श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
पञ्चदशस्सर्गः
15.1 अथ पद्मभुवः पितुः सकाशादभिगच्छन् यदुपुङ्गवं दिदृक्षुः।
मुनिरध्वनि वल्लकीसहायः प्रजगौ लास्यतरङ्गितप्रचारः।।
15.2 अहमस्मि पितामहस्य सूनुः स विभोरात्मभुवः सरोजनाभेः।
भजते भुवि साम्प्रतं स देवः स्वयमेवानकदुन्दुभेः सुतत्वम् ।
15.3 अवरोपितदोपसूनुभावः स नटाः सम्प्रति देवकीसुतस्सन् ।
परितोषितभावुकः स्ववृत्त्या श्रुतिलक्ष्यां महतीं प्रियामविन्दत् ।।
15.4 तदहं तमसः स्थितं परस्तादनपायद्युति भास्वतात्मनैव
कमलोल्लसितेन दर्शनीयं दिनमाद्यन्तविवर्जितं दिदृक्षे ।।
15.5 गुणसिन्धिरसौ गुणातिवर्ती गतिरन्तस्स्थितिरागमैकगम्यः।
दयितासहितो दयैकसङ्गी गुरुराद्यो मयि गौरवं विधाता ।।
15.6 जगदेकहितेन जन्मनासौ दनुजैराक्रमणं भुवो निरुन्धन् ।
कलहप्रियमद्वचोनुरोधात् न कथं विग्रहमारभेत नाथः।।
15.7 अधिकारविलम्बितापवर्गस्थिरसङ्गादपकौतुकस्त्रिवर्गे ।
विधिना नियतेन धर्मगुप्तौ विनियुक्तोस्मि विरोधनेन दीव्यन् ।।
15.8 विदधे विनिवेदितं मयासो विविधं विश्वहितं विधास्यते च ।
स्वजनत्वधिया सुरासुराणां बहुमानैकपदं यतोहमासम् ।।
15.9 विनिवेदयता रिपोरुदन्तं दिविषद्वैभवदावचित्रभानुम् ।
अजितस्य जिगीषतो मयासौ विजयारम्भमहोत्सवो विधेयः।।
15.10 इति भव्यमनोरथो महीयान् प्रभुमासीनमुपह्वरेभियातः।
विदिताखिलवेदितव्यमित्थं मुदितः प्राह जगद्धितं मुनीन्द्रः।।
15.11 जयदेव जगत्त्रयान्तरात्मन् न नियन्ता न च ता समस्त्वदन्यः।
भवभीतिनिशीथिनीविभूदं परमं ब्रह्म भवन्तमामनन्ति ।।
15.12 उदितः प्रणवाङ्कुरात्मना त्वद्विविधस्कन्धविभक्तरूढशाखः।
त्वदनुग्रहपुष्पितः प्रजानां फलमिष्टं निगमद्रुमः प्रसूते ।।
15.13 विषमं निजकर्मभेदयोगात् बहुमानास्पदबन्धमोक्षलीलः।
जनितं भवतैव पुत्रनीत्या जगदेतत् स्वयमेव रक्षसि त्वम् ।।
15.14 गुणचित्रितजन्तुदन्तुरेस्मिन् जगति त्वद्विहिते हितेतरेभ्यः
अपि विश्वसृजां समाहितानामयथाचिन्तितमापतन्त्यवस्थाः।।
15.15 सुकृतोपचयेन जातसिद्धिस्त्वदसौ कश्चिदुपस्थितापराधः।
अनुभूय हिरण्यरावणत्वे भजते सम्प्रति चेदिराजभावम् ।।
15.16 त्रिषु जन्मसु ते विहारदक्षं विधिना सिंहगजक्रमेण सृष्टः।
सहजः किल रुत्मिणीनिमित्ते स रिपुः सम्प्रति कृत्रिमश्च जातः।।
15.17 विपथेन सदैष विप्रधावन् विबुधग्रामविपन्निदानभूतः।
