श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
दशमः सर्गः
10.1 ततस्तौ ददृशुस्तत्र विशन्तौ राजवीथिकाम् ।
पूर्णदृष्टिफलाः पौराः पुण्यैरेकमुखैरिव ।।
10.2 चक्षुषामिव भाग्येन संप्रवृत्तौ महोत्सवौ ।
युक्तौ मदनशक्त्येव युगपन्मधुमाधवौ ।।
10.3 अभिख्यावीचिविक्षेपैरपृथग्भावचित्रितैः।
समेतैरनुभावाद्यैः सक्ताविव रसोत्तमौ ।।
10.4 क्रममुल्लङ्घ्यभूतानां भोगमोक्षाविवोद्गतौ ।
तयोरेव विनिष्पत्त्यै धर्माविव च तादृशौ ।।
10.5 पुनन्तौ भुवनं पादैः पुष्पवन्ताविवापरौ ।
सिञ्चन्तौ कान्तिवर्षेण सितकृष्णाविवाम्बुदौ ।।
10.6 मदोपक्रमदुर्दान्तौ मधुरोद्धतविभ्रमौ
कलभाविव संनद्धौ कंसादिनलमर्दने ।।
10.7 शुभानामिव सीमन्तैः श्रुतिसीमन्तसेवितैः।
पुनन्तौ राजविशिखां पुण्यैश्चरणपङ्कजैः।।
10.8 शीलसंवृतपारभ्यैः शृङ्गारपरिकर्मितैः।
दृषदोपि द्रवीभावं नयन्तौ दिव्यचेष्टितैः।।
10.9 दिदृक्षादत्तदृष्टीनां मनस्कारमनीषयोः।
सपीतिरससंतोषं दिशन्तौ देहकान्तितः।।
10.10 मन्मथायुतसौन्दर्यौ वसन्तायुतसौरभौ ।
शशाङ्कायुतलावण्यौ चण्डरश्म्ययुतद्युती ।।
10.11 चित्रतामिव नीतानां चित्तचेष्टापहारतः ।
प्रतिसौधं पुरस्त्रीणां निर्विशन्तौ निरीक्षणम् ।।
10.12 सुप्रभातमिह प्राप्तं सूषा च सुदिनं च नः ।
इति वादिभिरन्योन्यं द्रुतचित्तैरनुद्रुतौ ।।
10.13 बलादपहृतैस्तत्र रजकात् राजसंमतात् ।
परभागश्रियं प्राप्तौ वासोभिरसितारुणैः।।
10.14 लब्धपुण्यविपाकेन मालाकारेण लम्भितैः।
शबलौ दामभिश्चित्रैः संदिग्धवनमालिकैः।।
10.15 कान्तिनिर्जितया कामात् प्रदिष्टैः कंसकुब्जया ।
दधतौ वर्णकैर्भूयो दिव्यगन्धौ सुगन्धिताम् ।।
10.16 ऋजूकृतसुजाताङ्ग्या ऋजुबुद्ध्याथ कुब्जया ।
प्रणयन्त्या स्वगेहाप्तिं प्राप्तमन्दस्मितौ मिथः।।
10.17 ततो विविशतुः शालां बलिसद्मगुहामिव।
प्रथितां पृथुभिश्चापैः पन्नगैरिव भीषणैः।।
10.18 तत्र शैलनिभं शौरिस्त्रिदशैरपि दुर्दमम् ।
ददर्शाजगवप्रख्यं दम्भोलिकठिनं धनुः।।
10.19 स्वपूर्वप्रभवोदन्तमिदानीन्तनयन्निव।
तदानम्य धनुर्भीमं बभञ्ज भुजलीलया ।।
10.20 महता तस्य घोषेण विदद्रे द्विषतां मनः।
सौधिनि मधुरायाश्च शुष्काशनिविडम्बिना ।।
10.21 चापगोपचमूं हत्वा तौ जगद्धितमानुषौ ।
अतिलङ्घ्य धनुःशालां रङ्गद्वारमवापतुः।।
10.22 तत्र मृत्युमिव क्रुद्धं निदध्यतुररिंदमौ।
नागं कुवलयापीडं निह्नुवानमिवाम्बरम् ।।
10.23 तमासाद्य द्रुतं शौरिस्त्रासितत्रिदशद्विपम् ।
पञ्चवक्त्र इवाक्रम्य पातयामास भूतले।।
10.24 तस्य दन्तौ समुद्धृत्य श्वेताद्रिशिखरोपमौ ।
