[highlight_content]

यादवाभ्युदयः सर्गः-6

श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्

।। यादवाभ्युदयः ॥

षष्ठः सर्गः

6.1       शमयता पुरुहूतमहोत्सवं व्रजपतिः सह वल्लवयूथपैः।

निभृतमञ्जुगिरा निजसूनुना निजगदे जगदेककुटुम्बिना ।।

6.2       विदितवानिव विज्ञपयाम्यहं शृणुत मे शकुनेरिव भाषितम् ।

पृथुकबुद्धिरहं पृथुचेतसः प्रभवतो भवतो न हि शिक्षये ।।

6.3       निगमदृष्टमिदं निखिलेन वः क्वचन विश्वतनौ पुरुषे स्थिते ।

य इह यामुपजीवति तत्तनुं स हि तया हितया भुवि नाथवान् ।।

6.4       अतियजेत निजां यदि देवतामुभयतश्च्यवते जुषतेप्यघम् ।

क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा ।।

6.5       अनघशाद्वलकाननसंपदा नदनदीह्रदनिर्झरशालिना ।

बहुपशुः पशुपालकसंततिर्महिभृता हि भृता न मरुत्वता ।।

6.6       अचलमर्चत किं विबुधैश्चलैः शुभवनं भवनं च दिवौकसाम् ।

क्षममनेन वन् परिरक्षिते न हरिणा हरिणानपि बाधितुम् ।।

6.7       गिरिषु विष्णुविभूतिषु युज्यते निखिलदेवमयीषु च गोषु नः ।

तदुभयाश्रितवृत्त्युपजीविनां गुरु चिरं रुचिरं च समर्चनम् ।।

6.8       अभिमतं गिरयः कृतसत्क्रिया ददति दर्शितदैवतभूमिकाः ।

हरि तरक्षु मुखैरपि विग्रहैरहितमाहित मान विपर्ययाः ।।

6.9       पशुभिरद्रिचरैरुपकल्पिते व्रजनये जनयेम न विप्लवम् ।

क्षितिभृदेष समीहितसिद्धये जनमितं न मितंपचतां नयेत् ।।

6.10     अपि च साधु गवामभिवर्धनादनृतहानि जया निजयाख्यया ।

भजति गोपगणैरभिराध्यतां वनमयं नमयन् फलसंपदा ।।

6.11     हरति तापमसावुपसेदुषां महिमवान् हिमवानिव दक्षिणः ।

वितनुते मणिरश्मिभिरप्यसौ सुरपतेरपतेज इवास्पदम् ।।

6.12     प्रदिशता मधुमूलफलानि नः सतरुणातरुणाद्भुतवीरुधा ।

उपकृतं गिरिणा तदिहार्प्यतां रस ततं सततं हविराहृतम् ।।

6.13     समरुता मरु ताप जितामुना नदवता दव तान्ति दवीयसा ।

श्रम हता महता कृतविश्रमा वयमितो यमितोल्बणशाक्वराः।।

(तत्तत्पादभागावृत्तियमकमिति यमकचतुष्टयसंसृष्टिः)

6.14     बहुमतो मनुजा दधते धृतिं बहुमतो यमनन्यधृतिः सताम् ।

गिरि शतोन्नतिमान् अधिको ह्यसौ गिरिश तोष कृतोपि महीभृतः ।।

(अत्र पूर्वोत्तरार्धयोः पादद्वयादियमकमिति यमकद्वयसंसृष्टिः)

6.15     सनगरा नग राजिमतामुना कुहरिणा हरिणा समसंपदा ।

सततमातत मान महीयसी वसुमती सुमतीश्वर धार्यते ।।

6.16     सुरसगन्धविभूतिनिधे हितं परिगृहाण निजे पशुपालने ।

सुरसगन्धविभूति निधेहि तं हरिमवेत्य गिरिं हविरुत्तमम् ।।

(इदं प्रथमतृतीयपादयोरौकरूप्यात् संदंशनामकं पूर्णयमकम् । यत्

पादेर्धके वा भवति तत् पूर्णयमकम् । ततोन्यत् खण्डयमकम् )

