श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
षोडशः सर्गः
16.1 ऐरावतमथारुह्य श्वेताद्रिमिव जङ्गमम् । पुरीं द्वारवतीं शौरेराजगाम पुरन्दरः।।
16.2 अपत्यभावमापन्नमात्मानममृतोदधेः।निमेषरहितैः पौरैर्देवभूतैर्निरीक्षितम् ।।
16.3 अदृश्यं मन्दपुण्यानाममन्दप्रीतिदायिनम् । आत्तदेहमिव स्वर्गमासेचनकदर्शनम् ।।
16.4 महनीयपरिष्कारं वल्गुध्वजमतल्लिकम् । महोत्सवमिवाशानामाशाभ्यधिकसंपदम् ।।
16.5 उदधेरिव मन्थेन पीडितस्य समुत्थितैः। दृढलग्नैरिवोत्पत्तौ दीप्तं शोणितबिन्दुभिः।।
16.6 दैत्यदानवदर्पघ्नैर्दन्तैर्दलितमन्दरैः। सिंहानामपि हन्तारं सिंहवक्त्रविभूषणैः।।
16.7 मेरुकल्पेन रुपेण मेदिनीधृतिहेतुना । त्रिदशप्रीतिदातारं स्त्यानसिन्दूरधातुना ।।
16.8 मूर्ध्ना विपुलतुङ्गेन मेनकास्तनबन्धुना । दधतं मौक्तिकाकल्पं गङ्गाबुद्बुदनिर्मलम् ।।
16.9 अजहद्भृङ्गगीतेन गर्जाडम्बरशोभिना । स्वकान्त्या कर्णतालेन क्लृप्तसंगीतखेलनम् ।।
16.10 नर्तयन्तममर्त्यानां नेत्रकौतुकसुतिकाम् । नासां त्रिदशनारीणामूरुनिर्माणमातृकाम् ।।
16.11 मङ्गलत्वमिवेच्छद्भिर्हैमशङ्खादिमण्डनैः। आश्रितं रत्नपूर्णेन कुम्भेन च महीयसा ।।
16.12 विभूतिशरदम्भोदैः कीर्तिवल्लीगुलुच्छकैः। कान्तिसागरकल्लोलैः सपक्षमिव चामरैः।।
16.13 सहजं प्रभया चन्द्रं वारुणीं मदसंपदा । सूचयन्तं स्वमूर्त्या च सुधां शुद्धानुभाव्यया ।।
16.14 जगदामोदजनकं दानार्द्रकरपुष्करम् । दभ्रयन्तमिवौदार्यात् दिव्यपादपसंपदम् ।।
16.15 उदग्रबहुदन्तांशुं बृंहितव्याप्तदिङ्मुखम् । हसन्तमिव दिङ्नागान् अन्यान् अतिबलानपि ।।
16.16 उद्वहन्तं कदलिकां काञ्चनीं किङ्किणीफलाम् ।वप्राभिघातभीतस्य सुमेरोरुपदामिव।।
16.17 चित्रकम्बलसञ्छन्नं कान्तं कनककक्ष्यया। विद्युतेव परिष्वक्तं वासरान्तशरद्घनम् ।।
16.18 अवधिं दर्शनीयानामाकल्पमनघं दिवः। जीवातुं देवसैन्यानां दर्पभङ्गं विरुन्धताम् ।।
16.19 घण्टायुगलनादेन नगेन्द्रेष्वनुनादिना । क्षरन्तममृतक्ष्वेडौ कर्णेष्वमरतद्द्विषाम् ।।
16.20 महता मदगन्धेन तस्य विग्ना विबभ्रमुः। उत्खातविपुलस्तम्भा नागास्त्रुटितशृङ्खलाः।।
16.21 स तं द्वारवतीद्वारे समवस्थाप्य सानुगम् । आससाद हरेः स्थानमवज्ञातत्रिविष्टपम् ।।