विदधाते यदुश्रेष्ठौ मल्लयुद्धमहायुधे ।।
10.25 सह गोपैरधिष्ठाय रङ्गमध्यमरिंदमौ ।
बलिजित् बलभद्रश्च बालवृत्तैरदीव्यताम् ।।
10.26 नृपोपहूतैरथ तौ विहारैक्यमवापतुः।
नर्मकारकजल्पाकनटनर्तकगायकैः।।
10.27 जनस्य महतस्तत्र जनयामासतुस्तदा ।
महता कान्तिवर्षेण दिदृक्षां देवमातृकाम् ।।
10.28 उपवेदमधीयुर्ये रणार्थं रङ्गदर्शिनः ।
तमेव ते द्विधाभूतं तावुभावभिमेनिरे ।।
10.29 तदालोकनलाभेन सामाजिकजनस्तदा।
अनिदंपूर्वमाह्लादमपवृक्त इवान्वभूत् ।।
10.30 बिम्बिताकृतयो नार्यस्तद्देहमणिदर्पणे ।
तत्परिष्वङ्गनिर्वेशमयत्नादिव लेभिरे ।।
10.31 गीतमञ्जुगिरस्तत्र नृत्तसंवादिविभ्रमाः।
मञ्चेषु हरिरद्राक्षीत् वरस्त्रीर्मदिरेक्षणाः।।
10.32 धृतहेतिपरिष्कारान् धीरोद्धतविलोकितान् ।
ददर्श पृथिवीपालान् देवानिव दिवश्च्युतान् ।।
10.33 तमसामिव संघातं समाहारमिवैनसाम् ।
तुङ्गमञ्चगतं कंसं तुष्टो हरिरवैक्षत ।।
10.34 ललितारम्भया वृत्त्या रङ्गभाजां रसावहा ।
नरवृत्तान्तविहृतिर्ववृधे रामकृष्णयोः।।
10.35 विदधे सिंहनादेन तारेण यदुसिंहयोः।
गर्जितं दैत्यमल्लानां गोमायुगणवाशितम् ।।
10.36 तावुभौ डिम्भवपुषौ ख्यातवीर्यपराक्रमौ ।
चाणूरो मुष्टिकश्च द्वौ नियोद्धुमभिजग्मतुः।।
10.37 अहो महदुपक्रान्तमत्याहितमिदं यतः।
अशिक्षितरणौ बालौ मल्लयुद्धे नियोजितौ ।।
10.38 शिरीषललितैरङ्गैश्चेष्टितैरपि पेशलैः।
अद्रिसारकठोराभ्यां कथं योद्धुमिमौ स्थितौ ।।
10.39 पश्यद्भिरवशैर्नूनं पौरजानपदैर्जनैः।
पापमेतदनुज्ञातं परपिण्डपरायणैः।।
10.40 मधुकैटभदुर्दान्तौ मल्लबृन्दारकाविमौ ।
यदि जेष्यति यः कश्चित् स किं न पुरुषोत्तमः।।
10.41 अथ वा पूतनादीनामप्रयत्नेन घातुकौ।
नि(न)युद्धे मल्लमुख्येभ्यो नालमेतौ न वा कथम् ।।
10.42 जनवादमिमं शृण्वन् जातहासो जनार्दनः।
भुजमास्फोटयामास भूभारहरणे क्षमम् ।।
10.43 तदास्फोटितशब्देन स्फुटत्कर्णस्य भूयसा।
कंसमल्लगणस्यासीत् कथा गोपालकाश्रया ।।
10.44 गोपयुद्धधिया जिह्रच्चाणूरः कूणितेक्षणः।
पुष्पपेषमिवोत्पश्यन् आद्रवत् पुष्करेक्षणम् ।।
10.45 यथोचे विषमं तत्र नियुद्धं स्थूलदृष्टभिः।
तत्त्वदृष्टिभिरप्येवं विश्वाधिकबले हरौ ।।
10.46 न्यूनाधिकसमारम्भो विभुस्तत्र विहारतः।
विषादप्रीतिसंदेहान् सभ्यानां समतानयत् ।।
10.47 स बालः प्रचयं प्राप बालातप इव क्रमात्।
नीहार इव चाणूरः शनैरपचयं ययौ।।
10.48 वारितेष्वथ वाद्येषु विषण्णेन महीभृता ।
दिव्यदुन्दुभयो नेदुर्निगमध्वाननिर्भराः।।
10.49 वल्गता बलभद्रेण कृष्णेन च वसुन्धरा ।
वादित्रमिव दघ्वान मधुरान्द्रभयानकम् ।।
