॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
शरीरेभावाधिकरणम्
एक आत्मनश्शरीरे भावात् ॥ ३-३-५१ ॥
किम् कर्तृत्वादिविशिष्टम् प्रत्यगात्मनस्साम्सारिकस्वरूपमनु-सन्धेयम् उत प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणस्साम्सारिकरूप- व्यतिरेक एवानुसन्धेय इति विशये कर्तृत्वादिविशिष्टमेव रूपमनुसन्धेयम् । शरीरे वर्तमानस्योपासितुरात्मनस्तथाभावात् इति पूर्वपक्षे प्राप्त उच्यते
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ३-३-५२ ॥
प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणस्साम्सारिकस्वरूप एवानुसन्धेयः । न तु कर्तृत्वादिविशिष्टस्वरूपमपि । कुतः ? तथोपासने सत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूप फलप्राप्तेर्भावित्वात् । ननु प्रजापतिविद्यायाः प्रकरणाद्दहरविद्याशेषत्वेन विद्यान्तरशेषत्वे प्रमाणाभाव इति चेन्न । प्रजापतिवाक्योदितप्रत्यगात्मब्रह्मविद्यायाः ब्रह्मप्राप्तिपूर्वका-पहतपाप्मत्वादिगुणाष्टकविशिष्टस्वात्माविर्भावलक्षणमोक्षरूपफलस्य तत्क्रतुन्यायेन तादृशस्वात्मोपासनसाध्यत्वेन सर्वब्रह्मविद्याङ्गत्वसिद्धेः सर्वपरविद्यास्वपि प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणसाम्सारिक-रूपव्यतिरेकस्यैवानुसन्धेयत्वात् । न तूपलब्धिवत् – यथा ब्रह्मस्वरूपो-पलब्धिः यथावस्थितब्रह्मानुसन्धानादेव तथाऽऽत्मोपलब्धिरपि । यथा प्रकरणविशेषश्रुतानाम् सत्यत्वज्ञानत्वादिस्वरूपनिरूपकधर्माणाम् *आनन्दादयः प्रधानस्ये*(ब्र.सू.३-३-११)त्यधिकरणोक्तन्यायेन सर्वब्रह्म-विद्यापेक्षितब्रह्मस्वरूपप्रतिपत्त्युपयोगितया सामर्थ्यरूपाल्लिङ्गात् प्रकरणभङ्गेन सर्वब्रह्मविद्यासाधारण्यमाश्रीयते यथा वा *तमेतम् वेदानुवचनेन ब्राह्मणा विविदिषन्ती*(बृह.६-४-२२)ति विद्याविशेष-प्रकरणश्रुतानाम् वेदानुवचनादीनाम् सर्वब्रह्मविद्यापेक्षितचित्तनैर्मल्यो-पयोगित्वलक्षणसामर्थ्यरूपलिङ्गवशेन सर्वविद्यासाधारण्यम् तथैव प्रजापतिवाक्योदितप्रत्यगात्मविद्याया अपि सर्वविद्यासाधारण्यम् न्याय्यमिति ॥
इति शरीरेभावाधिकरणम् ॥