16.22 शुभानामिव साम्राज्यं श्वेतद्वीपमिवापरम् । निवेदितसमाहूतः प्रासादं प्राविशत् प्रभोः।।
16.23 स तेन विहितां शक्रः प्रतिगृह्य प्रियार्हणाम् । निजगाद निजां भीतिं गद्गदोद्गमया गिरा।।
16.24 दयनीयेषु देवेषु देवदेव त्वयाधुना । अपाङ्गाः परिपात्यन्तामनुक्रोशानुवर्तिनः।।
16.25 सुषुवे नरसिंहं त्वां भक्तप्रह्लादसंमुखम् । रक्षार्थमिह दीनानां रत्नस्थूणेव देवकी ।।
16.26 नाथ त्वयि निराबाधें त्रिलोकीं त्रातुमागते । नरको नाम दैत्येन्द्रः कदर्थयति नाकिनः।।
16.27 धर्मसूकररूपस्य तवासौ क्षमयान्वये। उत्पात इव भूतानामुद्बभूव भयानकः।।
16.28 जननी सर्भूतानां पत्नी तव वसुन्धरा । प्रसूय नरकं देवी दूयते त्वदुपेक्षया ।।
16.29 न हिरण्यहिरण्याक्षौ न मधुर्न च कैटभः। उपमानपदे तस्य त्वच्छक्तिजनितात्मनः।।
16.30 एष कल्पान्तवृत्तान्तमिदानीन्तनयन्निव।विधुनोति त्वदालम्बं ब्रह्मस्तम्बमिदम्परः।।
16.31 विक्रमस्रेतसा तस्य बृहन्त्यपि बलानि नः।सहसा भेदमायान्ति सैकता इव सेतवः।।
16.32 यदृच्छोपगमेप्यस्य यान्ति देवगृहाश्रिताः।प्रधावितुमनीशानाः साक्षितां सालभञ्जिकाः।।
16.33 महता मत्प्रयुक्तेन वज्रेण ज्वलितात्मना।निलिल्ये तस्य दोर्मध्ये निष्काभरणवर्ष्मणा ।।
16.34 त्वत्कोप इव दीप्तोपि ज्वलनो न प्रकाशते।ज्योतिरिङ्गणवत् तस्य द्युमणेरिव सन्निधौ।।
16.35 अमोघत्वयशोभङ्गभयादिव निवर्तते।अखण्डितबले तस्मिन् दण्डो दण्डधरार्पितः।।
16.36 नयनार्चिष्मतस्तस्य नैर्ऋतेश्वरवाहिनी।अपसृप्य पुरोभागादद्यापि न निवर्तते ।।
16.37 तं सुप्तमपि वा मत्तं वारुणो वैरिदारुणः।न रोद्धुं क्षमते पाशो नलस्तम्ब इव द्विपम् ।।
16.38 शक्तः शमयितुं तस्य संवर्तार्हजवोपि सन्।नभस्वान् खेलतः सङ्ख्ये न स्वेदकणिकामपि।।
16.39 धनदेन गदा तस्य महती मूर्ध्नि पातिता।अभित्त्वा पौष्पमापीडमनापीडत्वमादधे ।।
16.40 जटिलान् कृत्तिवसनात् नियमं तीव्रमास्थितान्।तपस्विन इति ज्ञात्वा स रुद्रान् नातिवर्तते।।
16.41 अहरत् वारुणं छत्रं मामकं मणिभूधरम्।अमृतस्यन्दिनी चास्मज्जनन्या मणिकुण्डले।।
16.42 आदर्शमिव संपत्तेरमृताब्धेरिवाशयम्।औपवाह्यमसौ मत्कमारुरुक्षति साम्प्रतम् ।।
16.43 देनदानवसिद्धानां नृपाणामपि कन्यकाः।अपहृत्य त्वदेकार्हास्त्वरते पाणिपीडने।।
