॥श्रीः॥
नयमयूखमालिका
।।अथ द्वितीयस्याध्यायस्य द्वितीय पादः।।
रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्र्व।।1।।
पयोऽम्बुवच्चेत्तत्रापि।।2।।
व्यतिरेकानवस्थितेश्र्वानपेक्षत्वात्।।3।।
अन्यत्राभावाच्च न तृणादिवत्।।4।।
पुरुषाश्मवदिति चेत्तथाऽपि।।5।।
अंगित्वानुपपत्तेश्च।।6।।
अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात्।।7।।
अभ्युऽपगमेऽप्यर्थाभावात्।।8।।
विप्रतिषेधाच्चासमंजसम्।।9।।
प्रथमाध्यायप्रतिपादिते ब्रह्मणो जगत्कारणत्वे प्रधानपरमाणुकारणवादिभिस्सांख्य वैशेषिकादिभिः केवलतर्कमवष्टभ्यापादितानि दूषणानीति प्रथमपादेन निराकृतानि। तत्रापि प्रणेतृगौरवेण तेषां तर्काणामुपादेयत्व शङ्कास्मृत्यधिकरणयोगाधिकरणाभ्यांनिराकृता। तत्तत्तर्कस्वरूपपर्यालोचनया तेषामुपादेयत्वशङ्का नविलक्षणत्वाधिकरणमारम्भ निराकृता। एवमाद्याधिकरणयोस्तृतीयादीनामष्टानामधिकरणानाञ्चावान्तरार्थभेदेऽपि ब्रह्मवादप्रतिक्षेपकतर्कनिराकरणार्थत्वेनैकार्थ्यं, अस्मिन्पादे शुष्कतर्कालम्बनास्सांख्यादिपक्षास्तथाभूतैरेव तर्कैर्दूष्यन्ते। अन्यथा प्रधानादिकारणत्वप्रतिष्ठापकानां परपक्षाणां तदर्काभासमूलत्वं जानतां मन्दधियां तेषु प्रामाणिकत्वशङ्कया ब्रह्मवादश्रद्धा शिथिलीभवेत्। एवं स्वपक्षस्थापनार्थः प्रथमपादः। परपक्षप्रतिक्षेपार्थोऽयं पादः। स्वपक्षस्थापनस्याभ्यर्हितत्वात् प्रथमं कृतमिति तदानन्तर्यमस्य। यद्यपि तृतीयचतुर्थपादयोरपि कार्यगोचरश्रुतिविरोधपरिहारेण स्वपक्षस्थापनं क्रियते, तथाऽपि कारणविषयत्वेन प्रथमद्वितीयपादयोरैकार्थ्येन अवान्तरसङ्गतिः। तत्र वैदिकानुमतसत्कार्यवादाद्यभ्युपगमेन सांख्यमतस्योपादेयत्वसम्भावनास्पदत्वातिरेकात् प्रथमं तन्निराकरणं क्रियते। सांख्याः स्वतन्त्रतर्कैः स्वमतं प्रसाध्य स्वमतानुगुण्येन श्रुतिवाक्यानां नयनं कुर्वन्ति। तैः कृतनयनमीक्षत्याद्याधिकरणेषु निराकृतम्। इदानीं तदीयास्स्वतन्त्रतर्का निराक्रियन्त इति न पौनरुक्त्यम्। एषा सांख्यानां प्रक्रिया “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः”। तत्र मूलप्रकृतिः सत्वरजस्तमोगुणरूपाणां द्रव्याणां साम्यावस्था। साचैका स्वयमचेतना सकलचेतनभोगापवर्गार्था नित्या सर्वगता च स्वयं प्रकृतिरेव न कस्यचिद्विकृतिः। महदाद्याः प्रकृतेर्महान् महतोऽहङ्कारः अहङ्कारात् पञ्च तन्मात्राणि शब्दस्पर्शरूपरसगन्धात्मकानीत्येतास्सप्त स्वस्वकार्यापेक्षया प्रकृतयः स्वस्वकारणापेक्षया विकृतयश्च। आकाशादीनि पञ्च महाभूतानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि वागादीनि पञ्च कर्मेन्द्रियाणीति षोडशको गुणो विकृतिरेव नकस्यचित्तत्वान्तरस्य प्रकृतिः पुरुषस्त्वपरिणामित्वान्नकस्यचित्प्रकृतिः। नित्यत्वान्नकस्यचिद्विकृतिः। निर्धर्मकश्चैतन्यमात्रवपुः सर्वगतः प्रतिशरीरं भिन्नश्च। निर्विकारत्वान्नकर्ता, नापि भोक्ता। एवंभूतेऽपि तत्वे मूढाः प्रकृतिपुरुषसन्निधिमात्रेण पुरुषस्य चैतन्यं प्रकृतावध्यस्यन्ति। तेन चैतन्ययोगात् कर्तृशक्तिमत्त्वाच्च ज्ञातृत्वम्। प्रकृतेरेवान्तः करणरूपापन्नायाः तस्याश्च कर्तृत्वं पुरुषेऽध्यस्यन्ति। एवमन्योन्याध्यासादहंकर्ता अहंभोक्तेत्यभिमानात्मकोभोगस्तत्वज्ञानादपवर्गइत्येवं पञ्चविंशतिस्तत्वानीति। तत्र सकलमूलकारणत्वाभिमतत्वज्ञानादपवर्गइत्येवं पञ्चविंशतिस्तत्वानीति। तत्र सकलमूलकारणत्वाभिमतस्वतन्त्रप्रधानानुमाननिरसनेन तन्मतं सर्वं निरस्तं भवतीति तदिह निरस्यते। इदमिह तेषामनुमानं- सर्वं कार्यं सुखदुःखमोहात्मकद्रव्यप्रकृतिकं, तत्समन्वितत्वात्। सामान्यव्याप्तौ घटादिवदिति। आद्यानुमाने सुखदुःखमोहात्मकानि द्रव्याणि कार्याणां कारणत्वेन सिध्यंति सत्वरजस्तमांस्येव पर्यवस्यंति, तेषान्तथात्वात्। उक्तंतत्वसंग्रहे- “प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्था”इति। अयमर्थः- सत्वरजस्तमोगुणाः प्रीत्यप्रीतिविषादात्मकाः क्रमात्सुखदुःखमोहात्मकाः क्रमादेव प्रकाशप्रवृत्तिनियमप्रयोजनाश्च। स्वच्छं सत्वं प्रकाशयति, रजोगुणः प्रकाशकार्ये सत्वं प्रवर्तयति, लघोस्सत्वगुणस्य चलनस्वभावेन रजसा सर्वत्र प्रवर्तने प्रसक्ते यथाकार्यं गुरुस्तमोगुणो नियच्छतीति। नचाद्यहेतोरसिद्धिः। कार्याणां सुखदुःखमोहान्वितत्वस्य लोकसिद्धत्वात्। तथाहि- घटो येन प्राप्यते तं प्रति सत्वगुणोद्भवात् घटस्सुखात्मकोभवति। यदीयस्सोन्येनापह्रियते तं प्रति रजोगुणोद्भवात् दुःखात्मकोभवति। यस्य तस्मिन्नुपेक्षया दर्शनमेव नोदेति तं प्रति तमोगुणोद्भवात् मोहात्मकोभवति। “मुहवैचित्त्य”इतिधातुः। नच गुणानां पुरुषभेदव्यवस्थयोद्भवे विनिगमनाविरहः। तत्तत्पुरुषभोगरूपप्रयोजनवशादुद्भवासिद्धेः। तद्यथा- सत्वं रजस्तमसी कञ्चित्प्रति कदाचिदभिभूय शान्तां स्ववृतिं्त लभते, एवं रजस्सत्वतमसी अभिभूय घोरां स्ववृतिं्त, तमः सत्वरजसीआभिभूय मूढां स्ववृत्तिमिति। नच द्वितीयानुमानस्य परमाण्वादिकारणकत्वेनार्थान्तरं, लाघवादेककारणकत्वसिद्धेः। नच तथापि ब्रह्मप्रकृतिकत्वेनार्थान्तरं जडं सुखदुःखमोहात्मकं कार्यजातं प्रत्यतथाभूतस्य कारणत्वेन सिध्यनवकाशादिति। एवंरूपस्य सांख्यानुमानस्य दुषणानुमानमुच्यते। प्रधानं न जगद्रचनायां समर्थम्। अचेतनत्वे सति चेतनानधिष्ठितत्वात्। यदेवं तदेवम्। यथा चेतनानधिष्ठितं मृद्दार्वादिकम्। न च व्याप्त्यसिद्धिः, चेतनानधिष्ठितस्य कार्यारम्भकत्वानुपपत्तेः, चेतनाधिष्ठितस्यैव कार्यारम्भप्रवृत्तेस्सर्वत्र दर्शनाच्च। ननु सिद्धान्ते पक्षासिद्धिः। नच “प्रधानक्षेत्रज्ञपतिर्गुणेश” इति श्रुतिसिद्धं प्रधानं सिद्धान्तेऽप्यस्तीति वाच्यम्। तस्यानुमानगम्यत्वाभावेन कर्मव्युत्पन्न सूत्रानुमानपदनिर्देश्यत्वायोगात्। साध्यस्य च बाधः, प्रधानस्य सिद्धान्तेऽपि जगद्रचनासामर्थ्याभ्युपगमात्। हेतोश्चासिद्धिः, तस्य सिद्धान्ते चेतनाधिष्ठानसत्त्वादिति चेत्- सत्यं। परप्रक्रियया परो दूषणीय इति परसिद्धं पक्षादिकं परिगृह्य इदमनुमानमुकत्म्। यद्वा परानुमानस्य प्रतिकूलतर्करूपं दूषणानुमानमुक्तम्। यदि प्रधानं अचेतनत्वेसति चेतनानधिष्ठितं स्यात्, जगद्रचनायामसमर्थं स्यात्। अथवा हेतोर्विशेष्यांशस्य साध्ये प्रतियोगिविशेषणतयाऽन्वयः, ततश्च प्रधानं न चेतनानधिष्ठितं कार्यजनकं, अचेतनत्वात् घटगृहादिजनकमृद्दार्वादिवचदित्यनुमानशरीरम्। नचानुमानिक प्रधानानभ्युपगमादाश्रयसिद्धिः। महदादिकं सप्रकृतिकं कार्यत्वाद्घवटदित्यनुमानस्य विरोधाभावेन सिद्धान्तेऽभ्युपगन्तुं शक्यत्वात्, साध्ये स्वातंत्र्याप्रवेशात्, तस्येश्वरपारतंत्र्यमात्रे श्रुत्यपेक्षणात्। ननु अचेतनस्य चेतनाधिष्ठितस्यैव प्रवृत्तिरिति न नियमः, वृत्सवृध्यर्थं धेनुगतस्य क्षीरस्य स्वयमेव प्रस्रवदर्शनात्। सस्यवृध्यर्थं वारिदमुक्तस्य जलस्य स्वयमेव निस्सरणदर्शनात्। एवं पुरुषस्य भोगापवर्गार्थं चेतनानधिष्ठितस्यापि प्रधानस्य प्रवृत्तिसम्भवादिति चेन्न। क्षीरजलयोरप्यचेतनत्वाच्चेतनाधिष्ठानाभावे प्रवृत्त्यसम्भवतौल्येन पक्ष इव पक्षतौल्येऽपि व्यभिचाराभावात्। एतेन धेन्वाद्युपयुक्ततृणादेः क्षीरादिभावापत्तिरपि व्याख्याता। तत्रापि चेतनाधिष्ठानावश्यम्भावेन पक्षतौल्यात्। अन्यथा चेतनविशेषसङ्कल्पस्य नियामकस्याभावे अनडुहाद्युपयुक्तस्यापि तृणादेः क्षीरादिभावप्रसङ्गात्। न च धैनवजाढराग्निसंयोगे कश्चित्पाके विशेषः। अग्निसंयोगमात्रस्य पाकहेतुत्वात्, तस्य अनडुहादिजठरसंयोगेऽप्यविशेषात्। पाचकसङ्कल्पविशेषात् पाकविशेषस्तु लोके दृष्टः। ननु अप्रयोजकमिदं चेतनाधिष्ठानानुमानं, यथा प्रवृत्तिशक्तियुक्तोऽन्धः दृक्छक्तियुक्तपंगुसन्निधानात्प्रवर्तते, यथा च अयस्कान्मणिसन्निधानादयः प्रवर्तते, तथा चैतन्यवपुषः पुरुषस्य सन्निधानात् प्रधानस्य प्रवृत्त्युपपत्तेरिति चेत्, एवं दृष्टान्तोपादानेऽपि प्रधानस्य प्रवृत्त्यसम्भवरूपदोषस्तदवस्थः। अस्ति हे पंगोर्गमनशक्तिविकलस्य अंधेनोह्यमानस्य स्वयं मार्गदर्शनं, वोढारमन्धं प्रति तदुपदेश इति च व्यापारः। पुरुषस्य तु निष्क्रियस्य न तादृशः कश्चिद्व्यापारः। अयः प्रवृत्तावपि चेतनाधिष्ठानावश्यम्भावान्नव्यभिचारोऽपि। तस्मान्निर्दोषं दूषणानुमानम्। सांख्यानुमानमेव च प्रतिकूलतर्कपराहतम्। पुरुषसन्निधानमात्रेण प्रधानस्य परिणामित्वे सर्गव्यतिरेकः प्रलयः कदाऽपि न स्यात्, नित्यस्य पुरुषसन्निधानस्य सर्वदाऽप्यविशिष्टत्वादिति। तस्मादधिष्ठातुरीश्वरस्यैव सङ्कल्पविशेषास्सर्गप्रळयनियामका इत्युभ्युपेयम्। न च धर्माधर्मावेव तन्नियामकौ स्यातामिति वाच्यम्। धर्माधर्मयोः पुरमपुरुषाराधनतद्विपर्ययरूपतयैव सकलश्रुतिप्रसिद्धयोस्तदनभ्युपगतावात्मलाभाभावात्। यदि च गुणानां कदाचित्साम्येनावस्थानमभ्युपेत्य तदा गुणानामुत्कर्षानिबन्धनाङागाङ्गिभावाभावात् तन्निमित्ता जगत्प्रसूतिर्नीस्तीति प्रळयावस्थायां साम्येनावस्थितानां गुणानां क्षोभकपुरुषव्यापारभावेन स्वयमेव वैषम्यावस्थां प्राप्तुमक्षमाणामङ्गाङ्गिभावानुपपत्तेः कदाचिदपि जगत्सर्गो न स्यात्। यदि सुखदुःखमोहात्मकवैषम्यावस्थं जगत् दृष्ट्वा यथाकार्यं वैषम्यावस्थापन्नमेव त्रिगुणमनुमीयते, तदा धर्मिग्राहकमानसिद्धाया वैषम्यावस्थायास्सदावृत्तेस्सदासर्ग एव स्यात्। यद्युच्येत त्रिगुणं न वैषम्यावस्थं नापि साम्यावस्थमनुमीयते, येन सदा सर्गः प्रलयो वा स्यात्। किं तु अनादिसृष्टिप्रलयप्रवाहमूलद्विविधसंस्कारानुवृत्तिसद्भावात्तत्तत्संस्कारोद्बोधानसारतः साम्यवैषम्यभागुभयस्वभावमनुमीयत इति। नैतदपि युक्तम्। अन्धस्य मार्गोपदेशकपुंगुसन्निधानात् मार्गज्ञातृत्ववत् प्रधानस्य निर्व्यापारपुरुषसन्निधानात् चिच्छायापत्त्या ज्ञातृत्वासम्भवस्य उक्तत्वात्, तदसम्भवेचाचेतनस्य चेतनाधिष्ठानं बिना प्रवृत्त्ययोगात्। किं च प्रधानाभ्युपगमे यदि प्रयोजनं किंचित्स्यात् तदा यताकथंचिदभ्युपगच्छेम। न किमपि प्रयोजनमस्ति। पुरुषस्य भोगापवर्गौ हि