DRAMIDAAMNAAYA SANGHATHI
श्रीः श्रीमते रामानुजाय नमः श्रीसुन्दरजामातृमुनिकृतद्रमिडोपनिषत्सङ्गतिः उपोद्धातः यश्चकार सकलार्थसम्पदाम् व्यञ्जनीम् द्रमिडवेदसङ्गतिम् । तम् द्वितीयशठकोपमन्वहम् स्तौमि सुन्दरवराह्वयम् मुनिम् ॥ १ ॥ आचार्योदितपद्धत्या द्रामिडाम्नायसङ्गतिम् । अभिधास्ये विशेषज्ञैः आदरात् गृह्यताम् इह ॥ २ ॥ श्रीमान् गुणाम्बुनिधिः अवाप्तसमस्तकामः शौरिः शठारिम् अनुजन्मपरिभ्रमन्तम् | आकस्मिकेक्षणवशात् अतिनित्यमुक्तम् बृन्दातृणीकरणशक्तिधरः चकार ॥ ३ ॥ आद्ये वयस्यपि ततोऽनुभवन् मुरारिम् अस्तन्यपान रसिकः शठजित् मुनीन्द्रः […]
Dramidopanishat Saram Moolam
श्रीः श्रीमते रामानुजाय नमः श्रीमते निगमान्तमहादेशिकाय नमः ॥द्रमिडोपनिषत्सारः॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सनिधत्ताम् सदा हृदि ॥ सेवायोग्योऽतिभोग्यः शुभसुभगतनुः सर्वभोग्यातिशायी श्रेयस्तद्धेतुदाता प्रपदनसुलभोऽनिष्टविध्वम्सशीलः । भक्तच्छन्दानुवर्ती निरुपधिकसुहृत्सत्पदव्याम् सहायः श्रीमान् सर्वोचितायामुपनिषदि मिषत्येष गाथाशतैर्नः ॥ 1 ॥ आद्ये पश्यन्नुपायम् प्रभुमिह परमप्राप्यभूतम् द्वितीये कल्याणोदारमूर्तेः द्वितयमिदमिति प्रेक्षमाणस्तृतीये । ऐश्वर्यादेश्चतुर्थे विषमधुतुलयाऽनन्यभोग्यत्वमिच्छन् षद्भिः स्वाम् पञ्चमाद्यैरनितरगतितामाचचक्षे मुनीन्द्रः ॥ 2 ॥ परम् निर्वैषम्यम् […]
Dramidopanishat Tatparya Ratnavazhi Moolam
श्रीः श्रीमते रामानुजाय नमः श्रीमते निगमान्तमहादेशिकाय नमः द्रमिडोपनिषत्तात्पर्यरत्नावळिः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥ सारः सारस्वतानाम् शठरिपुफणितिः शान्तिशुद्धान्तसीमा मायामायामिनीभिः स्वगुणविततिभिः बन्धयन्तीम् धयन्ती । पारम् पारम्परीतो भवजलधिभवन्मज्जनानाम् जनानाम् प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानम् निधानम् ॥ 1 ॥ प्रज्ञाख्ये मन्थशैले प्रथितगुणरुचिम् नेत्रयन् सम्प्रदायम् तत्तल्लब्धिप्रसक्तैः अनुपधि विबुधैः अर्थितो वेङ्कटेशः । तल्पम् कल्पान्तयूनः शठजिदुपनिषद्दुग्धसिन्धुम् विमथ्नन् […]
अतिमानुषस्तवव्याख्यानम्
श्रीः श्रीमते रामानुजाय नमः अतिमानुषस्तवम् अतिमानुषशीलवृत्तवेषैः अतिवृत्तामरविक्रमप्रतापैः । अतिलङ्घितसर्वलोकसाम्यम् वरये वैष्णववैभवावतारम् ॥ १ ॥ अतिमानुषेति – सदाचार्यसमाश्रयणेन प्राप्तपरावरतत्त्वयाथात्म्यविवेकः श्रीवत्साङ्कमिश्रः परव्यूहविभवान्तन्तर्याम्यर्चारूपेणावस्थितम् स्तव्यम् स्तवप्रियम् सर्वेश्वरम् स्तोतुकामः तत्र रामकृष्णविभवावतारम् देवतिर्यङ्मनुष्य साधर्म्येण पश्यताम् प्रत्यवायम् परतत्त्ववेषेण पश्यताम् चाभ्युदयम् । अवजानन्ति माम् मूढा मानुषीम् तनुमाश्रितम् । परम् भावमजानन्तो मम भूतमहेश्वरम् ॥ मोघाशा मोघर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीम् चैव प्रकृतिम् मोहिनीम् श्रिताः […]
