अधिकरणसारावली इन्द्रप्राणाधिकरणम्
अधिकरणसारावली इन्द्रप्राणाधिकरणम् 74.विद्या प्रातर्दनी सा वदति हिततमोपास्तिकर्मेन्द्रमेव ख्यातप्राणेन्द्रचिह्नान्वितमपि तदसौ विश्वकर्तेति चेन्न। ब्रह्म त्रेधा ह्युपास्यं बहुविधचिदचित्कञ़्चुकं स्वात्मना च प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघट्यभग्नः।। 75.यल्लिङ्गं कारणैकस्थितमिति कथितं ज्योतिषीन्द्रे च तत्तु प्रख्यातान्यैकनिष्ठं प्रथममितमतस्तन्मुखोत्थित्ययोगः। अप्राप्ते तद्विमर्शे प्रकृतशिथिलता नेति चेत्सत्यमेतत् विष्णूत्पत्त्यादिनीतिभ्रमत इह पुरोवादमुत्प्रेक्ष्य शङ्का।। 76.ज्योतिः प्राणेन्द्रशब्दाः परतरविषयाः कारणव्याप्तधर्मा- दित्येतत्साध्वमीषां बहुविहतिमती ख्यातमात्रे तु वृत्तिः। तत्कौक्षेयानलात्मा कथित इह तथा ध्यानतस्तत्फलाप्त्यै मुख्यप्राणादिलिङ्गं तदुपहितपरोपासनान्मोक्षणाय।। 77.कार्यं यत्कर्मवश्यं यदपि […]
अधिकरणसारावली ज्योतिरधिकरणम्
अधिकरणसारावली ज्योतिरधिकरणम् 72.कौक्षेयज्योतिषैक्यं कथितमिह परज्योतिषस्तस्य विश्वो- पादानत्वं च विद्यान्तरविदितमतः कारणं वह्निरस्तु। मैवं पुंसूक्तवाक्योदितपरपुरुषप्रत्यभिज्ञप्त्यबाधात् गायत्र्युक्तिस्तु साम्यादपि च निगदितास्तस्य भूतादिपादाः।। 73.उत्थानं ज्योतिरादावधिकरणयुगे कारणव्याप्तलिङ्गा- दित्याभाष्यान्यलिङ्गं स्ववचसि विहितं नेति भाष्यं कथं स्यात्। इत्थं विश्वादिलिङ्गं सदिह न तु पराभीष्टलिङ्गं समस्ती- त्युत्पश्यन् पूर्वपक्षी व्यवहरति तथा व्याहतिस्तन्न शङ्क्या।। ********
अधिकरणसारावली प्राणाधिकरणम्
अधिकरणसारावली प्राणाधिकरणम् 70. प्राणायत्तं हि देहादिकमिह विदितं तेन तत्कारणत्वं श्रुत्युक्तं रूढिशक्त्या सुदृढमिति न तद्व्योमवत् साधनीयम्। तन्न प्राणस्य काष्ठादिषु महिमहतेः पूर्ववच्चानुवादात् आकाशोक्तेरिवोक्ते भगवति निखिलप्राणनस्यापि दृष्टेः।। 71. नोक्तिं व्याहन्ति लिङ्गं किमपि भवति तु ख्याततत्त्वानुकूलं शब्दश्चानन्यनिष्ठश्श्रुत इति न परो ज्योतिराद्युक्तिवेद्यः। विश्वोत्पत्त्युक्त्यभावेऽप्यवगतमिह तल्लिङ्गमित्याक्षिपन्तं रुन्धेऽथाधिक्रियाभ्यां तदुचितचिदचिद्वर्गवैशिष्ट्ययुक्त्या।। ********
अधिकरणसारावली आकाशाधिकरणम्
अधिकरणसारावली आकाशाधिकरणम् 69.अत्राकाशस्त्वशेषप्रभवविलयभूस्साम्नि दृष्टस्स्वनाम्ना निर्दिष्टस्तैत्तिरीयेऽप्यनितरजनितस्स्वात्मनस्सम्भवोक्त्या। मैवं सिद्धानुवादो ह्ययमथ च परप्राप्यतादिर्न तस्मिं- स्तत्कर्तात्मा विपश्चिच्छ्रुत इति विहिता स्वात्मनस्तत्प्रसूतिः।। ********
अधिकरणसारावली अन्तरधिकरणम्