प्रयोजनमितीष्यते। भोगश्च सुखदुःखानुभवरूपः प्रधानपरिणामरूपाया बुद्धेर्धर्मः। पुरुषस्य तु बुद्धिच्छायापत्त्या तदैक्यमिवापन्नस्य तद्दर्शनं भोगः। तेन तस्य वेवेकाग्रहात् आध्यासिकं भोक्तृत्वं, भोक्तृत्वाध्यासस्य तद्विवेकख्यात्या निवृत्तिर्मोक्ष इति सांख्यैरिष्यते। न च निर्विकारचैतन्यमात्रवपुषः पुरुषस्य सविकारबुध्यैक्याभिमानः तदीयभोगदर्शनं तद्विवेकानुन्धानं वा सम्भवति। ननु सांख्यैरेव बुध्यादिष्वचेतनेष्वसम्भाविताभ्यां भोक्तृत्वमोक्षोपायश्रवणादिप्रवृत्तिभ्यां बुध्याद्यतिरिक्तो भोक्ता श्रवणादिप्रवृत्तिमांश्च पुरुषस्साधितः “पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्ते”श्चेति। प्रकृतेः पुरुषभोगार्थत्वं च तत्स्वरूपदर्शने सति तदैव पुरुषस्यापवर्गश्चेत्येतदुभयमपि बहुधा प्रपञ्चितम्। “नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः। गुणवत्यगुणस्य सतः तस्यार्थमपार्थकं चरति।। रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात्। पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः।। प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। या दृष्टास्तीति पुनर्नदर्शनमुपैति पुरुषस्ये”ति।। तस्मादस्त्येव तन्मते पुरुषस्य प्रकृतिभोक्तृत्वं तद्याथार्थ्यदर्शनार्थश्रवणादिकर्तृत्वंच। अतः कथं तन्मते प्रयोजनासंभवइति चेत् तर्हि परस्परविरुद्धार्थकथनादेव तन्मतमसमंजसं। तत्वसंग्रह बध्यते मुच्यते च नानाश्रया प्रकृति”रित्यादिभिः प्रकृतेरेव बंधमोक्षाविति प्रपंचितं। किञ्च जगतः कारणं सिध्यत् लाघवादेकमेव प्रकृतिरूपं सिध्यतीति वदद्भिरेव गुणत्रयसंघातएव प्रकृतिः नतु तद्व्यतिरिक्ता प्रकृतिर्नामास्तीत्यभ्युपगतं, ततोपि तन्मतं विप्रतिषिद्धं। पंचविंशतिस्तत्वानीत्युक्त्वैव गुणाः परस्परभिन्नाइत्यप्युक्तं, तदपि विप्रतिषिद्धं। गुणभेदे हि सप्तविंशतिस्तत्वानि स्युः। अर्थविप्रतिषिद्धंचेदं दर्शितं। न हि पटलाभादिमतां सुखदुःखमोहाभवन्तीति विषयाणामपि सुखदुःखमोहान्वयकल्पनं युक्तं। रजतभुजगादिदर्शिनामिच्छाद्वेषाद्युदयेन विषयाणामपि तद्वत्त्वकल्पनापत्तेः। विषयाणां सुखदुःखाद्यन्वयेन च तत्कारणं कुतस्सुखदुःखमोहात्कं सिध्यति। न खलु शौक्ल्यगोत्वादिकं विषयान्वितं द्रव्यं घटान्वितमृन्न्यायेन कारणं भवतीति चेन्न। सत्वरजस्तमसां द्रव्यत्वासिद्धेः। पृथिव्यादिद्रव्यगतलघुत्वप्रकाशादिहेतवस्तद्गुणा एव हि सत्वादयः। अतएव गुणा इत्येव तेषां प्रसिद्धिः। तस्मात्परस्परविप्रतिषेधार्थविप्रतिषेधाभ्यामप्यसमञ्जसं सांख्यमतम्।।
इति रचनानुपपत्त्यधिकरणम्।।
महद्दीर्घवद्वा ह्रस्वपरिमंडलाभ्याम्।।10।।
उभयथाऽपि न कर्मातस्तदभावः।।11।।
समवायाभ्युपगमाच्च साम्यादनवस्थितेः।।12।।
नित्यमेव च भावात्।।13।।
रूपादिमत्त्वाच्च विपर्ययो दर्शनात्।।14।।
उभयथा च दोषात्।।15।।
अपरिग्रहाच्चात्यन्तमनपेक्षा।।16।।
आनुमानिकप्रधानकारणवादवत् आनुमानिकपरमाणुकारणवादोऽपि न युक्त इति समर्थितइति दृष्टान्तसङ्गतिः। ईश्वरानङ्गीकारात् चेतनाधिष्ठानाभावेन प्रधानकारणवादे रचनानुपपत्तिवत् न परमाणुकारणवादे साऽस्ति। वैशेषिकैरीश्वरस्याङ्गीकृतत्वात्। अतएव प्रलयानुपपत्तिदोषोऽपि नास्ति। सृष्टिप्रापकप्राणिकर्मविशेषोपहितत्वेन सिसृक्षारूपाया ईश्वरेच्छायास्तदानीमभावस्य वक्तुं शक्य्त्वादिति प्रत्युदाहरणसंगतिश्च।। इयमिह परमाणुवादिनां प्रक्रिया। प्रलीने जगति प्राणिकर्मोन्मेषविशेषोपधानादीश्वरस्य इच्छायां सिसृक्षारूपायां सत्यां निश्चलेषु निरवयवेषु परमाणुषु आद्यं कर्मोत्पद्यते। तेन कर्मणा परमाणुद्वयं संयुज्यते। संयुक्तेन परमाणुद्वयेन द्व्यणुकमारभ्यते। त्रिभिद्र्व्यणुकैस्त्र्यणुकमित्यादिक्रमेण सर्वं जगदुत्पद्यत इति। तत्र परमाणूनां निरवयवत्वं तावदयुक्तम्। यथांगुलिद्वयं प्रत्येकं दशदिक्सम्बन्धिदशप्रदेशावच्छिन्नं परस्परं संश्लेप्यमाणमेकया महादिशा विदिग्द्वयेन चावच्छिन्नैः प्रत्येकं त्रिभिस्त्रिभिः प्रदेशैः संश्लिष्यत इत्येवं षड्भिः पार्श्वैस्संयुज्यते, एवं पटारम्भकास्तन्तवस्संश्लेष्यमाणाप्षड्भिः पार्श्वैस्संयुज्यमानाः प्रत्येकमसंयुक्तसप्तपार्श्वयुक्तास्सन्तः स्वाधिकपरिमाणं पटमारभन्त इति दृष्टम्। एवं परमाणवोऽपि षड्भिः पार्श्वैस्संयुज्यमाना एव पारिमंडल्याख्यस्वपरिमाणाधिकपरिमाणमणुत्वह्रस्वस्य द्व्यणुकस्य द्व्यणुकान्महतो दीर्घस्य त्र्यणुकस्य च पृथिमानुपपत्तेः। नच वाच्यं माभूत्परमाः णुतः प्रथिमा द्व्यणुकस्य, द्व्यणुकात् त्र्यणुकस्य तु प्रथिमा कारणबहुत्वाद्भविष्यतीति चेन्न। तथासति परमाणोः पारिमाण्डल्यं परिमाणं द्व्यणुकस्याणुत्वह्रस्वत्वे इति विभागाभावप्रसङ्गात्। परमाणुद्वयसंयोगस्य व्याप्यवृत्तित्वे द्व्यणुकस्यापि परिमण्डलत्वापत्तेः, द्व्यणुकोत्पादकं परमाण्वोस्संयोगमभ्युपगच्छतः तेनैव तयोः प्रदेशसिद्धेश्च। न हि परमाणू संयुज्यमानौ द्वावपि समानदेशौ संतौ तयोः प्रदेशसिद्धेश्च। न हि परमाणू संयुज्यमानौ द्वावपि समानदेशौ संतौ संयुज्येते। मूर्तानां समानदेशताविरोधात्। अतः प्राक्प्रत्यग्भावेन, दक्षिणोत्तरभावेन, उर्ध्वाधरभावेन वा, भिन्नदेशस्थितौ संयुज्येते इत्येव वक्तव्यम्। तथासति यद्देशस्थितः परमाणुः येन परमाण्वन्तरेण संयुज्यते सतद्देशान्यदेशावच्छिन्नेनापि तेन किं संयोक्तुमर्हति, अनर्हत्वे वा कथं तस्मिन् प्रदेशभेदो न भवेदेति त्वमेवं परिभावय। ननु परमाणूनां निवयवत्वेऽपि तत्तद्दिगवच्छेदलभ्यः प्रदेशभेदो वक्तुं शक्य इति तत एव परमाणुद्वयसंयोगस्य प्रादेशिकत्वं द्व्यणुके परिमाणोत्कर्षश्च भुविष्यतीति चेन्न- दिग्विशेषसंयोगस्यापि परमाणावव्याप्यवृत्तित्वोपपादकांशाभावेन व्यप्यवृत्तित्वापत्त्या तस्य परमाण्वंतरसंयोगाव्याप्त्यवृत्तित्वोपपादकत्वायोगात्। न हि कपिसंयोगतदभावावच्छेदकवृक्षमूलाग्रवत् व्यवस्थितदेशावच्छेदकाभावेऽपि यथाकथंचिदवच्छेदकभेदसद्भावमात्रेण परमाणुद्वयसंयोगस्याव्याप्यवृत्तित्वं घटत इति वक्तुं शक्यं। सर्वादिक्संयोगानामपि व्याप्यवृत्तित्वाविशेषे किं दिक्संयोगः परमाण्वंतरसंयोगावच्छेदकइति अत्रैव नियामकाभावेन सर्वदिक्संयोगानामपि तदवच्छेदकत्वप्राप्तौ अवच्छेकभेदाभावात्, यथाकथंचिदवच्छेदकभेदलाभेऽपि व्यवस्थितदेशत्वाभावे तयोरव्याप्यवृत्तित्वानुपपादकत्वाच्च। अन्यथा पृथिव्यास्संख्यावत्त्वे द्रव्यत्वमवच्छेदकं गंधवत्त्वे प्रथिवीत्वमित्याद्यवच्छेदकभेदसत्त्वेन संख्यादीनामव्याप्यवृत्तित्वव्यवहारप्रसंगात्। तस्माद्व्यणुकोत्पादकसंयोगनिर्वाहार्थं परमाणुष्ववयवरूपप्रदेशभेदोऽवश्यमभ्युपेयः। तथा त्र्यणुकोत्पादकद्व्यणुकत्रयसंयोगनिर्वाहार्थमपि सोऽभ्युपेयः। स हि कायपुस्तकसंयोगोहस्तपुस्तकसंयोगेनेव द्व्यणुकस्य द्व्यणुकांतरारंभकपरमाणुना सह संयोगे निर्वाह्यः। कारणाकारणसंयोगात् कार्याकार्यसंयोग इति त्वयाऽभ्युपगतत्वात्। तथा च द्व्यणुकारभंकपरमाणौ तदारंभकपरमाण्वंतरसंयोगे प्राक्सिद्धे स्थिते प्रदेशभेदं विना कथं त्र्यणुकोत्पत्तिसमये द्व्यणुकांतरसंयोगोऽपि स्यात्, मूर्तानां समानदेशताविरोधादेव। यदितु मूर्तत्वेपि परमाणुषु समानदेशताविरोधमर्यादा नेष्यते, तदा षण्णां परमाणूनां पिंडरूपं त्र्यणुकं परमाणुमात्रं भवेत्। तदाहुः- “षट्केन युगपद्योगात् परमाणोष्षडंशता। षण्णां समानदेशत्वे पिंडस्स्यादणुमात्रक”इति। प्रागाद्यूर्ध्वाधारदेशवर्तिभिः षढ्भिः परमाणुभिः संबध्यमानोमध्यवस्थः परमाणुष्षडंशः प्राप्नोति। भिन्नदेशत्वात्संबन्धानां। अथ समानदेशास्सर्वे संबंधाः, तदा सर्वेषामेषां पिंडः परमाणुमात्रः प्राप्नोतीत्यर्थः। समानमिदं दूषणं द्व्यणुकेभ्यस्त्र्यणुकोत्पत्तावपि। तस्मात्द्व्यणुकत्र्यणुकादिजननतत्परिमाणातिशयसिध्यर्थं परमाणु षडं शत्वमनिच्छद्भिरपि परमाणुवादिभिरंगीकार्यः। ननु तदंगीकारे तत्तदंशानामपि उक्तन्यायेन सांशतायामनवस्था प्रसज्यते। तथाचानन्तावयवारब्धत्वाविशेषात् मेरुसर्षपयोस्तुल्यपरिमाणत्वप्रसंगः। अतस्सांशत्वमपि नांगीकारार्हमिति चेत्, तर्हि सांशत्वे त्वनवस्था निरंशत्वे द्व्यणुकोत्पत्त्याद्यनुपपत्तिरिति पक्षद्वेऽपि समापतद्दोषं परमाणुकारणवादव्यसनमेव त्यक्त्वासुखीभव। किं च परमाणूनां सांशत्वे नास्ति दोषः मेरुसिद्धार्थयोरनन्तावयवारब्धत्वेऽपि आनन्त्यविशेषात्परिमाणविशेषोपपत्तेः। न हि पाद्मकल्पात्पूर्वं वाराहकल्पात्परं पातालादूर्ध्वं रविमण्डलादधश्च अवच्छेद्यदेशानन्त्ययोर्द्रव्यत्वपृथिवीत्वादिपरापरजात्याधार व्यक्त्यानन्त्ययो र्मेरुमन्दरान्तर्गतपरमाण्वानन्त्ययोश्च न तारतम्यम्। यदि तु परमाणोस्सावयवतायामनित्यत्वापत्त्या स्वाभ्युपगतमूलकारणत्वासिद्धिप्रसंगात् सांशत्वं नेष्यते, तदा द्व्यणुकादिजननतत्प्रथिमानुपपत्तिरनिवार्या। तस्मादनवस्था। परमाण्वनित्यत्वद्व्यणुकादिजननतत्प्रथिमानुपपत्त्यान्यतरदूषणाक्रान्तः परमाणुकारणवाद एव हेयः। किं च प्रलये निश्चलेषु परमाणुषु सर्गाद्यकालद्व्यणुकारम्भकसंयोगोत्पादककर्मासम्भवेन तत्संयोगासम्भवादपि सहेयः। ननु “अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनं अणुमनसोश्चाद्यं कर्मेत्येतानि अदृष्टकारितानी”त्यभ्युपेयते। अतोऽदृष्टवशादुत्पन्नेन कर्मणा संयोगस्सम्भवतीति चेन्न। तददृष्टं यदि प्राणिषु समवेतं, यदि वा परमाणुषु, उभयथाऽपि तत्कर्म न भविष्यति। तस्य तत्कर्मकारणत्वे पूर्वकल्पोपार्जितस्य तस्य प्रलयेऽपि सत्त्वेन तदानीमपि ततस्तत्कर्मोत्पत्त्या जगत्कल्पनाप्रसंगात्। अथ “विपाकादृष्टं कर्म कारणं कर्मेश्वररूपोभयविधजगत्कारणसाफल्यप्रति पादनार्थस्येश्वरः कारणं पुरुषकर्मसाफल्यदर्शना”दित्याक्षपाद सूत्रजातस्य व्याख्यानावसरे वार्तिककृता “न ब्रूमः कर्मानपेक्ष ईश्वरः कारणमिति कर्म पुरुषस्य ईश्वरोऽनुगृह्णाति कोऽनुग्रहार्थः यद्यथाभूतं यस्य च यदा पाककालः तत्तदा तथा च विनियुक्त”मिति प्रतिपादनात् अतो नायं दोष इति चेन्न। हरीतक्यादिद्रव्यस्येव आत्मगुणस्यादृष्टस्य