भवतो भजतामनन्यसाध्यं विनिपातं प्रणिपातवृत्त्यनर्हः।।
15.18 दमनं दमघोषसम्भवस्य प्रबलस्यापि यदर्थ्यते तदेतत् ।
मधुकैटभमेरुमर्दनस्ते मशकामर्शनमात्रमित्यवैमि ।।
15.19 अथवा जगदेतदोदनस्ते तदुपघ्नन् उपसेचनं च मृत्युः।
महदादि विलापयन् महिम्ना दमनैराद्रियसे न दानवानाम् ।।
15.20 सुहृदोपि सदा सुरासुराणां प्रणतानुग्रहभावितात्मनस्ते ।
क्वचिदापतितोपि पक्षपातः समतामेव समर्थयेत सत्याम् ।।
15.21 प्रथमा चरमा च देवता त्वं वरणीया वरदा च विश्ववन्द्या ।
निगमेषु सती पुरेषु चैका जनयित्री जनपङ्क्तिहारिणी च ।।
15.22 कलशैरिव कर्मपाशनद्धैः स्थिरकालात्मकचक्रयन्त्रनिघ्नैः।
विहरस्यधरोत्तरक्रमेषु स्ववशैरेव सुरासुरैः स्वतन्त्रः।।
15.23 सवने भवमुक्तिसन्धिरूपे विधिना विश्वपते विचित्रहेतिम् ।
हृदि शान्तधियः समिन्धते त्वामनघात्मक्रतुहव्यवाहमाद्यम् ।।
15.24 अणिमादिभिरेक एव भिन्नः परविद्यामणिदर्पणेषु भानात् ।
सुदृशां भजसि त्वमात्मभूतः सुखसन्दर्शनयोग्यमाभिमुख्यम् ।।
15.25 अपि दृष्टमपि श्रुतं प्रभावं भवदीयं भविनस्तमोभिभूताः।
न विदन्ति यथावदात्मवन्तस्त्वनुपश्यन्ति करस्थिताम्बुकल्पम् ।।
15.26 सहधर्मचरीं सदानुवृत्तां स्वयमुद्दीपयता त्वयानुकम्पाम् ।
शरणागतरक्षणव्रतस्य प्रतिलब्धोयमिह प्रयोगकालः।।
15.27 अहितं न हि चिन्तितं मयैतत् चिरदुष्कर्मकृतोपि चेदिभर्तुः।
सह नाकसदामसौ विमानैः सुकृतित्वं लभतां त्वदस्त्रपूतः।।
15.28 स्वपतः किल जाग्रतश्च तस्य वैरेण विदीप्तचित्तवृत्तेः।
त्वदनुस्मरणप्रभावयुक्ता नियतिस्त्वन्मयतामिवातनोति ।।
15.29 विनिवेदितविश्वकार्य इत्थं कृतिना तेन कृतार्हणो यथार्हम् ।
मुनिरात्ममनीषिकावदातः खलचेतोमलिनं खमुत्पपात ।।
15.30 वसुदेवसुतश्च पाण्डवेन क्रतुमारब्धवता कृतोपहूतिः।
समरप्रियया सह ध्वजिन्या सवनं तस्य जगाम सत्प्रतीक्ष्यः।।
15.31 यदुभिस्सह यादवेश्वरं ते परिषत्प्राप्तमुपेत्य पञ्च पार्थाः।।
विभवोचितमीश्वरानुरूपं सुहृदर्हं च समर्चयांबभूवुः।।
15.32 क्रतुमप्यनघं स धर्मसूनुर्हविषां भोक्तरि दत्तसन्निधाने ।
विधिवत् स्वधिया समर्प्य चक्रे बहुधानुश्रुततत्प्रभावभूमा ।।
15.33 हरिदश्वसमुद्भवं प्रदाने धनगुप्तौ च सुयोधनं न्ययुङ्क्त ।
स्वयमेव समाहितेन वव्रे हरिणा विप्रपदावनेजनांशः।।
15.34 समये परिषत्सभाजनार्हे दिविषत्पूज्यपदोपि दैत्यहन्ता।
