अधिकरणसारावली वैश्वानराधिकरणम्

अधिकरणसारावली वैश्वानराधिकरणम् 1.2.16 स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्द्धादिक्लृप्त्या ध्येयो वैश्वानरात्मा स्थिरबहुविशयश्शब्दलिङ्गादिसाम्यात्। मैवं ब्रह्मेत्यधीतेर्भुवनतनुतया योगतस्त्वग्निशब्दो वैशिष्ट्याद्वा क्रियाङ्गं स्ववपुषि परधीर्गार्हपत्यादिधीश्च।। 1.2.17 अन्यस्मिन्नन्यदृष्ट्या न भवति विदुषां क्वापि निश्श्रेयसाप्ति- स्तस्माद्वैश्वानरोऽसौ न पर इति फलं त्वन्नसिद्ध्यादि मैवम्। ब्रह्मैव ह्यन्यदृष्ट्यन्वितघटितमिह ब्रह्मशब्दाद्यभावात् सर्वाघध्वंस उक्तः फलमपि परमं ब्रह्म च व्याप्तमन्नम्।। 1.2.18 त्रिष्वत्रोपासितॄणां मितहृदयगुहाक्ष्यन्तरश्चिन्त्य उक्तो विश्वान्तर्यामितादेर्विपुलपरिमितश्चिन्तनीयस्त्रयेऽथ। षट्सु ब्रह्मात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञ्च- व्यावृत्ते विश्वहेतौ प्रकरणनियमान्नामवृत्त्या नमन्ति।। 1.2.19 तज्जत्वादेर्हि सर्वं जग्दभिगदितं […]

अधिकरणसारावली अदृश्यत्वादिगुणकाधिकरणम्

अधिकरणसारावली अदृश्यत्वादिगुणकाधिकरणम् 1.2.15 दृश्यत्वादेर्निषेधो विकृतिमति भवत्यक्षरे सन्निकर्षात् पञ्चम्युक्ताक्षरन्तत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत्। सर्वज्ञत्वादिदृष्टः प्रथमसमुदितं त्वक्षरं ब्रह्म शुद्धं पश्चादुक्तन्तु जीवादिकमवधितया भेदतस्तत्परोक्तेः।। ******

अधिकरणसारावली अन्तर्याम्यधिकरणम्

अधिकरणसारावली अन्तर्याम्यधिकरणम् 1.2.13 अन्तर्यामी स जीवो बहुविधकरणायत्तधीवृत्त्यनूक्ते- र्नान्यो द्रष्टेति चोक्तेरिति यदि न नियन्त्रन्तरस्य व्युदासात्। द्रष्टृत्वाद्यं च तत्तद्विषयघटितधीरूपमीशे हि मुख्यं तद्धर्माः काण्वमाद्ध्यन्दिनपठितिगतास्तस्य चात्मा शरीरम्।। 1.2.14 स्थानैक्यादत्र शाखाद्वयपरिपठितावात्मविज्ञानशब्दा- वेकार्थावित्यकम्प्यन्तदपि कथयतो बुद्धिमेवेत्यपार्थः। लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्येकतानौ बाधः केनापि नास्मिन्भवति च सत इत्यादिभिस्सामरस्यम्।। *******

अधिकरणसारावली अन्तराधिकरणम्

अधिकरणसारावली अन्तराधिकरणम् 1.2.10 यद्वृत्तादेर्य एषोऽक्षिणि पुरुष इति श्रूयमाणोऽस्तु जीवो यद्वाऽक्ष्णोर्देवताऽर्कः प्रतिकृतिरथवा तत्र दृश्येति चेन्न। एतद्ब्रह्मैतदेवामृतमभयमिदं कं खमित्याद्यधीते- स्संयद्वामत्वमुख्यैस्स्थितिनियतिबलादर्चिराद्युक्तितश्च।। 1.2.11 स्वातन्त्र्योत्तंसितासु श्रुतिषु न फलदस्यैव वेद्यत्ववादः कल्याणालोकनादेरिव विधिबलतो वेदनस्यार्थवत्त्वात्। तस्मादक्ष्यन्तरस्थः प्रतिकृतिपुरुषो युज्यते पूर्वपक्षे सेयं पूर्वापरास्वप्यधिकृतिषु यथासम्भवं नीतिरूह्या।। 1.2.12 पूर्वन्यायेऽग्निविद्या पुरत उपनता मध्यतस्त्वत्र तस्मा- त्तद्वन्न ब्रह्मविद्यानुगतिरिति भवेदक्षिविद्या ततोऽन्या। मैवं विचछित्तिरङ्गैर्न हि भवति मिता चाङ्गगताऽनेकधाऽस्याः प्रोक्तं च ब्रह्मविद्यानुगुणमिह फलं […]