विपाकासम्भवात्। फलकालागमो विपाकः सतु सर्गाद्यकालागम एवेति चेन्न। अनन्तैः प्राणिभिरयुगपदनुष्ठितविधिधकर्मजनितादृष्टानां सर्गाद्यकालएव फलकालः, नतु ततः प्राग्द्विपरार्थात्मके प्रलये न कोपि क्षणइति कल्पनस्य अप्रामाणिकत्वात्। ननु सर्गकालरूपेऽहनि निरंतरगतागताखन्नानां प्रामिनां तत्समानपरिमाणं कालं शर्वरीरूपं कृत्वा तस्मिन् तान् महासुषुप्तिं प्रापय्य विशिश्रमयिषेरीश्वरस्य इच्छया प्रलयमध्ये समागतफलकालान्यपि कर्माणि प्रतिबद्धशक्तिकानि भवन्ति। अत एव ब्रह्महंतुस्तद्देहपातानन्तरं कल्पपर्यन्तं यातनानुभवः ततः परं सप्तसु जन्मसु क्षयरेगादितच्चिह्नानुवृत्तिरिति चोदितं फलं प्रलयाव्यवहितपूर्वकाले कृतब्रह्महननस्य पुंसः तद्देहपातानन्तरमेव न भवतीति चेन्न। त्वन्मते नित्यायाम् ईश्वरेच्छायाः प्रलयेपि सत्वात्। ममतु प्रलये प्राक्सिद्धानां प्राण्यदृष्टानामीश्वरस्येच्छांतराणांच सत्वेपि “बहुस्यां प्रजायेय, तासां त्रिवृतं त्रिवृतमेकैकां करवाणि, नामरूपे व्याकरवाणी”ति तदानीन्तनसृष्टिसंकल्परूपाणां भाविनीनामीश्वरेच्छानाभावात् सर्गाभावः। एवं तर्हि यस्मिन् काले तथा सङ्कल्परूपेश्वेरच्छा भवीति त्वयेष्यते, तत्कालोपहितैव नित्येश्वरेच्छा मम परमाणुकर्मोत्पिपादयिषा भविष्यतीति चेत् उच्यते- मया कश्चित् तादृक्संकल्पकालः स्वमनीषिकाकल्पितो न परिगृह्यते, किन्तु “सदेवसोम्येदमग्रआसी”दित्यादि श्रुतितदुपबृह्मणपुराणेतिहासादिप्रमाणक द्विपरार्धात्मकमहाशर्वर्यंतरकालः परिगृह्यते। न च तवेश्वरं तदीयसृष्ट्यादिव्यापारं च युक्तिभिरेव कल्पयितुमिच्छतः एतस्मिन् काले बहुभवनसंकल्पः ततोभूतानां क्रमेण सृष्टिः ततस्त्रिवृत्करणसंकल्पस्त्रिवृत्करणं च ततोनामरूपव्याकरणसंकल्पः तद्व्याकरणं चेत्यादिकं युक्तिपथत्वमवतरति। न हि रामचरितादिकं रामायणादिप्रतिपन्नं युक्तिभिः कल्पयितुं शक्यं। यद्यैश्वरे कालविशेषावच्छिन्नसृष्ट्यादिव्यापारे श्रुतिश्शरणीकरणीया, तदेश्वरेपि सैव शरणीकर्तुं युक्तेति यथाश्रुत्यनन्तकल्याणगुणाकरस्तदातदोदित्वरैस्सङ्कल्पविशेषैर्जगद्व्यापारलीलां कुर्वन्नेवेश्वरोऽभ्युपेयः, नतु श्रुतिषु स्वानभिमतांशं परित्यज्य नित्यज्ञानेच्छाप्रयत्नमात्रवान् स्वाभिमतसृष्टिव्यापारमात्रकर्ताऽभ्युपेयः। दूषितश्चानुमानिकेश्वरः शास्त्रयोनित्याधिकरणे। तेनापि तस्य परमाणुकर्मोत्पादनप्रक्रियया स्रष्टृत्वं त्वदभिमतं निरस्त्प्रायं। अतोऽप्रामाणिपरमाणुकारणवादाभ्युपगमादसमंजसं वैशेषिकमतं। तथा समवायाभ्युपगमादप्यसमंजसं। अयुतसिद्धेष्ववयविगुणक्रियाजातिषु अयुतसिध्युपपादनार्थं हि समवायोभ्युपगम्यते, तदा समवायस्यापि सम्बन्धातरमपेक्षणीयं। अयुतसिद्धिसाम्यात्। एवं तस्य तस्यापि सम्बन्धातरस्यायुतसिध्युपपादकं सम्बन्धातरमपेक्षणीयमित्यनवस्थानात्। समवयस्याभावादिवत् स्वरूपसम्बन्धइष्यत इति चेत्, अवयव्यादिष्वपि स एवास्तु। ननु अवयव्यागीनामनन्तत्वात् लाघवेन सर्वानुगतएकस्समवायः कल्प्यतइति चेन्न। एक्सय बहूनां च कल्प्यत्वे हि लाघवादेकस्य कल्पनं। इह बहूनां च कल्प्यत्वे हि लाघवादेकस्य कल्पनं। इह बहूनां क्लृप्तत्वात् किमर्थमेकस्यापि कल्पनं। ननु बहूनां क्लृप्तत्वेपि तेषु सम्बन्धत्वं कल्प्यं तत्तु नैकं कल्पयितुं शक्यं। अवयव्यादिस्वरूपानुगतैकसंन्बधत्वानिर्वचनात्। अतोनन्तसम्बधत्वकल्पनात् एकस्य समवायस्य तद्रतस्यैकस्य सम्बधत्वस्य च कल्पनं तत्तु नैकं कल्पयितुं शक्यं। अवयव्यादिस्वरूपानुगतैकसंबन्धत्वानिर्वचनात्। अतोनन्तसंबन्धत्वकल्पनात् एकस्य समवायस्य तद्रतस्यैकस्य सम्बधत्वस्य च कल्पनं लघ्विति चेन्न। अवयव्यादिषु तत्तदभावादिकं प्रति सम्बन्धत्वस्यापि क्लृप्तत्वात्, तेष्ववयवादिनिरूपितसम्बन्धत्वक्लृप्तिर्नास्तीति तान्यनंतानि कल्प्यानीतिचेन्न। निरूपकभेदेन सम्बन्धत्वभेदे समवायेपि तद्भेदेन तान्यनन्तानि कल्प्यानि समवायश्च कल्प्य इति समवायपक्ष एव गौरवापत्तेः। अवयवगुणक्रियाजातीस्तद्वतश्चायुतसिद्धत्वेन क्रोडीकृत्य अयुतसिद्धनिरूपितसम्बन्धत्वमेकमेव समवाये कल्प्यत इति चेन्न। एवं ताः क्रोडीकृत्य तेष्वेकसम्बन्धत्वकल्पनोपपत्तौ समवायकल्पन एव गौरवात्। किंच अवयवावयव्यादिषु समवायाभ्युपगमेऽपि स्वरूपसम्बन्धाभ्युपगमआवश्यकः। अन्यथा समवायविशेषेण अवयवावयव्यादिषु आधाराधेयव्यवस्थित्यभावप्रसंगात्। तस्मादवयवादिष्ववयव्यादीनिरूपितमाधारत्वरूपं स्वरूपसंबन्धत्वमेकं अवयव्यादिषु अवयवादिनिरूपितमाधेयत्वरूपं तदन्यदिति स्वरूपसम्बन्धद्वयेन विषयीभूतेन “इह तंतुषु पट” इत्यादिप्रत्ययोनिर्वाह्यः। समवायेन तन्निर्वहणे वायौ रूपसमवायसत्वेन वायौ रूपमिति प्रतीत्यापत्तेः। अतस्समवायस्थलेऽपि स्वरूपसम्बन्धस्यावश्यकत्वे तेनैवाधाराधेयभावप्रतीतेः निर्वहणीयत्वे च किं समवायेन। एतेन यदुक्तं काणादसूत्रे- “इहेति यतः कार्यकारणयोस्ससमवाय” इति तन्निरस्तं। इहप्रत्ययस्य सर्वत्राधाराधेयभावरूपस्वरूपसम्बन्धद्वयविषयत्वावश्यंभावेन तेनैव विशिष्टप्रत्ययचारितार्थ्यात्। स्यादेतत् इह सूत्रे वर्णितप्रत्ययनिर्वाहकत्वेन समवायसिद्धिरुक्तेति सत्यं- नतु तन्निर्वाहकत्वं विषयतया विवक्षितं। तन्मते समवायस्याप्रतयक्षत्वात्। किन्तु कारणतया अवयवक्रियादिविशिष्टबुद्धीनामनुगतं किञ्चित्कारणं यत्सिध्यति ससमवायइति। मैवं- अवयवादिविशिष्टबुद्धीनां स्वयमननुगतत्वेनानुगतकारणापेक्षाभावात् विशिष्टबुद्धिष्वतिप्रसंगात्। स्फुटतरविवेकरहितसम्बन्धिद्वयगोचरविशिष्टप्रत्यक्षत्वेनानतिप्रसक्तेनानुगमइति चेत् तर्हि स्फुटतरविवेकरहितत्वेनानुगतीकृताणामवयवावयव्यादीनामेव तत्र कारणत्वमस्तु कृतं समवायकल्पनया। अतिप्रसक्तंचेदमुक्तविशिष्टबुद्धित्वं अभावाधिकरणयोर्विशिष्टबुद्धौ, पीतं सुवर्णमिति तदुपष्टंभकयोर्विशिष्टबुद्धावपि। ननु दंडादिविशिष्टबुदधिसाधारण्येन प्रत्यक्षविशिष्टबुद्धिमात्रे अनुगतं कारणं कल्प्यमानं नित्यत्वादेकत्वाच्च सर्वत्र संभवन् समवायएवेति सिध्यति। विषयभावं विनापि सर्वासु तासु तस्य कारणत्वसंभवादिति चेन्न। संयोगस्यानुगतकारणस्यसंभवात्। संतिहि चाक्षुषादिविशिष्टप्रत्यक्षेषु तत्तद्द्रव्येन्द्रियसंयोगाः कारणत्वेन क्लृप्ताः। शब्दप्रत्यक्षत्वेप्यस्ति श्रोत्रमनस्संयोगः। तेषामेव संयोगत्वेनास्तु कारणता। किञ्च विशिष्टज्ञानत्वं विशेषणज्ञानकार्यतावच्छेदकं प्रत्यक्षत्वं इन्द्रियकार्यतावच्छेदकमिति अवच्छेदकान्तरोपपन्नकार्यताधिकरणवृत्तित्वात् नीलघटत्ववदर्थवशसंपन्नं विशिष्टप्रत्यक्षत्वं न कार्यतावच्छेदकमिति नतदवच्छेदेनानुगतकारणापेक्षास्ति। एतेन तन्त्वादिनाशे तन्निष्ठावयवगुणादिकं यन्नश्यति तत्र तन्निष्ठावयव्यादिनाशत्वस्याननुगमात्, तत्सम्बन्धिनाशत्वस्य तत्संयुक्ततृणादिनाशेऽतिप्रसक्तत्वात् तावदनुगतस्सम्बन्धः सिध्यन् समवायः पर्यवस्यदिति चेन्न। समवायांगीकारेऽपि तन्तुनाशे तन्तुसमवायवतामंशूनां नाशप्रसंगानिवारणात्। न च समवायवत्वे सत्याधेयत्वरूपसमवतत्वमवच्छेके निवेशनीयं, तथापि तंत्वाश्रिततृणादिनाशप्रसन्गतादवस्थ्यात्, समवायस्यैकत्वेन तन्तुसमवायस्य तृणेपि सत्त्वात्, अयुतसिद्धाधेयत्वस्यैव अक्लिष्टस्य क्लृप्तस्य कार्यतावच्छेदके निवेशयितुं युक्तत्वाच्च। नच तथासति तदयुतसिद्धाधेयस्य पटध्वंसादेर्नाशप्रसंगः। परपक्षेपि तन्तुसमवेतजात्यादिनाशप्रसंगतौल्यात्। तन्तुनाशे तत्समवेतकार्यनाश इति नियमश्चेत्तर्हि तन्नाशे तदयुतसिद्धाधेयस्य विनाशिनोनाशइति नियमोस्तु। नचध्वंसनाशेनापि किञ्चिदनिष्ठमापद्यते। प्रागभावध्वंसस्य घटस्येव तध्वंसस्यापि ध्वंसोपपत्तेः। घटतध्वंसयोरुभयोरपि प्रागमावप्रध्वंसत्वांगीकारेण प्रागभावानुन्मज्जनसमर्थने घटतध्वंसपरंपराया घटध्वंसत्वांगीकारेण घटानुन्मज्जनसमर्थनोपपत्तेः। तदेवं समवायासिद्धौ तद्धटितस्य समवायिकरणत्वस्यासिध्या त्र्यणुकद्व्यणुकसमवायिकारणत्वेन द्व्यणुकपरमाण्वनुमानं न प्रवर्ततइत्यतोप्यसमञ्जसः परमाणुकारणवादः। किञ्च समवायस्य नित्यत्वाभ्युपगमात् तदाश्रयाणामपि नित्यत्वमभ्युपगन्तव्यं। अन्यथा सम्बन्धिनाशे संयोगवत् समवायस्यापि नाशप्रसङ्गात्। अतस्समवायाश्रयतया त्र्यणुकस्यापि नित्यत्वं त्वया वक्तव्यं स्यादित्यतोपि तत्कारणतया द्व्यणुकाद्यनुमानासिद्धिः। यद्युच्येत सम्बन्धिनाशनाश्यत्वे संयोगत्वं प्रयोजकं। लाघवात्। न संबन्धत्वमुपाधित्वादिति, तदेत्थं लाघवमनुसरता जगन्मूलकारणानुमानेप्यैक्यलाघवमनुसरणीयमिति तेन ब्रह्मणः प्रधानस्य वा सिद्धेर्न तेन परमाणुसिद्धिः। नच कार्यद्रव्यस्यावयवसंयोगारभ्यत्वनियमस्य पटादिषु दृष्टत्वानैकस्माद्द्रव्योत्पत्तिस्संभवतीति लाघवमिहाकिंचित्करमिति वाच्यं। एकावयविरूपेण क्षीरेण दध्यारम्भे नियमभङ्गात् क्षीरारंभकावयवाः परस्परं संयुज्य पुनस्संयोगान्तरं लब्ध्वा दध्यारम्भत इति कल्पनायां प्रमाणाभावात् क्षीरनाशकारणानुपलब्धिवत् दध्युत्पत्तिवच्च तदुपपत्तिः न पयसः परिणामो गुणांतरप्रादुर्भावादित्याद्यक्षपादसूत्राणां प्रमाणमूलत्वाभावात् स्थितेऽपि द्रव्ये पार्थिवपरमाणूनामिव गुणांतरप्रादुर्भावोपपत्तेः। तन्तुसंयोगपटयोः कुविन्दव्यापारादिरूपसामग्यैक्येन समाकालोत्पत्तिकतया पटस्य तन्तुसंयोगारभ्यत्वासम्प्रतिपत्तेश्च। न च तन्तुसंयोगनाशे पटनाशदर्शनात् अकारणनाशेन अकार्यनाशासम्भवात् पटतन्तुसंयोगयोः कार्यकारणभावो वक्तव्य इति वाच्यम्। नाशयोरपि सामग्न्यैक्येन समकालत्वोपपत्तेः। किंच यदि जगन्मूलकारणं रूपादिमत्स्यात् तदा तत्र नित्यत्वनिरवयवत्वयोर्विपर्ययस्स्यात्। रूपादिमतामनित्यत्वसावयवत्वदर्शनादिति तर्कानुगृहीतेन त्र्यणुकमूलकारणं रूपादिरहितं नित्यत्वान्निरवयवत्वादित्यनुमानेन पराहतत्वादपि न रूपादिवत्परमाणुरूपकारणसिद्धिः। विपक्षे बाधकाभावात् व्याप्त्यसिध्या प्रशिथिलमूलस्तर्कइति चेत् त्र्यणुकं समवायिकारणारभ्यं महदारम्भकत्वादिति द्व्यणुकपरमाणुसाधकानुमानयोः को विपक्षबाधको दृष्टः। येन मदनुमानस्य दौर्बल्यं त्वदनुमानयोः प्राबल्यञ्च स्यात्। ननु