किमसाविति यादवेषु कश्चिन्नृप इत्यैक्षि जनैरलक्ष्यपारः।।
15.35 अविशेषितशेषवृत्तिवाचं निजपारम्यनिगूहनाधिगम्यम् ।
अपृथग्विभवैस्तमासनाद्यैरुपमृद्नन्त इवासत क्षितीन्द्राः।।
15.36 अथ युक्तविमर्शिभिश्चतुर्भिर्गुरुभिः पश्चिमपाण्डवो नियुक्तः।
प्रविवेश सभामशेषकर्तुर्यदुवीरस्य विधातुमग्रपूजाम् ।।
15.37 अवदच्च तमेतमग्रगण्यं विबुधानां पितरं पतिं गुरुञ्च ।
हरिमर्चितुमर्च्यमुद्यतास्स्मस्तदशेषैरनुमन्यतां सुधीभिः।।
15.38 जगदेकपतेरमुष्य पूजां स्थिरधर्मद्रुममूलसेकरूपाम् ।
निखिलानुमतां नृपा विधत्ते निरपायप्रियपथ्यभावभव्याम् ।।
15.39 इति दर्शयतः पदं समाजे बलिनां मानभृतां महीपतीनाम् ।
महती बहुवारमुत्तमाङ्गे सहदेवस्य पपात पुष्पवृष्टिः।।
15.40 हरिमर्चयितुं य ईहते तं सुरपुष्पैः स्वयमर्चयन्ति देवाः।
इति नूनमगापयत् द्विरेफैः प्रसृतः पाण्डुसुते प्रसूनवर्षः।।
15.41 अवलोक्य तदद्भुतं महीयः प्रतिपन्नानुमते नरेन्त्रलोके ।
निजगाद हसन् अमर्षवेदात् क्षितिपालान् शिशुपाल उन्मदिष्णुः।।
15.42 विदितं भवतामिदं यदेतत् स्वयमाहूय महीयसः क्षितीन्द्रान् ।
अवमन्यत एवमध्वरस्थः कुटिलो हन्त कुमार एष कुन्त्याः।।
15.43 अयमश्वसुतोपि तावदास्तां यदि माद्रीतनयः स पाण्डुसूनुः।
रभसादवमत्य राजलोकं यदि जीवेदलमन्ववायवादैः।।
15.44 कृपणेन किमत्र साधुना नः सहदेवेन नियोगसाधकेन।
चतुरः पुनरस्य पूर्वजातान् मनसा यात शठान् मनुष्यदेवाः।।
15.45 द्विरदायुतसत्त्वशालिनो मे यदि धर्मध्वज एष धर्मसूनुः।
मिषतः परिभूय धर्मपालान् यजते पश्यत पश्चिमेष्टिमस्य ।।
15.46 अथवा वसुदेवबन्धुदृष्ट्या वयमासीमहि मन्दहासगर्भम् ।
स्वयमस्य पिता कथं स धर्मस्तमिमं धर्मविपर्ययं सहेत ।।
15.47 अयमस्मदनुज्ञया विजित्य क्षितिमासादितराजसूयधर्मः।
प्रसवोपगमे पतिप्रतीपा वनितेवाद्य बिभर्ति वैपरीत्यम् ।।
15.48 परिपश्यति हन्त राजलोके पशुपालस्य विधीयते सपर्या ।
अथ तत्र समर्थतैव तन्त्रं तदसौ वीरवरेण्य एकलव्यः।।
15.49 कुरुवृद्धमुपेक्ष्य जाह्नवेयं जयसम्प्रीणितजामदग्न्यरामम् ।
इतरानपि तादृशानिहातान् न च गोपो न च यादवः समर्च्यः।।
15.50 अतिमर्त्यबला विराटशल्यद्रुपदाद्या बहवो हि सन्ति वृद्धाः।
अतिलङ्घनमभ्युपैतु को वा गुणकर्मश्रुतशालिनाममीषाम् ।।
15.51 क्वचिदर्चनमन्द्रजालतश्चेत् कुहकाः सन्ति परश्शताः पृथिव्याम् ।