10.50 भीमकालियभोगीन्द्रस्फटारङ्गमहानटः।
मल्लरङ्गनटं दैत्यं मधुमाथं ममाथ(न्थ)सः।।
10.51 मुष्टिघातेन रामस्य मुष्टिकश्च निपातितः।
भोजाधिपमहोत्पातं भूमिकम्पमवर्तयत् ।।
10.52 रामरामानुजाभ्यां तौ रावणेन्द्रजिताविव।
नमयामासतुः पृथ्वीं नगपातं निपातितौ ।।
10.53 शायितौ वीरशयने दृष्ट्वा चाणुरमुष्टिकौ।
द्रुतमभ्यद्रवन् कृष्णं तत्र तोसकला(तोसलका)दयः।।
10.54 स तानपि नियुद्धेन वसुधायां न्यपातयत् ।
कालो युगपदुद्भूतान् कल्पान्तमिहिरानिव ।।
10.55 गरुत्मानिव भूभागात् गगनाभोगमायतम् ।
कंसमञ्चमपद्वारादुदप्लवत केशवः।।
10.56 कचग्रहेण विवशं कंसमाकृष्य पातयन्।
पतन् वक्षःस्थले तस्य तत्सत्त्वमुदपाटयत् ।।
10.57 महामोहमिवाक्रम्य मातुलं मधुसूदनः।
विवेक इव वृत्तस्थमुग्रसेनममोचयत् ।।
10.58 ददौ च कंसभृत्यानां ददतां तत्र जीवितम् ।
उन्मुखत्रिदशप्रेक्ष्यामूर्ध्वां गतिमनुत्तमाम् ।।
10.59 कंसकर्षणमण्डल्यो गम्भीरास्तत्र चिक्यिरे ।
रणलक्ष्मीनिवासस्य रङ्गस्य परिखा इव ।।
10.60 सुदामनामा कंसस्य सोदरस्त्वरितः क्रुधा।
बलेन गमितः क्षिप्रमग्रजेन गतां गतिम् ।।
10.61 अनायुधमहायुद्धं दृष्ट्वा हृषितरोमभिः।
प्रवातकदलप्रख्यैः प्राश्निकैरभितः स्थितम् ।।
10.62 कृतिनस्तादृशं युद्धं किलिकिञ्चितयन्त्रिताः।
लीना इव च पश्यन्तो लिखिता इव चाभवन् ।।
10.63 सिद्धाश्च दिवि तत्तादृक्तालकल्पितताण्डवाः।
हर्षदुग्धाब्धिकल्लोलं हाहाकारमकल्पयन् ।।
10.64 अथ तौ भीमदोर्दण्डकण्डूकर्षणतोषितौ ।
पितृभ्यां दृष्टजन्याभ्यामुपसृत्य प्रणेमतुः।।
10.65 तौ च तौ मृदितारातिरक्तचन्दनरञ्जितौ ।
अश्रुभिः प्रीतिनिष्यन्दैः पितरावभ्यषिञ्चताम् ।।
10.66 विबुधत्वमिव प्राप्तो वसुदेवः सुतेक्षणात् ।
सतत्त्वप्रतिबोधेन सात्त्वतां पतिमस्तुत ।।
10.67 नमस्ते नाभिनालीकरजसा सृष्टवेधसे ।
अजया सर्ववेदानामेकवेद्याय विष्णवे ।।
10.68 अनन्याधारमाधारमनन्येश्वरमीश्वरम् ।
अनुशृण्वन्ति सन्तस्त्वामनन्याधिपतिं पतिम् ।।
10.69 अभङ्गुररसं भोग्यमनपायं रसायनम् ।
अक्षयं धर्मसर्वस्वमविदुस्तव कीर्तनम् ।।
10.70 अनुग्रहदशादीप्तमशेषार्थप्रकाशकम् ।
दयासंप्लुतमाहुस्त्वां दीपमन्तस्तमोपहम् ।।
10.71 देवकी दनुजस्थूणा दिव्यं धाम व्रजाङ्गणम् ।
रमा राधादयश्चेति राशिभेदैर्न भिद्यसे ।।
10.72 नियन्ता सर्वभूतानां नियन्तव्यैर्नियम्यसे ।
पितामहमुखैः पुत्री मम पुत्रोसि मायया।
10.73 महता त्वत्पदेनैव मारुतिन्यायमाश्रिताः।
निस्तरन्त्यचिरात् सन्तो दुस्तरं भवसागरम् ।।
10.74 अहितोदन्वदौर्वाग्निमशेषोत्कर्षमातरम् ।