अधिकरणसारावली अत्त्रधिकरणम्

अधिकरणसारावली अत्त्रधिकरणम् 1.2.8 अत्ता खल्वोदनादेर्भवभुगिति कठश्रुत्यधीतोऽप्यसौ स्या- न्न स्यान्मृत्यूपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः। जीवव्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिर्द्वयोस्तु प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाच्छत्रिनीत्याऽथवा स्यात्।। 1.2.9 सत्त्वं स्वाद्वत्त्यनश्नन् ज्ञ इति विभजनात्पैङ्ग्यधीतन्तु सत्त्वं बुद्धिः प्राणोऽथवेति त्वृतमिह पिबतोर्जीव एकस्तयोश्चेत्। मैवं जन्तौ तु सत्त्वश्रुतिरियमुचिता कर्मभुङ्नाप्यनश्नन् तत्प्रश्नप्रक्रमोऽन्याशय इदमपि चाभाषि पूर्वापराद्यैः।। *******

अधिकरणसारावली सर्वत्रप्रसिद्ध्यधिकरणम्

अधिकरणसारावली सर्वत्रप्रसिद्ध्यधिकरणम् 1.2.5 यस्य प्राणश्शरीरं स खलु हिततमोपास्तिकर्मप्रसक्त- स्तस्मिञ़्जीवत्वशङ््काजगदुपजनके सौति शाण्डिल्यविद्या। पूर्वन्यायाच्च युक्तन्दमनमिह महावाक्यतः प्रक्रमस्ये- त्युत्थाने प्रक्रमोक्तानुगुणमिति महावाक्यमेकीकरोति।। 1.2.6 अन्वारुह्यात्र भेदं प्रथममधिकृतिर्भाषिता किंनिमित्तं विद्यैकत्वे़ऽनुवादः पर इह गुणविद्ध्यर्थमेवेति युक्तम्। सत्यं ब्रह्मानुमत्य क्वचिदुपनिषदि क्वापि कल्प्ये विवादे चिन्तैषोदाहृतिस्स्यात्परमतरचितेत्यर्थसिद्धिस्तु बोद्ध्या।। 1.2.7 सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्रह्मशब्दोऽत्र चैवे- त्यल्पस्थानोऽल्पमानस्सुखतदितरभुग्जीव एवेति चेन्न। तज्जत्वादेरनूक्तेर्विविधगुणभिदादर्शनात्सर्वतादे- स्स्वारस्स्यादप्यणुत्वं ह्युपधिकृतमिहोपास्तये ज्यायसि स्यात्।। ********

अधिकरणसारावली उपोद्घातम्

अधिकरणसारावली अथ प्रथमाध्याये द्वितीय: पाद: उपोद्घातम् 1.2.1 अत्रायोगान्ययोगव्यपनयननयैर्ब्रह्मपादत्रिपादी- भागारूढैर्मृदूपक्रमकठिनपरैः प्राय आद्ये प्रसाद्ध्यम्। कृत्स्नाक्षेपोपशान्त्यै प्रथम इह ततः पाद उक्तिस्त्रिपादी क्वाचित्काक्षेपपूर्वाखिलकलहसमुन्मूलनाय प्रणीता।। 1.2.2 अस्पष्टस्पष्टरूपस्फुटतरचिदचिल्लिङ्गवद्वाक्यचिन्ता भाष्ये दीपावतारेऽप्यभणि नयगणैस्सम्प्रवृत्ता त्रिपाद्याम्। अत्यन्तास्पष्टलिङ्गान्वितविषयमुशन्त्याद्यपादं तु केचित् तत्रेदन्तारतम्यं नियतनिजबलैः कर्मतार्तीयमानैः।। 1.2.3 पूर्वत्रासिद्धरूपैस्स्वमतिविरचितोन्नीतिभिः पूर्वपक्ष- स्सिद्धैस्साधारणैरप्युपधिनियमितैः प्रत्यवस्था द्वितीये। स्पष्टासाधारणत्वैरुपरिपरमतानूक्तिकल्पैरथेति न्यायैकत्रिंशदत्र प्रतिचरणविभक्त्यन्विताऽन्वेषणीया।। 1.2.4 विश्वं पादे द्वितीये वपुरिति कथयंश्चिन्त्यते वाक्यवर्गो विश्वाधारस्स आत्मेत्यभिलपनपरस्तर्कणीयस्तृतीये। तुर्ये साङ्ख्यादिपक्षोदितपरिपठनभ्रान्तिरुन्मूलनीये- त्येवं केचित्त्रिपादीं जगदुरयमपि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.