16.44 स भौमस्त्वन्निरस्तानां समवाय इवोत्थितः।बाधते विबुधानेवं बलवीर्यपराक्रमैः।।
16.45 तदेवमवसीदत्सु दया देवेषु पात्यताम्।अनपह्नुतदास्यानां दोषनिह्नवसाक्षिणी ।।
16.46 तमर्धं भूमिभारस्य त्वयैवोत्पादितं प्रभो।त्रिलोकीकण्टकं तीक्ष्णं त्वमेवोद्धर्तुमर्हसि ।।
16.47 निवर्त्य धर्मशल्येस्मिन् निदाने सर्वपाप्मनाम् ।निवेदनमिहास्माकमंशो निर्वहणं तव।।
16.48 मशकामर्शवत् यस्य मधुकैटभमर्दनम्।तदन्यदनुजध्वंसे तस्य ते किमिवाद्भुतम्।।
16.49 निगमान्तेषु निगदव्याख्यातनिजवैभवः।विधत्स्व विपदुत्तीर्णान् अमर्त्यान् अनुकम्पया ।।
16.50 इति विज्ञापितोदन्तं दत्तहस्तं बलद्विषम्।विनिवर्त्य जगन्नाथो वैनतेयमथास्मरत् ।।
16.51 अनुचिन्तितमात्रस्तमुपतस्थे खगेश्वरः।अहीन्द्रदामभिर्भीमैरंसलम्बिभिरंसलः।।
16.52 पक्षमारुतघोषेण त्रैलोक्यदुरितच्छिदा।चतुर्णामिव वेदानां संभूतिमिव भावयन्।।
16.53 तरुणार्कप्रभासार सामरस्यजुषा त्विषा।तप्तहेमद्रवौघेन लिम्पन्निव दिशो दश।।
16.54 स्वामुदर्शनसन्तोषात् प्रहृष्यद्भिस्तनूरुहैः।युगान्तसन्ध्याजलदः तटिज्जालैरिव ज्वलन्।।
16.55 विपुलाद्भुतसंस्थानैर्द्योतितो दिव्यभूषणैः।भुजगेन्द्रफणारत्नशङ्कार्हमणिचित्रितैः।।
16.56 तुङ्गवज्रव्रणाङ्केन सुविस्तीर्णेन वक्षसा।अबहिर्भावयन् कृत्स्नमवकाशं विहायसः।।
16.57 पृथुना भुजयुग्मेन भोगीन्द्रपरिकर्मणा।मन्दरद्वितयेनेव समेतो रुक्मपर्वतः।।
16.58 व्यालखण्डनसङ्कान्तविषपङ्ककलङ्किना।दधान इव तुण्डेन दैत्यदर्पगजाङ्कुशम् ।।
16.59 तक्षकश्रोणिसूत्रेण दृढबद्धेन बन्धुरम्।मान्यमग्रजवर्णेन वसानो दिव्यमम्बरम् ।।
16.60 नाथभक्तिपरिष्कार्यां नृत्तलीलामिव स्पृशन्।निजेन स्थानकेनाग्रे निहितोन्नतजानुना।।
16.61 वपुषा भक्तिनम्रेण धीरोन्नतमहीयसा।शान्तवीराद्भुतरसान् समाहृत्येव संपतन्।।
16.62 मूर्तिमानिव संरम्भो रूपवानिव मारुतः।तरङ्गान् पक्षतीकृत्य संक्षिप्त इव सागरः।।
16.63 संवर्त इव नागानां सङ्घात इव रंहसाम्।वालखिल्यचरित्राणां विपाक इव जङ्गमः।।
16.64 प्रभुस्तं दैत्यसिद्धीनां प्रसूतकिलिकिञ्चितम्।ओलण्डितमिवापश्यदुग्रं समरताण्डवम्।।
16.65 दत्तनीराजनस्तेन ददृशे वाहनेश्वरः।प्रदक्षिणीकृताः शश्वत् प्रतापविजयश्रिया ।।