अथ कश्चन सत्य एष भूमा क्व गतोसौ यवनादिसैन्यगन्धे ।।
15.52 अयमग्रज एष रौहिणेयो बलशाली वपुषा च शुद्धवर्णः।
अनतिक्रमणं तदस्य युक्तं यदि शेषोयमविप्लुतः क्रमो वः।।
15.53 नटवत् धृतशङ्खचक्रचिह्नाः कति नामात्र विडम्बयन्ति विष्णुम् ।
अनुकर्तुमयं च तद्वदीशः कथमीशत्वमनूर्मिषट्कहीने ।।
15.54 न च विश्वसिमो न वृद्धवाक्यं बलवन्मानविलङ्घनं न चेत् स्यात् ।
न वदन्त्यनिदम्परेषु सन्तः स्तुतिवाक्येषु यथाश्रुतार्थसिद्धिम् ।।
15.55 इति तत्र मुदा विकत्थमानं कठिनं कण्ठविलग्नमृत्युपाशम् ।
परिदृष्टपरावरस्तमीषद्विनयन् विष्णुपदीसुतो बभाषे ।।
15.56 श्रुणु तात हितं समाहितस्त्वं रुशतीं वाचमपास्य रोषजाताम् ।
अविमृश्य विपत्तिमापतन्तीं न हि तिष्ठन्त्यहितेषु बुद्धिमन्तः।।
15.57 अतिपत्य मुकुन्दमन्तिकस्थं पथिकान् अर्चितुमुन्मना भवेत् यः।
अवधीरितकौस्तुभः स नूनं कुरुविन्देषु कुतूहलं विधत्ते ।।
15.58 स्तुतिभिः कतिचित् त्रिवर्गमृच्छन्त्यपवर्गं च यमेकमाश्रिताभिः।
निरये निपतन्ति निन्दयान्ये यदि तद्वेत्थ तदैष यत्क्रियार्हः।।
15.59 सहजं नयनं च तत् तृतीयं भुजयुग्मं च तव स्थितातिरिक्तम् ।
सहसा यदुपागमेन नष्टं स्वयमाकारयसि स्वमृत्युमेनम् ।।
15.60 न हि सन्ति न निश्चितागमार्थाः न गताः सन्निहिताश्च न प्रसुप्ताः।
अपि तु त्रपया नतास्त्वदुक्तीस्त इमे नन्विह चेतसा हसन्ति ।।
15.61 यदि जीवितुमीहसे चिराय प्रतिपद्यस्व हितं यदस्मदुक्तम् ।
अथ न प्रहितो जलाञ्जलिस्ते श्रृणुतान्ये य इह श्रुतौ निरूढाः।।
15.62 युगकोटिशतायुतानि वेधाः स्वपदं प्राप यमेकमर्चयित्वा।
मनुजस्य तदर्चने विगायन् मतिहीनः पशुरेष मर्षणीयः।।
15.63 विधिहस्तधृतात् यदङ्घ्रिपद्मात् च्यवमाना पवमानवेगनीता ।
विपुनाति जगन्ति दिव्यसिन्धुः क्रमते हन्त तदर्चने विवादः।।
15.64 स च कश्चन सर्वमेधयज्वा हविरात्माह्वयमात्मनैव हुत्वा।
यत एव बभूव देवदेवः स किमस्माभिरदैवतैरनर्च्यः।।
15.65 य इहाद्य भजन्ति यज्ञभागान् कृतिनः कार्तयुगेन कर्मणा ते ।
अयजन्त पुरा यमेकमाद्यं वरिवस्यामिह तस्य वारयेत् कः।।
15.66 अथवा विबुधादिपूजनीये मनुजैरर्चनमत्र मा विधायि ।
इति नाम विमन्यतामिदानीमपशुत्वाय च कल्पतामयं नः।।
15.67 धनबन्धुवयः क्रियादिमात्रैरधिकेष्वप्यचमत्क्रिया विहत्यै ।
जगदेकपतौ सदोपकर्तर्यपकृत्यैष भजेत कामवस्थाम् ।।
