नयमयूकमालिका – Adhyaya 3 Pada 4
॥श्रीः॥ नयमयूकमालिका ॥तृतीयस्याध्यायस्य चतुर्थः पादः॥ प्रधानभूतविद्याप्रकारनिरूपणानन्तरं तदङ्गकर्मविशेषादिनिरूपणमिति पूर्वपादेनास्य पादस्य सङ्गतिः। विद्यायाः स्वातंत्र्येण फलसाधनत्वे सिद्ध एव तदङ्गकर्मविशेषचिंतनं युक्तम्। अतो विद्यायाः कर्माङ्गत्वशङ्कानिराकरणार्थमुपोद्धातरूपं प्रथमाधिकरणम्— पुरुषार्थोऽतशब्दादिति बादरायणः ॥1॥ शेषत्वात्पुरुशार्थवाद यथाऽन्येष्विति जैमिनिः ॥2॥ आचारदर्शनात् ॥3॥ तच्छ्रतेः ॥4॥ समन्वारम्भणात् ॥5॥ तद्वतो विधानात् ॥6॥ नियमात् ॥7॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥8॥ तुल्यं तु दर्शनम् ॥9॥ असार्वत्रिकी ॥10॥ विभागश्शतवत् ॥11॥ अध्ययनमात्रवतः ॥12॥ नाविशेषात् ॥13॥ […]
नयमयूकमालिका – Adhyaya 3 Pada 3
नयमयूकमालिका ॥तृतीयस्याध्यायस्य तृतीयः पादः॥ एवं परब्रह्मणेस्सर्वज्ञत्वसर्वशक्तिमत्त्व निरतिशयदयाशालित्व सत्यसङ्कल्पत्वादिकेषु महावैभवमहावदान्यत्वपर्यंतेषूपास्यत्वोपयुक्तेषु कल्याणगुणेषु तत्तदधिकरणोदाहृतविषयवाक्यैश्शब्दतोर्थतश्च सिद्धेषु समुपजात तदुपासनाभिलाषस्य कथमुपासनं कार्यं किमेकस्योपासनस्य कस्यांचिच्छाखायां यावन्तोगुणा आम्नाताः तावदुप- संहारेणैव कार्यं उत शाखांतरगत तदुपासनाप्रकारणाम्नात गुणांतरोपसंहारेणेत्याकाङ्क्षायां तदुपसंहारेण कार्यमिति प्रदर्शयितुं शाखाभेदेपि चोदनाद्यविशेषेसति नोपासनं भिद्यत इति तदभेदनिरूपणमिह पादे क्रियते। तद्भेदनिरूपणं तदपवादत्वेन क्वचित् क्वचित् क्रियते। अतः फलतोगुणोपसंहारः पादार्थः। इहाधिकरणे सामान्यतः प्रतिशाखं वैश्वनराक्षरदहरादिविद्यानभिद्यन्त इति प्रसाध्यतेधिकरणम् तृतीयस्याध्यायस्य तृतीयः पादः […]
नयमयूकमालिका – Adhyaya 3 Pada 2
श्रीः नयमयूकमालिका ॥तृतीयाध्यायस्य द्वितीयः पादः॥ एवं वैराग्यपादेन संसारस्य क्षयिष्णुत्वसातिशयत्वादिना इह परत्र तृतीयस्थाने च परिभ्रमणेन च दुःखरूपता निरूपिता। अवरोहणे च आकाशादिदेवताभावेन ततः पार्थक्येन वा आकाशादिशरीरकत्वमस्ति चेत् तेन सुखानुऽस्तीति स्यात्। तद्वारणाय मूर्च्छितप्रायाणान्तेषां संश्लेषमात्रामिति निरूपितम्। व्रीह्याद्योषधिभावेन जन्मास्ति चेत् तत्तदभिमानिदेवतारूपत्वप्राप्त्या सुखानुभवोऽस्तीति स्यात्। वनस्पत्यादीन् प्रकृत्य हि पुराणेषु पठ्यते ‘पत्रपुष्पफलैर्नित्यं छाययाचैव शाखिनः। परेषामुपयुज्यन्ते तद्धि तेषाम्महत्तपः॥ तेषां दया सदा कार्या भक्तिः कार्या […]
नयमयूकमालिका – Adhyaya 3 Pada 1
