श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुश्चत्वारिंशः सर्गः
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ।
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ।। 3.44.1 ।।
अजानन्निव यो मायामृगं कार्यान्तरैकदृक् । अनुसृत्य जघानाशु तं लीलामानुषं भजे ।। अथ मारीचवधः तथा त्वित्यादिना । त्सरुः खड्गमुष्टिः । “त्सरुः खङ्गादिमुष्टिः स्यात्” इत्यमरः ।। 3.44.1 ।।
ततस्त्र्यवनतं चापमादायात्मविभूषणम् ।
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ।। 3.44.2 ।।
त्र्यवनतं त्रिषु स्थलेष्ववतम्, शार्ङ्गमित्यर्थः । आत्मविभूषणम् आत्मालङ्कारम् । कलापौ द्वौ द्वौ तूणीरौ “कलापो भूषणे बर्हे तूणीरे संहते ऽपि च” इत्यमरः ।। 3.44.2 ।।
तं व़ञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै ।
बभूवान्तर्हितस्त्रासात्पुनः सन्दर्शने ऽभवत् ।
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ।। 3.44.3 ।।
वञ्चयानः व़ञ्चयमानः । अनित्यो मुमागमः । सन्दर्शने दृष्टिविषये अभवत् स्थितः । बद्धेति । यतः यस्मिन् प्रदेशे मृगो वर्तते तत्र प्रदुद्राव ।। 3.44.3 ।।
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ।
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने ।। 3.44.4 ।।
अतिवृत्तमिषोः पाताल्लोभयानं कदाचन ।
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे ।। 3.44.5 ।।
दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ।
छिन्नाभ्रौरिव संवीतं शारदं चन्द्रमण्डलम् ।। 3.44.6 ।।
तमित्यादिश्लोकत्रयमेकं वाक्यम् । रूपेण कान्त्या । अग्रे द्योतमानमिव स्थितम् इषोः पातात् अतिवृत्तम् अतिक्रान्तं शङ्कितमिवेत्यन्वयः । धनुष्पाणिं दृष्ट्वा शङ्कितमिवेत्यनेन धनुष्पाणिदर्शनादन्यमृगाणामिवास्य शोको न भवतीतीवशब्दः प्रयुज्यते । यद्वा रामाद्भयं शङ्कमानं सन्तम् उत्पतन्तमिव स्थितं वस्तुतस्तत्राप्यदर्शनादिति भावः । लोभयानं हस्तप्राप्तमिव दृश्यमानमित्यर्थः । दृश्यमानमिति केषुचिद्दृश्यमानं केषुचिददृश्यम् अत एव छिन्नाभ्रैः संवीतं व्याप्तं चन्द्रमण्डलमिव स्थितम् । शारदमिति मेघशकलसम्भावनार्थमुक्तम् ।। 3.44.46 ।।
मुहर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ।
दर्शनादर्शनादेवं सो ऽपाकर्षत राघवम् ।। 3.44.7 ।।
सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ।। 3.44.8 ।।
समीपे मुहूर्तात् मुरूर्तं ददृशे दूरात् दूरं मुहुः प्रकाशते अतः एवम् उक्तरीत्या दर्शनादर्शनात् दर्शनादर्शनाभ्यां सुदूरमपाकर्षत आकृष्टवान् ।। 3.44.7,8 ।।
आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ।
अथावतस्थे सम्भ्रान्तश्छायामाश्रित्य शाद्वले ।। 3.44.9 ।।
विवशः कुतूहलपरवशः । मोहितः वञ्चितः ।। 3.44.9 ।।
स तमुन्मादयामास मृगरूपो निशाचरः ।
मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ।। 3.44.10 ।।
ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत ।
तत्क्षणादेव सन्त्रासात्पुनरन्तर्हितो ऽभावत् ।। 3.44.11 ।।
उन्मादयामासेति । उन्मादश्चित्तविभ्रमः, बहुदूराकर्षणेन चित्तमोहं चकारेत्यर्थः ।। 3.44.10,11 ।।
पुनरेव ततो दूराद्वृक्षषण्डाद्विनिःसृतम् ।
दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ।