अधिकरणसारावली अन्तरधिकरणम् 62. भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धपूर्वोक्तभूम्नां शक्रादिन्यायतस्स्यात् त्रिगुणतनुभृतामीश्वराणां प्रवाहः। तन्नाकर्मोत्थदिव्याकृतिजनिमहिमा शासिता सर्वपुंसां नित्यश्रीर्ब्रध्नबिम्बे श्रुत इति स य इत्युक्त एवैष एकः।। 63. सर्वेभ्यः कल्पकेभ्यो ह्युदित इति वदत्यन्तरादित्यविद्या तस्माच्छेषाभ्यनुज्ञानयत इति विभोः पुण्ययोगो़ऽस्तु मैवम्। आम्नातोऽनन्यशास्यस्स्ववशपरफलस्साधुना नैष भूयान् स्यात्पुण्ये लक्ष्मयोगादपि न सुकृतमित्यादिना पाप्मशब्दः।। 64. प्रख्यातं शुद्धसत्वं किमपि तदनघं द्रव्यमव्यक्ततोऽन्य- त्तद्रूपं रूपमैशं दिवि कनति तथा शेषशेषाशनाद्यैः। नित्यं तत्सूरिसेव्यं परतरमजहत्स्वस्वभावस्स देवः पुंसां संसारशान्त्यै […]
अधिकरणसारावली आनन्दमयाधिकरणम्
अधिकरणसारावली आनन्दमयाधिकरणम् 58. मुख्येक्षा यद्यभीष्टा भवतु तदुचिते सा पुनर्जीवतत्त्वे सद्विद्यायां हि शब्दैस्त्रिभिरुपरि सतस्तस्य जीवैक्यमुक्तम्। इत्यूहादुज्जिहानं प्रशमयितुमथ प्रस्तुतो विश्वकर्मा जीवस्याप्यन्तरात्मा निरुपधिकमहानन्दथुस्स्थाप्यतेऽत्र।। 59.दृष्टः पूर्वं विकारे मयडिति चरमेऽप्येवमस्त्वित्ययुक्तं मध्ये तद्भङ्गदृष्टेः प्रचुरमिह वदेत् प्रत्ययोऽन्यस्य बाधात्। आनन्दप्राचुरीच प्रकृतपरसुखाल्पत्वलब्धावधित्वा- द्दुःखाल्पत्वानपेक्षा परदुरितभिदश्शासितुस्तद्विरोधात्।। 60.आत्मा तस्यैष एवेत्युदितमनितरात्मत्वमस्यैव वक्तुं शारीरोक्तिश्च तस्मिन्निखिलतनुतया स्यादसङ्कोचवृत्तिः। शोध्यत्वन्तत्तदर्थानुगुणमिति विभोस्तत्प्रसाद्यत्वमात्रं प्राप्येऽस्मिन्प्राप्तिरूपा परविद उपसंक्रान्तिरानन्दसिन्धौ।। 61. निर्देहेऽस्मिन्निरंशे न हि भवति शिरः पक्षपुच्छादि किञ्चि- […]
अधिकरणसारावली ईक्षत्यधिकरणम्
अधिकरणसारावली ईक्षत्यधिकरणम् 55. गौणेक्षासाहचर्यान्न तु बहुभवनप्रेक्षणं नैव मुख्यं दृष्टान्ताद्यैरिहाभात्यनुमितिरचितस्तादृशाज्जन्म युक्तम् । सच्छब्दस्तेन मूलप्रकृतिमविकृतिं व्याहरेदित्ययुक्तं श्रुत्याऽन्येषां निरोधात्त्वदभिमततिरस्कारिलिङ्गादिभिश्च ॥ 56. ज्ञाते ह्येकत्र सर्वं विदितमिति भवत्यैक्यसिद्ध्यै प्रतिज्ञा मृत्तत्कार्यादयश्च त्रय इह कथितास्तस्य दृष्टान्तभेदाः। तेनाव्याक्तानुमानं कथितमिति वृथोत्कण्ठितं हेत्वनुक्ते- स्सारूप्यादेश्च हेतोरुपरि परिहृतेरत्र संभावनोक्तेः।। 57.आदेशात्मस्वशब्दैरनियतशरणैस्त्वन्तदैक्योपदेशा- ज्जीवेन स्वेन साहंकरणमनहमोऽचिद्गणस्य प्रवेशात्। एकज्ञानेन सर्वं विदितमिति गिरा सर्वतादात्म्यवाचा शाखाविद्यान्तरादेरपि बहुभविता विश्वविद्विश्वमूर्तिः।। ********
अधिकरणसारावली समन्वयाधिकरणम्
