[highlight_content]

यादवाभ्युदयः सर्गः-1

श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्

।। यादवाभ्युदयः ॥

प्रथमः सर्गः


1.1          वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् ।

जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥

1.2          यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः ।

यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥

1.3          शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि ।

अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥

1.4          वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते ।

अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥

1.5          स कविः कथ्यते स्रष्टा रमते यत्र भारती ।

रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥

1.6          तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् ।

न दोषायैतदुभयं न गुणाय च कल्पते ॥

1.7          प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।

न वाचमवमन्यन्ते नर्तकीमिव भावुकाः ॥

1.8          विहाय तदहं व्रीळां(डां) व्यासवेदार्णवामृतम् ।

वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥

1.9          क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।

एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥

1.10        जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।

परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥

1.11        यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः ।

सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥

1.12        समवर्धत तद्वंशः उपर्युपरि पर्वभिः ।

यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥

1.13        बभूव नहुषस्तस्मिन् ऐरावत इवाम्बुधौ ।

यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥

1.14        नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलंकृताः ।

जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥

1.15        शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे ।

यथावत् साधकस्येव यावदर्था सरस्वती ॥

1.16        वीरो रस इवोत्साहान्नहुषादभ्यजायत ।

ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥

1.17        विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।

आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता ॥

1.18        निदेशं तस्य राजानो न शेकुरतिवर्तितुम् ।

प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥

1.19        तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः ।

भावा इव रसं भव्याः पार्थिवाः पर्युपासत ॥

1.20        यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः ।

समानगणनालेख्ये निस्समानैर्निषद्यते ॥

1.21        देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः ।

ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्पदैः ॥

1.22        स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।

न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥

1.23        अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः ।

अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥

1.24        शराणां शात्रवाणां च सन्धानेन महौजसः ।

तस्य निर्धूतलक्षेण द्विः क्वचिन्नाप्यभूयत ॥

1.25        युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।

दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥

1.26        यशःप्रसूनसुरभिर्यदुसन्तानपादपः ।

बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥

1.27        वंशे समभवत् तस्य वसुदेवः क्षितीश्वरः ।

जनकः प्राग्भवे योऽभूत् देवदानवयूथयोः ॥

1.28        आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निस्वनैः ।

सह जातं यमाचख्युराख्ययाऽऽनकदुन्दुभिम् ॥

1.29        तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः ।

जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥

1.30        स विष्णुरिव लोकानां तपनस्तेजसामिव ।

समुद्र इव रत्नानां सतामेकाश्रयोऽभवत् ॥

1.31        प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः ।

रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥

1.32        अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः ।

ऐकरस्यमभूत् पत्या गङ्गायमुनयोरिव ॥

1.33        स ताभ्यामनुरूपाभ्यां समतुष्यत् समेयिवान् ।

व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ॥

1.34        अलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः ।

यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥

1.35        कयाचिदशरीरिण्या वाचा व्यवसितायतिः ।

देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥

1.36        स कालातिबलः कंसः कालनेमिरनेहसा ।

सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥

1.37        एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः ।

प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥

1.38        विदितं भवतां देवाः! विश्वरूपेण विष्णुना ।

महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥

1.39        अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः ।

असङ्ख्यैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः ॥

1.40        अत आलोचितजगद्धितैः सुरगणैः स्वयम् ।

न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥

1.41        इति ते भूतधारिण्या निसृष्टार्था दिवौकसः ।

अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥

1.42        पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः ।

दुग्धोदधिशयं देवं दूरमेत्याभितुष्टुवुः ॥

1.43        त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये ।

वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥

1.44        अनन्याधीनमहिमा स्वाधीनपरवैभवः ।

दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥

1.45        स भवान् गुणरत्नौघैर्दीप्यमानो दयांबुधिः ।

तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम् ॥

1.46        त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदंपरैः ।

निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥

1.47        अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् ।

वितथा वेदपान्थानां यत्रसायंगृहा गतिः ॥

1.48        नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः ।

पुत्रैः पितृमतः क्रीडा कथं ते केन वर्ण्यते ॥

1.49        नटवद् भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः ।

पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥

1.50        ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।

सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥

1.51        निराधारनिजस्थेम्नो निरुपाधिकशेषिणः ।

निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥

1.52        अनाविलधियामन्तः चिन्तामणिरिव स्फुरन् ।

दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥

1.53        संसारमरुकान्तारे परिश्रान्तस्य देहिनः ।

त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥

1.54        दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः ।

समग्रगुणसंपन्नः तारकस्त्वं प्लवो महान् ॥

1.55        अपरिच्छिद्यमानस्य देशकालादिभिस्तव ।

निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः ॥

1.56        अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् ।

सङ्कल्पसचिवः काले(लः) शक्तिलेशः स तावकः ॥

1.57        यन्मूलमखिलं कार्यं यदमूलमधीमहे(यते) ।

लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥

1.58        त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् ।

प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥

1.59        यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् ।

तारकं सर्वजन्तूनां तत् त्वं तव च वाचकम् ॥

1.60        त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् ।

मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥

1.61        अनन्यरक्षाव्रतिनं चातकव्रतचारिणः ।

भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥

1.62        अनिदंपूर्वनिद्राणामनस्तमयभानुमान् ।

आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥

1.63        त्वदेकशरणानां त्वं शरणागतजीवनः ।

विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥

1.64        सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः ।

जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥

1.65        स दैत्यहत्यामिच्छद्भिः सुरैरेवमभिष्टुतः ।

अनन्यदृश्यः सहसा दयया दर्शनं ददौ ॥

1.66        ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् ।

अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥

1.67        पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया ।

स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसंपदम् ॥

1.68        सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् ।

स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥

1.69        आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः ।

अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥

1.70        उत्तेजितजयोत्साहमायुधैरनघोद्यमैः ।

शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव ॥

1.71        स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः ।

महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥

1.72        श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना ।

स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥

1.73        स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् ।

भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः ॥

1.74        अनपायं तमादित्यमक्षयं तारकाधिपम् ।

अपारममृताम्भोधिममन्यन्त दिवौकसः ॥

1.75        अभयोदारहस्ताग्रमनघस्वागतस्मितम् ।

अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥

1.76        तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः ।

निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥

1.77        त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् ।

तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥

1.78        चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् ।

हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥

1.79        जाता निखिलवेदानामुत्तमाङ्गोपधानतः ।

त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥

1.80        यदि न त्वरते नाथ! भारव्यपनये भवान् ।

प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥

1.81        करुणाधीनचित्तेन कर्णधारवती त्वया ।

माऽवसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥

1.82        रशनारत्नरूपेण पयोधिरशना त्वया ।

प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥

1.83        कंसप्रभृतिभिः सेयं शल्यैरिव समुद्धृतैः ।

चिरं भवतु ते पृथ्वी शेषमूर्तेश्शिखण्डकः ॥

1.84        प्रबोधसुभगैः स्मेरैः प्रसन्नैः शीतलैश्च नः ।

कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदूर्मिभिः ॥

1.85        त्वयि न्यस्तभराणां नस्त्वमेतां क्षन्तुमर्हसि ।

विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम् ॥

1.86        इत्थं वदति देवानां समाजे वेधसा सह ।

ववन्दे पृथिवी देवं विनतत्राणदीक्षितम् ॥

1.87        तनुमध्या विशालाक्षी तन्वी पीनपयोघरा ।

मायेव महती तस्य वनितारत्नरूपिणी ॥

1.88        आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः ।

अयत्नलब्धां बिभ्राणा मायूरच्छत्रसम्पदम् ॥

1.89        प्रियसंदर्शनानन्दजनितैरश्रुबिन्दुभिः ।

न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा ॥

1.90        प्रस्फुरन्तं प्रियस्येव परिरम्भाभिलाषिणम् ।

दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत ॥

1.91        विपदञ्च जगादैषा विपञ्चीमधुरस्वना ।

विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा ॥

1.92        अथ तान् भव्यया वाचा भगवान् प्रत्यभाषत ।

प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया ॥

1.93        मा भैषुरसुरानीकात् भवन्तो मदुपाश्रयाः ।

मदाज्ञामनवज्ञातुः परिभूत्या न भूयते ॥

1.94        अवतार्य भुवो भारमवतारो ममामराः ।

अनादिनिधनं धर्ममक्षतं स्थापयिष्यति ॥

1.95        यावदिष्टभुजो यावदधिकारमवस्थिताः ।

परिपालयत स्वानि पदानि विगतापदः ॥

1.96        दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः ।

भूयोऽपि लघुतां प्राप्तां भुवमुल्लाघितामिव ॥

1.97        दैतेयमृगसङ्घाते मृगयारसभागिभिः ।

भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः ॥

1.98        इति ताननघादेशः समादिश्य जनार्दनः ।

अवधीरितदुग्धाब्धिर्मधुरायां मनो दधे ॥

1.99        आश्वास्य वागमृतवृष्टिभिरादितेयान्दैतेयभारनमितां पृथिवीं च देवीम् ।

प्रादुर्बुभूषुरनघो वसुदेवपत्न्यां पद्मापतिः प्रणिदधे समयं दयायाः ॥

1.100     साधूनां स्वपदसरोजषट्पदानां धर्मस्य स्थितिमनघां विधातुकामः ।

यद्गर्भे(र्भो) जगदखिलं स एव गर्भो देवक्याः समजनि देवदेववन्द्यः ॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये प्रथमः सर्गः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.