49 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनपञ्चाशः सर्गः अफलस्तु ततः शक्रो देवानग्निपुरोधसः । अब्रवीत् त्रस्तवदनः सर्षिसङ्घान् सचारणान् ।। 1.49.1 ।। अनयोर्द्वयोः शापयोरेकः पूर्वमेव मुक्तः । अपरस्त्वया मोचनीय इत्याशयेनाह एकोनपञ्चाशे–अफल इत्यादि । अग्निपुरोधसः अग्निपुरोगमान् । त्रस्तवदनः त्रस्तशब्देन तत्कार्यं दैन्यमुच्यते ।। 1.49.1 ।। कुर्वता तपसो विघ्नं गौतमस्य महात्मनः । क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ।। 1.49.2 ।। कुर्वतेति । महात्मनः गौतमस्य तपसः […]
Paratvaadi Panchakam
Download Test