16.66 स तदास्फोटयामास विन्ध्यमेरुसमौ भुजौ।रुद्रया च सुकीर्त्या च मृदितौ कण्ठभूषणैः।।
16.67 दुधुवे पक्षती च द्वे डोलायितकुलाचले।वीजयन् घोरदुर्वादिघर्मतप्तामिव त्रयीम् ।।
16.68 मुहुराम्रेडयामास जयालोकयभारतीम्।मुग्धमध्यप्रगल्भाभिर्दशाभिः कर्बुरामिव ।।
16.69 स तदा सन्नतस्कन्धो बद्धाञ्जलिरनिःश्वसन्।मुमुदे मूर्ध्नि संस्पृष्टो मुकुन्देन प्रसेदुषा।।
16.70 तस्मिन् प्रथममारोप्य सत्यां विरहविक्लवाम्।आरुरोह ततः शौरिराखण्डलकृतस्तुतिः।।
16.71 निवर्त्य स्वनिवासाय शक्रं शमितसाध्वसम्।प्रययौ दीप्तसन्नाहः प्राग्ज्योतिषपुरं प्रभुः।।
16.72 श्रेयःपरिपणं तस्य श्रुतिश्रेणिशिरोमृतम्।प्रणतः प्रतिजग्राह शासनं पाकशासनः।।
16.73 यथास्वं नगरद्वारे यादवा दानवाश्च तम्।तरस्विगरुडारूढं सत्यमैक्षन्त तत्क्षणम्।।
16.74 समन्तात् वैरिदुर्गस्य क्षिप्तचक्रः क्षणेन सः।क्षुरान्तान् अनिच्छत् पाशान् आततान् शतयोजनम्।।
16.75 मुरं पञ्चजनं सप्तसहस्राणि मुरोद्भवान्।शलभीकृत्य चक्राग्निरुपदुद्राव तत् पुरम्।।
16.76 ततः प्राग्ज्योतिषद्वारे दैत्यदानवसूदनः।पाञ्चजन्यमुपादध्मौ प्रलयाम्बुधिनिस्वनम्।।
16.77 वीक्ष्य तं विविशुर्दुर्गं दिवाभीता इवासुराः।उद्यन्तमिव तिग्मांशुमुदयाद्रौ गरुत्मति ।।
16.78 अभिमानोदितव्यक्तिरहङ्कार इवोल्बणः।महतो दैत्यनगरान्निरगान्नरकासुरः।।
16.79 तमस्रमायाभ्यधिका दानवाः पर्यवारयन्।प्रकटच्छन्नकौटिल्याः पाषण्डमिव हैतुकाः।।
16.80 संयुगे रजसोद्रिक्ते तस्मिन् सत्त्वतमस्त्विषोः।अर्थिप्रत्यर्थिनोरासीदनभिव्यक्तरुपता।।
16.81 शरधारासहस्रेणच्छादयन् नरको दिशः।स्वहेतुमभिसंपेदे समुद्रमिव तोयदः।।
16.82 नरकाम्बुदमुक्ताभिर्नाथो नाराचवृष्टिभिः।विपद्भिरिव तद्भक्तो विषमाभिर्न विव्यथे।।
16.83 दृप्यतामथ दैत्यानां ध्वनिरुत्कम्पयन् दिवम्।पाञ्चजन्यप्रणादेन पर्यभूयत भूयसा।।
16.84 दिदृक्षोपगतानां तत् देवानां रोमहर्षणम्।अदीव्यत रणद्यूतमन्तरस्थयशःपणम्।
16.85 प्रतिविव्याध दैतेयं बाणैरशनिभीषणैः।पक्षवन्तमिवाद्रीन्द्रं प्रकुप्यन् पाकशासनः।।
16.86 शरसंहतयस्तस्य क्षरन्त्यः शार्ङ्गशैलतः।द्विधा चक्रुः स्ववेगेन द्विषद्बलमहार्णवम्।।
16.87 तस्य ज्यास्वनगीतानि समयुज्यन्त संयुगे।करिणां कर्णतालैश्च कबन्धानां च ताण्डवैः।।
