[highlight_content]

श्रीभाष्यम् 02-01-09 कृत्स्नप्रसक्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कृत्स्नप्रसक्त्यधिकरणम्॥९॥

(अधिकरणार्थः – ब्रह्मणो निरवयवस्यापि जगत्कारणतायाः श्रुतिप्रतिपन्नतया नाऽसाङ्गत्यम्)

१६४. कृत्स्नप्रसिक्तिर्निरवयवत्वशब्दकोपो वा ॥ २–१–२६ ॥

(श्रुतिभिः ब्रह्मणि निरवयवत्वरूपैकत्वप्रतिपादनम्)

सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इदं वा अग्रे नैव किञ्चनासीत् (तै.यजु.२.अष्ट.२.५) आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) इत्यादिषु कारणावस्थायां ब्रह्मैकमेव निरवयवमासीदिति  कारणावस्थायां निरस्तचिदचिद्विभागतया निरवयवं ब्रह्मैवासीदित्युक्तम्; तदविभागमेकं निरवयमेव ब्रह्म बहु स्याम् (छां.६२.३) इति सङ्कल्प्य आकाशवाय्वादिविभागं ब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञविभागं चाभवदिति चोक्तम् ॥

(कृत्स्नैकदेशविकल्पतः, ब्रह्मणो जगत्कारणत्वानुपपत्तिशङ्का)

एवं सति तदेव परं ब्रह्म कृत्स्नं कार्यत्वेनोपयुक्तमित्यभ्युपगन्तव्यम्। अथ चिदंश: क्षेत्रज्ञविभागविभक्त:; अचिदंशश्चाकाशादिविभागविभक्त: इत्युच्यते, तदा सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् (छां.६.२.१) ब्रह्मैकमेव, आत्मैक एव इत्येवमादय: कारणभूतस्य ब्रह्मणो निरवयवत्ववादिनश्शब्दा: कुप्येयु: – बाधिता भवेयु:। यद्यपि  सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणम्, स्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यमित्यभ्युपगम्यते; तथापि शरीर्यंशस्यापि कार्यत्वाभ्युपगमादुक्तदोषो दुर्वार:। तस्य निरवयवस्य बहुभवनं च नोपपद्यते। कार्यत्वानुपयुक्तांशस्थितिश्च नोपपद्यते। तस्मादसमञ्जसमिवाभाति। अतो ब्रह्मकारणत्वं नोपपद्यते ॥२६॥

(श्रुत्यैकगम्यस्यार्थस्य तर्केणाप्रधृष्यता)

इत्याक्षिप्ते समाधत्ते –

१६५. श्रुतेस्तु शब्दमूलत्वात् ॥ २–१–२७ ॥

तु शब्द उक्तदोषं व्यावर्तयति। नैवमसामञ्जस्यम्; कुत:? श्रुते: श्रुतिस्तावन्निरवयवत्वं ब्रह्मणस्ततो विचित्रसर्गं चाह। श्रौतेऽर्थे यथाश्रुति प्रतिपत्तव्यमित्यर्थ:। ननु च श्रुतिरपि अग्निना सिञ्चेदितिवत्परस्परान्वयायोग्यमर्थं प्रतिपादयितुं न समर्था; अत आह – शब्दमूलत्वादिति। शब्दैकप्रमाणकत्वेन सकलेतरवस्तुविसजातीयत्वादस्यार्थस्य विचित्रशक्तियोगो न विरुद्ध्यत इति न सामान्यतो दृष्टं साधनं, दूषणं वा अर्हाति ब्रह्म॥२७॥

१६६. आत्मनि चैवं विचित्राश्च हि ॥ २–१–२८ ॥

(सामान्यतः अन्यत्र दृष्टस्य अन्यत्र तद्विसजातीये अनारोपणीयता)

किञ्च – एवं वस्त्वन्तरसंबन्धिनो धर्मस्य वस्त्वन्तरे चारोपणे सति, अचेतने घटादौ दृष्टा धर्मास्तद्विसजातीये चेतने नित्ये आत्मन्यपि प्रसज्यन्ते। तदप्रसक्तिश्च भावस्वभाववैचित्र्यात् इत्याह – विचित्राश्च हि इति; यथा अग्निजलादीनामन्योन्यविसजातीयानामौष्ण्यादिशक्तयश्च विसजातीया दृश्यन्ते; तद्वल्लोकदृष्टविसजातीये परे ब्रह्मणि तत्रतत्रादृष्टास्सहस्रश: शक्तयः सन्तीति न किञ्चिदनुपपन्नम्  ॥