भवभैमरथीं भक्तिं भजन्ति त्वयि साधवः।।
10.75 भरन्यासाश्वयुक्तेन भाववेगप्रधाविना ।
मनोरथेन गन्तव्यः सारथिश्य भवान् सताम् ।।
10.76 वयं तु भवता ग्राह्या वासनादुर्गभेदिना
मनागिव समुद्बोध्य मा पुनर्मूमुहद्भवान् ।।
10.77 महतामपि निष्कम्पा मनुष्यत्वमतिस्त्वयि ।
दृढलक्षितचिह्नानां दिङ्मोह इव दुर्दमः।।
10.78 दुरन्तसुखखद्योतं दुःखान्धतमसावृतम् ।
निजेनैव प्रकाशेन निशीथमुपरुन्द्धि नः।।
10.79 मशकानिव मातङ्गः कंसमुख्यान् इमान् क्षिपन्।
यदि विस्मयनीयस्त्वं विस्मये किं न विस्मयः।।
10.80 नखलीलाविदार्येषु नाथेषु विबुधद्विषाम् ।
परिष्करणपर्यायाः पञ्चापि तव हेतयः।।
10.81 कालनेमिविकारेस्मिन् कंसे विमथिते त्वया ।
ईदृशामितरेषां च दत्त एव जलाञ्जलिः।।
10.82 नमितायतविष्कम्भा दानवप्रभवैः क्षमा।
किंचिदुत्तम्भितेवाद्य कंसभारापहारतः।।
10.83 न खल्वतिशयं कंचिदियमाधातुमर्हति ।
सुमणावज्ञक्लृप्तेव स्तुतिरस्मत्कृता त्वयि ।।
10.84 इति विज्ञापितस्तेन व्रीडादिव नतो विभुः।
बालोपलालनमिदं भव्यवृत्तिरभावयत् ।।
10.85 स वाचा सान्त्वयामास पितरं दीनचेतसम् ।
स्ववक्त्रेन्दुविनिष्यन्दिसुधापूरितकुल्यया ।।
10.86 गम्भीरमधुरां तस्य गिरं निगमगन्धिनीम् ।
श्रुत्वा मुक्तिसखीं प्राप मुदमानकदुन्दुभिः।।
10.87 देवकी च परिष्वज्य सुतं वात्सल्यनिर्भरा ।
नन्दगोपवधूलब्धं नवमानन्दमन्वभूत् ।।
10.88 भूयः प्रादुरभूत् तस्य भुजयुग्मं तिरोहितम् ।
तथापि तादृशं मर्त्यं तममन्यन्त तामसाः।।
10.89 बभूव बलभद्रस्य तेन विश्वातिशायिना।
शिरसा विधृतस्यापि किरीटस्येव शेषया ।।
10.90 क्रियमाणपरिष्कारः किरीटाद्यैः स बन्धुरैः।
तानि तान्येव दिव्यानि तत्तदङ्गैरभूषयत् ।।
10.91 अशोभत शुभं छत्रं तस्य राजन्यलक्षणम् ।
तन्नाभिपुण्डरीकस्य रूपान्तरमिवोदितम् ।।
10.92 चामरद्वितयं शौरेः समया मुखपङ्कजम् ।
शुशुभे सप्रतिच्छन्दो हंसमूर्तिरिव स्वयम् ।।
10.93 स चन्द्र इव संपूर्णः प्रथमो यदुभूभृताम् ।
पुनरुन्निद्रयामास कीर्तिं कुमुदिनीमिव ।।
10.94 अभजन्त द्विजेन्द्रास्तमतद्भोगपराङ्मुखाः।
सर्गाधिकारान्निर्विद्य(र्वाप्य)शान्ता इव पितामहाः।।
10.95 अहार्यान् यदुवंशस्य स भोगान् समकल्पयत् ।
स्वपर्यङ्कभुजंगस्य फणामणिगणानिव ।।
10.96 अमरत्वाय पर्याप्तं तन्मुखेन्दुसमुद्भवम् ।
सुधेव परिवारेभ्यः सस्वदे सूनृतं वचः।।
10.97 प्रार्थितोपि स राज्याय प्रभावज्ञैर्यदूत्तमैः।
अरोचयत राजानमुग्रसेनं वयोधिकम् ।।
10.98 न्यस्तरक्षाभरो राज्ञा यौवराज्यमुपाश्रितः।
शुशुभे पारतन्त्र्येण स्वातन्त्र्यवशवर्तिना ।।