भूयस्तु शऱमुद्धृत्य कुपितस्तत्र राघवः ।। 3.44.12 ।।
भूयः अत्यर्थं कुपुतो ऽभूत् ।। 3.44.12 ।।
सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः ।
सन्धाय सुदृढे चापे विकृष्य बलवद्बली ।। 3.44.13 ।।
तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ।
मुमोच ज्वलितं दीप्तमस्त्रं बह्मविनिर्मितम् ।। 3.44.14 ।।
सूर्येत्यादिश्लोकद्वयमेकं वाक्यम् ।। 3.44.13,14 ।।
शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ।
मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ।। 3.44.15 ।।
प्रथमं मृगरूपस्य शरीरं विनिर्भिद्य ततः मारीचस्य हृदयं तदन्तर्वर्तिस्वशरीरं बिभेद ।। 3.44.15 ।।
तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः ।
विनदन् भैरवं नादं धरण्यामल्पजीवितः ।। 3.44.16 ।।
तालमात्रं तालप्रमाणम् । “प्रमाणे द्वयसच्” इत्यादिना प्रमाणे मात्रच् ।। 3.44.16 ।।
म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ।
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् ।
इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत् ।। 3.44.17 ।।
सीता केनोपायेन लक्ष्मणमिह प्रस्थापयेत् केनोपायेन रावणस्तां हरेदिति दध्यौ चिन्तयामास ।। 3.44.17 ।।
स प्राप्तकालमाज्ञाय चकार च ततः स्वरम् ।
सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ।। 3.44.18 ।।
तेन मर्मणि निर्विद्धः शरेणानुपमेन च ।
मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः ।। 3.44.19 ।।
चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ।। 3.44.20 ।।
ततो विचित्रकेयूरः सर्वाभरणभूषितः ।
हेममाली महादंष्ट्रो राक्षसो ऽभूच्छराहतः ।। 3.44.21 ।।
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ।
रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले ।
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ।। 3.44.22 ।।
स इति । प्राप्तकालं कालप्राप्तं कालोचितमर्थम् । आज्ञाय निश्चित्य ।। 3.44.1822 ।।
मारीचस्यैव मायैषा पूर्वोक्तं लक्ष्णेन तु ।
तत्तथा ह्यभवच्चाद्य मारीचो ऽयं मया हतः ।। 3.44.23 ।।
मारीचस्यैवेति । मायैषेत्यत्र इतिकरणं बोध्यम् ।। 3.44.23 ।।
हा सीते लक्ष्मणेत्येवमाक्रुश्य च महास्वनम् ।
ममार राक्षसः सो ऽयं श्रुत्वा सीता कथं भवेत् ।। 3.44.24 ।।
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ।
इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ।। 3.44.25 ।।
हा सीत इत्यादि । हृष्टतनूरुहः भयात्पुलकितः, अभूदिति शेषः ।। 3.44.24,25 ।।
तत्र रामं भयं तीव्रमाविवेश विषादजम् ।। 3.44.26 ।।
तत्रेति । विषादजं विषादोत्थम्, विषादो भविष्यतीत्युत्पन्नम् ।। 3.44.26 ।।
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ।
निहत्य पृषतं चान्यं मांसमादाय राघवः ।
त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ।। 3.44.27 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुश्चत्वारिंशः सर्गः ।। 44 ।।
राक्षसमित्यादि । हत्वा मरणानुकूलव्यापारं कृत्वा ततस्तदुक्तं स्वरं श्रुत्वा त्वरमाणो रामः जनस्थानं जनस्थानस्थस्वाश्रममुद्दिश्याभिमुखः सन् ससार ययौ । अत्र सार्धसप्तविंशतिश्लोकाः ।। 3.44.27 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ।। 44 ।।