[highlight_content]

द्युभ्वाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः


(
पे) द्युभ्वाद्यधिकरणम् ॥१॥

*यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम् मनस्सह प्राणैश्च सर्वैस्तमेवैकम् जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः*(मुण्ड.२-२-५) यस्मिन्नक्षरे द्युपृथिव्यन्तरिक्षमनः प्राणादिकम् समवेतम्, तमेकमेव  स्वेतरसमस्तवस्तु- नियन्तृत्वेन व्यापकतया आत्मानम् जानीथ अनात्मविषया वाचस्सन्त्यजत । *अमृतस्यैष सेतुः*(मुण्ड.२-२-५) नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः, सम्सारार्णवपारभूतस्य अमृतस्यैष प्रतिलम्भक इत्यर्थः । *अरा इव रथनाभौ सम्हता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः*(मुण्ड.२-२-६)।*सन्ततम् सिराभिस्तु लम्बत्या कोशसन्निभमि* (तै.महा.ना.३-२)त्युक्तरीत्या यत्र हृदये रथनाभौ समर्पिता अरा इव नाड्यस्सङ्गताः, तत्र मद्ध्ये स एषः प्रकृत आत्मा *अजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिमि*(पुरुष सूक्तम् तै.आ.३)ति देवादीनाम् समाश्रयणीयत्वाय तत्तज्जातीयस्वरूपसम्स्थानगुणकर्म-समन्वितः स्वीयस्वभावमजहदेव स्वेच्छया बहुधा जायमानस्सन्, चरते – वर्तत इत्यर्थः । *ओमित्येवम् ध्यायथात्मानम्*( मुण्ड.२-२-६) स्पष्टोऽर्थः । *स्वस्ति वः पाराय तमसः परस्तात्*(मुण्ड.२-२-६) । तमसःपरस्माद्वर्त-मानाय व: पाराय – तीराय । *पारावारे परार्वाची तीर*(अमरकोश:२-२-७ वारि वर्गः) इति नैघण्टुकाः । प्राप्यभूतायेति यावत् । तत्पदप्राप्तये ध्यायतेत्य-न्वयः । एवम् ध्यानाय प्रवृत्तेभ्यो युष्मभ्यम् स्वस्ति भवतु । *यस्सर्वज्ञ-स्सर्ववित्*(मुण्ड.२-२-७) उक्तोऽर्थः । *यस्यैष महिमा भुवि*(मुण्ड.२-२-७) । लोके सम्सारतन्त्रप्रवर्तन-रूपः एष महिमा यदीयः । *दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः*(मुण्ड. २-२-७) । वैकुण्ठाख्ये ब्रह्मपुरे दिव्ये व्योम्नि अयमात्मा प्रतिष्ठित इत्यर्थः । एवम् च वाक्यद्वयेन उभयविभूतिनियामक-त्वमुक्तम् भवति । *भिद्यते हृदय ग्रन्थिः*(मुण्ड.२-२-८) हृत्स्थानमयत इति व्युत्पत्त्या हृदयशब्दितो जीवः, तस्य ग्रन्थिवत् दुर्मोचा रागद्वेषादयः । *छिद्यन्ते सर्वसम्शयाः*(मुण्ड.२-२-८) ब्रह्मज्ञानेन सार्वज्ञ्यसिद्धेरिति भावः । *क्षीयन्ते चास्य कर्माणि*(मुण्ड.