त्र्यणुकसाधकानुमानेऽस्ति विपक्षबाधकतर्कः। तथा हि महत्त्वपरिमाणस्य जन्यत्वे महत्त्वावान्तरजातिरूपापकर्षमात्रं प्रयोजकम्। नतूत्कर्षापकर्षरूपतदवान्तरजातिद्वयं, गौरवात्। तथा च त्र्यणुकमहत्त्वस्य अपकृष्टमहत्त्वरूपतया जन्यत्वेन कारणापेक्षायां महत्त्वे स्वाश्रयसमवायिकारणगतसंख्यापरिमाणसंयोगविशेषाणामेव कारणत्वात् त्र्यणुकस्य समवायिकारणत्वमवश्यमभ्युपेयमिति, एवं तर्ह्यक्तरीत्यैव तर्कमूलव्याप्तावप्यस्ति विपक्षबाधकतर्कः। रूपादीनां जन्यत्वे रूपत्वादिकं प्रयोजकं अनुगतत्वाल्लघुत्वाच्च। न तु कार्यगतरूपत्वादिकम्। पार्थिवपरमाणुरूपाद्यननुगतत्वात् गुरुत्वाच्च। तथा च परमाणुषु रूपाङ्गीकारे अग्निसंयोगाजन्या रूपादयः स्वाश्रयकारणगतरूपादिजन्या इति त्वद्रीत्यैव जलपरमाणुगतरूपादीनां पार्थिवपरमाणुश्यामत्वस्य चोत्पत्तावपेक्षितानां रूपादीनामाश्रयत्वेन परमाणूनामवयवास्सिध्यन्तो न निवारयितुं शक्याः। सावयवत्त्वेचानित्यत्वमप्यनिवार्यमिति रूपादीनां जन्यत्वे रूपत्वादिकं प्रयोजकमित्येतत् त्वयाऽप्यवश्यमेष्टव्यम्। अन्यथा त्र्यणुककारणत्वेन अनुमीयमानेषु द्व्यणुकेषु रूपाद्यसिद्धिप्रसङ्गात्। तेषु रूपादिमत्त्वानुमाने हि रूपादीनां कारणगुणपूर्वकत्वनियममूलएवहि तत्र विपक्षबाधकतर्क एष्टव्यः। किञ्च महत्त्वस्य जन्यत्वे परिमामापकर्षः प्रयोजको युक्तः। अतएव आकाशादिगतपरममहत्वव्यावृत्तिसिद्धेः। नतु महत्वापकर्षः, विशेषरूपत्वात् दैर्घ्याननुगतत्वाच्च। तथा च यदि त्र्यणुकमृलकारणे अपकृष्टपरिमाणमभ्युपगम्येत तदा तस्य जन्यत्वेन कारणपरिमाणापेक्षया मूलकारणस्य सावयवत्वं प्रसज्येतेति तत्परिहाराय तस्मिन् परममहत्त्वमेवाभ्युपगन्तव्यम्। न च कार्यद्रव्यस्य स्वन्यूनपरिमाणद्रव्यारभ्यत्वनियमात् दीर्घैस्तंतुभिर्दृढतरावर्तितैस्तन्न्यूनदैर्घ्यस्य विशालैः पटैरावर्तितैस्तन्न्यूनवैपुल्यस्य च सूत्रस्यारम्भदर्शनात्। तस्माद्बलवत्प्रत्यनमानपराह्वतं रूपादिवज्जगन्मूलकारणानुमानम्। तथा यद्यनित्यत्वादिपरिहाराय परमाणूनां रूपादिशून्यत्वमुच्यते, तदा कार्यगुणानां कारणगुणपूर्वक्वनियमासिद्धिः। तत्सिद्धये रूपादिमत्वांगीकारे च अनित्यत्वाद्यापत्तिरिति उभयथाऽपि दुष्टः परमाणुकारणवाद इति असमञ्जसं वैशेषिकमतम्। अतस्सांख्यपक्षस्य श्रुतिन्यायविरुद्धस्यापि सत्कार्यवादादौ क्वचिदंशे वैदिकपरिग्रहोऽस्ति । वैशेषिकपक्षस्य तु केनाप्यंशेन अपरिग्रहादत्यन्तमनपैक्षैव कार्या।।
संग्रहकारिकाः।।
अल्पानां संयोगाद्विपुलस्योत्पत्तिरीक्षिता लोके।
तस्मादणवः कारणमनवयवास्तेऽनवस्थितेश्शान्त्यै।।
तेषां प्रदेशभेदैस्संयोगे क्वानवस्थितेश्शान्तिः।
नोचेत्तदयुतयोगोऽप्यस्तु प्रथिमा कथं कार्ये।।
समवायिकारणञ्च त्रसरेणोनैव षत्मनुमाचुम्।
बहुबाधकसद्भावात् समवायस्यैव निष्प्रमाणत्वात्।।
तन्मूलकारणत्वस्य च रूपित्वादावनित्यतापत्तेः।
रूपादिमतां लोके ह्यवयववत्वादिनित्यता दृष्टा।।
इति महद्दीर्घाधिकरणम्।।
————-
समुदायउश्रयहेतुकेऽपि तदप्राप्तिः।।17।।
इतरेतरप्रत्ययत्वादुपपन्नमितिचेन्न संघातभावा-
निमित्तत्वात्।।18।।
उत्तरोत्पादेचपूर्वनिरोधात्।।19।।
असतिप्रतिज्ञोपरोधोयौगपद्यमन्यथा।।20।।
प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात्।।21।।
उभयथाचदोषात्।।22।।
आकाशोचाविशेषात्।।23।।
अनुस्मृतेश्च।।24।।
नासतोदृष्टत्वात्।।25।।
उदासीनानामपि चैवं सिद्धिः।।26।।
माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाश्चतुर्विधा बौद्धाः। ते सर्वेऽप्यादिबुद्धस्य शिष्याः क्रमेण सर्वशून्यत्वबाह्यर्थशून्यत्वबाह्यार्थानुमेयत्वबाह्यार्थप्रत्यक्षत्ववादिनः। तत्र “बुध्या विविच्यमानानां स्वभावो नावधार्यते। अतो निरभिलप्यस्ति निस्स्वभावाश्च दर्शिताः।। यथा यथा विचार्यन्ते तथा तथे”त्यादिन्यायैः गुरुणा सर्वशून्यत्वं बोधितेषु शिष्येषु ये गुरुक्तं तथैवांगीकृत्य पर्यनुयोगं नाकुर्वन् ते गुरुक्तस्य श्रद्धयांगीकरणादुत्तमाः, तत उपरि पर्यनुयोगाकरणादधमाश्चेत्युत्तमाधमत्वयोगात् मध्यमां स्थितिमास्थिता माध्यमिकाः। ये तु बाह्यार्थानां शून्यत्वमंगीकृत्य कथं विज्ञानस्यापि शून्यत्वं, जगदान्ध्यप्रसंगादिति पर्यनुयोगमकुर्वन्, ते गुरूक्तांगीकरणस्य आचारसंज्ञया तन्मते परिभाषितस्य तत उपरि पर्यनुयोगस्य योगसंज्ञया तन्मते परिभाषितस्य च सद्भावात् योगाचाराः। गुरुणा तान् प्रत्यान्तरं विज्ञानमात्रमस्ति, तदेव नीलाद्याकारं न तु तद्व्यतिरेकेण बाह्यं नीलादिकमस्ति सहोपलम्भनियमेन नीलादीनां तद्विज्ञानानाञ्चाभेदसिद्धेः, भेदे गवाश्वत्तन्नियमाभावप्रसङ्गात्, तदेव विज्ञानाकारात्मकं नीलादिकमनादिवासनावशात् बहिर्वदवभासत इति बोधिते कथं सर्वथैव बाह्यार्थस्य शून्यत्वं, बाह्यस्य नीलादेरवभासात्। अहमुल्लेखेन विज्ञानस्यान्तरतया इतमुल्लेखेन नीलादेर्बाह्यतया च भेदेऽवभासमाने सहोपलम्भनियममात्रस्याप्रयोजकस्याभेदसाधनाक्षमत्वात्, सहत्वोक्त्यैव भेदानुमतेश्चेति यैः पर्यनुयुक्तं, तान् प्रति सत्यमस्ति बाह्यं नीलादिकं न तु तत्प्रत्यक्षं अनुत्पन्नस्याविद्यमानस्य प्रत्यक्षत्वायोगात्, उत्पन्नस्य क्षणिकस्य स्थित्यभावात्।
किं तु उत्यपद्यमानं नीलादिविज्ञाने स्वाकारं समर्प्य नश्यति। ततोविज्ञानगताकारेणातीतन्नीलादिकमनुमीयतइति बोधिते सति तैरित्थं शिष्यप्रश्नानुरोधेन कियत्पर्यंत मुपदेशसूत्रं प्रवर्तिष्यतइति सूत्रस्यांते पृष्टे गुरुणाऽभिहितं–
भवन्तस्सूत्रस्यांतं पृष्टवन्तस्सौत्रांतिकाभवन्त्विति। अतस्ते सौत्रांतिकाः। ततो विज्ञानेनानुमेयं बाह्यमितीयं विरुद्धाभाषा। तस्यैव विज्ञानस्य तद्विषयप्रत्यक्षत्वात् प्रत्यक्षस्य कस्यचिदप्यर्थस्याभावे व्याप्तिसंवेदनस्थानाभावेन अनुमानाप्रवृत्तेश्चेति यैः पर्यनुयुक्तं ते वैभाषिकाः। तात् प्रति बाह्यप्रत्यक्षत्वमप्युपदिष्टं। एवं यथाश्रुतं स्व स्व प्रश्नोत्तरवाक्यार्थं श्रद्दधानास्ते तथैव मतभेदानास्थिषत। तत्र वैभाषिकादिक्रमेण चतुर्विधानपि बौद्धान् निरसितुं क्रमेण चत्वार्यधिकरणानि। ततः क्षपणकान्निरसितुमेतमधिकरणम्। वैदिककापिलकणभुङ्निराकरणानन्तरमवैदिकास्ते निरस्यन्त इति अर्धवैनाशिकनिरासानन्तरं सर्ववैनाशिका निरस्यन्त इति पूर्वाधिकरणेन पेटिकासङ्गतिः वैभाषिकाद्यधिकरणानां त्रयाणां केषांचित् क्षणिकत्वमभ्युपगच्छन्तस्तार्किकाः अर्धवैनाशिकाः। ते हि जाठराग्निना पच्यमानानां भुक्तपीताहारावयवानां प्रतिक्षणमुपचयापचयवैषम्यात् अवयविशरीरमपि प्रतिक्षणमुपचयापचयवदन्यदन्यद्भवति। यद्यपि शरीरस्य प्रतिकलमुपचयापचयदर्शनं नास्ति, तथाऽपि वर्षधारानिपातैस्तटाकजलस्येव घटीयंत्रोक्षेपणैः कूपजलस्येव चान्ते तद्दर्शनात् यौक्तिकं प्रतिक्षणं किंचित्किंचिदुपचयापचयज्ञानस्त्येव। आहारावयवानां शरीरावयवत्प्राप्त्या तदपचयोपचयाभ्यां शरीरापचयोपचयावश्यम्भावात्। यथा हि चन्द्रतारकादीनां मुहूर्तादिकालव्यवधानेन बहुदेशान्तरप्राप्तिदर्शनात् प्रतिक्षिणं स्वल्पदेशांतरप्राप्तिज्ञानं योक्तिकमस्तीत्यभ्युपगच्छन्ति। एवं प्रतिक्षणमवश्यम्भाविभिः खननपूरणादिभिः भूगोलकस्य, नदीजलसंसर्गशीकरोत्पतनैस्समुद्रस्य च उपचयापचयवत्त्वेन क्षणिकत्वमभुयपगच्छन्तस्सर्ववैनाशिकाः। बौद्धास्तु सर्वस्यापि प्रपञ्चस्य क्षणिकत्वमभुयुपगच्छन्तस्सर्ववैनाशिकाः। बौद्धास्तु सर्वस्यापि प्रपञ्चस्य क्षणिकत्वमभ्युपगच्छन्तस्सर्ववैनाशिकाः। बौद्धेष्वपि वैभाषिक सौत्रान्तिकाः परमाणुवादिनइति काणादप्रत्यासत्त्या तदुभयसाधारणैस्सौत्रान्तिकासाधारणैश्चदूषणैरुभयेषां प्रथमाधिकरणे निरासः, द्वितीयाधिकरणे क्षणिकवादसाम्यात् योगाचाराणां. ततो बौद्धत्वसाम्यात् माध्यमिकानां, तदनन्तरमवैदिकत्वसाम्यात् क्षपणकानामितिविवेकः। यद्यपि क्षपणकाअपि परमाणुवादिनः, तथापि वैभाषिकसौत्रांतिकैः खरस्नेहोष्णतेणस्वभावाश्चतुर्विधाः परमामवस्तैरभ्युपगम्यन्ते। परमाणूनां तार्किकैः स्थिरत्वैकान्त्यवत् क्षणिकत्वैकांत्यंतैरभ्युपगम्यते। क्षपणकास्तु परमाण्वैकविध्यवादिनः स्थैर्याद्यनैकान्त्यवादिनश्चेति वैभाषिकसौत्रांन्तिकानां तार्किकप्रत्यासत्त्यतिशयोस्तीति संगतिविशेषोद्रष्टव्यः। तत्र परमाणुवादिनोवैभाषिकसौत्रान्तिकाएवमाहुः- रूपरसगन्धस्पर्शस्वभावाः पार्थिवाः परमाणवः रूपरसस्पर्शस्वभावाआप्याः, रूपस्पर्शस्वभावास्तैजसाः, स्पर्शस्वभावावायवीयाः, भूसूधरसमुद्रबडबानलमहावाय्वात्मकभूतरूपेण संहन्यन्ते। तेभ्यश्च पृथिव्यादिभ्यः शरीरेन्द्रियघटादिविषयरूपभौतिकसंघाताभवन्ति। सर्वत्र संघातः अवयवसमुदायएव। न तद्व्यतिरेकेण अवयविद्रव्यान्तरोत्पत्तिरस्ति तदुत्पत्तौ तत्र चाक्षुषत्वाद्यर्थं पूथग्रूपादिमत्त्वस्य अभ्युपगन्तव्यत्वात्। अवयवरूपादिव्यतिरिक्तस्य च अवयविनि रूपादेरनुपलम्भात्। नहि नानावर्णैस्तन्तुभिरारब्धे पटे तन्तुगतनानारूप व्यतिरेकेण पटे रूपान्तरं, अवयवभेदव्यवस्थितमधुराम्लरसव्यतिरेकेण आम्रफले रसान्तरं अतिपक्वाल्पपक्व भागभेदव्यवस्थितपूतिगन्धसुरभिन्धव्यतिरेकेण नागवल्लीपर्णे गन्धान्तरं, भागभेदव्यवस्थितकठिनसुकुमारस्पर्शव्यतिरेकेणकदलीदलेस्पर्शान्तरं, मूलमध्याग्रभागव्यवस्थितमहदल्पाल्पतर परिमाणव्यतिरेकेण वृक्षे परिमाणांतरञ्च उपलभामहे। नानावर्णतन्त्वारब्धेषु पटेषु चित्राख्यं रूपान्तरं कैश्चिदभ्युपगतमिति चेत् तदन्यैर्दूषितमेव। “चित्रं चेदेकता नस्यात् एकंचेच्चित्रता कथं। एकंच तच्च चित्रंचेत्येतच्चित्रतरं ह”दिति। रसादिषु तु अव्याप्यवृत्तित्वं केनापि नाभ्युपगतम्। तस्मादणुहेतुको भूतसमुदायः भूतहेतुकोभौतिकसमुदायइत्येवमणुभूतहेतुकसमुदायद्वयरूपएव बाह्यार्थः। सेयं प्रक्रियाऽनुपपन्ना। यतोऽणुभूतहेतुकसमुदायद्वयेऽभ्युपगम्यमाने जगदात्मकसमुदायभावः चेतनस्य तद्विषयव्यवहारश्च न प्राप्नोति। कुतः। अणुनां भूतानांच मेलनार्थव्यापारं विना हेतुत्वे सदा कार्योत्पत्त्यापत्तेः, मेलनहेतुव्यापारविशिष्टानामणूनां भूतानांच भूतभौतिकहेतुत्वं वक्तव्यं। न च तत्क्षणिकत्वे घटते। येषां