सुन्दरबाहुस्तवव्याख्यानम्
श्रीः श्रीमते रामानुजाय नमः सुन्दरबाहुस्तवम् अथ भगवद्भाष्यकारसकाशाल्लब्धपरावरतत्त्वयाथात्म्यावबोधः श्रीवत्साङ्कमिश्रः कावेरीमध्यगताच्छ्रीरङ्गक्षेत्रात् दक्षिणस्याम् दिशि वनगिरिवृषगिरिसिम्हगिरिप्रभृतिनामभिः प्रसिद्धे महापर्वते कृतावतारम् सुन्दरबाहुम् सुन्दरालङ्कारादिनामभिर्व्यवह्रियमाणम् दिव्यप्रबन्ध वैभवम् महाविष्णुम् स्वोज्जीवनार्थम् सकलप्राणिहितार्थम् च स्तोतुकाम: प्रथमम् स्तोत्रारम्भम् प्रतिजानीते? श्रीमन्ताविति – श्रीमन्तौ हरिचरणौ समाश्रितोऽहम् श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुम् स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १ ॥ यतः कारणात् भगवत्पादसमाश्रितः रामानुजमुनीन्द्रसकाश लब्धबोधश्च ततः कारणात् निर्भयः सन् तच्चरणसाक्षात्काराभिलाषी सुन्दरोरुबाहुनामानम् विष्णुम् […]
श्रीवैकुण्ठस्तवव्याख्यानम्
श्रीः श्रीमते रामानुजाय नमः श्रीवैकुण्ठस्तवम् श्रीवेङ्कटाचार्यवर्यस्य चरणौ शरणम् वृणे । यदीयसेवा सर्वेषाम् सूते तत्त्वार्थनिर्णयम् ॥ वेदान्तवेद्यविभवम् विविधावतारम् आदित्यवर्णमुदितम् तमसः परस्तात् । वैकुण्ठनायकमनायकमादिमूलम् पत्नीपरिच्छदविभूतियुतम् नमामि ॥ यो विष्णुरेव परतत्त्वमिति प्रतिज्ञाम् प्रत्यर्थि सम्सदि समर्थयते स्म सत्याम् । वेदान्तवाक्यगतिभिर्विविधैश्च तर्के: श्रीवत्सचिह्नगुरुमेनमुपयामि ॥ अथ भगवद्भाष्यकारसकाशात् समधिगतपरावरतत्त्वयाथार्थ्यज्ञः श्रीवत्साङ्कमिश्रो वेदान्तैकसमधिगम्यम् पत्नीपरिजनपरिच्छदसमेतम् परमप्राप्यम् नित्यमुक्तभोग्यम् श्रीवैकुण्ठनाथम् वेदान्तवाक्यार्थानुसन्धानक्रमेण सकलजगदुज्जीवनार्थम् च स्तोतुकामः प्रथमम् स्वाचार्यम् […]
वरदराजस्तवव्याख्यानम्
श्रीः श्रीमते रामानुजाय नमः वरदराजस्तवम् श्रीवत्सचिह्नमित्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ हस्त्यद्रीशस्तोत्रमध्यात्मगर्भम् पूर्वाचार्यैर्व्याकृतम् विस्तरेण । श्रीवत्साङ्कम् लक्ष्मणार्यम् च नत्वा सङ्क्षिप्याहम् व्याकरोमि स्वशक्त्या ॥ अखिलहेयप्रत्यनीक कल्याणैकतानम् स्वेतरसमस्तवस्तुविलक्षणम् सकलजगत्कारणम् परव्यूहविभवार्चान्तर्यामिरूपेण पञ्चधावस्थितम् चतुर्मुखमहहविर्भागाङ्गीकारार्थम् वेगवतीतीरे काञ्च्याम् पुण्यकोट्याम् सत्यव्रतक्षेत्रे हस्तिशैलशिखरेऽवतीर्णम् अद्यापि पुत्रमित्र क्षेत्र – धनधान्यादिवरप्रदानेन प्रकटितेश्वरभावम् सदा सन्निहितम् वरदराजमधिकृत्य मुमुक्षुभिः सर्वदानुसन्धेयमर्थपञ्चकम् चानुसन्दधत् श्रीवत्साङ्कमिश्रः सकलजगदुज्जीवनार्थम् स्वोज्जीवनार्थम् च स्तोत्रम् प्रवर्तयामास […]