॥श्री:॥ नयमयूकमालिका ॥तृतीयोध्याय:॥ ॥तृतीयस्याध्ययायस्य प्रथम:पाद:॥ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्र्ननिरूपणाभ्याम् ॥1॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥2॥ प्राणगतेश्च ॥3॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥4॥ प्रथमेऽश्रवणादिति चेन्न ताएव ह्युपपत्तेः ॥5॥ अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः ॥6॥ भाक्तं वाऽनात्मवित्वात्तथाहि दर्शयति ॥7॥ सर्वेषां वेदान्तानां सर्वविधारिधनिराकरणेन ब्रह्मणि समन्वयोऽध्यायद्वयेन प्रतिपादितः। तृतीयाध्याये तत्प्राप्तिसाधनमुपासनं सोपायं चिंत्यते। तत्रोपासनाप्राप्यवस्तुव्यतिरिक्ताद्वैराग्यं तावदुपासनारम्भेऽभ्यर्हित उपायः। तत्सिध्यर्थमिह परत्र च सञ्चरतो जीवस्य दोषाः प्रदर्श्यन्ते। तत्र देहाद्देहान्तरं गच्छन् जीवो […]
नयमयूखमालिका – Adhyaya 4 Pada 4
।।श्रीः।। नयमयूखमालिका चतुर्धाध्यायस्य चतुर्थः पादः।। विदुषां ब्रह्मप्राप्तिफला गतिरुक्ता। ब्रह्मप्राप्तानां तेषामैश्वर्यप्रकारः चिन्त्यते—- संपद्याविर्भावः स्वेन सब्दात्।।1।। मुक्तःप्रतिज्ञानात्।।2।। आत्मा प्रकरणात्।।3।। ” परं ज्योतिरपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत ” इत्यत्र देवादिरूपवत्साध्यरुपेणाभिनिष्पत्तिर्विवक्षिता उत स्वाभाविकरूपेणाविर्भाव इति अभिनिष्पत्तिस्वेनशब्दाभ्यां रूपस्याभिनिष्पद्यत्वायोगात्। तस्य सुषुप्त्यादिषु पुरुषार्थत्वादर्शनात् स्वेन शब्दास्यार्थसिद्धस्वीयत्वानुवादकतोपपत्तेरिति पूर्वपक्षः। स्वतस्सिद्धस्याप्यनादिकर्मबन्धरूपादिकर्मबन्धरूपाविद्यातिरोहितस्य तन्निवृत्त्याभिव्याक्तिरूपेण साध्यत्वसम्भावत् अबहतिविद्यायामुपपादितत्वात्। ” यथा न क्रियते ज्योत्स्ना मलप्रक्षाळनान्मणेः। दोषप्रहाणान्नज्ञानमात्मनः क्रियेत तथा।। यथोदपादखननात्क्रियतेन जलाम्बरम्। सदेव नीयते व्यक्तिमसतस्सम्भवः कुतः।। तथा हेयगुणध्वंसादवबोधादयो […]
नयमयूखमालिका – Adhyaya 4 Pada 3
।।श्रीः।। नयमयूखमालिका ।।चतुर्थाध्यायस्य तृतीय पादः।। अर्चिरादिना तत्प्रथितेः।।1।। ब्रह्मप्राप्तिफलो विदुषो मार्ग इह पादे चिन्त्यचे। छान्दोग्ये तावदुपक्रमोसलविद्यायां — ” अर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान्मासेभ्यस्संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसा विद्युतं तत्पुरुषो मानवस्स एनान्ब्रह्यगमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपाद्यमना इमं मानवमावर्त नानर्तन्त ” इति श्रूयते। बृहदारण्यके पञ्चाग्निविदद्यायां — ” तेर्चिषमभइशम्भवन्त्यर्छिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासामुदङ्ङादित्य एति मासेभ्यो जेवलोकं देवलोकोकादीत्यमादित्याद्वेद्युतं वैद्युतात्पुरुषोऽमानच स्स एत्य ब्रह्मलोकान्गमयती ” ति। तत्रैव पुवरन्यथा […]
नयमयूखमालिका – Adhyaya 4 Pada 2
।।श्रीः।। नयमयूखमालिका ।।चतुर्थास्याध्यायस्य द्वितीयः पादः।। इह पादे विदुषो मूर्धन्यानाड्योत्क्रान्तिरूपमर्चिरादिगत्या ब्रह्मप्राप्ति हेतुत्वेन विद्याफलभूतं चिन्तनीयम्। तत्र मूर्धन्यनाडीप्रवेशपर्यन्तोत्क्रान्तिर्विद्वविदुषोस्साधारणीति सा प्रथं विचार्यते। उपासनास्वर्चिरादिगतिचिन्तायां गत्युपक्रमत्वेन तस्या अपि चिन्तनीयत्वात्। वाङ्मनसि दर्शनाच्छब्दाच्च।।1।। अतएव सर्वाण्यनु।।2।। छान्दोग्ये श्रूयते — ” अस्य सोम्येपुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनःप्राणे प्राणस्तेजसि तेजःपरस्यां देवताया ” मिति। अत्र किं वाचो मनसि सम्पत्तिरुत वागवृत्तिरिति संशय ” सता सोम्ये तदा सम्पन्नो भवती […]