6.17     विशुद्धतोयौघपरीतपार्श्वे सुद्धाशयाः श्वेत इवान्तरीपे ।

निराशिषो नित्यमिहाश्रयन्ते नैःश्रेयसं तात निवृत्तिधर्मम् ।।

6.18     इह वासमही समहीनगुणे स्थिरकुञ्जगृहे जगृहे विबुधैः ।

अयमानमतां न मतां न तनुं क्षितिभृत् भजते भज तेन धृतिम् ।।

6.19     तटभूमिरसौ जयति त्रिदिवं पवनागत ताप वनाग तता ।

इह देवगणैरनिशाध्युषिता युतकोकनदायुतकोकनदा ।।

6.20     प्रकृष्टवंशेदयमाननीयः प्रभूततोयप्रथितानुरुप्यः ।

प्रवालमुक्तामणिचित्रिताङ्गीः पत्नीरयं प्रापयते पयोधिम् ।।

6.21     नन्द नीतिधन सर्वनन्दनी तत्त्व यात मतिभूष तत्त्वया ।

साधुना क्षितिभृतो रसाधुना सेव्यतामिह गतेन सेव्यताम् ।।

6.22     नम्यतेह नियता विभूतये भूतयेश्वरतया विराजते ।

राजतेदृशतटीमहीयसे हीयसे न यदि नाम नम्यते ।।

6.23     अयोगनिद्रस्य हरेरिदानीं मान्ये पदे मानसतः प्रवृत्ताः।

त्वदाशयस्वच्छसरित्प्रवाहे हंसैः समं वासमिहाश्रयेम ।

6.24     निशाकरस्य स्फटिकेष्विहाधिकं सुजातरूपा श्रयतो विभा सिता ।

रविप्रभा च स्पृशतीव सांध्यतां सु जातरूपाश्रयतो विभासिता ।।

6.25     न दन्तिनोस्मिन् मुदिता नदन्ति नो वनस्थलीलास्त्विह देवनस्थली ।

व्रजाधिपाघोन्नति तीव्रजाधि पा प्रभात ताम्राश्मगणप्रभा तता ।।

6.26     महीयसी गोपगणाश्रिता मही वनैरुपेता फलपुष्पभावनैः ।

रसौघरम्यैरपि निर्झरैरसौ चकास्त्यमुष्मिन् यवसैश्च मेचका ।।

6.27     सदोन्नताय प्रणमत्यमुष्मै सतां कनिष्ठा प्रथमाङ्कनिष्ठा ।

निशामयास्मिन् सरितश्च रत्न प्रभा समानाः प्रतिभासमानाः ।।

6.28     इह वंशलताविलग्नवालाः प्रियवाला नतकंधराश्चमर्यः ।

शबरीकबरीनिरीक्षणेन त्रपमाणा इव निश्चला भवन्ति ।।

6.29     हरिनीलरुचा लसत्तमिस्रो दिवसेपि स्फुरदोषधिप्रदीपः .।

निशि चैष तपोधनाङ्गदीप्त्या दिनमोहादविभक्तकोकयुग्मः ।।

6.30     व्रजवैरवतीषु वल्लवानां वृष सेनानु सदानवासु देवः।

अचलाकृतिराशु नैष गोप्ता वृषसेनासु सदा न वासुदेवः।।

6.31     मधुना सविभव सन्तं मदनधनं यं वदन्ति शुभदिवसं तम् ।

नियतमिहैव वसन्तं निष्कामधियोपि निर्विशन्ति वसन्तम् ।।

6.32     काननं दधदसौ सदोन्नमत्काञ्चनारककुभं सदृक्षकः ।

मन्दरस्य महता स्ववर्ष्मणा कां च नार ककुभं सदृक्षकः।।

6.33     अनेहसा हानिरुपैति नेह सा न कंदरस्थस्य दिशत्यकं दरः।

