श्रीमते रामानुजाय नमः ॥
श्री लोकचार्य विरचितः क्षामास्तवः ॥
लोकचार्याय गुरवे कृष्णपादस्य सूनवे । संसार भोगि संदष्ट जीवजीवातवे नमः ॥
श्रीलोकाचार्यमहंवन्दे क्षमास्तव विधायिनम् । श्रीरङ्गनाथ कैङ्कर्य निष्टं लोकोत्तरं गुरुम् ॥
श्रीरङ्गं तु श्रियो रङ्गं प्राप्तस्त्वं करुणाकर ।
अकिञ्चनमशक्तं मां रङ्गनाथ ! क्षमस्व माम् ॥ 1
जुष्टः श्रीरङ्गनायक्या नित्यं पुरुषकारया ।
भगवस्त्वं प्रपन्नं ते ॥ क्षमस्व माम् ॥ 2
विष्वक्सेन कृतं तन्त्रं अधीत्य सुखवर्तिनम् ।
त्वयि विश्वासशीलं त्वं ॥ क्षमस्व माम् ॥ 3
शठारिमुख सूक्तीनां सारार्थविदमप्यमुम् ।
अशक्तं तदनुष्टाने ॥ क्षमस्व माम् ॥ 4
श्रीनाथयोगी योगाङ्ग मन्त्ररत्नस्य लम्भुकं ।
दिव्यप्रबन्ध निष्णातं ॥ क्षमस्व माम् ॥ 5
यामुनार्य महासूक्ति सर्वस्य प्रगुणीकृतम ।
वादिनां वाद्दं भक्तं ॥ क्षमस्व माम् ॥ 6
श्रीभाष्यकार श्रीसूक्ति नित्याध्ययन कारिणम् ।
अपि तच्चरणैकाग्रं ॥ क्षमस्व माम् ॥ 7
भट्टार्य सूक्ति विभव लाभ धन्यतमं भुवि ।
कृपया परया प्रेक्ष्य ॥ क्षमस्व माम् ॥ 8
वेदान्तदेशिकमुनेः माधवार्यस्य सूक्थिभिः ।
परिष्कृतं तदीयं त्वं ॥ क्षमस्व माम् ॥ 9
कलिज्जिद्दास लोकार्य पादपद्माश्रयं सदा ।
तदेकचित्तं तच्छिश्यम् ॥ क्षमस्व माम् ॥ 10
श्रीकृष्णपादं पितरं सर्वविध्या प्रादायिनं ।
अनुसन्दधतं नित्यं ॥ क्षमस्व माम् ॥ 11
कृष्णार्य सूक्ति सर्वस्व बोदिनं क्रुतबो(वे)दिनम् ।
सर्वज्ञ इति मन्वानं ॥ क्षमस्व माम् ॥ 12
जगन्नाथ ! महाशक्त विभीषण वरप्रद ।
तद् व्यक्ति लेश हीनं त्वं ॥ क्षमस्व माम् ॥ 13
श्रीरङ्गंनायिकायुक्तं त्वां सेव्यं सेवकस्सदा ।
अप्रमादो यथा स्यां त्वं ॥ क्षमस्व माम् ॥ 14
भक्त भागवताशेष रक्षकं त्वां सहैव तैः ।
सेवमानं यथाशक्ति ॥ क्षमस्व माम् ॥ 15
सोन्दर्यपूर्ण जामातृभावं त्वां सेविनं सदा ।
दीनबन्धो ! दयासिन्धो ! ॥ क्षमस्व माम् ॥ 16
पदमा धात्रा कर स्पर्श संवाहित पदद्वय ।
द्वयमन्त्रै कनिष्टं त्वं ॥ क्षमस्व माम् ॥ 17
महोत्सवशत प्राप दिव्यवैभव ! ते भुवि ।
भक्तसंधैष सदा सक्तं ॥ क्षमस्व माम् ॥ 18
श्रीमन्नार्य माहावेद्य दिव्यवैभव ते नमः ।
कुर्वन्तं बालिशं त्वं तु ॥ क्षमस्व माम् ॥ 19
राम लक्ष्मण सीताभिः पूजितस् त्वं वरप्रदः ।
आकिञ्चन्यपरं व्यक्तं ॥ क्षमस्व माम् ॥ 20
अनन्यगति लोकानां गतिर् गम्यस् त्वमेव नः ।
इति निश्चित बुद्धिं त्वं ॥ क्षमस्व माम् ॥ 21
देवालय सदाकाल कर्तव्यानुविधायिनम् ।
आचार्यानापरं तत् त्वं ॥ क्षमस्व माम् ॥ 22
देवदेव ! त्वदीयासु सेवासु प्रणयादपि ।
प्रमादिनं क्वचित् त्वं तु ॥ क्षमस्व माम् ॥ 23
रामानुजादिभिः पूर्वैः त्वत् क्षमा प्रार्थिताभ्रुशम् ।
स्मृत्वा तामेव नियतं ॥ क्षमस्व माम् ॥ 24
लोकाचार्यस्य नाम्नैवा गुरोः केवल संज्ञितः ।
त्वत् सेवास्वप्रमादी स्यां रङ्गनाथ ! क्षमस्व माम् ॥ 25
प्रणतार्तिहराम्शाय प्रकृष्ट गुण शालिने ।
लीलयोद्ध्रुत लोकाय लोकार्य गुरवे नमः ॥
यदुशैलेश दशकस्य अन्तिमः श्लोकः –
कल्हार तामर रुचिः कमनीयगात्रः पुल्लरविन्द नयनः पुरुषः पुराणः ।
सल्लापवानिव सदा यदुशैलनाथो मल्लोकनाथ भवतान् अयमिन्दिरेशः ॥
इदं एकं पद्यं तिरुनारयणपुरे गोष्ठीस्वामिभिः पठ्यते |