नयमयूखमालिका – Adhyaya 4 Pada 1
।।श्रीः।। नयमयूखमालिका ।।चतुर्थोऽध्यायः।। ।।चतुर्थस्याध्यायस्य प्रथमः पादः।। साधननुरूपणानन्तरं फलमस्मिन्नध्याये निरूप्यते। देहे स्थितस्य विदुषः पापाश्लेषविनाशो मूर्धन्यनाड्या देहान्निर्गमोर्गतस्यार्चिरादिगतिर्ब्रह्म प्राप्तिश्चेति चतुर्विधं फलम्। तदिदं चतुर्विधं फलं क्रमात्पादचतुष्टयेन विचार्यते। आदौ तावाद्विद्यायां विचारणीयाः केचन विशेषाः विचार्येन्ते। साधनभूताया विद्याया भक्तिदशापन्नायाः फलरूपत्वमस्तीति दर्शयितुं तृतीयविचारणीययानामपूह विचारः– आवृत्तिरसकृदुपदेशात्।।1।। लिङ्गाच्च।।2।। ” ब्रह्मविदाप्नोति पर ” मित्यादौ ब्रह्मप्राप्तिसाधनत्वेन श्रुता विद्या किं सकृदेवानुष्ठेया उतासकृदावर्तनीयेति संशये पूर्वपक्षः। सकृदनुष्ठेया। आवृत्तौ प्रमाणाभावात्। अवघातादिवत् दृष्टोपायत्वाभावात्। […]
नयमयूखमालिका – Adhyaya 2 Pada 4
॥श्रीः॥ नयमयूखमालिका ।।अथ द्वितीयस्याध्यायस्य चतुर्थपादः।। तथा प्राणाः।।1।। गौण्यसंभवात्तत्प्राक्छØतेश्च।।2।। तत्पूर्वकत्वाद्वाचः।।3।। जीवोत्पत्तितदनुबधिज्ञातृत्वादिनिरूपणानंतरं जीवोपकरणानामिंद्रियामामुत्पत्तिप्रकारो विशोध्यत इति संगतिः। किमिंद्रियाणां वियदादिवत् स्वरूपान्यथाभावरूपोत्पत्तिः, उत जीववत् धर्मान्यथाभावमात्ररूपेति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः– यद्यपि वियदधिकरणे “ब्रह्मातिरिक्तं सर्वमुत्पत्तिम” दिति निर्णीतं, तथापींद्रियाणां वियदादिवत् न स्वरूपान्यथाभावरूपोत्पत्तिः। “असद्वा इतमग्रआसीत् तदाहुः किं तदासीदिति ऋषयो वाव ते अग्रे सदासीत् के ते ऋषय इति प्राणावाव ऋषय इती” ति, सर्गाद्यकालेऽपि स्थितिश्रवणात् प्राणशब्दस्य बहुवचनांतस्य इंद्रियेष्वेव, […]
नयमयूखमालिका – Adhyaya 2 Pada 3
॥श्रीः॥ नयमयूखमालिका ।। अथ द्वितीयस्याध्यायस्य तृतीयः पादः।। सांख्यादितंत्राणां न्यायाभासमूलत्वाद्विप्रतिषेधाच्चासामंजस्यमुक्तं। इदानीं स्वपक्षस्यापि वियदुत्पत्त्युनुत्पत्त्यादिविषयुश्रुतिविप्रतिषेधदोषोस्तीति प्रतिबन्दीं मनसि विपरिवर्तमानां निरसितुं तदभावख्यापनाय ब्रह्मकार्यस्य प्रपञ्चस्य कार्यताप्रकारः पादद्वयेन विशोध्यते। नन्वेवं सति वियदादि कार्यत्वप्रसाधनस्य परोक्तदोषपरिहारार्थेन प्रथमपादेन संगत्त्या तदानंतर्यं स्यात्। कारणविषयपादद्वयानन्तरं कार्यविषयपादद्वयारम्भ इति चेत् तर्हि कार्यविषयस्यास्य पादद्वयस्याध्यायसंगतिरेव न स्यात्। प्रथमाध्यायनिरूपिते वेदांतानां जगत्करणब्रह्मसमन्वये परिपन्थिनो विरोधस्य समाधानं हि द्वितीयाध्यायार्थ इति चेत् उच्यते- कारणविषयश्रुतीनां ब्रह्मणि समन्वयो वियदाद्युत्पत्तिश्रुतीनां […]