16.88 दैत्यशोणितदिग्धाभिस्तद्बाणततिभिर्नभः।रुरुधे रोषताम्राभिः कृतान्तस्येव दृष्टिभिः।।
16.89 द्विरदा शरनिर्भिन्नकुम्भनिर्मुक्तमौक्तिकाः।क्षरन्तः करकासारं कल्पमेघा इवाबभुः।।
16.90 नासावालधिभिर्नागाः क्षरन्तो रक्तनिर्झरान्।शशंसुर्लाघवं तस्य निष्पत्राकृत सायकम् ।।
16.91 अग्रिमं विशतां स्कन्धमामूलमहितां चमूम्।शराणां तस्य संधाननिपातौ न द्विषोविदुः।।
16.92 लक्ष्यमेकमभूत् तस्य शराणामुत्पलत्विषाम् । अमरस्त्रीकटाक्षाणामप्यभङ्गुरधन्वनः।।
16.93 चिरप्रार्थितभीतानां स तासामेव शात्रवान्।स्वयंवरपतींश्चक्रे सुधन्वा सुरसुभ्रुवाम्।।
16.94 त्यक्त्वा भीतिवृतांस्तत्र विमुक्तान् जीविताशया।सार्धमप्सरसः कीर्त्या वीरान् स्वयमवृण्वत।।
16.95 अनन्तस्य तदानन्तैरसुरैराहवोत्सवः।जयश्रियं च सत्यां च सम्मते समतोषयत् ।।
16.96 स्वबाधनियतस्तत्र परबाधाभिलाषिणाम्।प्रयासः सुरशत्रूणां जात्युत्तरमिवाभवत्।।
16.97 विसन्धिविग्रहाः क्षिप्तयानासनसमाश्रयाः।द्वैधीभावसृजो योधा दुर्नयस्था इवाभवन्।।
16.98 अनघव्यवसायानामसङ्गत्यक्तवर्ष्मणाम्। योगिनामिव तत्रासीदपरावर्तनागतिः।।
16.99 वनं तत्र मुकुन्देन त्याजितान् महती स्वयम्।अवृणोदनघा कीर्तिरधिविन्नाप्सरोगणान्।।
16.100 निस्सहायीकृतस्तत्र शरवर्षैर्धरासुतः।बह्वमन्यत तेनैव द्वन्द्वयुद्धमुपस्थितम्।।
16.101 कृतप्रतिकृतैरस्त्रप्रयोगैः क्रीडतोस्तयोः।अदृष्टान्तमभूत् युद्धमन्यदृष्टान्तवर्जितम्।।
16.102 वक्रवृत्तिः सरुधिरो लोहिताङ्गो महीसुतः।प्राप्य यादवभास्वन्तं मूढः समभवत् क्रमात्।।
16.103 स्वायुधैकसहायस्तु देवः स्वच्छन्दयादवः।निरयापरपर्यायं रिपुं चक्रे निरायुधम् ।।
16.104 क्रोधरक्ततनुर्दैत्यः क्षरच्छोणितनिर्झरः।गृहीतपादसञ्चारो गैरिकाद्रिरिवाबभौ।।
16.105 निशितैस्तस्य नाराचैर्निर्भिन्नरथसारथिः।आस्फोटितभुजस्तार्क्ष्यमजिघांसदमर्त्यजित्।।
16.106 निसर्गतमसस्तस्य जिह्मगस्याङ्गमुत्तमम्।रथपादेन चिच्छेद राहोरिव रमापतिः।
16.107 उदतिष्ठत हाकारस्ततो युगपदेकधा देवदानवसौधेभ्यो हर्षशोकसमुद्भवः।।
16.108 स्फुरद्भ्रुकुटि दैत्यस्य रोषदष्टाधरं मुखम्।निकृत्तमपि न द्रष्टुं प्रबभूवुर्दिवौकसः।।
16.109 निकृत्तशिरसं देवी निजाङ्के पतितं सुतम्।महती मेदिनी दीनं कम्पमानान्वकम्पत।।