15.68 क्वचिदर्चयति प्रभूतपुण्ये त्रियुगं तद्वदलब्धभागधेयैः।
यदि नाम धिया न शोचितव्यं न कथं दर्शनतोपि नन्दनीयम् ।।
15.69 यदनुग्रहनिग्रहप्रयुक्ते सुखदुःखे श्रृणुमः स्वयम्भुवोपि ।
विमतिं भजतस्तदर्हणायां न च देयोनुनयो न सान्त्वना च ।।
15.70 न पनायति चेत् असौ न जिह्वा न नमस्यत्यथ नैतदुत्तमाङ्गम् ।
यदि नार्चयतो न तौ च हस्तौ कृपया कल्पितसन्निधानमेनम् ।।
15.71 निरुपाधितसर्वबन्धुमेनं द्विषतानेन न भाषणप्रसङ्गः।
निरयज्वलनेन्धनीभविष्यन् कृपणः केवलमेष शोचनीयः।।
15.72 सहनीयतया प्रतिश्रुतं यत् वसुदेवस्वसुरच्युतेन पूर्वम् ।
अपराधशतं तदद्य पूर्णं भविता चैद्यविपत्तये परं यत् ।।
15.73 कुरुवृद्धवचस्तदेतदर्थ्यं दमघोषप्रभवो निशम्य दीप्तः।
प्रभयानुकृतप्रवर्ग्यदीप्तिः प्रतिरुन्धानदुरासदो ररास ।।
15.74 निपुणैरतिबालवृद्धवाक्यं न परिग्राह्यमिति ब्रुवन्ति सन्तः।
सहदेववदेष इत्यनिन्द्यं पृथुकत्वेन पितामहं निनिन्द ।।
15.75 अतिवृत्तिमवेक्ष्य तस्य घोरामशनिक्षोभनिभां सभासदस्ते ।
सदसत्प्रतिपत्तिमूढचित्ताः क्षणमालेख्यसमर्पिता इवासन् ।।
15.76 जहसुः कतिचिद्विनिन्द्य चैद्यं पिदधुः कर्णयुगं परे कराभ्याम् ।
सरसिन्धुसुतं शशंसुरन्ये व्यचिकित्सन्त च केचिदल्पसत्त्वाः।।
15.77 मुनिभिः पुलकाञ्चिताखिलाङ्गैः क्षरदानन्दधुबाष्पदिग्धदेहैः।
अनुमोदनजातमौलिकम्पैः हरिकीर्तिश्रवणोन्मुखैरभावि ।।
15.78 स्तुतिनिन्दनयोरभिन्नरूपं मुखरागं मधुहन्तुरीक्षमाणैः।
यदुभिः प्रतिरुद्धरोषवेगैः क्षमया तिर्यगवैक्ष्यत क्षमैव ।।
15.79 मधुजित्परिवादजातरोषं सहसा चेदिपतेर्वधाय सज्जम् ।
गदया सह भीममुज्जिहानं शमयन्नित्थमवोचदापगेयः।।
15.80 बलभीमसुयोधनैरमुष्मिन् परिहीणायुषि न प्रवर्तितव्यम् ।
अतिपर्यनुयोगया नियत्या हरिँणैवैष भवाब्धिवन्निवर्त्यः।।
15.81 त्यज साहसमुज्झ्यताममर्षः समये विक्रमसम्पदाद्रियेत ।
सदनागतसूदनापवादो महतां संप्रति मा च भूदयं वः।।
15.82 भजतु प्रथमार्हणां यथार्हं भगवानेष भवार्णवैकसेतुः।
प्रकृतस्य विधातुमन्तरायं स्वयमेतस्य शुभस्य न क्षमं वः।।
15.83 इति शान्तनवे प्रभाषमाणे निखिलानुश्रवसंशयप्रमोक्ता ।
मुदितो मुनिरब्जयोनिजन्मा मुहुराधूतकरस्तदभ्यनन्दत् ।।
15.84 क्षितिपालगणोदधिस्तदानीं विषमारम्भविरोधसेतुभिन्नः।
स्तिमितक्षुभिताकृतिर्बभासे गगनाम्भोधरसन्निभो गभीरः।
