DRAMIDAAMNAAYA SANGHATHI
श्रीः श्रीमते रामानुजाय नमः श्रीसुन्दरजामातृमुनिकृतद्रमिडोपनिषत्सङ्गतिः उपोद्धातः यश्चकार सकलार्थसम्पदाम् व्यञ्जनीम् द्रमिडवेदसङ्गतिम् । तम् द्वितीयशठकोपमन्वहम् स्तौमि सुन्दरवराह्वयम् मुनिम् ॥ १ ॥ आचार्योदितपद्धत्या द्रामिडाम्नायसङ्गतिम् । अभिधास्ये विशेषज्ञैः आदरात् गृह्यताम् इह ॥ २ ॥ श्रीमान् गुणाम्बुनिधिः अवाप्तसमस्तकामः शौरिः शठारिम् अनुजन्मपरिभ्रमन्तम् | आकस्मिकेक्षणवशात् अतिनित्यमुक्तम् बृन्दातृणीकरणशक्तिधरः चकार ॥ ३ ॥ आद्ये वयस्यपि ततोऽनुभवन् मुरारिम् अस्तन्यपान रसिकः शठजित् मुनीन्द्रः […]