श्रीस्तवव्याख्यानम्
श्रीः श्रीमते रामानुजाय नमः श्रीस्तवम् लक्ष्मीकटाक्षविक्षेपा रक्षणै ककृतक्षणाः । रक्षन्तूत्कूलकरुणा सन्धुक्षितजगत्त्रयाः ॥ अथ सर्वेश्वराभिमत स्वरूपगुणविभवाम् सकलचेतनानाम् सकलपुरुषार्थप्राप्तौ पुरुषकारभूताम् सर्वेश्वरवत् स्वयमपि प्राप्यप्रापकभूताम् लक्ष्मीम् स्तोतुकामाः श्रीवत्साङ्कमिश्राः सकल-जगदुज्जीवनार्थमाशीर्वादमेव प्रबन्धमुखेन निबध्नन्ति । स्वस्तीति स्वस्ति श्रीर्दिशताद् अशेषजगताम् सर्गोपसर्गस्थितीः स्वर्गम् दुर्गतिमापवर्गिकपदम् सर्वम् च कुर्वन् हरिः । यस्या वीक्ष्य मुखम् तदिङ्गितपराधीनो विधत्तेऽखिलम् क्रीडेयम् खलु नान्यथाऽस्य रसदा स्यादैकरस्यात् तया ॥ १ ॥ सा […]
सिद्धान्तसिद्धाञ्जनम्-नित्यविभूतिपरिच्छेदः
सिद्धान्तसिद्धाञ्जनम् अथ नित्यविभूतिर्निरूप्यते ॥ रजोरहितत्वे सति तमोरहितत्वे सति वा सत्त्ववत्त्वम्, स्वयम्प्रकाशत्वे सति सत्त्ववत्त्वम् वा, चेतनधर्मभूतज्ञानान्यत्वे सति स्वयम् प्रकाशत्वम्, धर्मभूतज्ञानान्यत्वे सति पराक्त्वम् वा तल्लक्षणम् । लक्षणत्रयेऽति प्रकृतिवारणाय सत्यन्तम्, जीवादिवारणाय विशेप्यम्; चतुर्थलक्षणे जीवेश्वरधर्मभूतज्ञानवारणाय सत्यन्तम्, कालवारणाय विशेष्यम् । व्यावृत्तिः पञ्चमेऽप्यूह्या । न्यायसिद्धाञ्जने तु –निश्शेषाविद्यानिवृत्तिदेशविजातीयान्यस्वमपि तल्लक्षणमुक्तम् । निश्शेषाविद्याध्वम्सोत्पत्तिम् प्रत्याधेयतासम्बन्धेनावच्छेदकीभूतो यो देशस्तदवृत्तिद्रव्यविभाजकोपाधिमद्भिन्नत्वे सति द्रव्यत्वम् नित्यविभूतिलक्षणमिति तदर्थः । न च […]
सिद्धान्तसिद्धाञ्जनम्-ईश्वरपरिच्छेदः
सिद्धान्तसिद्धाञ्जनम् अथेश्वरो निरूप्यते ॥ *विभुत्वे सति चेतनत्वम् तल्लक्षणम्* । जीववारणाय सत्यन्तम्, कालवारणाय विशेष्यम् । प्रमेयत्वव्यापकत्वनिरूपकत्वरूपम् सर्वस्वामित्वम्, सर्वकर्मजन्यप्रीत्याश्रयत्वरूपम् सर्वकर्म- समाराध्यत्वम्, सर्वकर्मफलोत्पादकसङ्कल्पवत्त्वरूपम् सर्वफलप्रदत्वम्, सर्वद्रव्यपतनप्रतिबन्धक सङ्कल्पवत्त्वरूपसर्वाधारत्वम् च – तल्लक्षणम् । न च – ईश्वरस्य विभुत्वे *अनुप्रविश्य नामरूपे व्याकरवाणि* इत्यादिश्रुत्युक्तमनुप्रवेशादिकम् नोपपद्यत इति – वाच्यम्; विलक्षणसम्योगस्यैवानुप्रवेशशब्दार्थत्वात् । न च -भगवन्निरूपितस्वत्वस्य सर्वत्र सिद्धत्वे अग्नये स्वाहेत्यादावग्निपदस्याग्न्यन्तर्यामिपरत्वानुपपत्तिः, हविर्निष्ठस्वत्वरूपफलावच्छिन्नस्वस्वत्वध्वम्सानुकूलव्यापारस्यैव स्वाहापदार्थत्वात्तत्र स्वत्वरूपफलेऽन्तर्यामिनिरूपितत्वासम्भवादिति-वाच्यम्; तत्र विशेषणीभूताग्निनिरूपितत्वस्यैव […]