन्धर्वपुरं प्रविष्टः

प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७॥

चलन् क्वचित्कण्टकशर्कराङ्घ्रि-

र्नगारुरुक्षुर्विमना इवास्ते ।

पदे पदेऽभ्यन्तरवह्निनार्दितः

कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८॥

क्वचिन्निगीर्णोऽजगराहिना जनो

नावैति किञ्चिद्विपिनेऽपविद्धः ।

दष्टः स्म शेते क्व च दन्दशूकै-

रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९॥

कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-

स्तन्मक्षिकाभिर्व्यथितो विमानः ।

तत्रातिकृच्छ्रात्प्रतिलब्धमानो

बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १०॥

क्वचिच्च शीतातपवातवर्ष-

प्रतिक्रियां कर्तुमनीश आस्ते ।

क्वचिन्मिथो विपणन् यच्च किञ्चि-

द्विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११॥

क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्

शय्यासनस्थानविहारहीनः ।

याचन् परादप्रतिलब्धकामः

पारक्यदृष्टिर्लभतेऽवमानम् ॥ १२॥

अन्योन्यवित्तव्यतिषङ्गवृद्ध-

वैरानुबन्धो विवहन् मिथश्च ।

अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-

बाधोपसर्गैर्विहरन् विपन्नः ॥ १३॥

तांस्तान् विपन्नान् स हि तत्र तत्र

विहाय जातं परिगृह्य सार्थः ।

आवर्ततेऽद्यापि न कश्चिदत्र

वीराध्वनः पारमुपैति योगम् ॥ १४॥

मनस्विनो निर्जितदिग्गजेन्द्रा

ममेति सर्वे भुवि बद्धवैराः ।

मृधे शयीरन् न तु तद्व्रजन्ति

यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५॥

प्रसज्जति क्वापि लता भुजाश्रय-

स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।

क्वचित्कदाचिद्धरिचक्रतस्त्रसन्

सख्यं विधत्ते बककङ्कगृध्रैः ॥ १६॥

तैर्वञ्चितो हंसकुलं समाविश-

न्नरोचयन् शीलमुपैति वानरान् ।

तज्जातिरासेन सुनिर्वृतेन्द्रियः

परस्परोद्वीक्षणविस्मृतावधिः ॥ १७॥

द्रुमेषु रंस्यन् सुतदारवत्सलो

व्यवायदीनो विवशः स्वबन्धने ।

क्वचित्प्रमादाद्गिरिकन्दरे पतन्

वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १८॥

अतः कथञ्चित्स विमुक्त आपदः

पुनश्च सार्थं प्रविशत्यरिन्दम ।

अध्वन्यमुष्मिन्नजया निवेशितो

भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९॥

रहूगण त्वमपि ह्यध्वनोऽस्य

सन्न्यस्तदण्डः कृतभूतमैत्रः ।

असज्जितात्मा हरिसेवया शितं

ज्ञानासिमादाय तरातिपारम् ॥ २०॥

राजोवाच

अहो नृजन्माखिलजन्मशोभनं

किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।

न यद्धृषीकेशयशःकृतात्मनां

महात्मनां वः प्रचुरः समागमः ॥ २१॥

न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-

र्हतांहसो भक्तिरधोक्षजेऽमला ।

मौहूर्तिकाद्यस्य समागमाच्च मे

दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२॥

नमो महद्भ्योऽस्तु नमः शिशुभ्यो

नमो युवभ्यो नम आवटुभ्यः ।

ये ब्राह्मणा गामवधूतलिङ्गा-

श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३॥

श्रीशुक उवाच

इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः

सिन्धुपतय आत्मसतत्त्वं विगणयतः

परानुभावः परमकारुणिकतयोपदिश्य

रहूगणेन सकरुणमभिवन्दितचरण

आपूर्णार्णव इव निभृतकरणोर्म्याशयो

धरणिमिमां विचचार ॥ २४॥

सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व

आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज

एवं हि नृप भगवदाश्रिताश्रितानुभावः ॥ २५॥

राजोवाच

यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः

परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्य

मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोक-

समधिगमः अथ तदेवैतद्दुरवगमं समवेता-

नुकल्पेन निर्दिश्यतामिति ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे त्रयोदशोऽऽध्यायः ॥ १३॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.