अधिकरणसारावली प्रयोजनवत्त्वाधिकरणम्
अधिकरणसारावली प्रयोजनवत्त्वाधिकरणम् 2.1.19 आत्मार्थं विश्वसृष्टिः कथमपि सततावाप्तकामस्य न स्यात् कारुण्याद्दुःखसृष्टिर्न भवति न च सा सर्वशक्तेश्चिकित्सा। सर्वज्ञस्स्वात्मतृप्तस्तदिह न जगतो हेतुरित्यन्धचोद्यं लीलाऽसौ लोकवत्स्यादभिमतिसमये सिद्धितस्त्वाप्तकामः।। 2.1.20 विश्वं दुःखैकतानं विषममपि सदा निर्मिमाणस्य लीला संजायेतासमञ्जक्रमत इति भवेन्निर्दयत्वादिदोषः।मैवं बीजाङ्कुरादिक्रमविषमभवानादिकर्मौघभाजां जीवानां सौति तत्तत्फलमिति करुणासाम्ययोरप्रहाणात्।। 2.1.21 दृष्टन्यायेन विश्वप्रजनकचिदचित्तत्त्वभेदप्रक्लृप्तौ स्वेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात्। अत्यन्तादृष्टमर्थं भणितुमधिकृताच्छास्त्रतस्सर्वकर्तु- स्सिद्धौ बाधाद्यनर्हप्रमितिपरवती सर्वधर्मोपपत्तिः।। 2.1.22 सांख्यस्मृत्या विरोधाद्विधिमतविहतेः कार्यवैरूप्यतोऽस्मि- न्नेकार्थानेकतन्त्रोदितविहततया देहभोगावियुक्त्या । कार्योपादानभेदात् […]
अधिकरणसारावली कृत्स्नप्रसक्त्यधिकरणम्
अधिकरणसारावली कृत्स्नप्रसक्त्यधिकरणम् 2.1.17 कृत्स्नं कार्यात्मना चेत् परिणमति परं नावशिष्येत किञ्चि- द्यद्यंशान्निष्कलत्वश्रुतिविहतिरिदं स्याद्विशिष्टेऽपि तस्मिन्। ब्रह्मोपादानतैवं न घटत इति चेन्न स्वपक्षेषु साम्या- त्तन्मानात्तद्गृहीतौ श्रुतिमितमिति तल्लोकवत् स्वीकुरुष्व ।। 2.1.18 संयोगाख्यं हि कार्यं विभुतदितरयोस्स्यादणूनाम्मिथो वा कार्त्स्न्येनांशेन वा तद्विहतमिति वदन् शून्यवादे निमज्जेत्। सांख्योऽपि प्राह विभ्वीं प्रकृतिमिति कथन्न्यूनसृष्टिस्ततस्स्या- न्मायादिष्वेवमूह्यं निगमनिगदिता त्वक्षता पद्धतिर्नः।।
अधिकरणसारावली उपसंहारदर्शनाधिकरणम्
अधिकरणसारावली उपसंहारदर्शनाधिकरणम् 2.1.16 शक्तौ कर्तृप्रकृत्योरुपकरणगणोपस्थितौ कार्यकृत्त्वं तस्मादग्रे सदेकं किमुपकरणयेदित्यसच्छक्तिभेदात्। क्षीरायस्कान्तलूतात्रिदशमुनिमुखान्वीक्ष्य तोष्टव्यमस्मिन् संकल्पादेव जीवो नुदति निजवपुर्विश्वरूपस्तथेशः।।
अधिकरणसारावली इतरव्यपदेशाधिकरणम्
अधिकरणसारावली इतरव्यपदेशाधिकरणम् 2.1.15 उक्तेऽनन्यत्वपक्षे चिदपि परिणतिर्ब्रह्मणस्स्यात्ततस्त- ज्जीवैक्यं तत्त्वमस्याद्यवगतमहतन्दुःखसिन्धुश्च जीवः। अभ्रान्तस्तु स्वदुःखं न सृजति न च तत् क्रीडयाऽप्यस्य मैवं तात्स्थ्येनानन्यतोक्तेस्तदपि चिदचितोस्तच्छरीरत्वसिद्धेः।।
अधिकरणसारावली आरम्भणाधिकरणम्
अधिकरणसारावली आरम्भणाधिकरणम् 2.1.12 कार्यं धर्मैर्विरुद्धैः कट इव शकटात् कारणद्रव्यतोऽन्य- द्व्यापारः कारकाणां विफल इतरथेत्यर्द्धवैनाशिकोक्तौ। द्रव्यैक्येऽप्यस्तु सर्वं तदभिमतदशाभेदतोऽसच्छ्रुतिश्चे- त्यद्ध्यक्षाल्लघवाच्च श्रुतिकथितजगद्ब्रह्मतादात्म्यमुक्तम्।। 2.1.13 मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चो येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे। अप्राधान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने वाक्येऽस्मिन् स्थूलसूक्ष््मान्वय इति जगतोऽनन्यभावोपपत्तिः।। 2.1.14 विश्वारम्भे विवर्तं शकलपरिणतिं शक्तिशेषस्य सूतिं व्याक्त्युल्लासौ विसृष्टिं विकृतिमनियतां तत्त्वपङ्क्तौ च सृष्टिम्। तत्तद्वाक्यैकदेशः स्वरस इति मुधा कल्पयन्तस्तु मुग्धा स्सर्वश्रुत्यैकरस्यप्रणयिभिरधरीचक्रिरे तत्त्वविद्भिः।।