अपास्य तां भीतिमसावुपास्यतां सता नवा भूमिरियं सदानवा ।।

6.34     समिन्धतेस्मिन् अजहत्समाधिकाः समाधिकातीतधियः स्थिराशया ।

स्थिराशयाश्च व्रतिनः सदारसाः सदारसाध्येषु तपस्स्ववस्थिताः ।।

6.35     वसत्यमुष्मिन् वनदेवताद्भुता विभातिभास्वत्तिलकालिकानना ।

विचित्ररत्ना महती च मेखला विभाति भास्वत्तिलकालिकानना ।।

6.36     तपस्विनामात्मविदां निवासैः समानभूमावसमानभूमा ।

इहाटवी काञ्चनकर्णिकारः परागताम्राप्यपरागताम्रा ।।

6.37     सरस्सु जातैर्नलिलैः सुजातैरपां तरङ्गैश्च सुधान्तरङ्गैः।

इहासमेतिव्रततौ समेति मरुत् तुषारः श्रमरुत्तुषारः ।।

6.38     यमभिप्लुतमम्बुधरैरभितः सरसा स रसा स रसासरसा ।

स्थरधर्म तया गिरिराद्रियते स मया समयासम या समया ।।

6.39     प्रणम तमिममचलम् अमरमहितमहितमहितमहित ।

भजनमलघु विफलमिह न सदयसदय सदय सदय ।।

6.40     रत्नोपसंघटितशृङ्गफणासहस्रः स्पारोदितस्फटिकरश्मिविशुद्धकायः।

नित्यं वहन् निजबलेन महीमहीनः पुष्यत्यसौ मधुरिपोरपि भोगयोगम् ।।

6.41     मरुद्गणसमाश्रितो मघवरत्ननीलद्युति

र्विभाति वनमालया विततनित्यतुङ्गाकृतिः।

कनत्यभिगतः श्रिया कनकरश्मिपीताम्बरः

करोति विधृतिं भुवः कथमसौ न विश्वम्भरः ।।

6.42     मुहुरवधीरितोपि भजतीह युवा गणयन्

हितमतिभूरि तान वसुधे वनितां तरसा ।

सपदि विहाय मानमियमृच्थति तं प्रतिसं-

हित-मति-भूरिता नव-सुधेव नितान्त-रसा ।।

6.43     इह मरुतो वहन्ति सुरसिन्धुसगन्धसरिद्विकसितहेमकोकनदसौरभसारभृतः।

मधुकरमौलिदघ्नमददन्तुरदन्तिघटाकरटकटाहवाहिघनशीकरशीभरिताः।।

6.44     मनः प्रियमिह प्रभो मधुरसादरं सादरं

विधत्स्व हविरर्पयन् व्रतशुभावनां भावनाम् ।

कुरुष्व च गुरुष्वघक्षपणदक्षिणां दक्षिणां

प्रयच्छति तवेप्सितं प्रणयपर्वतः पर्वतः।।

6.45     गिरिभजनोदितप्रियविकासमये समये

जनितनभःप्रचारजलपत्रिदशैस्त्रिदशैः।

सह यदि नः समेत हरिरप्रतिघप्रतिघः

प्रतिहतिमेतु दुष्टवधदोहलिना हलिना ।।

6.46     प्रत्यक्षं गोत्रमासन्नं किमनादृत्य गोधनैः।

अदृश्यो गोत्रभित् कश्चित् गतः स्वर्गे गवेष्यते ।।

6.47     अहार्यो विविधैर्भोगैराकर्षन् विबुधानपि।

अपरिच्छिन्नमूलोसौ ससारः सर्वदुःखकृत् ।। (बिन्दुमती)

6.48     नन्द गोपप्रभो धर्मैर्व्रज वृद्धार्य सद्गतिम् ।

भज तामेव बुध्वाद्रिं तनु त्राणे रतिं गवाम् ।।(प्रहेलिका)