16.110 अथ सा दैत्यहन्तारं प्रणम्य नतजीवितम्।अयाचत दयासिन्धुमात्मजस्य शुभां गतिम् ।।
16.111 तुष्टाव च पतिं तुष्टा मेदिनी विश्ववेदिनी।स्नपयन्तीव संयत्तं दन्तदीधितिगङ्गया।।
16.112 अहमस्मि विभूतिस्ते भूतधात्री त्वया धृता।अशेषाधारमेकं त्वामनाधारमधीयते।।
16.113 तिसृभिश्शक्तिभिर्युक्तं षाड्गुण्यप्रथितोदयम्।अधिराजमशेषस्य जगदुस्त्वां जिताहितम्।।
16.114 अपि कोटिमुखैः सर्वैरनन्तेनाप्यनेहसा। नाथ त्वद्गुणदुग्धाब्धिपृषदास्वादनं क्षमम्।।
16.115 अकर्तुमन्यथाकर्तुं कर्तुमप्यखिलं क्षमम्।लक्ष्मीलक्षणमाहुस्त्वां लङ्घितत्रिविधावधिम्।।
16.116 स्थिरत्रसविभक्तं ते चिदचिद्भेदचित्रितम्।स्वसृष्टमिदमुद्यानं त्वदन्यो नास्ति रक्षितुम्।।
16.117 स्वातन्त्र्यपरतन्त्रस्त्वं पारतन्त्र्यस्वतन्त्रितैः।विहरस्यात्मसूत्रस्थैः शकुनैरिव जन्तुभिः।।
16.118 सितासितगुणारब्धैः पाशजालैर्दुरत्ययैः।निबद्धाः पशवो नाथ त्वदेकाधीनमुक्तयः।।
16.119 यस्य त्वं यश्च हृद्यस्ते यस्यासौ तस्य यस्तथा।नाथ त्वत्पदमारुह्य न पुनस्तैर्निवृत्यते।।
16.120 सुरासुरविभागोयं तुलाग्रन्यायतस्त्वया।कल्पितः कालपर्यायान्निम्नोतसमक्रमः।।
16.121 कस्त्वदङ्गीकृतं हन्ता कस्त्राता त्वज्जिघांसितम्।निहन्सि पासि चैकस्त्वं स्वेन विश्वंपरेण वा।।
16.122 वृद्धिसङ्कोचविषमा गतागतसहायिनी।नियतिः केन लङ्घ्येत निजच्छायानुकारिणी।।
16.123 नपुत्रवधमन्वीक्ष्य न दूये त्वन्मतस्थिता।न च पुत्राभिमानो मे मत्प्रसूतेषु जन्तुषु।।
16.124 सूदने कृतसङ्कल्पः स्वभक्तपरिपन्थिनाम्।यदि तीर्णप्रतिज्ञस्त्वं किं मयेदं न मृष्यते।।
16.125 त्वन्मायाजृम्भितैर्देव ब्रह्माण्डैरपि लीयते।जन्मन्यपि सुरोधेषु जन्तुवर्गेषु का कथा।।
16.126 त्वत्प्रसूतस्त्वयैवासौ वधितश्चक्रधारया।का नाम कृतिनस्तस्य परिदेवयितव्यता ।।
16.127 निरुद्धे नरके नाथ नित्यधर्मात्मना त्वया।निष्प्रतिद्वन्द्विकं स्वर्गसुखमास्वाद्यतां सुरैः।।
16.128 निर्यातितमिदं भूयः त्वज्जनन्यै मया स्वयम्।श्रवणाभरणद्वन्द्वं शीतलार्कयुगप्रभम्।।
16.129 इति विज्ञाप्य सा तस्मै विषादाभावमात्मनः। विरराम ततो देवी विलक्षा विश्वधारिणी।।
