09 तात्पर्यचन्द्रिका नवमोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका नवमोऽध्यायः श्री भगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।। ।।9.1।।स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम्। विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः [गी.सं.13] इति सङ्ग्रहश्लोकमपि व्याकुर्वंस्तदनुसारेणाष्टमनवमयोः सङ्गतिं च दर्शयति — उपासकेत्यादिना। विशेषाः ज्ञातव्योपादेयभेदाः। परमपुरुषमाहात्म्यस्य ज्ञानिनां विशेषस्य च प्रागेव प्रकृतत्वात्तत्प्रभावविशोधनमत्रोपासनतत्फलानुप्रविष्टतया क्रियते अध्यायप्रधानार्थस्तूपासनस्वरूपनिष्कर्षप्रधानार्थत्वेन इत्यभिप्रायेणविशोध्येति विच्छिद्य?भक्तिरूपस्येत्यादि पृथगुक्तम्। भजनोपासनशब्दयोरस्मिन्नेवाध्याये प्रकरणान्तरेषु च समानविषयतयैव प्रयोगवशाच्छ्रुतिसिद्धोपासनस्यैवात्र भक्तिशब्देन विशेषणं […]
08 तात्पर्यचन्द्रिका अष्टमोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका अष्टमोऽध्यायः अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।। अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।। ।।8.1,2।।सङ्गतिदर्शनायाह — सप्तम इति।परस्य ब्रह्मणो वासुदेवस्योपास्यत्वमिति — मय्यासक्तमनाः [7।1] इत्यादेरथः तत्रैव ह्युपासनं प्रस्तुतम्। तच्छेषतया चान्यत्सर्वमिहोच्यते। तस्यैव प्रपञ्चनम्अहं सर्वस्य प्रभवः [10।8]वासुदेवः सर्वं [7।19]चतुर्विधा भजन्ते माम् [7।16] इत्यादिभिः परस्तात्क्रियत इति […]
07 तात्पर्यचन्द्रिका सप्तमोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका सप्तमोऽध्यायः श्री भगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।। ।।7.1।।षट्कसङ्गतिमाह प्रथमेनेति।परमेत्यादिना वक्तुमित्यन्तेन द्वितीयषट्कार्थ उक्तः। ततः परं प्रथमषट्कार्थः। प्रथमेनाध्यायषट्केनोक्तमित्यन्वयः।मामुपेत्य 8।16 इत्यादीनामर्थं दर्शयति परमप्राप्यभूतस्येति। तेन परिशुद्धजीवमात्रव्यावर्तनम्। परमप्राप्यत्वे हेतुः परब्रह्मत्वादिकम्।परं ब्रह्म परं धाम 10।12 इत्यादिकं वक्ष्यति। पुरुषोत्तमत्वप्रकरणादीनामर्थो निरवद्यत्वम्। एतेनाचिद्गता विकारादयः चिद्गताः क्लेशादयश्च परिहृताः।अहं सर्वस्य प्रभवः 10।8़ इत्यादेरर्थमाह निखिलेति। चिदचिदात्मकं सर्वं […]
06 तात्पर्यचन्द्रिका षष्ठोऽध्यायः
वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका षष्ठोऽध्यायः श्री भगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।6.1।। ।।6.1।।षष्ठाध्यायोपक्रमस्य पूर्वोक्तार्थानुवादरूपतां दर्शयितुं पूर्वेणाविच्छिन्नानुसन्धानार्थमध्यायसङ्गतिवचनात् पूर्वमेव व्याख्येयोपादानम् वृत्तवर्तिष्यमाणाभिधानमुखेन सङ्गतिं दर्शयति उक्त इति। कर्मयोग उक्तः तत्साध्यतयोपक्षिप्तः समाधिलक्षणो योग एवात्र सानुबन्धः प्रतिपाद्यत इति सङ्गतिः।योगाभ्यासविधिरुच्यत इति योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम्। योगसिद्धिः स्वयोगस्य पारम्यं षष्ठ उच्यते गी.सं.10 इति सङ्ग्रहश्लोके प्रथमं योगाभ्यासविधेरुपादानादन्येषां च […]
05 तात्पर्यचन्द्रिका पञ्चमोऽध्याय:
वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका पञ्चमोऽध्याय: अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्िचतम्।।5.1।। ।।5.1।।अथ पञ्चमस्यांशतस्तृतीयचतुर्थाभ्यां सङ्गतिप्रदर्शनायोक्तानुक्तांशविवेकेन पञ्चमस्यानुक्तांशे तात्पर्यप्रदर्शनाय चाह चतुर्थेऽध्याय इति।कर्मयोगस्य ज्ञानाकारतेत्यादिकं चतुर्थाध्यायप्रधानार्थोऽयमिति द्योतनार्थं सङ्गतिप्रदेशप्रदर्शनार्थं च।तृतीय एवेति कर्तव्यतोपदेशलक्षण एवेत्यर्थः। पञ्चमार्थमाह इदानीमिति। अत्रैवं सङ्ग्रहश्लोकः कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः। ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते गी.सं.9 इति। अत्रसौकर्यं शैघ्र्यं इति सङ्गृहीतत्वेऽपि भाष्ये शैघ्र्यमात्रवचनं सौकर्यस्य तृतीयाध्यायोक्तस्यैवानुवादः पञ्चमे […]
04 तात्पर्यचन्द्रिका चतुर्थोऽध्यायः
वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका चतुर्थोऽध्यायः श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।। अथ चतुर्थसङ्गतिं वक्तुं तृतीयाध्यायार्थं सङ्ग्रहेणोद्गृह्णाति तृतीयेऽध्याय इति।सहेतुकमिति ज्ञानयोगकर्मयोगयोः सप्रमादत्वनिष्प्रमादत्वादिहेतुपूर्वकमित्यर्थः। एतेनअसक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम्। सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता गी.सं.7 इति सङ्ग्रहश्लोकोऽपि व्याख्यातः। अशक्तस्य शक्तत्वेऽप्यप्रसिद्धस्य च स्वार्थनिपुणस्य कर्मयोग एव कार्यः प्रसिद्धस्य त्वशक्तस्य शक्तस्य वा स्वार्थं लोकरक्षार्थं च स एव कार्य इति तृतीयाध्यायेनाधिकारिचिन्तनं कर्मयोगस्य […]
03 तात्पर्यचन्द्रिका तृतीयोऽध्याय:
वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका तृतीयोऽध्याय: अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।। अथ सङ्गतिं विवक्षुः साक्षान्मोक्षोपायं वक्ष्यमाण च तत्स्वरूपं तत्प्राप्यं च दर्शयन् द्वितीयाध्यायोक्ताथस्य साक्षान्मोक्षोपायत्वाभावेन अपवर्गप्रधाने शास्त्रे सङ्गत्यभावशङ्कां परिहर्तुमितिकर्तव्यतात्वं प्रथयति तदेवमिति। तत्शङ्कराद्युक्तप्रकारनिराकरणेन यथावत् द्वितीयाध्यायनिर्वाहादित्यर्थः।एवमिति स्वोक्तौचित्यं निर्दिशति। ब्रह्मविदाप्नोति परं तै.उ.2.1.1 परं ज्योतिरुपसम्पद्य छा.उ.8.3.4 परात्परं पुरुषमुपैति मुं.उ.3.2.8 रस्ँह्येवायं लब्ध्वाऽऽनन्दी भवति तै.उ.2।7 परमं साम्यमुपैति मुं.उ.आत्मदर्शनस्य परविद्याङ्गतायां […]
02 तात्पर्यचन्द्रिका द्वितीयाध्याय:
वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका द्वितीयाध्याय: सञ्जय उवाच तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।। श्री भगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्। अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।। क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।।2.3।। अथ शोकापनोदनविषयो द्वितीयोऽध्याय आरभ्यते। सञ्जयवाक्याविच्छेदेऽपिसञ्जय उवाच इति निर्देशोऽध्यायान्तरारम्भरूपतयाऽन्योक्तिशङ्कापरिहाराय।तं तथा इत्यादि श्लोकत्रयं व्याख्याति एवमिति।विषीदन्तम् इत्यन्तस्य पूर्वाध्यायोक्तानुवादत्वं सूचयितुंएवमुपविष्टे पार्थे इत्युक्तम्।तथा इति अस्थान इत्यर्थः। कृपा च आन्तरो विषादः ततः अश्रुपूर्णाकुलेक्षणं […]
श्रीमद्गीतार्थसंग्रहरक्षा
॥ श्रीरस्तु ॥ ।श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः।। श्रीमते हयग्रीवाय नमः।श्रीमद्यामुनमुनये नमः । श्रीमते रामानुजाय नमः। ।श्रीमते निगमान्तमहादेशिकाय नमः। श्रीभगवद्यामुनमुनिविरचितगीतार्थसंग्रहव्याख्या कवितार्किकसिंहसर्वतन्त्रस्वतन्त्रश्रीमद्वेदान्तदेशिकविरचिता ॥श्रीमद्गीतार्थसंग्रहरक्षा ॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी। वेदान्ताचार्यवर्थों मे सन्निधत्तां सदा हृदि ॥ मानत्वं भगवन्मतस्य महतः पुंसस्तथा निर्णयस्तिस्रस्सिद्ध्य आत्मसंविदखिलाधीशानतत्त्वाश्रयाः । गीतार्थस्य च संग्रहः स्तुतियुगं श्रीश्रीशयोरित्यमूलयग्रन्थाननुसन्दधे यतिपतिस्तं यामुनेयं नुमः॥१॥ श्रीमद्वेङ्कटनाथेन यथाभाष्यं विधीयते । भगवद्यामुनेयोक्तगीतासंग्रहरक्षणम् ॥ २ ॥ तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतोमुखैः […]
01 तात्पर्यचन्द्रिका प्रथमाध्याय
वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका प्रथमाध्याय धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।। धर्मक्षेत्रे धर्मस्य स्थानभूते समराध्वरसमुचिते इति भावः।कुरुक्षेत्रे पाण्डवधार्तराष्ट्राणां स्वकूटस्थनामोपलक्षितत्वेन बहुमानविषय इति भावः।युयुत्सवः समवेताः मिथः प्रत्यनीकरूपेण व्यूढा इत्यर्थः।च एव इत्यव्ययद्व्यमनतिरिक्तार्थम् यद्वा समस्तभूमण्डलवर्तिनां राज्ञां तत्र समाहारेऽपि तादर्थ्याद्वर्गद्वयमेव तथाऽभूदित्येवकाराभिप्रायः।अकुर्वत इत्यात्मनेपदेन कर्त्रभिप्रायक्रियाफलविषयेण स्वार्थतोक्ता। सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।। पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। […]