10.99 तस्य गोपायतः पृथ्वीं गोपालकुहनात्यजः।
पर्युपास्त पदं धन्या पार्थिवश्रीरनुत्तमा ।।
10.100 कृतवीराभिषेकं तं क्लृप्तकल्याणकौतुकम् ।
तुष्टुवुः समये वेदाः सौस्नातिकपुरस्कृताः।।
10.101 शक्तिभिस्तिसृभिर्दीप्तो विवस्वानिव दीप्तिभिः(घृष्टिभिः)।
स्वपदं पृथिवीं चक्रे सुहृद्भिः सूरिभिर्वृतः।।
10.102 विक्लृप्तं तस्य बर्हाद्यं हेमरत्नविभूषणैः।
वैरोचनिहृतानीतः किरीटो न व्यकल्पत ।।
10.103 सप्तिभिः सैन्यसुग्रीवमेघपुष्पवलाहकैः।
व्यक्तिमन्तोभवन् वेदास्त्यजन्तो धेनुभूमिकाम् ।।
10.104 पद्माकमलदायादं पदं तस्य स्वमौलिभिः।
श्रुतयो धारयामासुः पादपीठीकृतात्मभिः।
10.105 स वेणुः शङ्खरूपेण प्राचा परिपचेलिमः।
अगोपीसंविभागार्हं पपौ तस्याधरामृतम् ।।
10.106 दिदेश सांदीपनये धनुर्वेदोपदेशिने ।
स्वपदारूढतनयप्रत्यानयनदक्षिणाम् ।।
10.107 प्रहितां पुरुहूतेन स्वसंकल्पानुवर्तिना ।
कंसजित् कंसपितरं सुधर्मामध्यवासयत् ।।
10.108 अशेषरत्नचित्रां तामतीतस्तुतिगोचराम् ।
अद्वैतमिव सर्वेषामद्भुतानाममन्यत ।
10.109 स च तस्यानुभावेन निध्यातनयपद्धतिः।
प्रजापालनधर्मस्य पारदृश्वतमोभवत् ।।
10.110 कृष्णपक्षमपि प्राप्य स राजा विश्वरञ्जकः।
प्रापद्यत परां वृद्धिं सुमनःस्वादनक्षमाम् ।।
10.111 मलिनैः सततासारैर्मन्त्रिभिश्चपलान्वितैः।
विमुक्तः स बभौ भास्वान् मेघैरिव जडा(ला)श्रयैः।।
10.112 प्रचितं बहुभिस्तीर्थैस्तस्य गूढं चिकार्षितम् ।
सारस्वतमिव स्रोतः स्थानेस्थाने व्यजृम्भत।।
10.113 मानसंरक्षकस्तस्य मन्त्रस्तर्क इवानयः(घः)।
अङ्गपञ्चकसंपत्त्या विपक्षे दण्डतां ययौ ।।
10.114 स्वतः शुद्धां यथास्थानं रोषरागवतीं धियम् ।
स दधे यमुनाशोणशबलामिव जाह्नवीम् ।।
10.115 सप्तभिः सामदानाद्यैरुपायैः स्थानपातिभिः।
द्विनवद्वीपसंभूतं रत्नजातमजीहरत् ।।
10.116 अनुगन्ता स्वनेतृणामुदये विश्वरञ्जकः।
दूरीकृततमाः साभूत् द्वितीय इव भानुमान् ।।
10.117 संचितस्य धनौघस्य स्थानसंचारणेन सः।
तटाकस्येव पूर्णस्य परीवाहमकल्पयत् ।।
10.118 आसागरान्तमवमत्य महीपतीन्द्रान् भूम्ना निजेन परिहृत्य ययातिशापम् ।
ओजोनिरोधकमिलाश्रयमुग्रसेनं राजानमेकमकरोज्जगदेकनाथः।।
10.119 क्षिप्तावद्यं क्षत्रियवृत्त्या बहुशाखं मग्नं शापोदन्वति मान्यं यदुवंशम् ।
इच्छाधीनस्वेतरसर्वः स्वमहिम्ना रक्षागोपो रामयवीयान् उदहार्षीत् ।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेष्टनाचस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये कंसराज्योद्धारो नाम दशमः सर्गः ।।