6.49     नानाफलवनालीके नालीकेद्धामितोदके।

तोदके च क्षुधामत्र धाम त्रस्तहितं विदुः।।

6.50     सहसा सह सार्थैर्मा तरसेतरसेवनम् ।

तनु तात नुताद्वज्री नगतो न गतोर्च्यताम् ।।

6.51     जुषतामिह धीः सूर्यसमा हि तव सुन्दरीम् ।

रक्षार्थमिह यक्षेण समाहितवसुं दरीम् ।।

6.52     सभाजनं वदाम्येतत् गव्यैः सरसभाजनम् ।

सभाजनं गिरेरर्थ्यं स्ववृत्त्युल्लास भाजनम् ।।

6.53     भवता भव तापघ्ने भाविते भावि तेजसा ।

सुतरा सुतरामस्मिन् सुरभीस्सुरभीस्वर ।।

6.54     बहुविद्भ्यः समग्राहि समग्रा हि मतिस्त्वया ।

अतान्यजनसंदिग्धे न संदिग्धे हिताहिते ।।

6.55     गोवर्धनप्रकाशिन्या गोवर्धनसमाख्यया ।

समक्षेपि गिरेरस्य समक्षेपि क्षमा स्तुतिः ।।

6.56     वयं धेनुशतैः सार्धमत्रासंकटकान्वयाः ।

अन्वभूम निराबाधमत्रासं कटकान्वयाः ।।

6.57     अनन्तमहिमा सोयं समस्तवसुधाधरः।

मौलिमण्डनमस्येन्दुः समस्तव सुधाधरः ।।

6.58     तपोधनैरयं शैलो महाभाग महीयते ।

गोधनैरपि न त्वत्र महाभागम हीयते ।।

6.59     रोधोरोधोज्झितैरेतैरुत्सैस्त्सैकतैरसौ ।

महीमहीनां तनुते ग्रावाग्रावाप्ततारकः ।।

6.60     धिषणातीत धिषणा लोकनीत्यास्तु लोकनी ।

सुधरेस्मिन् वसु धरे तात तेजस्विता तते ।।

6.61     पादपादभ्रपर्यन्ता दीनादीनामसौ गतिः।

गोप गोपन योग्यास्मिन् कान्ता कान्तारभूरपि ।।

6.62     इह पुष्पौघनिष्पन्नव्रजामोदे वने हिते ।

भृशमुत्सवसंतोषं व्रजामो देवनेहिते ।।

6.63     प्रयतस्व गिरेरस्य व्रजदेव सभाजने ।

स्वपुष्पकल्पे मा भक्तिं व्रज देव सभा जने ।।

6.64     देवस्थानमिवेन्धानं परायणमवारितम् ।

गोवर्धनमवेह्येनं नारायणमिवागतम् ।। (गौमूत्रिकाबन्धः)

6.65     मोघाशो मघवान् देवः स्यादत्रत्यत्य सादने ।

मेघानामपि वा भावः सादमेत्यद्रिसादने ।। (गौमूत्रिकाबन्धः)

6.66     अचञ्चलाङ्गसत्ताकश्चलाचलघनाततः।

अचलः कस्य नाकल्पः साध्यानन्दस्य सिद्धिकृत् ।।(त्रिस्थानचित्रम्)

6.67     अगः सनग आसन्नः सालताललताततः।

सततं संहतघनः संगतानन्दसाधकः।।(द्विस्खानचित्रम्)

6.68     अहहाङ्ग खगङ्गाकगाहकाङ्गाङ्कगागकः।

अघाकागाङ्गकागाङ्कगाङ्गकागखगाङ्गकः।।(एकस्थानचित्रम्)

6.69     रजतगैरिकरत्नगणैरयं कनति कान्तलताञ्चितकाननः ।

त्रिजगदेकनिधानतयाधिकस्त्रिदशराजधराधरतल्लजात् ।.।(अनोष्ठ्यचित्रम्)

6.70     सहेत पर्वतोयं वो गोप्तुं क्वचन कन्दरे ।

अदरिद्रा वसामोत्र सर्वहेतोरिवोदरे ।।(गूढचतुर्थचित्रम्)

6.71     घनाघना घनाघनाद्भुतेह शाखिसंततिः।

वनावनावनावनानुरूपसत्फलावृता ।।

6.72     वृतेह भाति हेमभूर्नमेरुणा समन्ततः ।

प्रतीहि नैनमद्भुतं न मेरुणा समं ततः।।

6.73     इह प्रभूतवाहिनीवने वने वने वने ।

फलेन भूयते स्वयं नतेन तेन तेन ते।।

6.74     अहार्यमेतिचेतनासितासितानराज ते ।

अहार्यमेति चेतना सितासिता न राजते ।।(अर्धयमकचित्रम्)