15.85 ननृते मुदितेन नारदेन क्षिपता मङ्क्षु मृगत्वगुत्तरीयम् ।
सुरसिन्धुसुतोदितं विपञ्चीमसकृद्गापयतानुनादवृत्त्या ।।
15.86 उदगीयत यत् तदा विधिज्ञैः सममुद्गातृभिरेकताननादैः।
मधुमर्दनगीतगर्भया तद् विशदं नारदवीणयान्ववादि ।।
15.87 व्रजयोषिदपाङ्गवेधनीयं मधुराभाग्यमनन्यभोग्यमीडे ।
वसुदेववधूस्तनन्धयं तत् किमपि ब्रह्म किशोरभावदृश्यम् ।।
15.88 निकटेषु निशामयामि नित्यं निगमान्तैरधुनापि मृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवनं युवानम् ।।
15.89 पदवीमदवीयसीं विमुक्तेरटवीसंपदमम्बुवाहयन्तीम् ।
अरुणाधरसाभिलाषवंशां करुणां कारणमानुषीं भजामि।।
15.90 अधराहितचारुवंशनालाः मकुटालम्बिमयूरपिञ्छमालाः।
हरिनीलशिलाविभङ्गनीलाः प्रतिभाः सन्तु ममान्तिमप्रयाणे ।।
15.91 जयतादिह देवकीसुतोसौ जगतामादिरनाद्यनन्तभूमा ।
अवतारयितुं भरं पृथिव्या वसुदेवस्य गृहे कृतावतारः।।
15.92 क्रतुरत्र समर्पितः कृतार्थः स च धर्मः कमिवाचचार धर्मम् ।
जगदेकपतेरमुष्य पूजां विदधानेन युधिष्ठिरेण पुत्री।।
15.93 इह नाकसदो न मानुषास्ते य इमे कृष्णमिहार्चयन्त्यनन्याः।
अयमेव महो ममेति गायन् स तदा मूर्त इवास नाट्यवेदः।।
15.94 अभिनन्दितवृत्तिरार्यमिश्रैरविसंवादिभिरागमोदितेषु ।
विलयादवनम्य विश्वभर्तुः सहदेवः स्वयमाहरत् सपर्याम् ।।
15.95 अरजस्तमसां महीपतीनामनुमत्या मुनिमुख्यसम्मते च ।
पुरुषस्य परस्य पूर्वपूजां सहदेवप्रहितां शशंसुरार्याः।।
15.96 तृणभुक्प्रतिमस्तृणाय मत्वा स तदा चेदिपतिर्युधिष्ठिरादीन् ।
अजहत्परुषोक्तिहेतिजालो दरशेषेन्धनवह्निवत् दिदीपे ।।
15.97 अजुगुप्सत भूभृतः सहिष्णून् परिवादैश्च तिरश्चकार पार्थान् ।
अवमत्य मुकुन्दमर्भकोसाविति धिक्कृत्य पितामहं जगर्ह ।।
15.98 अनघोयमतन्द्रितः क्रियायां गुरुभिः शिक्षितशुद्धधीरनेकैः।
कुरुवंशपितामहः कुतोसौ मतिमोहेन महीयसा गृहीतः।।
15.99 अशठैरजडैरनेडमूकैर्मुनिभिश्चात्र किमङ्ग्यकारि मौनम् ।
अथवा किमरातिपक्षसक्तैरहमस्मीति मुहुर्जहास मूढः।।
15.100 परिवर्तहुताशनप्रदीप्तं वदनं तस्य रुषा विजृम्भमाणम् ।
फणभृद्बिलभीषणं तदासीत् ज्वलदुल्काशतदुर्निरीक्षनेत्रम् ।।
15.101 बडबानलधूमराजिरूक्षा भ्रुकुटी तस्य मुखे परिस्फुरन्ती ।
ददृशे तदसून् प्रसह्य पातुं शमनेनेव निवेशिता भुजङ्गी ।।
15.102 भसितीकृतचन्दनानुलेपः क्वथितद्रावितहेमपुष्पदामा ।
