श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चत्रिंशः सर्गः
रामेणागस्त्यंप्रति हनुमत्प्रशंसनपूर्वकं तस्यवाल्यपेक्षयाऽधिकवलत्वोत्या तेनसुग्रीव -प्रीत्यैवाल्यमारणे कारणप्रश्नः ॥ १ ॥ अगस्त्येन तदुपोद्धाततयारामंप्रति हनुमदुत्पत्यादिकथनो -पक्रमः ॥ २ ॥ भगवतावायुदेवेन सुमेरुगिरिचारिणः केसरिनाम्नोवानरराजस्यजायाया -मञ्जानायां हनुमतः समुत्पादनम् ।। ३ ।। जातमात्रेणहनुमता निजजनन्यांफलानयनायगतायां क्षुत्पीडासहिष्णुतयाउद्यद्दिवाकरेफलत्वबुद्ध्या तज्जिहीर्पयाजवाद्गगने समुत्पतनम् ॥ ४ ॥ तदन्तरेसूर्यग्रहणायतत्समीपोपसर्पिणाराहुणा स्वजिघृयायास्वाभिमुख्येनाधावतिसतिहनुमति इन्द्रंप्रति स्वरक्षणप्रार्थना ॥ ५ ॥ तदेन्द्रकरोत्सृष्टवज्राभिघातभग्नहनौहनुमति गिरौपततिसति क्रुद्धेनवायुना सकलप्राणिश्वासनिरोधनपूर्वकं हनुमदानयनेनगुहाप्रवेशः ॥ ६ ॥ तदादेवगन्धर्वादिप्रार्थितेनब्रह्मणा वाय्वनुनयायदेवादिभिः सह गुहायांवायुसमीपंप्रत्यागमनम् ॥ ७ ॥
अपृच्छत तदा रामो दक्षिणाशाश्रयं मुनिम् ।
प्राञ्जलिर्विनयोपेत इदमाह वचोर्थवत् ॥ १ ॥
अपृच्छतेत्यस्य विवरणं इदंवचनमिति ॥ १ ॥
अतुलं बलमेतद्वै वालिनो रावणस्य च ।
न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ २ ॥
एताभ्यामिति । एतयोरित्यर्थः । षष्ठ्यर्थे बहुलं छन्दसीति वक्तव्यं । इति षष्ठ्यर्थे चतुर्थी ॥ २ ॥
शौर्य दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।
विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।
समाश्वास्य महावाहुर्योजनानां शतं प्लुतः ॥ ४ ॥
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।
दृष्ट्वा संभाषिता चापि सीता ह्याश्वासिता तथा ।। ५ ।।
सेनाग्रगा मन्त्रिसुता: किंकरा रावणात्मजः ।
एते हनुमता तत्र ह्येकेन विनिपातिताः ।। ६ ।।
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् ।
लड्डा भस्सीकृता येन पावकेनेव मेदिनी ॥ ७ ॥
नयसाधनं नीतिकृत्यसंपादनं ॥ ३-७ ।।
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।
कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ८ ॥
कालस्य यमस्य ।। ८ ।।
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।
प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥
लङ्का प्राप्ता विभीषणाय देयत्वेन प्राप्तेत्यर्थः । लक्ष्मणः प्राप्त इति । ओषध्यानयनेनेति शेषः ॥ ९ ॥
हनुमान्यदि नो न स्याद्वानराधिपतेः सखा ।
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ।। १० ।।
हनूमान्यदि नो न स्यात् सहायत्वेनेति शेषः ॥ १० ॥
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया ।
तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥
वीरुध इत्यकारान्तो वृक्षवाची ॥ ११ ॥
न हि वेदितवान्मन्ये हनूमानात्मनो बलम् ।
यदृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ १२ ॥
बाल्यवधहेतुं स्वयं रामः ऊहति – न हीत्यादि ॥ १२ ॥
एतन्मे भगवन्सर्वं हनूमति महामतौ ।
विस्तरेण यथातत्त्वं कथयामरपूजित ॥ १३ ॥
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा ।
हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ १४ ॥
हनूमत्येतदिति हनूमद्विषये पृष्टमित्यर्थः ॥ १३-१४ ॥
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।
न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ १५ ॥
यद्रवीषि हे रघुश्रेष्ठ तदेतत्सत्यं । स आत्मनो बलं न हि वेदेत्यर्थः ।। १५ ।।
अमोघशापैः शापस्तु दत्तोस्य ऋषिभिः पुरा ।
न वेत्ता हि बलं येन बली सन्नरिमर्दनः ॥ १६ ॥
तदेव दर्शयति – अमोघेत्यादि ॥ १६ ॥
बाल्येप्येतेन यत्कर्म कृतं राम महाबल ।
तन्न वर्णयितुं शक्यमिति बालतयाऽस्यते ॥ १७ ॥
बालतया आस्यत इति । बालतया बालभावेन । अजानतैवेत्यर्थः ॥ १७ ॥
यदि वाऽस्ति ह्यभिप्रायस्तच्छ्रोतुं तव राघव ।
समाधाय मतिं राम निशामय वदाम्यहम् ॥ १८ ॥
निशामय शृणु ॥ १८ ॥
सूर्यदत्तवरस्वर्ण: सुमेरुर्नाम पर्वतः ।
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ १९ ॥
सूर्यदत्तवरस्वर्ण: सूर्यदत्तवरेण स्वर्णरूप: । सुमेरुः सुवर्णमेरुः ॥ १९ ।।
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ।
जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥
परिश्रुता प्रसिद्धा ॥ २० ॥
शालिशूकनिभाभासं प्रासूतामुं तदाऽञ्जना ।
फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ २१ ॥
शालिशूकसमाभासं शाल्यग्रवत्पिङ्गलाभासं । काञ्चनाद्रिकमनीयविग्रहमित्युक्तेः । प्रासूत प्रसूतवती ॥ २१ ॥
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।
रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ २२ ॥
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।
ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ २३ ॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।
ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ २४ ॥
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।
देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ।
यथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥
यदि तावच्छिशोरस्य स्वीदृशो गतिविक्रमः ।
यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ २७ ॥
तमनुप्लवते वायु: प्लवन्तं पुत्रमात्मनः ।
सूर्यदाहमयाद्रक्षंस्तुषारचयशीतलः ॥ २८ ॥
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् ।
पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥
शरवणे शिशुः स्कन्दः ॥ २२-२९ ॥