6.75     समग्रगुणभूमासौ सानुमानागमानितः।

समाहितधीयां सेव्यः सानुमानागमानितः ।।

6.76     याचले जरसानेता ताने सारजले चया।

कलिमानवसायामा माया सा वनमालिका ।।(अनुलोमप्रतिलोमम्-गत

प्रत्यागतपादचित्रम्)

6.77     अभ्रान्तमतिशय्येह विराजिततमागमे।

निशामयालीनघनं सालौघमतिनन्दनम् ।।

6.77     अभ्रान्तमति शय्येहविराजि ततमागमे।

निशामयालीनघनं सालौघमतिनन्दनम् ।।(एकक्रियान्वितश्लोकावृत्तिः)

6.78     चारुचीरीरुचा रोची रुरुचारैरचर्चरुः।

चिरोच्चरोचिरचरो रुचिरो रुचिराचरः।।(अदन्त्यद्व्यक्षरः)

6.79     नीतिनेतृ(त्र)नतानन्त नितान्तोन्नततानतः।

तातेतोतनुतोनी(ती)तं न नुत्तैनोनुतान्ततः।।(दन्त्यद्व्यक्षरः)

6.80     सारससारसासारैः सूरोस्रसरुसारसैः।

रससूः सरसस्रंसैः सरःसाररसैरसौ ।।(द्व्यक्षरः)

6.81     धीर धीरधुराधारी धाराधरधरोघरे।

रोधोधरारोधरोधिधाराधारो धराधरः।।(द्व्यक्षरः)

6.82     भूभून्निभेभभानेनानेन भूनाभिनेनभ ।

भानुभानुभभाभिन्नं नुन्नं नूनं न नो नभः।।(द्व्यक्षरः)

6.83     तत्र तत्रातितारेत्र तारातीततरूत्तरे।

तरेत् तातारतीरेतातते त्रातरि ते रतिः।।(द्व्यक्षरः)

6.84     विततीतावृतिवृते वीतातीतावृतावृतौ ।

तातावातातिवृत्तेति वातोतीवाततेवति ।।(द्व्यक्षरः)

6.85     नुन्नैनसां निनंसूनां सानूनासनसानुना ।

सानसां नः ससेनानां सानेनासन्नसूः सनिः ।।(द्व्यक्षरः)

6.86     कल्लोलोल्लोलकीलाले केकाकलकलाकुले ।

कालिकाकलिलालोके काले काले किलैककुः।।(द्व्यक्षरः)

6.87     पतती पततोपेतः पतितोत्पतितातपः

पाता पीतोपतापोपि तपःपूतपते पितः।।(द्व्यक्षरः)

6.88     भूतभूते भूतभृतो भीतताभीतिभूतिभूः।

भातीतो भूभृतो भाभृद्भाता भाता तु भूतितः ।।(द्व्यक्षरः)

6.89     मरुमुर्मुरमर्मारिं मारमारेमरामरे।

रमारामे मुरारौ रुरामाममुरुमेरुमम् ।।(द्व्यक्षरः)

6.90     रवीरेरावरावारो वरवैरिविरावर ।

विवराराविविवरो वीर वव्रे वरैरुरुः।।(द्व्यक्षरः)

6.91     मानयानन्यनियमो मान्यमेनमनामयः।

यमिनां नाम नम्योयममेयो मौनमानिनाम् ।।(अमूर्धन्यत्र्यक्षरः)

6.92     निःसमानेन मानेन सुमनोमानसैः समः।

सोमसीमासमासन्नसानुमान् सानुमानसौ।।(अमूर्धन्यत्र्यक्षरः)

6.93     तातेतातीतितातीतः केकाका-कुककेकिकः।

पापोपपापपापापो नानानानान्ननान्ननीः।।(प्रतिपादभिन्नैकाक्षरः)

6.94     यये या याय योयोयः स सोसौ सास सासुसूः।

मम मामोममामाम गोगागोगागगोगगुः।।(प्रतिपादभिन्नैकाक्षरः)

6.95     रुरुरूरुरिरारोरं दूदादीं दददादिदः।

लालिलोलालिलीलालो हाहाहूहूहहेह हि ।।(प्रतिपादभिन्नैकाक्षरः)