सहसा हृदि तस्य कोपवह्निः समदीपि स्फुटितप्रकीर्णहारः।।
15.103 कठिनौ परिपिंषतः करौ द्वौ बहुशस्तस्य वरोर्मिका विशीर्णा।
ध्रुवमप्रशमाय रोषवह्नेस्तुषविक्षेपमधत्त रत्नचूर्णैः।।
15.104 स्ववधाहतडिण्डिमस्वनाभान् असकृच्चेदिनियन्तुरट्टहासान् ।
अभितो मणिभित्तिभिः सभा सा प्रजहासेव विजृम्भितप्रतिश्रुत् ।।
15.105 प्रतिपद्य रुषा विवर्णभावं तमसा बिभ्रदलङ्घ्यमैकराश्यम्
उपरक्त इवार्यमास्तमृच्छन् स भृशं सद्भिरभूददर्शनीयः।।
15.106 श्वसितैरविदूरवृत्तिमद्भिः परिवारैरिव तत्यजे त्रसद्भिः।
निजमंसमरातिवन्निजघ्ने पविकल्पेन पदेन चास्य भूमिः।।
15.107 निभृतैरपि पूर्वमैकमत्यात् विकृतस्याथ विरुद्धचेष्टितानि ।
दधिरे दमघोषसम्भवस्य प्रतिबिम्बैरिव तस्य मित्रभूतैः।।
15.108 विकृताकृतिवेषचेष्टितानामवलेपग्रहलुप्तमानसानाम् ।
अवधीरितजाह्नवेयवाचामपहासः परमाददे महद्भिः।।
15.109 उपहूय रणाय वृष्णिवीरान् नृपलोकादथ निर्जगाम चैद्यः।
तममंसत यादवास्तदानीमनलस्कन्धविनिस्सृतं स्फुलिङ्गम् ।।
15.110 कतिभिश्चन कामचारसक्तैरुपसञ्जातमदैरुदग्रशृङ्गैः।
गजयूधपतेरिवाग्रभाजो गतिरेतस्य गजैरिवानुजग्मे ।।
15.111 अथ तान् अनुमत्य पाण्डवादीन् समरस्थानमुपागतः ससैन्यः।
हरिरप्रतिरोधनीयवृत्तिः द्विरदाधीशमिव द्विषं रुरोध ।।
15.112 रथहस्तितुरङ्गपत्तिरूपैर्युयुजाते पृतने यथार्हमङ्गैः।
स्थितिकर्मभिराभिमुख्यवद्भिर्युधि बिम्बप्रतिबिम्बवद्भवन्त्यौ ।।
15.113 गरुडा इव पन्नगान् उदग्रान् द्रुमषण्डानिव मारुताः प्रचण्डाः ।
अहितान् अभिनिघ्नतो निजघ्रुर्यदुवीरा मधुवैरिहेतिकल्पाः।।
15.114 स्थितमप्रतिमे रथाङ्गपाणिं गरुडप्रख्यगतागते रथाग्र्ये ।
पतनोद्यततारकानुकारी शलभो वह्निमिवाससाद चैद्यः।।
15.115 ज्वलदुज्ज्वलहेतिबृन्दशाली विपुलस्यन्दनवेदिमध्यदीप्तः।
स्वयमेव बभूव चेदिराजः स्वविभूतेरभिचारहव्यवाहः।।
15.116 यदुपुङ्गवसूर्यसन्निधाने शिशुपालः प्रतिसुर्यवत् प्रदीप्तः।
किमतो भवतीति खिन्नचित्तैः सखिभिः स्वर्गिभिरप्यवैक्ष्यतैकः।।
15.117 मदलुप्तधिया तदाभियुक्तो यदुसिंहः शिशुपालकुञ्जरेण।
विजहार गुहाशयस्तरस्वी निखिलारण्यकनिर्विघातवृत्तिः।।
15.118 मधुमर्दनकार्मुकप्रणादः सुनश्श्रोत्रसुधारसायमानः।
त्रिजगद्भयशान्तिकप्रयोगो रणवेदप्रणवो बभूव रम्यः।।
15.119 अचिरद्युतिभास्वरोथ चैद्यः पुरुहूतायुधचारुचित्रचापः।