(उक्तेऽर्थे पुराणाम्नायवचनोपष्टम्भः)

यथोक्तं भगवता पराशरेण – निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मन:। कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ (वि.पु.अं.१.३.१) इति सामान्यदृष्ट्या परिचोद्य शक्तयस्सर्वभावानां अचिन्त्यज्ञानगोचरा:। यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तय: ॥  भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता (वि.पु.२.३) इति। श्रुतिश्च किं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षु:। मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन्। ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षु:। मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भुवनानि धारयन् (यजु.२.अष्ट.२.७.) इति। सामान्यतो दृष्टं चोद्यं सर्ववस्तुविलक्षणे परे ब्रह्मणि नावतरतीत्यर्थ:॥ २८॥

(प्रधानादिकारणवादेऽपि निर्वाहदौस्स्थ्यम्)

इतश्च

१६७. स्वपक्षदोषाच्च ॥ २–१–२९ ॥

स्वपक्षे – प्रधानादिकारणवादे, लौकिकवस्तुविसजातीयत्वाभावेन प्रधानादे: लोकदृष्टा दोषास्तत्र भवेयुरिति सकलेतरविलक्षणं ब्रह्मैव कारणमभ्युपगन्तव्यम् । प्रधानं च निरवयवम्; तस्य निरवयवस्य कथमिव महदादिविचित्रजगदारम्भ उपपद्यते । सत्त्वं रजस्तम इति तस्यावयवा विद्यन्त इति चेत् – तत्रेदं विवेचनीयम्, किं सत्त्वरजस्तमसां समूह: प्रधानम्, उत सत्त्वरजस्तमोभिरारब्धं प्रधानम्;, अनन्तरे कल्पे प्रधानं कारणमिति स्वाभ्युपगमविरोध:। स्वाभ्युपेतसङ्ख्याविरोधश्च। तेषामपि निरवयवानां कार्यारम्भविरोधश्च। समूहपक्षे च तेषां निरवयवत्वेन प्रदेशभेदमनपेक्ष्य संयुज्यमानानां न स्थूलद्रव्यारम्भकत्वसिद्धि:। परमाणुकारणवादेऽपि तथैव अणवो निरंशा: निष्प्रदेशा: प्रदेशभेदमनपेक्ष्य परस्परं संयुज्यमाना अपि न स्थूलकार्यारम्भाय प्रभवेयु:॥ २९ ॥

(परमात्मनः स्वेतरसमस्तवैजात्येन सर्वशक्तिमत्वेन च श्रुतितः सिद्धिः)

१६८. सर्वोपेता च तद्दर्शनात् ॥ २–१–३० ॥

सकलेतरवस्तुविसजातीया परा देवता सर्वशक्त्युपेता च। तथैव परां देवतां दर्शयन्ति हि श्रुतय:- पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.७) तथा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास: (छा.८.१.५) इति सकलेतर-विसजातीयतां परस्या देवताया: प्रतिपाद्य सत्यकामस्सत्यसङ्कल्प: (छा.८.१.५) इति सर्वशक्तियोगं प्रतिपादयन्ति। तथा मनोमय: प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरस: सर्वमिदमभ्यात्तोऽवाक्यनारदर: (छा.३.१४.२) इति च॥ ३०॥

(देहेन्द्रियादिविरहिणोऽपि ब्रह्मणः श्रुतिसिद्धकारणत्वाविरोधः)

१६९. विकरणत्वान्नेति चेत्तदुक्तम्।२–१–३१॥

यद्यप्येकमेव ब्रह्म सकलेतरिवलक्षणं सर्वशक्ति; तथापि न तस्य कार्यं करणं च विद्यते (श्वे.६-८) इति करणविरहिणस्तस्य न कार्यारम्भस्सम्भवतीति चेत् – तत्रोत्तरं – शब्दमूलत्वात्, विचत्राश्च हि इत्युक्तम्। शब्दैकप्रमाणं सकलेतरिवलक्षणं तत्तत्करणविरहेणापि तत्तकार्यसमर्थमित्यर्थ:। तथाच श्रुति: – पश्यत्यचक्षुस्स शृणोत्यकर्ण: अपाणिपादो जवनो ग्रहीता (श्वे.३-१६) इत्येवमाद्या॥३१॥

इति श्रीशारीरकमीमांसाभाष्ये कृत्स्नप्रसक्त्यधिकरणम्॥ ९॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.