२-२-८)- प्रारब्धव्यतिरिक्तानि पूर्वाणि अनेकभवार्जितानि कर्माणि च नश्यन्ति । नाशो नाम कर्मणाम् फलजनन-शक्ति विनाशः, शक्तिश्च परमपुरुषाप्रीतिरेव । एतत्सर्वम् कदेत्याह – *तस्मिन् दृष्टे परावरे*(मुण्ड.२-२-८) इति । परे अवरा यस्मात्सः परावरः । सर्वोत्कृष्टा अपि ब्रह्मादयो यस्मानिकृष्टा इत्यर्थः तस्मिन् दर्शनसमानाकारविषयीकृत इत्यर्थः । *द्वासुपर्णा सयुजा सखाया समानम् वृक्षम् परिषस्वजाते । तयोरन्यः पिप्पलम् स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति*(मुण्ड.३-३-१) युज्यत इति युक् युक्शब्दो गुणपरः । सयुजौ – समानगुणकौ । सखायौ – अपहतपाप्मत्वादिगुणैः परस्परम् समानौ । द्वौ सुपर्णौ – द्वौ पक्षिसदृशौ । समानम् वृक्षम् – वृक्षवच्छेदनार्हम् शरीरम् समाश्रि-तावित्यर्थः । तयोरन्यः स्वादु परिपक्वम् पिप्पलम् कर्मफलम् भुङ्क्ते अन्यस्तु परमात्मा अभुञ्जान एवम् प्रकाशते । अत्र शरीरतदाश्रयजीव परादिविषयवाचकशब्दनिगरणेन विषयिवाचकवृक्षसुपर्णादिशब्दैर्वृक्षत्वाध्यवसानलक्षणरूपकातिशयोक्ति-र्विच्छित्तिविशेषायेति द्रष्टव्यम् । *समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः*(मुण्ड.३-१-२) अनीशया – भोग्यभूतया प्रकृत्या मुह्यमानः – तिरोहितपरमात्मशेषत्वज्ञानानन्दादि लक्षणस्वरूपस्सन् । वृक्ष इव छेदनार्हे शरीरे जीवः स्थूलोऽहम् कृशोऽहमित्यादितादात्म्यबुद्ध्या पाम्सूदक- वत्तदेकतामापन्नस्सन् तत्सम्सर्गकृतानि दुःखान्यनुभवतीत्यर्थः । *जुष्टम् यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः*(मुण्ड.३-१-२) इतिशब्दो बुद्धिस्थप्रकारवचनः चशब्दश्चाध्याहर्तव्यः । यदाऽसौ जीवो निमग्नास्स्वस्माद्धारकत्व- नियन्तृत्वशेषित्वादिना विलक्षणम् स्वकर्मभिः प्रीतम् परमात्मानम् अखिलजग-दीशलक्षणमस्य महिमानञ्च यदा पश्यति तदा वीतशोको भवती-त्यर्थः । *यदा पश्यः पश्यते रुक्मवर्णम् कर्तारमीशम् पुरुषम् ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमम् साम्यमुपैति*(मुण्ड. ३-१-३) कर्तारम् – जगत्कर्तारम् ईशम् – जगदीशितारम् । *तस्मादेतद्ब्रह्मे *(मुण्ड.१-१-९)ति निर्दिष्टाव्याकृतब्रह्मोपादानभूतम् *भगवानिति शब्दोऽयमि* (पाद्मोत्तरखण्ड. ६-२७४-६६)त्युक्तरीत्या पुरुषशब्दनिर्दिष्टम् वासुदेवम् यदा पश्यति तदा निरस्तप्रकृतिलेपस्सन् अपहतपाप्मत्वादिगुणाष्टकलक्षणेन ब्राह्मेण रूपेण परमम् साम्यमुपैतीत्यर्थः । एतावत्येव विषयवाक्यानि चिन्तोपयुक्तानि ।