व्यापारावेशः, तेषां मेलनक्षणे नष्टत्वात्। येषां मेलनं तेषां व्यापारक्षणानुत्पन्नत्वात्। यस्यचेतनस्येंद्रियसन्निकर्षः तस्य ज्ञानोत्पत्तिकाले, यस्य ज्ञानोत्पत्तिः तस्य हानादिव्यवहारकाले च नष्टत्वात्। केषांचिन्मेलनहेतुव्यापारेणान्येषां मेलनाभ्युपगमे कस्यचिदिन्द्रियसन्निकर्षादिनाऽन्यस्य वेदनद्यभ्युगमे चातिप्रसंगात्। नच व्यापारवतां मेलनवतांचाणुभूतानामेकसंतानवर्तित्वात् इन्द्रियसन्निकर्षवतो वेदनादिमतश्चेतनस्य एकसंतानवर्तित्वाच्चानतिप्रसंगः। क्षणिकसंतानव्यतिरिक्तस्य स्थिरस्य संतानस्य क्षणिकत्ववादिभिरनभ्युपगमात्। नन्वस्थिरेष्वपि स्थिरत्वभ्रान्तिरूपाविद्याऽस्ति, साच रागादिहेतुः, रागादिपारवश्यंचाविद्याहेतुरिति अविद्यारागादेः प्रवाहस्तावदनुभवसिद्धः। तस्य शरीरेन्द्रियविषयादिरूपसमुदायभावाभावे अनुपपत्तेः तदाक्षिप्तसमुदायसिद्धिरप्रतिक्षेप्येति चेन्न। कारणाभावेन समुदायभावानुपपत्तावुक्तायां कारणोक्त्या हि तदुपपत्तिस्समर्थनीया। नचाविद्यारागादिः परमाण्वादिव्यापारनिरपेक्षस्समुदायहेतुः। शुक्तिरजतभ्रांतिरूपाविद्यारजतरागादिनाऽपि शुक्तेश्शुक्तिरूपसमुदायताप्रहाणेन रजतरूपसमुदायतापत्तिप्रसंगात्। अन्यस्याविद्ययान्यस्य रागादिजननेऽतिप्रसंगेनाविद्यारागादिप्रवाहानुपपत्तेश्च। स्यादेतदन्यस्य कर्मणा अन्यत्र संयोगजननेऽतिप्रसंगइतिदोषो न बौद्धमते प्रसरति। न हि तैः क्षणिकेषु परमाण्वादिषु कर्मसंयोगावभ्युपगम्येते। किन्तु देशान्तरस्थेन देशान्तरस्थस्योत्पादः सकर्मप्रत्ययस्यालम्बनं, विप्रकृष्टदेशेन सन्निकृष्टदेशस्य उत्पादः ससंयोगप्रत्ययस्य। ततश्च यथा न्यायमते नानादिक्प्रभवशब्दमूलकशब्दपरम्पराजननक्रमेण बहूनां शब्दानां मेलने सति कोलाहलप्रत्ययः, एवं बहूनां परमाणूनां तथा पुञ्जीभावेसति भूभूधरादिप्रत्ययः। दृष्टंह्येकैकस्य केशस्य दूरे दृश्यत्वाभावेऽपि बहूनां केशानां कवर्यादिरूपेण पुञ्जीभावेसति तत्समुदायस्य दृश्यत्वं। न चादृश्यसमुदायस्या दृश्यत्वनियमः। अप्रयोजकत्वात्। एकैकस्य तन्तोस्स्यवनाकर्षणशक्त्यभावेऽपि तत्समुदायस्य तदाकर्षणशक्तिवत् एकैकस्य परमाणोरदृश्यत्वेऽपि तत्समुदायस्य तदाकर्षणशक्तिवत् एकैकस्य परमाणोरदृश्यतवेऽपि तत्समुदायस्य दृश्यत्वोपपत्तेः। तदाहुः- “प्रत्येकं दृष्ट्ययोग्यत्वेऽप्यणूनां दृश्यता भवेत्। मेलनेसति तन्तूनां नौकाद्याकृष्टिशक्तिव”दिति। तस्मान्न हेत्वसम्भवेन समुदायभावानुपपत्तिरिति चेत् एवमपि हेतुहेतुमद्भावो नोपपद्यते। उत्तरघटक्षणोत्पत्तिदशायां पूर्वघटक्षणस्य विनष्टत्वेन तस्य उत्तरघटक्षणं प्रति हेतुत्वानुपपत्तेः। बौद्धमते वस्तुतः कालो नास्ति। उद्यन्नेव स्वरसभंगुरो घटादिः क्षणकल्पनामात्रनिमित्तं भवति। स च घटादिः स्वोदयविनाशपरिकल्पितक्षणवत्त्वात् क्षणिक इत्युपचर्यते, वपुष्मान् शिलापुत्रक इतिवदिति तेषां प्रक्रिया। अतस्तन्मतमर्यादया घटएव क्षण इति सामानाधिकरण्येन घटः क्षण इति ग्रन्थेषु व्यवहारः। ननु नष्टस्य हेतुत्वासम्भवः, उक्तं हि तेषां तत्वसंग्रहे- “भावानां कारणत्वं न नष्टतया अवस्थिततया वा। अपितु भूततया। भूतश्च स्थितो वा भवतु, नष्टो वा। कारणान्तरपौष्कल्ये सति स्वकार्यमविलम्बेन करोती”ति। दृष्टं हि बीजकृतदोहलसंस्कारस्य कालान्तरभाविपुष्पफलादिगतवर्णरसविशेषहेतुत्वं तस्मान्नष्टत्वेन हेतुत्वानापत्तिरिति चेत्। मैवं। यदि कार्यदशायामसदपि यदा कदाचित्पूर्वसत्त्वमात्रेण हेतुस्स्यात् तदा सर्वदा सर्वत्र सर्वस्याप्युत्पत्तिस्स्यात्। घटोत्पत्तिदशायामंकुरादेरपि उत्पत्तिस्स्यात्। अनादौ कालप्रवाहे नष्टस्य बीजादेस्सत्वात्। न च क्षेत्रतत्कर्षणादिसहकार्यभावश्शङ्कनीयः। तस्यापि नष्टस्य पूर्वसत्त्वाविशेषात्। दोहलद्रव्याणां तु यावत्कार्योत्पत्तिसूक्ष्मरूपेणानुवृत्तिरस्त्येव वृक्षायुर्वेदादिदोहलशास्त्रप्रसिद्धा। स्यादेतच्चिरनष्टस्य
निर्व्यापारस्य माभूद्धेतुत्वं, स्वरूपेण स्वव्यापाररूपेण वा पूर्वक्षणवर्तिनस्तु स्यात्। अवश्यञ्च कारणस्य पूर्ववृत्तित्वं वाच्यम्। तेनैव कारणत्वोपपत्तौ किं कार्यंकालवर्तित्वेन। लोके च विनष्टस्य बीजस्य अङ्कुरे, क्षीरस्य दध्नि, मृत्पिंडस्य घटे च कारणत्वं दृष्टम्। यदि तु कारणस्य कार्यकालवृत्तित्वमपेक्ष्येत, तदा बीजादीनां विनाशोंकुरादिकारणं पूर्वघटक्षणविनाश उत्तरघटक्षणकारणमित्यस्त्विति चेत्। यद्येवं कार्यकालासतः कारणत्वमिष्यते, “अधिपतिसहकार्या लम्बनसमनन्तरप्रत्ययाः चत्वारः चित्तचैत्तहेतव”इति हि बौद्धानां प्रतिज्ञा। तथा हि बुद्धसूत्रम्- “चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्त्या उत्पद्यन्त” इति। अधिपतिरिन्द्रियं। तद्धि ज्ञानस्य रूपादिषु पञ्चसु एकैकमात्रविषयत्वनियामकम्। नियामकश्च लोके अधिपतिरुच्यते। सहकारि आलोकादिकं। आलम्बनं घटादिकं। समनन्तरप्रत्ययः पूर्वज्ञानम्। एतान् चतुर्विधान् हेतून् प्राप्य चित्तं ज्ञानं चैत्याः तदभिन्नास्सुखादयश्च जायन्त इति प्रतिज्ञार्थः। इयं हीयेत प्रतिज्ञा। पूर्वक्षणवृत्तित्वाभावे कारणत्वायोगात्। उत्तरक्षणवृत्तित्वाभावे वर्तमानत्वग्राहिप्रत्यक्षविषयत्वायोगात्। अन्यथा कारणस्य विषयतासिध्यर्थं तस्यापि कार्योत्पत्तिक्षणे स्थित्यभ्युपगम्येत, तदा संप्रयोगज्ञानयोर्हेतुहेतुमतोः यौगपद्यं स्यात्। एतेन पूर्वक्षण विनाशस्योत्तरक्षणकारणत्वमपि निरस्तम्। तथा सत्यधिपत्यादिकारणत्वप्रतिज्ञाविरोधात्। किं च पराभिमतो निरोधाख्ये विनाश एव न संभवति। एवं हि ते कल्पयन्ति। सर्वत्र निरन्वयो निरनुवृत्तिक एव स निरोधशब्दे, नोच्यते, स द्विविधः स्थूलस्सूक्ष्मश्च। मुद्गरपातानन्तरं सर्वैरुपलभ्यमानो घटनाशस्स्थूलः प्रतिसंख्यानिरोधः, प्रतिसंख्या विषयत्वप्रतिकूला तदसत्वग्राहिणी लौकिकानां बुद्धिः, तद्विपरीतः अप्रतिसंख्यानिरोधस्सूक्ष्मः, लौकिकोपलब्ध्ययोग्योयुक्त्या साध्यमानः प्रतिक्षणविनाश इति द्विविधोऽप्ययं निरन्वयविनाशो न सम्भवति। अविच्छेदात्। सदैवाविच्छिन्नतयाऽनुवर्तमानस्य द्रव्यस्य पूर्वावस्थाप्रहाणोत्तरावस्थापत्तिभ्यामेव नाशोत्पत्तिव्यवहारः। न तु द्रव्यस्य क्विदपि निरन्वयविनाशोऽस्तीत्यारम्भणाधिकरणे समर्थितत्वात्। अतो विनाशस्य कारणत्वं न सम्भवति। “आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्। बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकञ्च त”दिति बौद्धैः “संस्कृतं कार्यमेवानित्यं, असंस्कृतमकार्यमाकाशादित्रयं तु नित्य”मिति नित्यत्वेनाभ्युपगतस्य निरोधद्वयस्य कारणत्वानुपपत्तेश्च, अविच्छेदेनानुवर्तमानस्य कारणत्वे सदा सर्वत्र सर्वकार्योत्पत्तिप्रसङ्गात्। तत्सहकारित्वेनाभिमतानामपि निरोधद्वयस्य नित्यत्वात्। किं च निरोधद्वयं आकाशं चेति त्रयमवस्थात्मकं तुच्छमिति बौद्धा मन्यन्ते। तत्र तुच्छात् कथं जगदुत्पत्तिः? तुच्छादुत्पत्तौ तुच्छस्य निर्विशेषत्वेन कारणविशेषकृतकार्यविशेष व्यवस्थित्यसम्भवात् घटक्षणानन्तरं सर्वस्य जगत उत्पत्तिस्स्यात्। तुच्छादुत्पद्यमानञ्च कार्यं तुच्छमेव स्यात्। तस्य सद्रूपतया प्रतीतिर्न स्यात्। सुवर्णरुचकादिन्यायेन कारणानुसारित्वात् कार्यस्य। अपिच- आकाशमपि तुच्छमिति बौद्धैरुच्यते। तत्कथमुपपद्यते। प्रतीयते हि स्पष्टमाकाशं “अत्र श्येनः पतति, अत्र गृध्र”इति श्येनादिपतनदेशत्वेन। नन्वियं प्रतीतिश्चन्द्रसूर्यालोकविषयत्वेनोपपद्यते। महान्धकारे “खद्योत इह पतती”ति प्रतीतिः खद्योतप्रकाशविषयत्वेनोपपद्यते। “इह चन्द्र इह सूर्य” इति प्रतीतिरपि तत्तदालोकविषयत्वेनोपपद्यते। तदाश्रितस्याप्यालोकस्य स्वरूपसम्बन्धविशेषेण तदाधारतया प्रतीतिरप्युपपद्यते। “वने तिलक”इति वृक्षसमुदायरूपस्य वनस्य स्वरूपसम्बन्धविशेषेण तिलकवृक्षाधारत्वप्रतीतिदर्शनात्। आकाशस्यापि हि श्येनाधारता स्वरूपसम्बन्धविशेषेणैवोपपादनीया। निबिडमूर्तद्रव्यस्य भूतलादेरिव तस्य मुख्यतया गुरुद्रव्याधारत्वासम्भवात्। किं च- “इह पक्षी, नेह पक्षी”ति आधारत्वानाधारत्वप्रतीतिद्वयं अवयवभेदावच्छेदेन शक्यमुपपादयितुमालोके। नत्वाकाशे। तस्य निरवयवत्वात्। न चाकाशेऽपि तत्तदधः क्षितिभागभेद एव अवच्चेदकभेदसस्यादिति वाच्यं। ऊर्ध्वाधरदेशयोः “इह पक्षी, नेह पक्षी”ति प्रतीत्योस्तदभावात्। तस्माच्छ्येनपतनादिप्रतीतेरालोकविषयत्वसम्भवात् आकाशे सा न प्रमाणमिति चेत् उच्यते- अस्तितावत् “प्राग्भागे श्येनः पतति प्रत्यग्भागे गृध्र” इत्यादिप्रतीतिः। तस्यां प्राग्देशादिरुपाधारः प्रतीयते। स एवाकाशः। तद्व्यतिरेकेण दिशोऽनंगीकारात्। तस्यैव तत्तदुपाधिभेदेन प्रागादिरूपत्वोपपत्तेः। न च वाच्यं तत्तदुपाधिसम्बन्धेन आलोक एव प्राग्भागादिरूपोऽस्त्विति। “प्राग्भागे चन्द्रालोकः प्रत्यग्भागे तम” इत्यादिप्रतीतिष्वपि आलोकादेरप्याधारत्वेन प्रागादिदेशप्रतीतेः। एवं तर्हि प्राग्भागेऽवकाशोस्तीत्यादिव्यवहारेण अवकाशात्मकादाकाशादप्यन्यस्तदाधारो देशस्स्यादिति चेत् न। तत्रावकाशशब्दस्य निबिडमूर्तद्रव्यावस्थानविरोधिमूर्तद्रव्यान्तरनिरोधाभावपरत्वात्। अत एव
