अधिकरणसारावली संज्ञामूर्तिकॢप्त्यधिकरणम्
अधिकरणसारावली संज्ञामूर्तिकॢप्त्यधिकरणम् 2.4.11 मन्वाद्यैस्स्मर्यतेऽसौ सरसिजवसतिर्व्यष्टिनामादिकर्ता जीवेनानुप्रविश्येत्यपि कथितमतः प्रेष्यकृत्यक्रमो़ऽत्र। तन्नैकोऽहि प्रवेष्टा त्रिवृतमकृत च व्याकरोदित्यधीत- स्तत्तज्जीवान्तरात्मा सृजति स भगवांस्तादृशं कार्यजातम्।। 2.4.12 या जीवेनात्मनेति श्रुतिरियमपि न ब्रह्मजीवैक्यमाह प्रागेवैकोऽन्तरात्मा वपुरितरदिति स्थायिभेदाभिधानात्। तेनेशस्तद्विशिष्टः स्वकरणकतयाऽनुप्रवेशेऽपि कर्ता जीवे तत्कर्तृतायामिह न हि घटते त्वाश्रुतिः कर्तृभेदात्।। 2.4.13 अग्न्यादावण्डमध्यस्थितिमति कथितं रूपभेदैस्त्रिवृत्त्वं तेजोबन्नाशितोक्तावपि विशदमिदं तेन वेधास्त्रिवृत्कृत्। मैवं ब्रह्माण्डसृष्टिर्भवतु कथमसावत्रिवृत्कारपूर्वा भुक्तेऽन्नादौ त्रिधोक्ता परिणतिरितरत् सन्निकृष्टेः प्रदृष्टिः।। […]
अधिकरणसारावली इन्द्रियाधिकरणम्
अधिकरणसारावली इन्द्रियाधिकरणम् 2.4.10 प्राणोऽपि स्याद्धृषीकं भृशमुपकरणात्तेषु मुख्यत्ववादा- दुत्क्रान्त्यादौ च साह्यादिति यदि न पृथक्छब्दतस्तस्य भेदात्। कण्ठोक्तादिन्द्रियत्वान्मनसि तु घटते गोबलीवर्दनीति- र्न प्राणे सात्त्विकाहङ्करणविकृतिता शब्दसाम्यादि मन्दम्।।
अधिकरणसारावली ज्योतिराद्यधिष्ठानाधिकरणम्
अधिकरणसारावली ज्योतिराद्यधिष्ठानाधिकरणम् 2.4.9 भोक्तॄणां देवतानामपि तनुकरणाधिष्ठितिर्नेशतन्त्रा तत्स्वातन्त्र्यप्रदानादिति न तनुभृतस्तच्छरीरं हि सर्वे। नित्ये तत्पारतन्त्र्ये क्वचिदपि न भवेद्राजसामन्तनीतिः प्राणन्यायात् प्रभुत्वं तदिह परवशं चेतनानां स्वशक्ये।।
अधिकरणसारावली वायुक्रियाधिकरणम्
अधिकरणसारावली वायुक्रियाधिकरणम् 2.4.7 प्राणः प्रागुक्तनीत्या परजनित इति स्थापितो वायुमात्रं देहान्तस्तत्क्रिया वा स इति न पृथगुत्पत्तिवादात् सहास्य। द्रव्यत्वं द्रव्यवर्गे पठनत उचितं नैष तत्त्वान्तरं स्या- त्तेजस्त्वे वाय्ववस्थात्यजनवदिह तत्त्यागहानेः कदाऽपि।।
अधिकरणसारावली प्राणाणुत्वाधिकरणम्
अधिकरणसारावली प्राणाणुत्वाधिकरणम् 2.4.6 सर्वेष्वानन्त्यवादात् परिमितिनियमानुक्तितश्चेन्द्रियाणां व्याप्तिस्सिद्धेति चेन्न प्रयदखिलतनूत्क्रान्तिगत्यागतिभ्यः। वृत्त्या दूरस्थधीस्स्याद्भजनविधिपरेऽनन्ततोक्तिस्स्वकार्यैः कन्दस्थानां च तत्तत्तनुषु विकृतिमद्द्रव्यभावात् पृथुत्वम्।।
अधिकरणसारावली सप्तगत्यधिकरणम्
अधिकरणसारावली सप्तगत्यधिकरणम् 2.4.4 सप्त प्राणाश्चरन्तीत्युदितमभिहितास्ते विशिष्यापि योगे तस्मात् सप्तेन्द्रियाणीत्यसदधिकवचोदृष्टितोऽत्रान्यपर्यात्। लक्ष्मैषां सात्त्विकाहंकरणपरिणतद्रव्यता चाविशिष्टा भेदेनोक्तिः प्रधाने मनसि फलवती कर्मबोधेन्द्रियेभ्यः।। 2.4.5 देहव्याप्येकमक्षं कतिचिदकथयन् भागतो भिन्नकृत्यं केचित् कर्मेन्द्रियाणि श्रुतिपथविमुखास्तत्यजुः क्षुद्रतर्कैः। क्षेत्रज्ञस्याहुरेके सह करणगणं बुद्ध्यहङ्कारचित्तै- रन्ये तं चित्तवर्जं निजगदुरिति तानर्थतोऽत्र व्युदास।।
अधिकरणसारावली प्राणोत्पत्त्यधिकरणम्
अधिकरणसारावली प्राणोत्पत्त्यधिकरणम् 2.4.3 अग्रे सत्तामृषीणां श्रुतिरभिदधती प्राणतां वक्ति तेषां नात्र ब्रह्मैव वाच्यं बहुवचनहतेस्तेन नित्याक्षसिद्धिः। मैवं तत्सृष्टिदार्ढ्याद्बहुवचनमिदं पाशनीत्यैव नेयं प्राणर्षित्वे परात्मन्यपि हि सुघटिते तन्निरुक्त्यादिसाम्यात्।।
अधिकरणसारावली उपोद्घातम्
अधिकरणसारावली ॥ अथ द्वितीयाध्याये चतुर्थ: पाद:॥ उपोद्घातम् 2.4.1 अक्षाद्युत्पत्त्यनूक्तौ नहि फलमधिकाशङ्कनं त्वत्र मन्दं तत्संख्यादेः परीक्षाऽप्यनुकृतबलिभुग्दन्तचिन्तेति चेन्न। एतेष्वब्रह्मकार्यं किमपि कथयतां बाधनेनार्थवत्त्वा- त्तत्साक्षात्संगतिस्स्यात् प्रथमचरमयोर्मध्यमानां प्रसङ्गात्।। 2.4.2 अष्टावत्राधिकाराः प्रथममिह वियन्नीतिरुक्तेन्द्रियाणां तेजोबन्नोक्तनीतिं द्रढयति चरमे व्यष्टिभेदस्य सृष्टौ। संख्यामानादिचिन्तास्वपि तदुपहितोपासनाद्यैः फलं स्यात् प्राणादिभ्यः प्रमाता पृथगिति विशदीकर्तुमप्येष पादः।।