अत्र शङ्कते – *यस्मिन् द्यौरिति*(मुण्ड.२-२-५) वाक्ये *ओतम् मनस्सह प्राणैश्च सर्वै*(मुण्ड.२-२-५) रिति मनः प्राणसम्बन्धिनः प्रतिपादनात्, *अरा इव इथनाभौ सम्हता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमान* (मुण्ड. २-२-६) इति जीवलिङ्गाच्च, भूतयोन्यक्षरम् भङ्त्वा जीवपरत्वमेवास्य सन्दर्भस्याश्रय-णीयमिति । अत्रोच्यते

द्युभ्वाद्यायतनम् स्वशब्दात् ॥११॥

द्युभ्वाद्यायतनम् परमात्मा *अमृतस्यैष सेतुरि*(मुण्ड.२-२-६)ति मोक्षप्रद-त्वलक्षणासाधारणधर्मश्रवणात्, *तमेवैकम् जानथात्मानमि*(मुण्ड. १-२-५)ति व्यापकार्थकस्यात्मशब्दस्य च श्रवणात् ।

मुक्तोपसृप्यव्यपदेशाच्च ॥१२॥

*नामरूपाद्विमुक्तः परात्परम् पुरुषमुपैति दिव्यमि*(मुण्ड. ३-२-८)ति परमात्ममात्रासाधारणमुक्तप्राप्यत्वव्यपदेशात् ॥

नानुमानमतच्छब्दात्प्राणभृच्च ॥१३॥

अनुमानम् प्रधानमस्मिन् प्रकरणे यथा तत्प्रतिपादकशब्दाभावान्न प्रतिपाद्यम्, एवम् प्राणभृज्जीवोऽपि तत्प्रतिपादकशब्दाभावान्न प्रतिपाद्यः।

भेदव्यपदेशाच्च ॥१४॥

*जुष्टम् यदा पश्यत्यन्यमि*(मुण्ड. ३-१-२)ति प्रकरणप्रतिपाद्यस्य ईशस्य जीवभेदव्यपदेशाच्च ॥

प्रकरणात् ॥१५॥

भूतयोन्यक्षरप्रकरणाच्च ।

स्थित्यदनाभ्याञ्च ॥१६॥

*तयोरन्यः पिप्पलम् स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीती*(मुण्ड.३-१-१)ति जीवस्य कर्मफलभोक्तृत्वम् परमात्मनस्तु तदन्तरेण शरीरे अवस्थानमिति परमात्मन एव प्रकरणतात्पर्यपर्यवसानभूमितया आविष्कृतत्वाच्च परमात्मैव मुण्डकोपनिषत्प्रतिपाद्य इति ।