“प्राग्भागेऽवकाशोऽस्ति न प्रत्यग्भागे भुञ्जानैर्निबिड” इति क्वचिद्देशे अवकाशनिषेधोऽपि दृश्यते। न ह्याकाशस्य तत्र निषेधस्सम्भवति। सर्वगतत्वात्। असर्वगतत्वे चावरणापायेऽप्यवकाशाभावप्रसङ्गात्। नहि पूर्वमसन्नाकाशः। एवं च मूर्तद्रव्याभाव एवावकाशः तत्तदुपाध्यवच्छिन्नः प्रागादिव्यहारालम्बनमस्तीत्यपि शङ्का निरस्ता। तस्य देशाधेयत्वेन प्रतीतेः, “प्राग्भागेऽवकाशो नास्ति तत्र नीरन्ध्रमासते द्विजा” इति आवरणाभावरूपावकाशप्रतिषेधेऽपि प्रागादिदेशसत्त्वव्यवहाराच्च। नचैव मावरणाभावरूपावकाशस्येव प्राग्भागादिरूपदेशस्यापि देशाधेयत्वेन व्यवहारोऽस्ति। येन ततोऽपि व्यतिरिक्तो देशस्सिध्येत्। अयं प्राग्देश इत्यादिरेव हि व्यवहारः। न त्वस्मिन् देशे प्राग्देशे इत्यादिरूपः। “इहाकाश” इत्यपि लौकिकप्रतीतेस्तद्व्यतिरिक्तो देशस्स्यादिति चेन्न। लौकिकानामाकाशप्रतीतेरुपरि परितश्चावाङ्मुखेन्द्रनीलमहाकटाहवदवभासमाने मेरुशिखर रत्नप्रभाविशेषत्वेनागमसिद्धे नीलद्रव्य एव व्यवस्थितत्वात् तस्य दिग्विशेषाधेयत्वेन प्रतीत्यविरोधात्। देशरूपस्याकाशस्य “इदानीमिह घट” इत्यादि प्रतीतिषु कालवत् पदार्थविषयत्वेन भानंविना क्वचिदपि लौकिकप्रतीतौ स्वातंत्र्येण भानानङ्गीकारात्। तस्मादाकाशस्य प्रामाणिकत्वात् “आकाशं निरोधद्वयमिति तुच्छत्रयमेव नित्यं, सद्रूपमन्यत्सर्वं क्षणिक”मित्येतदयुक्तं। ननु क्षणिकत्वं प्रामाणिकं कथं प्रत्याख्यायते। प्रत्यक्षं हि वर्तमानवस्तुविषयं, अवर्तमानादतीतात् पूर्वक्षणवर्तिनोऽनागताच्चोत्तरक्षणवर्तिनस्स्वविषयं व्यावृत्तमवगमयति। यथा “नीलो घट” इति नैल्यविशिष्टप्रत्यक्षं अरुणादिव्यावृत्तं घटमवगमयतीतिचेत् उच्यते- उदाहृतमभिज्ञाज्ञानं घटस्य वर्तमानकालसम्बन्धमिव “सोऽयं घट” इति प्रत्यभिज्ञानं तस्यावर्तमानकालसम्बनधमपि विषयीकरोति। अतस्तदनुसारादेकस्य वर्तमानावर्तमानकालद्वय सम्बन्धसिद्धौ क्रमिकत्वेन कालद्वयस्याविरोधोपपत्तेश्च वर्तमानकालसम्बन्धविषयं ज्ञानमयोगव्यवच्चेदमवगमयेत् नान्ययोगव्यवच्छेकं स्वावच्छेदेन वाऽन्ययोगव्यवच्छेदं। न तु सर्वात्मना। अत एव चित्रपटे नैल्यज्ञानं नानीलव्यावृतिं्त गमयति। प्रदेशविशेषावच्छेदेन वा तां गमयति। न हि धर्मयोरविरोधो धर्मिभेदेनैवोपपादनीयः। अपि तु सामानाधिकरण्यप्रमित्यनुदयेनापि। तदुदये तु स्वमनीषिकामात्रकल्पितो विरोधो न प्रामाणिकानां हृदयंगमः। ननु स्मृतिप्रत्यक्षयोः क्लृप्तकारणाभ्यां “स” इति “अयं घट” इति च स्मृन्यनुभवरूपं ज्ञानद्वयमेव भवितु मर्हति। न प्रत्यभिज्ञारूपमेकज्ञानमिति चेन्न। तदिदं मया निहितं रजतमिति तदर्थिन इदमर्थे प्रवृत्तिदर्शनेन प्रत्यभिज्ञानस्यैकज्ञानत्वसिद्धौ तत्र कार्यबलात् तत्र संस्कार प्रत्यासत्तिसहितमिन्द्रियं कारणमिति कल्पनोपपत्तेः। ननु तथाऽपि प्रत्यभिज्ञाभ्रान्तिरूपैव क्रमसंवर्धमानेषु तरुगुल्मलतादिषु सन्ततसन्तन्यमानाबयवोपचयापचयवत्सु गिरिसमुद्रादिष्वतयन्तविलक्षणेषु बालवार्धक्यापन्नशरीरेष्वपि दृश्यते। अतः कूटसाक्षिणी प्रत्यभिज्ञा न क्वापि प्रमाणमिति चेन्न। उदाहृतप्रत्यभिज्ञानस्यावस्थाभेदेऽप्यवस्थावद्द्रव्यैक्यविषयत्वेन प्रामाण्योपपत्तेः। न हि प्रत्यभिज्ञानस्य अवस्थैक्यं विषयः येनाप्रामाण्यं भवेत्। किं त्ववस्थावद्द्रव्यैक्यमेव। न च आगमापाय्यवस्थातिरेकेणानेकावस्थानुयायिद्रव्यमेव नास्तीति वाच्यम्। तस्मिन्नन्तत उदाहृतप्रत्यभिज्ञानामेव प्रामाण्यसिध्या तत्प्रत्याख्यानायोगात्। ज्वालालूनपुनर्जातकेशनखादिप्रत्यभिज्ञामात्रस्य सादृश्यनिबन्धनभ्रान्तित्वकल्पनमपि न युक्तम्। वाधितज्ञानदृष्टान्तेन अबाधितज्ञानानामप्यप्रामाण्यकल्पने प्रमाणेन वस्तुसिद्धिमात्रस्य लोपप्रसङ्गात्। एतेन यद्बौद्धा वदन्ति- “स्मृतिः पूर्वानुभूतेऽर्थे दर्शनं वार्तमानिके। तयोरत्यन्तभेदे च केनाभेदः प्रतीयताम्।। रूपशक्त्यादिभेदेन बालाद्वृद्धोऽतिभेदवान्। परस्मिन्पूर्वरूपस्य न लेशोऽप्युपलभ्यते।। परस्यापि न पूर्वत्र कथमेकन्तु तद्भवेत्। अवस्थानामयं भेदो नावस्थानवतो यदि।। अवस्था एव दृश्यन्ते न स्वप्नेऽपि ततो पर”मिति। ननु इदं सर्वं क्षणिकत्वनिराकरणहेतुजालं वैभाषिकमत इव न सौत्रान्तिकमे प्रवर्तते। तत्र यत्प्रत्यक्षविषयस्य तत्कारणत्वं न स्यादिति प्रत्यभिज्ञाविरोधापादनं तत्तावन्नप्रवर्तते। सा हि प्रतिज्ञा बाह्यार्थप्रत्यक्षत्ववादिनामेव। यच्च क्षणिकत्वकल्पनस्य प्रत्यभिज्ञाप्रत्यक्षेण बाधवचनं न तदपि प्रवर्तते। बाह्यार्थेषु प्रत्यक्षप्रत्यभिज्ञायामसिद्धेः। एवञ्च “घटादि क्षणिकं अर्थक्रियाकारित्वात् शरीरादिवदिति बौद्धानां क्षणिकत्वानुमानमपि प्रत्यभिज्ञानबाधासिध्या निरुपप्लवं। अस्ति चात्रविपक्षबाधकतर्कस्स्सत्वोच्छित्तिप्रसंगः। अर्थक्रियाकार्यत्वमेव हि सत्त्वं। न ततोन्यज्जात्यादिरूपं। प्रमाणाभावात्। तच्चन्थायि वपक्षे न संभवति। तथा हि- स्थायी भावः स्वीयामर्थक्रियां क्रमेण कुर्यात् युगपद्वा। आद्ये कालांतरभाविनीं प्रत्यपि इदानीं समर्थो वा न वा। प्रथमेताबदिनानीमेव कुर्यात्। नहीदानीमसमर्थः कालान्तरे समर्थो भवति। युगपदिति पक्षे त्विदानीमेव कर्तव्यस्य सर्वस्य कृतत्वात् कालान्तरे समर्थे भवति। युगपदिति पक्षे त्विदानीमेव कर्तव्यस्य सर्वस्य कृतत्वात् कालान्तरे तस्यासत्त्वं भवेत्। ननु इह क्षणिकत्वानुमाने अस्ति प्रबलः प्रतिकूलतर्कः। क्षणिकत्वे हि त्वदुक्तविपक्षबाधकतर्कोपि न प्रवर्तते। तदुपयोग्यापाद्यापादकभूयस्सहचारदर्शनोपाध्यभावावधारण व्याप्तिग्रहणादीनामैकाधिकरण्यनियमात्। मैवं। एवमादीनामैकाधिकरण्यनियमे क्षणिकत्ववादिनामसंप्रतिपत्तेः। अतिप्रसंगशंका तु कार्यकारणभावस्य नियामकत्वेन निवारणीया। चैत्रमैत्रादयोहि प्रत्येकं कार्यकारणभावापन्ननिरंतरसन्तन्यामानालयविज्ञानक्षणनिचयात्मकाः। तस्मात् सौत्रांतिकपक्षे न कोपि दोष इत्यधिकया प्रत्यवतिष्ठमानानां सौत्रांतिकानां मतमित्थं- ज्ञानगतैर्नीलाद्याकारैः बाह्यार्थगतास्तेऽनुमीयंते। इन्द्रियसन्निकृष्टेन नीलाद्यर्थेन जायमानं हि ज्ञानं स्वयमप्यर्थवन्नीलाद्याकारं भवति। तज्ज्ञानं स्वप्रकाशतया स्वात्मानं विषयीकुर्वत् स्वगतं नीलाद्यर्थिनो बहिः प्रवृत्तिस्तु नापरोक्षज्ञानात्। किन्तु तदनन्तरभाविन आनुमानिकज्ञानात्। यथा वायुनिषेवणार्थिनश्शाखाचलनं दृष्ट्वा वक्षमूले प्रवृत्तिः। न चाक्षुषशाखाचलनज्ञानात्। किन्तु तल्लिंगवायुसञ्चारविषयानुमानिकज्ञानादिति। तत्रेदं दूषणं- इन्द्रियसन्निकृष्टभावक्षणानन्तरक्षणे हि ज्ञानं जायते। तत्र तस्य भावक्षणस्य स्वधर्मसंक्रमणनिमित्तत्वं न युज्यते। असतः कुसुमादेः स्फटिकादिषु स्वध्रमसंक्रमणनिमित्तत्वादर्शनात्। तथाऽपि नीलादिसंक्रमणाभ्युपगमे तद्गतं पुरोवर्तित्व-नेदीयस्त्व-दवीयसत्व- जडत्वादिकमपि संक्रामति न वा। संक्रामतिचेत्, आन्तरत्वज्ञानत्वादेस्तद्विरोधिनोऽवभासो न स्यात्। स्फुटिके लौहित्यसंक्रान्तौ शौक्ल्यस्येव। अथ न संक्रामति दर्पणे मुखगतप्राङ्मुखत्वनेदीयस्त्वादिवत् तदा लिंगाभावात्तदवभासो न स्यात्। अतः क्षणिकवादे बाह्यार्थप्रत्यक्षस्येव तदनुमानस्यासम्भवात् अतस्तेषां व्यवहारसिध्यर्थं स्थायित्वमेवाङ्गीकरणीयम्। क्षणिकत्वेन भावानां यानीष्टप्राप्त्यनिष्टपरिहारार्थानि लौकिकानि विहितानि च कर्माणि तेषां यः कर्ता स न तत्फलभोक्ता। किं त्वन्य एवेत्यापत्तेरुदासीनानामपि फलसिद्धिस्स्यात्। कस्यापि कर्मसु प्रवृत्तिर्न स्यात्। भाविभोक्रैक्यभ्रमात् प्रवृत्तिरिति चेन्न। क्षणिकत्वनिश्चयवतः प्रवृत्तिर्नस्यात्। भाविभोक्रैक्यभ्रमात् प्रवृत्तिरिति चेन्न। क्षणिकत्वनिश्चयवतः प्रवृत्त्यनुपपत्तेः। ननु भेदग्रहेऽपि पुत्रपौत्रादिषरम्परानुभाव्यफलेच्छया कर्मसु प्रवृत्तिदर्शनात्तथेहापि प्रवृत्तिस्स्यात्। तत्र कार्यकारणभावस्य नियामकत्वक्लृप्तेरिति चेत्। तर्हि पितृकृतानां सर्वेषां कर्मणां फलं पित्रनुभवादिफलस्मरणादिकञ्च पुत्रपौत्रादिपरम्परायां भवेत्। कार्यकारणभावस्य स्वकीयविज्ञानसन्तान इव तस्यामपि सत्त्वात्। तस्मात् कार्यकारणभावस्यानियामकत्वात् फलादिव्यवस्थासिद्धये प्रत्यभिज्ञाप्रामाण्यनिर्वाहाय च आत्मनोऽन्येषां च स्थैर्यमेवाङ्गीकार्यम्। क्षणिकत्वानुमानस्य विपक्षबाधकतर्कस्तु न प्रवर्तते। समर्थस्यापि सहकारिसमवधानक्रमात् कार्यक्रमोपपत्तेरित्यादिक्षणिकत्वनिराकरणप्रपञ्चोऽन्यत्र द्रष्टव्यः।।
संग्रहकारिका।।
उक्ते वैभाषिकेण क्षणभवसमुदायद्वये सन्निकर्ष-
ज्ञानोपादानहानक्षिति जलदहनाद्युद्भवा नो घटन्ते।
ज्ञानाकारानुमेयं तदसदपि तदा वक्ति सौत्रान्तिकाख्यो
नष्टार्थाकारसंक्रान्तत्यघटनवचसा बोधनीयस्समन्दः।।
इति समुदायाधिकरणम्।।
नाभाव उपलब्धेः।।27।।
वैधर्म्याच्च न स्वप्नादिवत्।।28।।
नभावोऽनुपलब्धेः।।29।।
क्षणिकत्वे नीलाद्यर्थानां प्रत्यक्षत्वमनुमेयत्वं वा न घटत इति वैशेषिकसौत्रांतिकमतयोरुक्तं दूषणं न योगाचारमते प्रवर्तते। नीलाद्यर्थनामान्तरविज्ञानरूपत्वेन स्वप्रकाशैस्तैरेव तत्प्रत्यक्षीकरणसंभवात् तदिति प्रत्यवस्थानात् सङ्गतिः। इदानामिह योगाचारमतं घटपटादिज्ञानानां तत्तदर्थासाधारण्यं तत्तदर्थसारूप्यमन्तरेण न घटत इत्यवश्यं ज्ञानेऽर्थसरूपं रूपमास्थेयम्। तावतैव सर्वव्यवहारोपपत्तेः। ज्ञानाकारनीलादिव्यतिरेकेण बाह्यार्थकल्पना नीलादीनां विज्ञानाकारत्वे च “नीलादिकं ज्ञानाभिन्नं भासमानत्वात् ज्ञानसहोपलम्भनियतत्वात् ज्ञानव”दित्यनुमानञ्च। न च सहत्वस्य भेदगर्भत्वाद्द्वितीयहेतुर्विरुद्ध इति वाच्यम्। ज्ञानोपलम्भव्याप्योपलम्भविषयत्वस्य तदर्थत्वात्, तदविनाभावरूपस्य च व्याप्यत्वस्याभेदेऽपि सत्त्वात्। नचाभेदे “इदं जानामी”ति क्रियाकर्मभावरूपभेदावभासविरोधः। तस्य द्विचन्द्रज्ञानवद्भ्रान्तित्वात्। तदाहुः “सहोपलम्भनियमादभेदो भेदतद्धियोः। भेदस्तु भ्रान्तिविज्ञानैः दृश्यश्चन्द्र इवाद्वय” इति। बाह्यस्य नीलादेः कथमान्तरज्ञानभेदावभासो भ्रम इति चेत्, बाह्यत्वावभासोऽपि भ्रम एव। उपरिस्थितानां नक्षत्रादीनामुद्यतां भूमिस्थत्वावभासवत्। एतेन “अहं जानामी” ति कर्तृकर्मभावेन भेदावभासोऽपि व्याख्यातः। तदप्याहुः- “अविभागोऽपि बुध्यात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्य” इति। ननु वस्तुत एकस्य ज्ञानस्य “अहमिदं जानामी”ति कर्तृकर्मक्रियात्मतया भेदेनैव स्फुरणं कथमिति चेत्, पूर्वपूर्ववासनावशात्। घटाकारज्ञानोत्पत्त्यनन्तरं कपालाकारज्ञाननोत्पत्तिस्तु वासनावैचित्र्यादिति। इदमयुक्तं। कर्तुः क्रियाकर्मतया बाह्यत्वेन प्रत्यक्षानां नीलाद्युपलब्धौ जाग्रत्यां तेषां ज्ञानाभेदानुमानानामनुत्थानात्। न च वाच्यं “बाह्यं नीलादिकमुपयद्भिरपि ज्ञानानां नीलाद्याकारत्वमनुभवसिद्धमंगीकार्यं। तेनैव सर्वव्यवहारोपपत्तौ किं बाह्यार्थकल्पनया। न हि नीलाद्याकारद्वयमुपलभ्यत” इति। यतो नीलाद्यर्थविशेषविषयेच्छादिव्यवहारानुगुण्यमेव ज्ञानस्य नीलाद्याकारः। नतु बाह्यार्थस्येव मुख्यं नीलाद्याकारत्वमस्ति। नीलशीतोष्णादिसमूहालंबनानां परस्परविरुद्धानेकरूपत्वापत्तेः। स्वप्नदृष्टांतेन ज्ञानानां बाह्यार्थशून्यत्वकल्पनमपि नयुक्तं। बाधाबाधाभ्यां स्वप्नज्ञानानामपि तादात्विकविषयत्वाच्च। वासनावैचित्र्यात् विचित्रज्ञावोदयसमर्थनमप्ययुक्तं, निरन्वय विनाशवादे वासनाधानस्याप्यसंभवात्।।