6.96     नानानानानानानाना नानानानानानानाना।

नानानानानानानाना नानानानानानानाना।।(एकाक्षरः)

6.97     इति तत्त्वमतत्त्वं च यथावदवगाढया ।

अर्च्यानर्च्यौ धिया भिन्दन् गोधनान्यव गाढया ।।

6.98     नयानयानयानया नयानयानयानया।

नयानयानयानया नयानयानयानया।।(द्व्यज्झल्श्लोकः)

6.98     यानयानयानयान यानयानयानयान।

यानयानयानयान यानयानयानयान।।(उक्तश्लोकप्रतिलोमगतिः)

6.99     मायाभासा साभायामा यासूताया यातासूया ।

भातायायायायाताभा सा यायागे गेयायासा ।।(सर्वतोभद्रम्)

6.100   सेवा माननमावासे वासिताहिहितासिवा ।

माता पिता तापितामा नहिताततताहि न ।।(सर्वतोभद्रम्)

6.101   गेहा देववदेहागे हासताननतासहा।

देतानयायानतादेव नयात तयानव ।।(सर्वतोभद्रम्)

6.102   नदीसारसमेतात्र दीप्ता भासा नरावृता ।

साभानासौ माभिरामे रसा सौम्या सुमानस।।(अर्धभ्रमकम्)

6.103   वसुदा त्रसदानन्द धीसुदान्त मुदा नता ।

नानदा मुक्तिदा रम्या सनदात्र सदा रसा ।।(मुरजबन्धः)

6.104   सद्दैवेङ्कुरयातवैभवलताशोभ्युच्चनानागभे

भव्यङ्कर्म सदार्चितोद्भव नदीयादस्सनाथीकृते।

चित्राटव्यनुवाहिवातवलनश्रेयःप्रचेयोत्सवे

वेदोक्त्या समये भजेः शुचि गिरौ मेरुन्नतेस्मिन् ध्रुवे ।।

(चक्रबन्धः कविकाव्यनामोद्धारः)

6.105   वासे नास्मिन् पूजादेवा वादे जातातोद्यारावा।

वाराद्याविर्भूताजीवा वाजीतात्रादीना सेवा ।।(अष्टदलपद्मबन्धः)

6.106   सानुमानयमतीततारकः सानुमानयमतीततारकः।

सानुमानय मतीत तारकः सानुमानयमतीततारकः।।(महायमकम्)

6.107   विराजमानादसमान भू-मा-विराज मानादसमानभूमा।

वि राजमानादसमानभू मा वि रा ज मानादस मा न भूमा।।(महायमकम्)

6.108   अक्लिष्टचित्रमिदमत्र मनागिवोक्तं

चित्रायुतानि सुवचानि पुनस्तथापि ।

कृत्यं विभोर्निगमनीयमनन्यभक्तैः

आराध्यतां हरिरसौ पृथिवीधरात्मा ।।

6.109   इति कथयति कृष्णो गोपवृद्धा निदध्युः

शरणमशरणानां शाद्वलश्यामलाङ्गम् ।

पुलकितवनमालं पुष्पकिञ्जल्कजालैः

पुरुषमचलशृङ्गे पुण्डरीकायताक्षम् ।।

6.110   शतमखमणिशैलः स्यादसौ देवतात्मा

शरदि समुदितं वा तोयकालस्य तोकम् ।

चिरपरिचितपूर्वं चेतसां किं न (नु) भाग्यं

न किमिदमिति चिन्तां न व्यतीयाय नन्दः।।

6.111   आद्यं किमेतदधिदैवतमद्भुतानामाकालिकं फलमुतैकमिदं शुभानाम्।

एकीभवन्निधिरसौ किमभीप्सितानामित्यन्वभावि सविधोपगतैः स देवः।।

6.112   पीतांशुके पृथुलबाहुभुजान्तराले मेघाभिजन्मनि मिथः प्रतिबिम्बबुद्ध्या।

धन्यानि गोपनयनानि तदान्वभूवन् कृष्णे च तत्र च कियन्ति गतागतानि ।।

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये षष्ठः सर्गः । ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.