ननु *द्वा सुपर्णे*( मुण्ड.३-१-१) ति मन्त्रस्य कथम् जीवपरमात्मभेद-परत्वम्, अन्तःकर-णजीवपरत्वेन पैङ्गिरहस्यब्राह्मणेनैव व्याख्यातत्वात् । तथाहि – *तयोरन्यः पिप्पलम् स्वाद्वत्तीति*(मुण्ड.३-१-१) सत्त्वम्,*अनश्नन्यो- ऽभिचाकशीती*(मुण्ड.३-१-१)ति ज्ञः, तावेतौ सत्वक्षेत्रज्ञौन च सत्वक्षेत्रज्ञ-शब्दौ जीवपरात्मपराविति वाच्यम् । तयोश्शब्दयोरन्तःकरणजीवपरतया प्रसिद्धत्वात्, *तत्सत्वम् येन स्वप्नम् पश्यति । अथ योऽयम् शारीर उपद्रष्टा स क्षेत्रज्ञः तावेतौ सत्वक्षेत्रज्ञावि*(पैङ्गीश्रुतिः)ति सत्वक्षेत्रज्ञशब्दयोरन्तः-करणजीवपरतया पैङ्गिश्रुत्यैव व्याख्यातत्वाच्च, *येन स्वप्नम् पश्यती*(पैङ्गीश्रुतिः)ति करणत्वप्रतीतेः सत्वम् ह्यन्तःकरणम् जीवः पर इति चेन्न । न ताव ज्जीवपरमात्मपरत्वमस्या-पवदितुम् शक्यते । अनेन मन्त्रेण तुल्यार्थतया प्रत्यभिज्ञायमाने *समाने वृक्षे पुरुषो निमग्न*(मुण्ड. ३-१-२) इत्यनन्तरे मन्त्रे जीवपरयोः प्रतिपन्नत्वात्, अस्य मन्त्रस्य तदेकार्थत्वाच्च । *समानम् वृक्षम् परिषस्वजाते*(मुण्ड. ३-१-१) *समाने वृक्षे पुरुषो निमग्न*(मुण्ड. ३-१-२) इत्यनन्तरे मन्त्रे जीवपरयोः प्रतिपन्नत्वात्, अस्य मन्त्रस्य तदेकार्थत्वाच्च । *समानम् वृक्षम् परिषस्वजाते*(मुण्ड. ३-१-१) *समाने वृक्षे पुरुषो निमग्न*(मुण्ड. ३-१-२) इति तयोरैकार्थ्यम् हि प्रतीयते । *समाने वृक्ष*(मुण्ड. ३-१-२) इति मन्त्रे च पुरुषो जीवः, अन्तःकरणस्य पुरुष-शब्दवाच्यत्वाभावात्, *शोचति मुह्यमानः*(मुण्ड. ३-१-२) *पश्यति*(पैङ्गीश्रुतिः) *वीतशोक*(मुण्ड. ३-१-१) इति पदानामस्वारस्याच्च । अन्यश्च परमात्मा । ईशशब्दोक्तत्वात् स्वविषयज्ञानेन वीतशोकत्वहेतुत्वाच्च । न केवलमनन्तर- मन्त्रैकार्थ्यात् *द्वासुपर्णे*(मुण्ड. ३-१-१)ति मन्त्रस्य परमात्मपरत्वम्, किन्तु स्ववाक्ये *स्वाद्वत्त्यनश्नन्नन्य*(मुण्ड. ३-१-१) इति भोक्तृत्वाभोक्तृत्वश्रवणाच्च तदवसीयते । चक्षुश्श्रोत्रादीनाम् द्रष्ट्रुत्वश्रोतृत्वादिवत् अन्तःकरणस्यापि करणत्वादेव भोक्तृत्वम् न हि सम्भवति । जीवस्य वृक्षशब्दोक्तदेहपरिष्वङ्ग- दशायामेव अनश्नत्त्वमपि नोपपद्यते । तर्हि पैङ्गिश्रुतेः कोऽर्थः उच्यते – सत्वम् बद्धजीवः । *द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुष्वि*(अमर कोशः (नानार्थ-वर्गः))ति शासनात् जन्तुपरत्वावगतेः । जन्तुश्च प्राणी, *जन्तुर्जन्युशरीरिण* (अमर कोशः (नानार्थवर्गः) इति नामपाठात्, *वन्यान्विनेष्यन्निव दुष्टसत्वानि*    (रघुवम्शः२-८)ति प्रयोगाच्च, *न तदस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः । सत्वम् प्रकृतिजैर्मुक्तम् यदेभिस्स्यात्रिभिर्गुणैरि*(भ.गीता.१८-४०)ति दर्शनाच्च । क्षेत्रज्ञशब्दश्च अत्र परमात्मपरः, अर्थान्तरप्रसिद्धाकाश प्राणादिशब्दवत् अर्थानुपपत्त्या परमात्मपरत्वोपपत्तेः, *विष्णोर्नामसहस्रम् मे*(विष्णुसहस्रनामम् १) इत्युपक्रम्य *क्षेत्रज्ञोऽक्षर एव चे*(विष्णुसहस्रनामम्)ति प्रयोगात्, क्षेत्रम् जानातीत्यवयवार्थस्य तस्मिन्नेव पुष्कलत्वाच्च । मोक्षधर्मे – *ततस्त्रैगुण्यहीनास्ते परमात्मानमजंसा । प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञम् निर्गुणात्मकम्*(महाभारतम् मोक्षधर्मः) इति “सर्वावासम् वासुदेवम् क्षेत्रज्ञम् विद्धि तत्वत*(महाभारतम् मोक्षधर्मः) इति तत्रैव *विश्वमूर्द्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ क्षेत्राणि च शरीराणि ज्ञानानि च शुभाशुभे । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यत*(महाभारतम् मोक्षधर्मः) इति प्रयोगात्, तत्रैव कपिलासुरसम्वादे *ज्ञातानामासुरे श्रेष्टो ज्ञो द्रष्टा शुचिरुपेक्षक* (महाभारतम् मोक्षधर्मः) इति, तत्रैव पञ्चविम्शतितत्वानि तत्तच्छब्देनोक्त्वा *एतस्माद्वर्गादपवृत्तोप-वर्गपश्शुचिरुपे-क्षकः बुद्ध्यमानाप्रतिबुद्धयोः परस्मादि*(महाभारतम् मोक्षधर्मः)ति तत्रैव *अन्यदुदकमन्यत्पुष्करपर्णम् तथाऽन्यत्क्षेत्र मन्यः पुरुषः पञ्चविम्शकः अन्य- श्चास्मात् क्षेत्रज्ञ*(महाभारतम् मोक्षधर्मः) इति प्रयोगात्, सनत्कुमारनारदसम्वादे च *पश्यः पश्यति पश्यन्तमपश्यन्तञ्च पश्यति । पश्यन्तम् पश्यपश्य-त्वात् पश्यापश्ये न पश्यत*(सनत्कुमार नारद सम्वादः) इति श्लोकमुक्त्वा *प्रकृतिम् क्षेत्रम् क्षेत्रज्ञश्च अपरः क्षेत्रज्ञः षड्विम्शकोऽनु-पश्यति न तु पञ्चविम्शकः क्षेत्रज्ञः प्रकृतिर्वा परम् क्षेत्रज्ञम् पश्यती*(सनत्कुमार नारद सम्वादः)ति प्रयोगाच्च । *येन स्वप्नम् पश्यती*(पैङ्गी श्रुति)त्यत्र इत्थम्भावे तृतीया । येन विशिष्टः परमात्मा स्वप्नम् पश्यतीत्युच्यते । *काठिन्यवान् यो बिभर्ती*  ति पृथिवीद्वारा काठिन्यवत् स्वप्नद्रष्ट्रुत्वम् जीवद्वारा परमात्मविशेषणम् भवतीति न विरोधः । शारीरशब्दश्च *तस्यैष एव शारीर आत्मे*(तै.आन.२)तिवत् स्वव्यतिरिक्तसमस्त-चिदचिच्छरीरके  परमात्मन्यु-पपद्यते । उपद्रष्टेति निरुपाधिकद्रष्ट्रुत्वम् तस्यैवोपपद्यते । एवम् *शारीर उपद्रष्टे ति पदद्वयेन परस्य क्षेत्रज्ञशब्दवाच्यत्वमुपपादितम् भवति । अतः *द्वा सुपर्णे*(मुण्ड.३-१-१)ति मन्त्रे जीवपरमात्मपरः । किञ्च *इयदा मननात्*(ब्र.सू.३-३-३४) इत्यधिकरणे *द्वा सुपर्णे*(मुण्ड.३-१-१)ति मन्त्रे भोक्त्रभोक्त्रोः प्रतिपाद्यता । *ऋतम् पिबन्तावि*(कठ.३-१-१)त्यत्र तु भोक्त्रोः प्रतिपाद्यता *पिबन्तावि*(कठ.३-१-१)ति श्रवणात् । न च *पिबन्तावि* (कठ.३-१-१)त्येतच्छत्रिन्यायेन पिबदपिबत्समुदायलक्षकमिति वाच्यम् । मुख्यार्थपरित्यागे कारणाभावादिति पूर्वपक्षम् कृत्वा *ऋतम् पिबन्तौ*(कठ.३-१-१), *द्वा सुपर्णा* (मुण्ड.३-१-१) इत्यत्र च द्वित्वसङ्ख्याप्रतीतेरैक्यम् प्रतीयते । तत्र च *द्वा सुपर्णे*(मुण्ड.३-१-१)ति मन्त्रे *तयोरन्यः पिप्पलम् स्वाद्वत्त्यनश्नन्नन्य*(मुण्ड.३-१-१) इति अशनायाद्यतीतः परमात्मा प्रतीयते । अत एव *जुष्टम् यदा पश्यत्यन्य-मीशमि*(मुण्ड.३-१-२)ति वाक्यशेषे परमात्मन एव प्रतिपादनम् दृश्यते । *ऋतम् पिबन्तावि*(कठ.३-१-१)ति मन्त्रे च *अन्यत्र धर्मादि*(कठ.१-२-१४) त्युपक्रमेण परमात्मनःप्रकृतत्वात् *यस्सेतुरीजानानामक्षरम् ब्रह्म यत्परमि* (कठ.१-३-२)ति परमात्मविषयवाक्यशेषाच्च परमात्मैवात्र प्रतिपाद्यः। अतः *ऋतम् पिबन्तावि*(कठ.३-१-१)त्येतत् छत्रिन्यायेन योज्यम् । अतो वेद्याभेदा-द्विद्याभेद इति तदीयभाष्य एव प्रतिपादिततया तयोर्मन्त्रयोः भिन्नार्थत्वसमर्थनस्य तद्विरुद्धत्वात् । तस्मात् *द्वासुपर्णे*(मुण्ड.३-१-१)ति मन्त्रो जीवपरमात्मपर एव । सत्वक्षेत्रज्ञशब्दावपि तत्परावित्येव युक्तम् ॥

इति द्युभ्वाद्यधिकरणम् ॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.