16.130 तामशेषजगद्धात्रीं संनताङ्गीमसान्त्वयत्।सहधर्मचरीं पूर्वां वासुदेवो वसुन्धराम् ।।
16.131 पुरस्कृतप्रसादस्तां पूर्वसम्भवगेहिनीम्।गृहीतकुण्डलो गन्तुमन्वमंस्त गदाग्रजः।।
16.132 ततः सा तत्समादेशात् सत्यभामाभिवन्दिता।रम्यं प्रतिययौ स्थानं रत्नसानुशिखण्डकम्।।
16.133 ददर्श यदुवीरोथ दैत्यवीरनिवेशनम्। अचिन्त्यमिव मायानां प्रभावमनुपप्लवम्।।
16.134 विचक्षणवरं दैत्यं वैरिसंपत्करग्रहे। विभूतिसंचयप्रेक्षी बह्वमंस्त बलानुजः।।
16.135 सुधानिष्यन्दिभिः स्थूलैः मुक्तादामभिरावृतम्।पश्यन् पाशभृतश्छत्रं विश्वकर्ता विसिष्मिये।।
16.136 विदध्यौ कन्यकास्तत्र निदर्शितपरस्पराः।अमुद्राभङ्गसुभगा नीवीरिव रतेः शुभः।।
16.137 लावण्यजलधौ लक्ष्म्याश्छाया इव सहोदिताः।मधुस्वच्छन्दतासीम्नो मान्मथीरिव दीर्घिकाः।।
16.138 कामकीर्तिपताकाभिः स ताभिः प्रत्यवेक्षितः। आत्मानममृतोदन्वदन्तस्स्थितममन्यत।।
16.139 सुप्रभातमभूत् तासां सुदिनं च तमोपहम्।भवदोषार्यमा यासां देवो दृष्टिपथे गतः।।
16.140 रत्नशैलनिभांस्तस्य भुजान् कटकभूषितान्।उपधास्यन्ति यास्तासां श्रेयसी भवितव्यता।।
16.141 सर्वस्वमिव पुण्यानां साम्राज्यमिव संपदाम्।समाजमिव सिद्धीनां स तद्यौवतमग्रहीत्।।
16.142 भुजमन्दरवेगेन चक्रभ्रमवता विभुः। मथितान् दानवाम्भोधेरमृतं तदविन्दत ।।
16.143 मणिपरुवकसंपन्माननीयस्तनीनां मनसिजवपुषेव स्वेन सङ्कल्पितानाम्।
सकलजगदभिख्यासारसीम्नां स तासां स्वयमजुषत सिद्धिं स्वप्रसादप्रसूताम्।।
16.144 पुरमथ गमयित्वा भूषितं यादवाग्र्यैः शतसमधिकसंख्यं षोडशस्त्रीसहस्रम्।।
अवनितनयभीतान् प्रीणयन् आदितेयान् परिणयनविलम्बं पद्मनाभः प्रसेहे।।
16.145 दिवि भुवि च समिद्धं दीपरूपेण रूढैस्त्रिभुवनविभवानामङ्कुरैरेकरूपैः।
जनितनिगमसख्यं दानवीनां विलापैर्नरकवधदिनं तन्नाथपूजार्हमासीत्।।
16.146 ऐरावतप्रतिनिधीनथ षट्सहस्रं स्तम्बेरमान् पृथुलदन्तचतुष्कभाजः।
काम्भोजवाजिनियुतानि च सत्रिसप्तान्यभ्यानयन्निजपुरं नरकस्य भृत्यैः।।
16.147 उद्गम्य दुर्गजलधेरुदयाद्रिकल्पं तुङ्गं विहङ्गमपतिं त्वरयाधिरोहन्।
उल्लासहेतुरभवत् यदुवीरभास्वान् वैमानिकप्रणयिनीवदनांबुजानाम्।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयनाम्न्नि महाकाव्ये नरकवधो नाम षोडशः सर्गः ।।