प्रलयस्तनयित्नुभीमनादः शरवर्षेण मुकुन्दमभ्यवर्षत् ।।
15.120 गदया तदपोह्य बाणजालं प्रतिनिर्धूतहिमप्रभाकराभः।
अहितं विशिखैरहन् मुकुन्दो दरवेधेपि दरव्यथाविमुक्तम् ।।
15.121 मुषिताम्बरमस्त्रशस्त्रभूम्ना दनुजारेर्दमघोषजन्मनश्च।
अतिराघवरावणं तदानीमभवत् द्वैरथमाकुलेन्दुसूर्यम् ।।
15.122 रथिनोरथ वादिनोरिवासीत् युधि शस्त्रास्त्रमयैः प्रमाणतर्कैः।
अपरस्परपातिभिः प्रभूतैरवधानेन परस्परं जिगीषा ।।
15.123 प्रथितौ रणयज्ञयायजूकौ धनुराम्नायसमाहितप्रयोगौ ।
तदनन्यरसानतोषयेतां नरदेवान् उपहूतसन्निधातृन् ।।
15.124 यदुसूर्यमवाप्य चैद्यचन्द्रः शनकैर्यत्र बभूव मन्दधामा ।
गणना न बभूव कृष्णपक्षे हतभग्नादिविकल्पितेपि तस्मिन् ।।
15.125 रभसभ्रमणेन हेतिराजो रणनीराजनमाचचार शौरेः।
तममंसत सैनिकास्तदानीं द्विषदुत्पातमलातचक्ररूपम् ।।
15.126 सुकृतेन पुराकृतेन चैद्यः प्रतिपन्नप्रकृतिः प्रशान्तवैरः।
क्षणमद्भुतकृष्णरूपदर्शी शिथिलाकृष्टशिलीमुखोवतस्थे ।।
15.127 समयोदयसंभृतप्रसादः त्रिगुणग्रन्थिचिकित्सकः श्रितानाम् ।
विलुलाव सुदर्शनेन कृष्णः शिशुपालस्य शिरः किरीटजुष्टम् ।।
15.128 सह भृत्यगणैः समित्रवर्गे निहते चेदिपतौ निवृत्तखेदाः।
अभितुष्टुवुरादरेण देवा नरदेवाश्च तमीढ्यमादिदेवम् ।।
15.129 हरिणा निधनं तदीक्षणं च प्रयतामप्रतिबोधसंप्रयुक्तम् ।
जगदद्भुतदिव्यभोगहेतुः प्रतिबोधो तु दुरत्यया विमुक्तिः।।
15.130 सहसा हरिचक्रसंप्रयोगक्षणसंप्राप्तविपाकया नियत्या ।
अनघस्थितिमन्तिमामवस्थां स तदा संयमिनामवाप चैद्यः।।
15.131 रभसेन रथाङ्गलूनकण्ठात् वपुषश्चेदिपतेरुदीयमानम् ।
तपनायुतसन्निभप्रकाशं यदुवीरस्य तनुं विवेश तेजः।।
15.132 अवलोक्य तदद्भुतं महीयः क्षितिपालैरमरैस्सलोकपालैः।
मुनिभिश्च मुहुः कृतावमर्शैरिदमित्थंत्वविनिश्चयो न लेभे ।।
15.133 इति संभृतवीरसप्ततन्तुः कृतिना धर्मभुवा कृतानुयात्रः।
विनिवर्त्य तमग्रजानुवर्ती परमेशः स्वपुरीं पुनः प्रतस्थे ।।
15.134 जगद्वन्द्यः प्राप्तो जलधिरशनामात्मनगरीं
यथार्हं संसृष्टो यदुभिरखिलैरर्चितपदः।
धरित्रीभारार्धव्यपनयनधर्मे धृतमतिः
महिष्या रुक्मिण्या महितचरितः साधु मुमुदे ।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमतेंकटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयनाम्नि महाकाव्ये शिशुपालवधो नाम पञ्चदशस्सर्गः ।