अधिकरणसारावली समन्वयाधिकरणम् 46. कर्तव्ये ह्यर्थ उक्ते निशमयितृफलं सिद्धरूपे तु न स्यात् प्रीत्या साफल्यक्लृप्तौ वितथमपि वचः किन्न दृष्टन्तदर्थम्। विद्यार्थत्वेऽन्यदृष्टेर्विषयवदनृतं तत् परीक्ष्यन्न भावी- त्याक्षेपेऽनन्यशेषे निरवधिकसुखे शास्त्रतात्पर्यमाह।। 47. तात्पर्यं ब्रह्मतत्त्वेऽप्यविहिवीधिनाऽप्येकवाक्यत्वपक्षे भेदेऽपि स्यादसिद्धेर्न भवति बलिभुग्दन्तसङ्ख्योक्तिसाम्यम्। स्वादार्थत्वं मृषात्वक्षममिति न मृषेत्यूहने प्रीत्ययोगा- द्वालोपच्छन्दनादिष्वपि विषयतथाभावबुद््ध्यैव हर्षः।। 48. यत्प्रीत्यर्थं वचस्तन्निखिलमनृतमित्यर्भकप्रायवाक्यं सत्योक्त्यानन्ददृष्टेर्न च विहतिरिहाद्ध्यक्षतश्शास्त्रतो वा। तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्रह्मनिष्ठाः प्रमाणम्।। 49. ब्रह्मैके निष्प्रपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति […]
अधिकरणसारावली शास्त्रयोनित्वाधिकरणम्
अधिकरणसारावली शास्त्रयोनित्वाधिकरणम् 41. वीतावीतप्रयोगक्रमनियतिमती कार्यता विश्वमेतत् सर्वज्ञेन प्रकॢप्तं गमयति विफलस्त्वत्र शास्त्रैर्विचारः। इत्युन्नीतौ लघुत्वादनुमितिवशतः कर्मजैश्वर्ययुक्तो विश्वामित्रादिनीत्या स्फुरति विभुमिहासूत्रयच्छास्त्रवेद्यम्।। 42. क्षित्याद्यं कार्यताद्यैः कटकमकुटवत् कर्तृपूर्वं स कर्ता सिद्ध्येदत्राण्वदृष्टप्रभृतिजनकदृक् सर्वशक्तिश्च मैवम्। श्रोत्राद्यैस्सौरभादिग्रहणरुचिरियन्तादृशव्याप्त्यभावात् सर्वं हेतुन्न पश्येत् घटकृदिह न चाकर्तृता तावताऽस्य।। 43. कार्यत्वात् स्याद्विवादास्पदमिदमखिलं सर्ववित् कर्तृपूर्वं यन्नैवन्तद्धि नैवं पुरुषवदिति नानन्यथासिद्ध्यभावात्। हेतावेतादृशात्मन्यविदुरभिदुरं व्याप्त्यसिद्ध्यादिदौःस्थ्य- न्तद्भङ्गे लक्षणानामगणि गमनिका तत्त्वमुक्ताकलापे।। 44. यद्यप्यात्मान्तरादेरनुमितिरनघा लिङ्गभेदैस्तथाऽपि प्रत्यक्षव्याप्तिशैली न […]
अधिकरणसारावली जन्माद्यधिकरणम्
अधिकरणसारावली जन्माद्यधिकरणम् 35 . जन्माद्यैश्चेद्विशेष्यं भवति बहुलताऽथोपलक्ष्यं ब्रवीषि ज्ञाताज्ञातादिदौःस्थ्यं व्यतिषजति न चालक्षिते स्यात्परीक्षा। उद्दिष्टब्रह्मचिन्ता तत इह कथमित्यत्र हेतुत्वलक्ष्यः पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिद्ब्रशब्दार्थ उक्तः।। 36. नाना चेल्लक्षणानि स्वरसभिदुरता ब्रह्मणि स्याद्विशेष्ये खण़्डो मुण्डश्च गौरित्यभिलपनसमा धर्मिशब्दैकताऽत्र। तेष्वेकं चेद्यथाऽन्यत्समुदितमफलं स्याद्व्यवच्छेद्यहानेः खण्डत्वादिक्रमाच्चेत्यसदविहतितः खण्डतादेर्विशेषात्।। 37. तत्तत्स्वप्रत्यनीकव्युदसननियतं भेदकं नान्यबाधि व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम्। प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृतिर्धीमहिम्ने संभूयाप्याहुरेके फलमपि च तदाशङ्कितार्थव्युदासः।। 38. ज्ञातं चेन्नोपलक्ष्यन्न […]