अधिकरणसारावली भोक्त्रापत्त्यधिकरणम्
अधिकरणसारावली भोक्त्रापत्त्यधिकरणम् 2.1.11 एको यस्यापि देहस्स भवति विविधानन्दुःखैकभोक्ता विश्वं देहः प्रभोश्चेत् स कथमतिपतेद्विश्वदुःखानुभूतिम्। इत्थं जीवेशसीमामपलपितुमनाः कोशभाजा श्रुतीनां सम्राड्भृत्यादिनीत्या शममिह लभतां साम्यवैषम्यदर्शी।।
अधिकरणसारावली शिष्टापरिग्रहाधिकरणम्
अधिकरणसारावली शिष्टापरिग्रहाधिकरणम् 2.1.10 संवादादक्षपादक्षपणककणभुग्भिक्षुपक्षेष्वणूनां विश्वं तद्धेतुकं स्यादिति मृदुमतिभिश्श्वावराहक्रमोक्तौ । अन्योन्यव्याहतार्थस्थपुटितकुहनायुक्तिदोषापनुत्त्यै भाति त्रय्यन्तसूर्यः प्रतिमततिमिरस्तोमकुक्षिंभरिर्नः।।
अधिकरणसारावली विलक्षणत्वाधिकरणम्
अधिकरणसारावली विलक्षणत्वाधिकरणम् 2.1.8 विश्वं त्रैगुण्यवत् स्यात् त्रिगुणत उदितन्नासमादित्ययुक्तं सर्वाकारेण साम्यं क्वचिदपि न भवेत् केनचित् साम्यमिष्टम्। भग्ना हेतुव्यवस्थोचितगुणसमता गोमयाद्वृश्चिकादौ स्थूलत्वं याति चेशः प्रकृतितनुरतस्सर्वचोद्योपमर्दः।। 2.1.9 ईक्षा तादृग्बहु स्यामिति सति पठिता तेजसोऽपाञ्च दृष्टा सालक्षण्यं ततस्स्याज्जगत इति मृदुप्रज्ञपार्श्वस्थचोद्ये। तत्तन्मूर्तेः परस्येक्षणमिदमिति तद्वाक्यभावापलापी सामान्येनाभिमानिव्यवहरणमिह व्याहरत् पूर्वपक्षी।।
अधिकरणसारावली योगप्रत्युक्त्यधिकरणम्
अधिकरणसारावली योगप्रत्युक्त्यधिकरणम् 2.1.7 वेदान् पूर्वं विधाताऽलभत भगवतस्सर्वविद्यानियुक्तो वागीशश्चैष तस्मात्तदुदितविहतौ कम्पनं वेदमूर्ध्नः । मैवन्तस्यापि वेदापहृतिमुखविपद्दर्शनात् क्षेत्रिभावात् भ्रान्त्यादिस्सम्भवेदित्यगतिकविषये पूर्ववन्निर्वहामः ॥
अधिकरणसारावली स्मृत्यधिकरणम्
अधिकरणसारावली ॥ अथ द्वितीयाध्याये प्रथम: पाद: ॥ स्मृत्यधिकरणम् 2.1.1 तत्तादृक्तर्कतन्त्रक्रमनिपुणमहाबुद्धिसन्तोषसिद्धि- र्यद्यप्युक्तेन लभ्या तदपि मृदुधियां हैतुकास्कन्दशङ्की। स्थूणाखातक्रमेण स्थिरयति कथितं ब्रह्मणः कारणत्वं कार्यत्वं यस्य यादृक्छ्रुतिभिरवगतं तस्य तत्तादृशञ्च।। 2.1.2 पादद्वन्द्वं द्वितीये परिहरति परे कारणे बाह्यपीडां कार्यद्वारेण पादान्तरयुगमुदयत्यान्तरक्षोभशान्त्यै। हेतुत्वायोगभङ्गः प्रथममिह विभोस्तस्य सार्वत्रिकत्वा- योगक्षेपः परस्तात् फलति स च भवेच्छ्रौतनित्यं विहाय।। 2.1.3 तन्त्रच्छायानिदाने स्वयमुपनिषदामान्यपर्ये निरुद्धे तन्त्रेभ्यो दुर्बलत्वात्तदनुसरणमित्युज्जिहीते परोऽद्य। इत्थं सत्यत्र तत्तत्स्मृतिनयपृतनातिक्रमन्तत्तदर्हैः प्रत्यस्त्रैर्वारयित्वा […]