संग्रहकारिका।।
विज्ञानमेव त्रिपुटं योगाचारस्य जल्पतः।
निह्नुतिर्वेद्यवेदित्रोः उपलब्ध्यैव वार्यते।।
इति उपलब्ध्यधिकरणम्।।
सर्वथाऽनुपपत्तेश्च।।30
विज्ञानमात्रास्तित्ववादियोगाचारमतनिराकरणान्तरं तदप्यपलपतां माध्यमिकानां मतं निराक्रियत इति संगतिः। ते खलु एवमाहुः-नेष्टन्तदपि धीराणां विज्ञानं पारमार्थिकं। एकानेकस्वभावेन वियोगाद्वियदब्जवत्।। विज्ञानानामपि नीलपीतशीतोष्णाद्येकानेकस्वभाववत्वविकल्पदौस्थ्यान्न परमार्थसत् अतस्तुच्छत्वमेव तत्व”मिति। इदमयुक्तं। तुच्छत्वं प्रतिजानानस्य तत्तुच्छत्वं सत्त्वरूपमिति वा असत्त्वरूपमिति वा प्रकारांतरमिति वा अभिप्रायः। सर्वथाऽपि नसंभवति। लोके सत्त्वासत्वयोः नित्यानुवर्तमानद्रव्यावस्थाविशेषत्वेन आरम्भणाधिकरणे प्रतिपादततया तुच्छत्वं सत्त्वमेवेति वा, असत्त्वमेवेति वा, प्रकारान्तरमिति वा, उपपादनासम्भवात् सर्वेष्वपि कार्येषु सतएव कारणत्वेन केवलादसतः प्रकारान्तरापन्नाद्वा कार्योत्पत्तयभावात्। एतेन अभावात्मकत्वमेव तुच्छत्वं, चतुष्कोटिविनिर्मुक्तत्वं वा तुच्छत्वं। “नसन्नासन्नसदसत् नचाप्यनुभयात्मकं। चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिकाविदु”रितिवचनादिति निरस्तं। भावातिरिक्ताभावानगीकारेण अभावकारणतोक्तेः सत्कारणवादएव पर्यवसानात्। सद्बुद्धिशब्दवत् सत्त्वनिषेधादिबुद्धिशब्दानामपि देशकालपरिच्छिन्नवस्तुविषयत्वेन ततस्तुच्छत्वासिद्धेः। इदमिदानीमस्ति इदमेवंरूपभवतीति सत्त्वबुद्धिशब्दयोरपि देशकालवस्तुपरिच्छिन्नसत्त्वाविषयत्त्वेनैव लोके प्रसिद्धतया क्वचिदपि निरूपाधिकनिषेधासिद्धेः।।
संग्रहकारिका।।
सर्वशून्यत्ववादस्तु सर्वथानोपपद्यते।
यस्मात्सदसदित्युक्ती वस्त्ववस्थातदाश्रये।।
इति सर्वथानुपपत्त्यधिकरणम्।।
नैकस्मिन्नसंभवात्।।31।।
एवञ्चात्माकार्त्स्न्यम्।।32।।
न च पर्यायादप्यविरोधोविकारादिभ्यः।।33।।
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः।।34।।
निरस्तास्सौगताः। जैनानिरस्यन्ते। ते किलमन्यन्ते- जीवधर्माधर्म पुद्गलकालाकाशाख्यषड्द्रव्यात्मकंजगत् निरीश्वरं। तत्र जीवा बद्धयोगसिद्धमुक्तास्त्रिविधाः। धर्मो गतिमतां गतिहेतुर्व्यापी द्रव्यविशेषः। अधर्मस्स्थितिहेतुर्व्यापी द्रव्यविशेषः। पुद्गलस्त्वणुभूधरसमुद्रादिः। “अभूदस्तिभविष्यती”ति व्यवहारहेतुरणुद्रव्यविशेषः कालः। आकाशोऽप्येकः। किंत्वनन्तप्रदेश इति। पुनश्चापरमपि संग्रहं कुर्वन्ति। जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षा इति। जीवा उक्ताः। अजीवो जीवभोग्यं सर्वंवस्तुजातं। आस्रवत्यनेन जीवो घटादिज्ञानरूपेणेत्यास्रव इन्द्रियसंघातः। केचित्वास्रवति जीवे गच्छतिसति सर्वत्रानुगच्छतीति कर्मबन्ध आस्रव इत्याहुः। तदाह जिनदत्तः “आस्रवः कर्मणा बन्धो निर्जरस्तद्विमोचन”मिति। बन्धः घातिकर्मचतुष्काघातिकर्मचतुष्कभेधेनाष्टविधः। तत्राद्यचतुष्कं जीवस्य ज्ञानदर्शनसुखवीर्यगुणानां मोक्षदशायामाविर्भविष्यतां प्रतिघातकं प्रवाहानादिपापरूपम्। द्वितीयचतुष्कं शरीर संस्थानतदभिमानतत्स्थिति ततप्रयुक्तसुखादि निमित्तपुण्यमिश्रितत्वात् पुण्यरूपम्। निर्जरो निश्शेषं जीर्यत्यनेन कामक्रोधादिरिति व्युत्पत्त्या केशोल्लुंछनतप्तशिलारोहणदिरूपं तपः। संवर इन्द्रियनिरोधः। स्वाभाविकात्मस्वरूपाविर्भावो मोक्षः। केचित्तु सततोर्ध्वगमनं मोक्षः। बन्धमुक्तस्य ह्यूर्ध्वगमनं स्वभावः। यथा पञ्जरमुक्तशुकस्य, यथा वा निर्भिन्नस्य परिणतैरण्डबीजस्य, यथावा दृढपङ्कलिप्तस्य जलनिमज्जनप्रक्षीणपङ्कलेपस्य शुष्कालाबुफलस्य। इह्वनादिकालप्रवृत्तबन्धविगमात् सततोर्ध्वगमनं सर्वेषां लोकानामुपरि स्थितो निरवधिरलोकाकाशस्सततोर्ध्वगमन स्यावकाश इत्याहुः। तथा पठन्ति- “गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः। अद्यापि न निवर्तन्ते त्वलोकाकाशमार्गगा”इति।। अपरेत्वाविर्भूतज्ञानादिगुणस्योपरिदेशावस्तम् मोक्षइत्याहुः। सर्वमेतद्वस्तुजातं सप्तभङ्गीनयेन योजयन्ति। “स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यं, स्यादस्ति चा वक्तव्यञ्च, स्यान्नास्तिचावक्तव्यञ्च, स्यादस्ति च नास्तिचावक्तव्यञ्चे”ति। अत्र सत्वासत्व-सदसत्व सदसद्विलक्षणत्व-रूपानिर्वचनीयत्व विषयाश्चत्वारः प्रकाराः। पुनश्चानिर्वचनीयत्वेन सह सत्वासत्वसदसत्वसंयोजनेन त्रयः प्रकारा इत्येवं सप्तप्रकारावादिभिरुत्प्रेक्षितुं शक्याः। ते सर्वेऽपि प्रकारा जैनैरीषदीषत्स्वाङ्गीकृतेषु सर्वेष्वपि पदार्थेषु वर्ण्यते। स्याच्छब्द ईषदर्थ इति केचित्। अनैकान्त्यार्थं इत्यन्ये। उभयथाऽपि तिङन्तप्रतिरूपकमव्ययम्। सत्वे प्रदर्शितः सप्तभङ्गीनयस्स्यान्नित्यं स्यादनित्यमित्यादिरूपेण नित्यत्वभिन्नत्वादिधर्मेष्वपि समान इति तदिदं जैनमतमपि न युक्तम्। एकस्मिन्विनोपाधिभेदं विरुद्धानेकधर्मसमावेशासम्भवात्। नन्वेकस्मिन्नपि देशकालाद्युपाधिभेदेन विरुद्धधर्मसमावेशोऽभ्युपगम्यते। नन्वेकस्मिन्नपि देशकालाद्युपाधिभेदेन विरुद्धधर्मसमावेशोऽभ्युपगम्यते। स न तत्रोपाधिभेदस्सम्भवतीत्येतावताऽभ्युपगम्यते। स न तत्रोपाधिभेदस्सम्भवतीत्येतावताऽभ्युपगम्यते। किन्तु प्रमाणवत्त्वेन। अत एव पिंडत्वघटत्वयोः कालोपाधिभेदेन समावेशमभ्युपगच्छताऽपि सिद्धान्तिना जीवत्वेश्वरत्वादीनां तथा समावेशे प्रमाणन्नास्तीति तेषां यत्किंचिदुपाधिभेदेन समावेशो नाभ्युपगम्यते। एवञ्च प्रमाणाधीन एव धर्मसमावेशः। न तूपाधिसम्भवाधीन इति स्थिते सत्यत्वादिकं व्यवस्थापयद्भिस्तैस्तैर्वादिभिरूपपादितानि सत्वासत्वसदसत्त्वादिषु प्रमाणानीति तेषां समावेशः कुतो न स्यादिति चेन्न। तैस्तैर्वादिभिरुत्प्रेक्षितानां सर्वेषां प्रामाण्यसंभवात् परस्परविरोधित्वेन केषांचिदाभासत्वावश्यंभावात्। अन्यथा प्रपंचसत्त्वाद्विवादिभिस्तदसत्यत्वादौ दोषाणामप्युमानत्वेन तेषामप्यारोप्यत्वापत्त्याऽनैकान्त्यवादिनस्तत्तद्वाद्युक्त दोषभाक्त्वस्यापि प्रसंगात्। एतेन यदुक्तं स्याद्वादमंजर्यां- “अन्योन्यपक्षप्रतिपक्षभावाद्यथापरे मत्सरिणः प्रवादाः। न यानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथान” इति, तन्निरस्तं। अपक्षपातेन सकलसमयोक्तसत्त्वादिसंग्रहे तत्तदुक्तासत्वदोषाणामपि संग्रहापत्तेः। ननु तर्हि लोकाविरोधेनैव सप्तभंगीनयं समर्थयामहे। सर्वसंप्रतिपन्नेन तावदेकस्य कालभेदेन सत्वासत्वे। अतस्तयोस्स्वस्वकालविवक्षया अस्तीति नास्तीति च भंगद्वयं क्रमविवक्षया सदसदिदमिति तृतीयभंगः युगपत्सत्वासत्वविवक्षयाऽनिर्वचनीयमिति चुतर्थभंगः। न हि युगपदेकस्य सत्वमसत्वं च निर्वक्तुंशक्यं। यगपत्सत्वासत्वयोरनिर्वचनीयत्वेन सह सत्वस्यासत्वस्य क्रमिकोभयस्य च मेलनेऽवशिष्टं भंगत्रयमिति। तदाहानन्तवीर्यः- “तद्विधानाविवक्षायां स्यादस्तीति गतिर्भवेत्। स्यान्नास्तीति प्रयोगस्स्यात् तन्निषेधे विवक्षिते।। क्रमेणोभयवांछायां प्रयोगस्समुदायभाक्। युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः। आद्यावाच्यविवक्षायां पंचमो भंगं इष्यते। अन्त्यावाच्यविवक्षायां षष्ठभंगस्समुद्भवी।। समुच्चयेन युक्तश्च सप्तमो भंग उच्यत” इति। तस्मादविरोधेन सप्तभंगीनय उपपद्यत इति चेत्, यद्येवं पारिभाषिकोयं सप्तभंगीनयः तदास्वीक्रियत एव। घटादिस्स्वदेशेऽस्ति अन्यदेशे नास्ति, स्वकालेऽस्ति-अन्यकगाले नास्ति, स्वात्मनास्ति-अन्यात्मना नास्तीति देशकालप्रतियोगिभेदेन सत्वासत्वसमावेशे लौकिकपरीक्षकाणां विप्रतिपत्त्यभावात्। न चैतावता जैनाभिमतवस्त्वनैकांत्यसिद्धिः। स्वकाले सदेव अन्यकाले असदेवेत्यादिनियमक्षत्यभावात्। ननु सर्वधर्मानैकांत्यवादिनामेकत्वमपि न व्यवस्थितं। अतः “स्यादनेक”मित्यनेक त्वपर्यायमादाय सत्वासत्वादिसमावेश उपपद्यत इति चेन्न। प्रथमापेक्षितस्यैकत्वानेकत्वसमावेशस्याप्यविरोधेनोपपादयितुमशक्यत्वात्। संख्यैकांत्यानङ्गीकारे जींवधर्माधर्मादीनि षड्द्रव्याणीति स्वसिद्धान्तस्थित्युपन्यासायोगाच्च। किं बहुना। सर्वानैकान्त्यवादिनां “अयमस्याः पुत्रः, अयमस्याः पतिः, अयमस्याः पिते”त्यादिव्यवस्थाया अप्यसिध्या तस्यां पुत्रादीनां मातृत्वाद्युचितव्यवहारा अपि न व्यवतिष्ठेरन्। तस्मात् सर्वबहिष्कार्योऽयमनकान्तवादः। किं चात्मा देहपरिमाण इति जैनैरिष्यते। तदप्ययुक्तम्। मातङ्गशरीरं व्याप्य स्थितस्यात्मनो मशकशरीरप्रवेशे वैकल्यप्रसङ्गात्। भशकशरीरान्मातंगशरीरं प्रविशतस्तद्व्यापनसमर्थपरिणामाभावेन तत्र तस्य सर्वांगीणसुखानुभवाभावप्रसंगाच्च। ननु संकोचविकासवानात्मा तत्तच्छरीरानुसारेण संकोचरूपं विकासरूपं वा पर्यायमवस्थांतरमापद्यत इत्यभ्युपेयते। अतो न दोष इति चेन्न। तथासत्यात्मनो विकार तत्प्रयुक्तानित्यत्वादिप्रसंगात्। तस्मान्मोक्षदशायामात्मनो यदंत्यं परिमाणं तस्य तथैवावस्थानं जैनैरपि वक्तव्यम्। तदनन्तरं देहान्तराभावेन तदुचितपरिमाणाप्रसक्तेः। अतो मोक्षदशावस्थितात्मस्वरूपवत् तत्परिमाणस्यापि नित्यत्वाविशेषात् तदेवात्मनस्स्वाभाविकं परिमाममित्यंगीकर्तुं युक्तं। न तु संकोचविकासवत्त्वम्।।
संग्रहकारिका।।
सप्तभंगीनये कार्या न प्रत्याशा दिगंबरैः।
सत्वासत्वादियुगपत् नन्वेकस्मिन्नसंभवि।।
इति एकस्मिन्नसंभवाधिकरणम्।।
पत्युरसामञ्जस्यात्।।35।।
अधिष्ठानानुपपत्तेश्च।।36।।
करणवच्चेन्न भोगादिभ्यः।।37।।
अन्तवत्वमसर्वज्ञतावा।।38।।