शिशुरेप स्वदोपज्ञ इति मत्वा दिनेश्वरः ।
कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ३० ॥
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।
तमेत्र दिवसं राहुर्जिंघृक्षति दिवाकरम् ॥ ३१ ॥
दोषज्ञ: विद्वान स न भवतीत्यदोषज्ञः । दोषज्ञौ वैद्यविद्वांसौ इत्यमरः ॥ ३०-३१ ॥
अनेन स परामृष्टो राम सूर्यरथोपरि ।
अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ३२ ॥
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।
अब्रवीद्भृकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।
किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ३४ ॥
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।
अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥
स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः ।
उत्पपातासनं हित्वा चोद्वन्काञ्चनीं स्रजम् ।। ३६ ।।
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।
शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ३७ ॥
इन्द्रः करीन्द्रमारुह्य राहु कृत्वा पुरस्सरम् ।
प्रायाद्यत्राभवत्सूर्य: सहानेन हनूमता ॥ ३८ ॥
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।
अनेन च स वै दृष्टः प्रधावन्शैलकूटवत् ॥ ३९ ॥
स राहुः । परामृष्टः स्पृष्टः ।। ३२-३९ ॥
ततः सूर्यं समुत्सृज्य राहु फलमवेक्ष्य च ।
उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ४० ॥
तत इति महाशैलकूटवत् बृहत्तरफलमवेक्ष्येत्यर्थः ॥ ४० ॥
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।
अवेक्ष्यैवं परावृत्य मुखशेषः पराङ्मुखः ॥ ४१ ॥
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।
इन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत ॥ ४२ ॥
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।
श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ।। ४३ ।।
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।
फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ४४ ॥
तथास्य धावतो रूपमैरावतजिघृक्षया ।
मुहूर्तमभवद्दोरमिन्द्राग्न्योरिव भास्वरम् ॥ ४५ ॥
मुखशेष इति राहुस्वरूपकथनं ॥ ४१-४५ ॥
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।
हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।
पतमानस्य चैतस्य वामो हनुरभज्यत ॥ ४७ ॥
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।
चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ४८ ॥
हस्तान्तात् हस्ताग्रात् । हस्तान्त इति समीप इत्यर्थः ॥ ४६-४८ ॥
प्रचारं स तु संगृह्य प्रजास्वन्तर्गतः प्रभुः ।
गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ४९ ॥
प्रचारं स्वीयं देहियात्राहेतुभूतं । गृह्य संक्षिप्य । अन्तर्गतः सर्वदेहान्तर्गतः ॥ ४९ ।।
विण्मुत्राशयमावृत्य प्रजानां परमार्तिकृत् ।
रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ५० ॥
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।
सन्धिनिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ५१ ॥
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।
वायुप्रकोपात्रैलोक्यं निरयस्थमिवाभवत् ॥ ५२ ॥
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।
प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ ५३ ॥
रुरोधेति । निरुद्धस्वगतिप्रचारमकरोत् । एवंविधार्थस्य देवानां शक्यत्वे दृष्टान्तः यथा वर्षाणीति ॥ ५०-५३ ।।
ऊचु: प्राञ्जलयो देवा महोदरनिभोदराः ।
त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ५४ ॥
त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः ।
सोस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५५ ॥
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।
तस्मात्त्वां शरणं प्राप्ता वायुनोपहता वयम् ।
[ वांयुसंरोधजं दुःखमिदं नो जुद दुःखहन् ॥ ५६ ॥ ]
महोदरनिभोदरा: आयुःस्तम्भान्महोदरव्याधिग्रस्तोदरवदुदरं येषांते तथा ॥ ५४-५६ ॥
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।
कारणादिति चोक्त्वाऽसौ प्रजाः पुनरभाषत ।। ५७ ॥
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ।
प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ ५८ ॥
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।
राहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥ ५९ ॥
अशरीरः शरीरेषु वायुश्चरति पालयन् ।
शरीरं हि विना वायुं समतां याति दारुभिः ।। ६० ॥
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।
वायुना संपरित्यक्तं न सुखं विन्दते जगत् ॥ ६१ ॥
अद्यैव च परित्यक्तं वायुना जगदायुषा ।
अद्यैव ते निरुच्छ्वासा: काष्ठकुड्योपमाः स्थिताः ।। ६२ ।।
कारणादिति चोक्त्वा किंचित्कारणमत्रास्तीत्युक्त्वा ॥ ५७-६२ ॥
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।
मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ।। ६३ ।।
रुक्प्रदः शलरोगप्रदः । गमिष्याम अप्रसाद्येति संधिरार्ष: ॥ ६३ ॥
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ।
जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥
तत्रास्यतीति । यत्र अस्यति तिष्ठतीति यावत् ॥ ६४ ॥
ततोर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।
चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ६५ ।।
सदागतेर्वायोः । गन्धर्वर्षियक्षेति गुरुलघुभेद आर्षः ॥ ६५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