सत्वासत्वादिविरोधाज्जैनानां मतमिव परस्परविरोधाद्वेदविरोधाच्च शैवानां मतमप्यसमंजसमित्युपपाद्यत इति संगतिः। कापाल-कालामुखपाशुपत- सिद्धांतशैवाख्यचतुर्विधशैवमध्ये कापालानां कालामुखानांच मतं भाष्ये प्रदर्शितं। पाशुपतास्वित्थमाहुः- कार्यकारणयोगविधिदुः खांताः पंच पदार्थाः पशउपाशविमोक्षाय बोद्धव्याः। तत्र कार्याणि पृथिव्यादीनि पञ्चभूतानि, रूपादयः पञ्च गुणाश्चेति दशविधानि। करणानि ज्ञानेन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, मोबुध्यहङ्काररूपाणि त्रीण्यन्तः करणानीति त्रयोदशविधानि। ध्यानादिरूपो यगः। धर्मार्थव्यापारो विधिः। स व्रतद्वाररूपेण द्विविधः। भस्मस्नानभस्मशयनोपहारादिव्रतम्। भस्मस्नानं द्विविधम्। त्रियवणकर्तव्यं जलस्नानप्रतिनिधिरूपं नित्यमेकम्। मलमूत्रोत्सर्जनक्षुतनिष्ठीवनादिषु कर्तव्यं जलशुद्धिप्रतिनिधिरूपानुस्नानाख्यं नैमित्तिकमन्यद्भस्मस्नानम्। भस्मशयनञ्च गृहस्थगृहेष्वन्नवद्भिक्षितेन भस्मना कार्यं। उपहारष्षड्विधः- हसितगीतनृत्तहुडुकारनमस्कारजपभेदेन। तत्र हसितमट्टहासः। गीतं नृत्तञ्च यथारुचि गान्धर्वशास्त्रानादरेण। हुडुकारो जिह्वा तालुसंयोगेन निष्पाद्यमानो वृषभनादसदृशो नादः। यत्र लौकिका नभवन्ति तत्र चत्वार्येतानि गूढं प्रयोक्तव्यानि। जपः पञ्चब्रहममन्त्राणां नमस्कारः प्रसिद्धः। द्वाराणि कायनस्पन्दनमन्दयानश्रृङ्गारणापितत्करणापितद्भाषण भेदेन षड्विधानि। असुप्तस्येव सुप्लिङ्गप्रदर्शनं कायनम्। वातव्याध्यभि भूतस्येव शरीरावयवानां कम्पनं स्पन्दनम्। उपहतपादेन्द्रियस्येव गमनं मन्दयानम्। रूपयौवनसम्पन्नां कामिनीमवलोक्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति, तदाचरणं श्रृङ्गारणम्। कार्यकार्यविवेकविकलस्येव लोकनिन्दितकर्मकरणमपितत्करणम्। व्याहतापार्थकादिशब्दोच्चाराणमपि तद्भाषणम्। दुःखान्तो द्विविधः। अनात्मकस्सात्मकश्च। अनात्मकस्सर्वदुःखानामत्यन्तोच्छेदः। सात्मकस्तु दृक्क्रियाशक्तिबललक्षणमैश्वर्यम्। तत्र दृक्छक्तिरेकाऽपि वषयभेदात्पञ्चधोपचर्यते। दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञत्वं चेति। सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पर्शनादिविषयं ज्ञानं दर्शनम्। अशेषशब्दविषयं ज्ञानं श्रवणम्। निरवशेषशास्त्रविषयं ज्ञानं मननम्। ग्रन्थतोऽर्थतश्चासन्दिग्धं ज्ञानं विज्ञानम्। सर्वज्ञत्वं प्रसिद्धम्। क्रियाशक्तिरेकाऽपि त्रिविधोपचर्यते- मनोजवत्वं कामिरूपत्वं विकरणथर्मित्वञ्चेति। निरतिशयशीघ्रगामित्वं मनोजवित्वम्। कर्मानपेक्ष्य स्वेच्छयैवानन्तशरीरेन्द्रियाधिष्ठातृत्वं कामिरूपित्वम्। उपसंहृतशरीरेन्द्रियस्यापि निरतिशयैश्वर्यशालित्वं विकरणधर्मित्वम्। पशुपतिस्तु परमेश्वरस्सर्वत्रापि कार्ये निमित्तम्। पशूनां कर्मानपेक्ष्य स्वेच्छयैव फलप्रदः। निरतिशयस्वातंत्र्यशालित्वात्। न चैवं कर्मवैयर्थ्यम्। ईश्वरेच्छानुगृहीतकर्मणस्साफल्यात्, तदननुगृहीतस्य कर्मणः पर्जन्याननुगृहीतकृषिकर्मण इव वैफल्येऽपि दोषाभावात्, तदनुग्रहसम्भावनया कर्मसु प्रवृत्त्युपपत्तेः। सृष्टिक्रमोऽपि तादात्विकेश्वरेच्छाधीनः। न तु नियमेनाकाशादिरिति। एवंविधस्य पाशुपतमतस्य कापालकालामुखमताभ्यां विरोधस्स्पष्टः। भस्मस्नानादेः क्रियातस्साम्येपि शवभस्मवत् किंचिद्भस्माभिक्षितं भस्मेति ग्राह्यभस्मस्वरूपेऽस्ति विरोधः। वेदेनचास्ति विरोधः। न हुडुकारादिकं वेदेषु तदुपबृह्मणेषु स्पष्टमस्ति। श्रृङ्गारणं भस्मस्नानानुस्नानाभ्यां प्रत्याम्नानतया जलस्ननं जलशुद्धिनिवर्तनं प्राणिकर्मनियतसृज्यक्रमानपेक्षणञ्चात्यंतं वेदमार्गविरुद्धं। एवं कापालादिशैवत्रयं परस्परविरोधाद्वेदविरोधाच्चासमंजसमिति सिद्धं। यद्यपि सिद्धांतशैवस्य नात्यंतं वेदविरोधोस्ति। वेदविरोधाभावे च कामिकादिवातुलांतानामष्टाविंशतितंत्ररूपाणामवांतरभेदानां परस्परविरोधस्त्वागमसिद्धांत दिव्यसिद्धांततंत्रसिद्धांततंत्रांतरसिद्धांतरूपपांचरात्रावांतरतंत्रभेदपरस्परविरोधवत् तत्तत्तंत्रगीक्षिताधिकारिभेदेन समाधातुं शक्यः। कामिकादिषु शिवागमस्य वेदादुत्कर्षोक्तिश्च पांचरात्रस्य तत उत्कर्षोक्तिवत् समाधातुं शक्या। तथापि वेदप्रामाम्यमंगीकृत्यापि वेदं प्रच्छाद्य सिद्धांतशैवतंत्रेषु यदनुमानेनैवेश्वरप्रसाधनं कृतं तन्नूनं यथावेदमीश्वराभ्युपगमे प्रायः कारणवाक्येषु पुरुषोत्तमासाधारणेन नारायणनाम्ना कारणवस्तुनिर्देशात् स एव जगत्कारणं परब्रह्म भेदिति तत्प्रच्छादनार्थमित्यवसीयते। अतस्तेषामनुमानेनेश्वरप्रसाधनमात्रस्यासामञ्जस्यमुद्भावयामः। लोके कुलालमृत्पिण्डादिभेददर्शनेन हि श्रुतिसिद्धजगन्निमित्तोपादानाभेदमविगणय्यानुमानेन केवलनिमित्तेश्वरः प्रसाध्यते। तर्हि लोकदर्शनेनैव शरीरित्वमप्यंगीकरणीयं। शरीरिण एव कुलालादेः कर्तृत्वदर्शनात्। न चाधिष्टेयं मायादिकमेव तस्य शरीरं भवेत्, स्वशरीरव्यापारेनात्। न चाधिष्ठेयं मायादिकमेव तस्य शरीरं भवेत्, स्वशरीरव्यापारे नियम्यातिरिक्तशरीरानपेक्षणस्य दृष्टत्वादिति वाच्यं। न हि शरीरमात्रमापादयामः। किन्तु भोगाश्रयरूपं। भोगार्थं तथाभूतं शरीरमधितिष्ठतो हि सुखार्थं दुःखपरिहारार्थं वा क्वाचित्कत्वं दृष्टं। तथा च कर्तृत्वनिर्वाहार्थं भोगाश्रयशरीराभ्युपगमे तन्मूलपुण्यपापवत्वं, शरीरस्यानित्यत्वनियमात् अन्तवत्वं, जननमरणावृत्तिमतां किञ्चिज्ज्ञत्वदृष्टेरसर्वज्ञत्वं च, स्यात्। अतोऽनुमानेनेश्वरसिद्धिमिच्छतां यथाभिमतरूप ईश्वरो नसिध्येदिति। यत्तु शास्रयोनित्वाधिकरणे अनुमानेनेश्वरसिद्धौ ईश्वरानेकत्वादिकमपि सिध्येदिति दुषणमुक्तं, तदप्यत्रत्यदुषणमेव। अत्रैव सूत्रकारस्यानुमानदूषणकंठोक्तिदर्शनात्। तत्र तु सूत्रकृतां “तंत्वौपनिषदमि”त्यादिश्रुतितात्पर्यविचारेमैव परमेश्वरस्य शास्त्रयोनित्वं व्यवस्थापितं। अतो न तेन पौनरुक्त्यं। “रचनांनुपपत्ते”श्चेति सांख्याधिकरणे मृद्घटादिन्यायेन सुखदुःखमोहात्मकस्य जगतस्तत्सरूपेण कारणेन भवितव्यमित्यनुमिमानं सांख्यं प्रति तर्हि तदृष्टांतेनैव चेनाधिष्ठानेनैव भाव्यमित्येतावन्मात्रमापादितं। न तु स्वतंत्रमीश्वरानुमानमनवद्यमिति तेनेश्वरः प्रसाधितः। अतस्तत्रेश्वरानुमानमनुमोदितं। इह दूषितमिति न विरोधः।
संग्रहकारिका।।
पत्युर्मतं नादरणीयमेव परस्परेण श्रुतितोऽपि बाधात्।
निमित्तमात्रेश्वरकल्पनाया मधिष्ठितेरप्यसमंजसत्वात्।।
इति पशुपत्यधिकरणम्।।
उत्पत्त्यसंभवात्।।39।।
न च कर्तुः करणम्।।40।।
विज्ञानादिभावे वा तदप्रतिषेधः।।41।।
विप्रतिषेधाच्च।।42।।
पाशुपतवत् पाञ्चरात्रस्यापि तंत्रत्वेनाप्रामाण्यमाशंक्य निरस्यत इति संगतिः। पाञ्चरात्रिणो भागवता मन्यन्ते- भगवान्नारायणः परंब्रह्म सवासुदेवादिचतुर्व्यूहात्मनाऽवतिष्ठते। तत्र वासुदेवः परिपूर्णषाड्गुण्यशाली। षड्गुणास्तु ज्ञानबलैश्वर्यशक्तितेजांसि। तत्र चेतनाचेतनात्मकसकलप्रपञ्चगताशेषविशेषोल्लोखिततया सकलवस्तुगोचरं तस्य ज्ञानं ज्ञानमुच्यते। जगत्प्रकृतिभावश्शक्तिः। जगत्सृजतोऽस्य श्रमाभावस्तिलकालकवदप्रयत्नेन स्वसृष्टसकलजगद्भरणञ्च बलम्। अप्रतिहतेच्छत्वमैश्वर्यम्। जगत्प्रकृतित्वेऽपि पयसो दधिभावेनेव विकारविरहो वीर्यम्। जगत्सृष्टौ सहकार्यनपेक्षत्वं पराभिभवसामर्थ्यञ्च तेजः। ततो ज्ञानबलोन्मेषेण सङ्कर्षणरूपः प्रादुर्भवति। ततो वीर्यैश्वर्योन्मेषेण प्रद्युम्नरूपाः। ततश्शक्तितेजस्समुन्मेषेणानिरुद्धरूपः।। सङ्कर्षणादयश्च जीवमनोऽहङ्कारूरपाः। एवं चतुर्व्यूहं भगवन्तं प्रत्यहं पाञ्चकालिकेनाभिगमनादिपञ्चकेन वार्षशतिकादिव्रतेन समाराध्य पुरुषः क्लेशैर्मुच्यते। तत्राभिगमनं प्रातर्भगवन्मन्त्रजपस्तुतिनमस्कारादिकम्। ततः पूजार्थपुष्पादिस्पादनमुपादानम्। ततः पूजनमिज्या। ततो भगवच्छास्त्रतदनुगुणपुराणागमश्रवणादिकं स्वाध्यायः। ततस्सायंसन्ध्यानन्तरं भगवति चित्तसमाधानं योग इति। तदिदमयुक्तमिति पूर्वपक्षः। तथा हि- पाञ्चरात्रे जीवस्योत्पत्तिराम्नायते। “वासुदेवात्सङ्कर्षणो नाम जीवो जायते। सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते। तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायत” इति। न च जीवस्यानादेरुत्पत्तिस्सम्भवति। न च सङ्कर्षणादीनां जीवाद्यभिमानित्वमनेनोच्यत इति वाच्यम्। तथा सति “सङ्कर्षणो नाम जीव” इत्याद्यनुपपत्तेः। अनेन हि प्रसिद्धानामेव जीवमनोऽहङ्काराणां पाञ्चरात्रपरिभाषया सङ्कर्षणप्रद्युम्नानिरुद्धनामानि विधीयन्ते। ततश्च सङ्कर्षणादिनामभिरनूद्य तस्मिन् शास्त्रे यद्विग्रहायुधादिविधानं तत्ककाराद्यक्षराणां वर्णविशेषविधानवत् तेषामेव ध्यानार्थमिति सिध्यति। न तु मनोऽभिमानिनो देवाः तत्तद्विग्रहायुधादिविशिष्टा इति। किं च जीवस्योत्पत्तिरिव जीवात् कर्तुः मन आदिकरणोत्पत्तिश्च न सम्भवति। “एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे”ति परस्मादेव ब्रह्मणो मन आद्युत्पत्तिश्रवणात्। तस्मात् पाञ्चरात्रस्यापि वेदविरोधादप्रामाण्यमिति।।
सिद्धान्तस्तु- पाञ्चरात्रे वासुदेवाज्जीवस्य जीवादिभ्यो मन आदीनामुत्पत्तिश्च नोक्ता। किन्तु जीवाद्यधिष्ठातॄणां सङ्कर्षणादिव्यूहानां प्रादुर्भाव एव “अजायमानो बहुधा विजायत” इति श्रुतिसिद्ध उक्तः। “जनीप्रादुर्भाव”इति च धातुः। न तु प्रसिद्धानां जीवादीनां सङ्कर्षणादिसंज्ञा उक्ताः। तत्र जीवादिशब्दानां नियाम्यवाचिनां तत्तन्नियन्तृव्यूहविशेषपरत्वाच्छरीरवाचिनां शरीरिपर्यन्तत्वस्यापृथक्सिद्धप्रकारवाचिनां प्रकारिपर्यन्तत्वस्य च द्वितीध्याये व्युत्पादयिष्यमाणत्वात्, पाञ्चरात्र एव जीवं प्रकृत्य “सह्यनादिरनन्तश्च पारमार्थ्येन निश्चित” इति तस्योत्पत्तिप्रतिषेधाच्च। तस्माद्भगवता वासुदेवेन प्रणीतं पाञ्चरात्रं प्रमाणमूर्धन्यमेवेति।।
संग्रहकारिका।।
जीवोत्पत्त्यभिधानान्नग्राह्यं पाञ्चरात्रमिति चेन्न।
व्यूहाभिव्यक्त्युक्तेस्तत्र निषेधाच्च जीवजनेः।।
इति उत्पत्त्यसम्भवाधिकरणम्।।
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि-द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयुखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य द्वितीयः पादः ।।